72102: त्यदादीनामः ================== **Padacheda:** त्यदादीनाम् | S | 6 | 3 | अः | S | 1 | 1 | Sutrartha --------- **त्यदादिगणस्य शब्दानाम् विभक्तिप्रत्यये परे अकारादेशः भवति ।** 'त्यदादिगणः' नाम कश्चन गणः अस्ति । अस्मिन् गणे अष्ट शब्दाः समाविश्यन्ते - त्यद्, तद्, यद्, एतद्, इदम्, अदस्, एक, द्वि । एतेषाम् सर्वेषाम् शब्दानाम् विभक्तिप्रत्यये परे अङ्गस्य अकारादेशः भवति । **अलोऽन्त्यस्य** (1.1.52) इत्यनेन अयम् अन्त्यादेशः भवति । कानिचन उदाहरणानि एतानि - 1. त्यद् + टा [तृतीया-एकवचनस्य प्रत्ययः] → त्यद् + इन [**टाङसिङसामिनात्स्याः** (7.2.102) इत्यनेन टा-इत्यस्य इन-आदेशः] → त्य अ + इन [ **त्यदादीनामः** (7.1.12) इत्यनेन त्यद्-इत्यस्य दकारस्य अकारादेशः] → त्य + इन [**अतो गुणे** (6.1.97) इति अकार-अकारयोः पररूपः अकारः] → त्येन [**आद्गुणः** (6.1.87) इति गुण-एकादेशः] 2. तद् + ङे [चतुर्थी-एकवचनस्य प्रत्ययः] → तअ + ङे [**त्यदादीनामः** (7.2.102) इत्यनेन तद्-इत्यस्य दकारस्य अकारादेशः] → त अ स्मै [**सर्वनाम्नः स्मै** (7.1.14) इति ङे-प्रत्ययस्य स्मै-आदेशः] → तस्मै [**अतो गुणे** (6.1.97) इति अकार-अकारयोः पररूपः अकारः] 3. यद् + जस् [प्रथमा/बहुवचनस्य प्रत्ययः] → य अ +जस्[**त्यदादीनामः** (7.2.102) इत्यनेन यद्-इत्यस्य दकारस्य अकारादेशः] → य + जस् [**अतो गुणे** (6.1.97) इति अकार-अकारयोः पररूपः अकारः] → य + शी [**जसः शी** (7.1.17) इति शी-आदेशः] → य + ई [**लशक्वतद्धिते** (1.3.8) इति शकारस्य इत्संज्ञा । **तस्य लोपः** (1.3.9) इति लोपः] → ये [**आद्गुणः** (6.1.87) इति गुण-एकादेशः] 4. एतद् + भ्याम् [तृतीया-चतुर्थी-पञ्चमी-द्विवचनस्य प्रत्ययः] → एत अ भ्याम् [**त्यदादीनामः** (7.2.102) इत्यनेन एतद्-इत्यस्य दकारस्य अकारादेशः] → एत भ्याम् [**अतो गुणे** (6.1.97) इति अकार-अकारयोः पररूपः अकारः] → एताभ्याम् [**सुपि च** इति अकारस्य आकारः] 5. इदम् + भ्यस् [चतुर्थी-पञ्चमीबहुवचनस्य प्रत्ययः] → अम् + भ्यस् [**हलि लोपः** (7.2.113) इति 'इद्' इत्यस्य लोपः] → अ अ भ्यस् [**त्यदादीनामः** (7.2.102) इत्यनेन इदम्-इत्यस्य मकारस्य अकारादेशः] → अ भ्यस् [**अतो गुणे** (6.1.97) इति अकार-अकारयोः पररूपः अकारः] → ए भ्यस् [**बहुवचने झल्येत्** (7.3.103) इति अकारस्य एकारः] → एभ्यः [विसर्गनिर्माणम्] 6. अदस् + औ / औट् [प्रथमा/द्वितीया-द्विवचनस्य प्रत्ययः] → अद अ + औ / औट् [**त्यदादीनामः** (7.2.102) इत्यनेन अदस्-इत्यस्य सकारस्य अकारादेशः] → अद + औ / औट् [**अतो गुणे** (6.1.97) इति अकार-अकारयोः पररूपः अकारः] → अदौ [**प्रथमयोः पूर्वसवर्णः** (6.1.102) इति पूर्वसवर्णदीर्घे प्राप्ते **नादिचि** (6.1.103) इति तस्य निषेधः । अतः **वृद्धिरेचि** (6.1.88) इति वृद्धि-एकादेशः] → अमू [**अदसोऽसेर्दादु दो मः** (8.2.80) इति औकारस्य ऊकारः, दकारस्य च मकारः] 7. एक-शब्दस्य विषये अनेन सूत्रेण अकारस्य अकारादेशः एव विधीयते, अतः अस्य सूत्रस्य एक-शब्दस्य विषये किमपि प्रयोजनम् नास्ति । 8. द्वि + ओस् [षष्ठी-सप्तमी-द्विवचनस्य प्रत्ययः] → द्व् अ + ओस् [**त्यदादीनामः** (7.2.102) इत्यनेन द्वि-इत्यस्य इकारस्य अकारादेशः] → द्वे +ओस् [**ओसि च** (7.3.104) इति ओकारादेशः] → द्वयोस् [**एचोऽयवायावः** (6.1.78) इति अय्-आदेशः] → द्वयोः [विसर्गनिर्माणम्] ज्ञातव्यम् - 1. त्यदादिगणः वस्तुतः सर्वादिगणस्य एकः उपगणः अस्ति । अतः एतेषाम् शब्दानाम् सर्वनामसंज्ञा भवति चेदेव अस्य सूत्रस्य प्रयोगः भवति, न अन्यथा । यथा, कस्यचन व्यक्तेः नाम 'त्यद्' इति अस्ति चेत् तस्य रूपाणि 'त्यद् त्यदौ त्यदः' एतादृशानि एव भवन्ति । 2. समस्तपदे त्यदादिगणस्य शब्दः प्रधानः अस्ति चेदेव अस्य सूत्रस्य प्रयोगः भवति, उपसर्जनः (=अप्रधानः) अस्ति चेत् न भवति । यथा - अ) परमश्च तत् = 'परमतद्' अस्मिन् समस्तपदे 'तद्' इति प्रधानपदमस्ति, अतः अस्य रूपेषु वर्तमानसूत्रस्य प्रयोगं कृत्वा तद्-शब्दवदेव प्रक्रिया जायते - परमसः, परमतौ, परमते । आ) द्वौ अतिक्रान्तः = अतिद्वि । अत्र द्वि-शब्दः अप्रधानः अस्ति, अतः अत्र वर्तमानसूत्रस्य प्रयोगः न भवति, मुनि-शब्दवदेव रूपाणि जायन्ते । यथा - अतिद्विः, अतिद्वी, अतिद्वयः । 3. **प्राग्दिशो विभक्तिः** (5.3.1) अनेन सूत्रेण केषाञ्चन तद्धित-प्रत्ययानामपि विभक्तिसंज्ञा भवति । तेषां विषये अपि अस्य सूत्रस्य प्रसक्तिः अस्ति । यथा - यद् + त्रल् [**सप्तम्यास्त्रल्** (5.3.10) इति त्रल-प्रत्ययः । **प्राग्दिशो विभक्तिः** (5.3.1) इति अस्य विभक्तिसंज्ञा] → य अ त्रल् [**त्यदादीनामः** (7.2.102) इत्यनेन यद्-इत्यस्य दकारस्य अकारादेशः] → यत्र [**अतो गुणे** (6.1.97) इति अकार-अकारयोः पररूपः अकारः] 4. सर्वनामशब्दानाम् **अव्ययसर्वनाम्नामकच् प्राक्टेः** (5.3.71) अनेन सूत्रेण स्वार्थे 'अकच्' प्रत्ययः विधीयते । अयं प्रत्ययः सर्वनामशब्दस्य 'टि'-संज्ञकात् पूर्वमागच्छति । अस्मिन् प्रत्यये परे यत् प्रातिपदिकम् जायते, तस्यापि अनेन सूत्रेण अकारादेशः भवति । यथा, इदम्-शब्दात् 'अकच्' प्रत्यये परे 'इदकम्' इति प्रातिपदिकं सिद्ध्यति । तस्य तृतीयैकवचनस्य प्रक्रिया इयम् - इदकम् + टा [तृतीयैकवचनस्य प्रत्ययः] → इदक अ + आ [**त्यदादीनामः** (7.1.102) इति मकारस्य अकारः] → इदक + आ [**अतो गुणे** (6.1.97) इति गुण-एकादेशः] → इमक + आ [**दश्च** (7.2.109) इति दकारस्य मकारादेशः] → इमक + इन [**टाङसिङसामिनात्स्याः** (7.1.12) इति टा-इत्यस्य इन-आदेशः] → इमकेन [**आद्गुणः** (6.1.87) इति गुण-एकादेशः] Sutrartha (English) ------------------- The words of त्यदादिगण get an अकारादेश when followed by a विभक्तिप्रत्यय. Vasu English Summary -------------------- For the final of त्यद् etc. there is substituted अ when an affix called विभक्ति follows. Vasu English Translation ------------------------ For the final of त्यद् etc. there is substituted अ when an affix called विभक्ति follows. Thus त्यद् - त्यः, त्यौ, त्ये ॥ तद् — सः, तौ, ते; यद् — यः, यौ, ये; एतद् — एषः, एतौ, एते; एदम् — अयम्, इमौ, इमे; अदस् — असौ, अमू, अमी; द्वि, द्वौ, द्वाभ्याम् ॥ The *tyadadi* words extend upto द्वि, in the list of the pronouns, for the purposes of this अ substitution. Therefore, the substitution does not take place here in भवत् which forms भवान् ॥ When the word त्यद् &c are employed as names, or as a secondary member in a compound, the substitution does not take place, as त्यद्, त्यदौ, त्यदः, अतित्यद्, अतित्यदौ, अतित्यदः See also (l. 1.27) commentary. But when they form the principal member of a compound, the substitution takes place, as परमसः, परमतौ, परमते ॥ For case affix (*vibhakti*) see (5.3.1) also. Those affixes are also called *vibhakti* and cause these substitutions. Bhashya ------- त्यदादीनामः ॥ त्यदादीनां द्विपर्यन्तानामकारवचनम् ॥ त्यदादीनां द्विपर्यन्तानामत्वं वक्तव्यम् ॥ किं प्रयोजनम् ? ॥ युष्मदस्मदन्तानां भवदन्तानां वा मा भूदिति ॥ तत्तर्हि वक्तव्यम् ? ॥ न वक्तव्यम् ॥ ॥ त्यदादीनामकारेण(1) सिद्धत्वाद्युष्मदस्मदोः । शेषे लोपस्य लोपेन ज्ञायते प्राक्ततोऽदिति ॥ यदयं त्यदादीनामत्वेन(2) सिद्धे युष्मदस्मदोः शेषे लोपं शास्ति(3) तज्ज्ञापयत्याचार्यः - प्राक्ततोऽत्वं भवतीति, न सर्वेषामिति । ॥ अपि वोपसमस्तार्थमत्वाऽभावात्कृतं भवेत् ॥ नैतदस्ति ज्ञापकम्, उपसमस्तार्थमेतत्स्यात् - अतियूयमतिवयम् । उपसमस्तानां हि त्यदादीनामत्वं नेष्यते, - अतितत् अतितदौ अतितदः ॥ ॥ टिलोपष्टाबभावाऽर्थः कर्तव्य इति तत्स्मृतम् ॥ यस्तु शेषे लोपष्टिलोपः स वक्तव्यः किं प्रयोजनम् ? ॥ टाप्प्रतिषेधार्थम् । टाम्मा भूदिति ॥ स तर्हि टिलोपो वक्तव्यः ? ॥ न वक्तव्यः । ॥ अथ वा शेषसप्तम्या शेषे लोपो विधीयते ॥ इह युष्मदस्मदोर्लोप इतीयताऽन्त्यस्य लोपः सिद्धः, सोऽयमेवं सिद्धे सतियच्छेषग्रहणं करोति तस्यैतत्प्रयोजनम् - अवशिष्टस्य लोपो यथा स्यादिति । ॥ लुप्तशिष्टे हि तस्याहुः कार्यसिद्धिं मनीषिणः ॥ एवं तर्ह्यचार्यप्रवृत्तिर्ज्ञापयति - न सर्वेषां त्यदादीनामत्त्वं भवतीति यदयं - किमः कः इति कादेशं शास्ति । इतरथा हि किमोऽद्भवतीत्येव ब्रूयात् ॥ सिद्धे विधिरारभ्यमाणो ज्ञापकार्थो भवति, न च किमोऽत्वेन सिध्यति । अत्वे हि सत्यन्त्यस्य प्रसज्येत ॥ सिद्धमन्त्यस्य पूर्वेणैव, तत्रारम्भसार्मथ्यादिकारस्य भविष्यति ॥ कुतो नु खल्वेतत् - अनन्त्यार्थ आरम्भे सतीकारस्य भविष्यति न पुनः ककारस्य स्यात् ? ॥ यत्तर्हि किमो ग्रहणं करोति । इतरथा हि कादद्भवतीत्येव ब्रूयात् ॥ एवमपि ककारमात्रात्परस्य प्राप्नोति ॥ त्यदादीनामिति वर्तते, न चाऽन्यत्किमस्त्यदादिषु ककारवदस्ति ॥ एवमप्यनैकान्तिकं ज्ञापकम् । एतावन्नु(1) ज्ञाप्यते - न सर्वेषां त्यदादीनामत्वं भवतीति ; तत्र कुत एतद् - द्विपर्यन्तानां भविष्यति न पुनर्युष्मदस्मददन्तानां वा स्याद्भवदन्तानां वा ! ॥ किञ्ञ्चाऽवश्यं खल्वप्युत्तरार्थं किमो ग्रहणं कर्तव्यं - कु तिहोः क्वातीति ॥ कादेशः खल्वप्यवश्यं साकच्कार्थो वक्तव्यः - कः कौ के इत्येवमर्थम् । तस्माद्विपर्यन्तानामत्त्वं(2) वक्तव्यम् ॥ ॥ त्यदादीनामकारेण सिद्धत्वाद्युष्मदस्मदोः । शेषे लोपस्य लोपेन ज्ञायते प्राक्ततोऽदिति ॥ 1 ॥ अपि वोपसमस्तार्थमत्वाऽभावात्कृतं(3) भवेत् । टिलोपष्टाबभावार्थः कर्तव्य इति तत्स्मृतम् ॥ 2 ॥ अथ वा शेषसप्तम्या शेषे लोपो विधीयते ॥ लुप्तशिष्टे हि तस्याहुः कार्यसिद्धिं मनीषिणः ॥ 3 ॥ Kashika ------- त्यदित्येवमादीनामकारादेशो भवति विभक्तौ परतः। त्यद् — स्यः, त्यौ, त्ये। तद् — सः, तौ, ते। यद् — यः, यौ, ये। एतद् — एषः, एतौ, एते। इदम् — अयम्, इमौ, इमे। अदस् — असौ, अमू, अमी। द्वि — द्वौ, द्वाभ्याम्। द्विपर्यन्तानां त्यदादीनामत्वमिष्यते। इह न भवति — भवत् — भवान्। संज्ञोपसर्जनीभूतास्त्यदादयः पाठादेव पर्युदस्ता इतीह न भवति — त्यद्, त्यदौ, त्यदः। अतित्यद्, अतित्यदौ, अतित्यदः। त्यदादिप्रधाने तु शब्दे भवत्येव। परमसः, परमतौ, परमते॥ Siddhanta Kaumudi ----------------- एषामकारोऽन्तादेशः स्याद्विभक्तौ ॥ (वार्तिकम्) ॥ द्वौ 2 । द्वाभ्याम् 3 । द्वयोः 2 । द्विपर्यन्तानां किम् । भवान् । भवन्तौ । भवन्तः । संज्ञायामुपसर्जनत्वे च नात्वम् । सर्वाद्यन्तर्गणकार्यत्वात् । द्विर्नाम कश्चित् । द्विः । द्वी । द्वावतिक्रान्तोऽतिद्विः । हरिवत् । प्राधान्ये तु परमद्वावित्यादि ॥ औडुलोमिः । औडुलोमी । बहुवचने तु उडुलोमाः । (वार्तिकम्) ॥ बाह्वादीञोऽपवादः । औडुलोमिम् । औडुलोमी । उडुलोमान् ॥ इतीदन्ताः ॥ वातप्रमीरित्युणादिसूत्रेण माङ ईप्रत्ययः स च कित् । वातं प्रमिमीते वातप्रमीः । दीर्घज्जसि च । वातप्रम्यौ । वातप्रम्यः । हे वातप्रमीः । अमि पूर्वः (SK194) । वातप्रमीम् । वातप्रम्यौ । वातप्रमीन् । वातप्रम्या । वातप्रमीभ्याम् 3 । वातप्रम्ये । वातप्रम्यः 2 । वातप्रम्योः 2 । वातप्रम्याम् । दीर्घत्वान्न नुट् । ङौ तु सवर्णदीर्घः । वातप्रमी । वातप्रमीषु । एवं ययीपप्यादयः । यान्त्यनेनेति ययीर्मार्गः । पाति लोकमिति पपीः सूर्यः । यापोः किद्द्वे च उ. (SK439)इति ईप्रत्ययः । क्विबन्तवातप्रमीशब्दस्य तु अमि शसि ङौ च विशेषः । वातप्रम्यम् । वातप्रम्यः । वातप्रम्यि । एरनेकाचः (SK272) इति वक्ष्यमाणो यण् प्रधीवत् । बह्वयः श्रेयस्यो यस्य स बहुश्रेयसी । दीर्घङ्यन्तत्वात् हल्ङ्याब् (SK252)इति सुलोपः ॥ Laghu Siddhanta Kaumudi ----------------------- एषामकारो विभक्तौ। **द्विपर्य्यन्तानामेवेष्टिः** (वार्त्तिकम्) । द्वौ द्वौ। द्वाभ्याम् द्वाभ्याम् द्वाभ्याम् । द्वयोः द्वयोः ॥ पाति लोकमिति पपीः सूर्यः॥ **दीर्घाज्जसि च** (LSK161) - पप्यौ पप्यौ । पप्यः । हे पपीः । पपीम् । पपीन् । पप्या । पपीभ्याम् पपीभ्याम् पपीभ्याम् । पपीभिः । पप्ये । पपीभ्यः पपीभ्यः । पप्यः पप्यः । पप्योः । दीर्घत्वान्न नुट्, पप्याम् । ङौ तु सवर्णदीर्घ: । पपी । पप्योः । पपीषु । एवं वातप्रम्यादयः ॥ बह्व्यः श्रेयस्यो यस्य स बहुश्रेयसी ॥ Balamanorama ------------ **त्यदादीनामः** - द्वि-औ इति स्थिते- । त्यदादीनामः ।अष्टन आ विभक्ता॑वित्यतो विभक्तावित्यनुवर्तते । एषामिति । त्यदादीनामित्यर्थः । त्यदादिर्येषामिति विग्रहः । 'अन्तादेशः' इत्यलोऽन्त्यपरिभाषालभ्यः । विभक्तौ किम् । तत्फलम् ।स्वमोर्नपुंसका॑दिति लुकि अत्वं न । द्विपर्यन्तानामिति । सर्वादिगणे ये त्यदादयः पठितास्तेषामिह द्विपर्यन्तानामेव ग्रहणे भाष्यकारस्येच्छत्यर्थः । द्विशब्दस्य द्विवचनेषु परतोऽत्वे कृते रामशब्दवद्रूपाणीत्याह-द्वावित्यादि । द्विपर्यन्तानामिति किमिति । युष्मदस्मदोरात्वयवत्वयलोपैर्बाधात्, किमः कादेशविधानाच्च तेषां त्यदादिष्वन्तर्भावेऽपि न दोष इति प्रश्नः । भवान् भवन्ताविति । भवत्-सिति स्थितेउगिदचा॑मिति नुमि हल्ङ्यादिलोपे संयोगान्तलोपेअत्वसन्तस्य चे॑ति दीर्घेभवा॑निति रूपम् । द्विपर्यन्ताना॑मित्यभावे तु भवत्-सिति स्थिते तकारस्य त्वे कृते 'अतो गुणे' इति पररूपेउगिदचा मिति नुमि 'सर्वनामस्थाने' इति दीर्घे सुलोपे नलोपे 'भवा' इति स्यात् । तथा॒भवत्-औ॑ इति स्थिते पूर्ववत्तकारस्याऽत्वे नुमि दीर्घे चभवाना॑विति स्यादिति भावः । अथ यदुक्तंसंज्ञो पसर्जनीभूतानां सर्वादिगणकार्यमन्तर्गणकार्यं च न भवती॑ति तत्स्मारयति — संज्ञायामित्यादिना । द्विर्नामेति ।नामे॑त्यव्ययं प्रसिद्धौ ।द्वि॑रिति प्रसिद्धः कश्चिदित्यर्थः । अत्र च संज्ञाभूतस्य द्विशब्दस्य एकद्विबहुवचनानि सन्ति, एकद्वित्र्यादिष्वपि द्विसंज्ञकत्वसंभवादित्यभिप्रेत्य आह — द्विः द्वी द्वय इति । अतिद्विरिति । 'अत्यादयः' इति समासः । परमद्वाविति । कर्मधारयोऽयम् । संज्ञोपसर्जनत्वाभावादिहाऽत्वं भवत्येव । आङ्गत्वेन पदाङ्गाधिकारपरिभाषया तदन्तग्रहणादिति भावः । उडूनि नक्षत्राणीव लोमानि यस्य स उडुलोमा । तस्यापत्यमौडुलोभिः ।बाह्वादिभ्यश्चे॑ति इञ् । 'नस्तद्धिते' इति टिलोपः । आदिवृद्धि अस्य एकवचनद्विवचनयोः सर्वत्र हरिवद्रूपम् । तदाह औडुलोमिरौड्डलोमी इति । बहुवचने तूडुलोमा इति । ननु तथा रूपं कथं, बाह्वादिगणस्थत्वेन इञः प्रसङ्गादित्यत आह — लोम्नोऽपत्येषु । लोमन्शब्दाद्बहुष्वपत्येषु विवक्षितेष्वकारः प्रत्ययो वक्तव्य इत्यर्थः । बाह्वादीञ इति । बाह्वादिगणाद्विहितस्य इञोऽपवाद इत्यर्थः । 'उडुलोमन्-अ' इति स्थिते 'नस्तद्धिते' इति टिलोपः । ञ्णित्त्वाऽभावात्कित्त्वाऽभावाच्च नादिवृद्धिः ।उडुलोम॑शब्दोऽकारान्तः । तस्य सर्वत्र बहुवचनेषु रामवद्रूपमिति भावः । इति इदन्तप्रकरणम् । अथेदानीमीकारान्ता निरूप्यन्ते । तत्र वातप्रमीशब्दो द्विधा ।माङ्भाने॑इति धातोरीप्रत्ययान्तः क्विबन्तश्च । तत्र प्रथमं व्युत्पादयति — वातप्रमीरित्यादिना ।कि॑दित्यनन्तरं 'निपात्यते' इति शेषः । वातमिति वातमित्युपपदे कर्तरि माङ्धातोरीप्रत्यये कित्त्वात्आतो लोप इटि चे॑त्यल्लोपेउपपदमतिङि॑ति समासे तस्मात्सुबुत्पत्तौवातप्रमी॑रिति प्रथमैकवचनम् । अङ्यन्तत्वान्न सुलोपः । एतदर्थमेव हल्ङ्यादिसूत्रे सत्यपि दीर्घग्रहणे ङीब्ग्रहणमिति भावः । दीर्घादिति । वातप्रमी-औ इति स्थितेदीर्घाज्जसि चे॑ति पूर्वसवर्णदीर्घे निषिद्धेइको यणची॑ति यणि वातप्रम्याविति रूपमित्यर्थः । हे वातप्रमीरिति । दीर्घान्तत्वात् । 'ह्रस्वस्य गुणः' इति न । अमीति । वातप्रमी — अम् इति स्थिते 'अमि पूर्वः' इति पूर्वरूपेवातप्रमी॑मिति रूपमित्यर्थः । 'एरनेकाचः' इति यण्तु न, ईप्रत्ययान्तस्य धातुत्वाऽभावात् । वातप्रमीनिति । पूर्वसवर्णदीर्घे 'तस्माच्छसः' इति नत्वम् । वातप्रम्येति । अघित्वात् 'आङो नाऽस्त्रिया' मिति नाभावस्याऽभावे यण् । वातप्रम्ये इति अघित्वान्हेङसिङस्सुघेर्ङिती॑ति गुणो न । वातप्रम्यामिति । आमि यणादेशे रूपम् । दीर्घत्वान्न नुट्, 'ह्रस्वनद्यापः' इति ह्रस्वग्रहणादिति भावः । ङौ त्विति । 'वातप्रमी — इ' इति स्थिते परत्वाद्यणादेशं बाधित्वा सवर्णदीर्घेवातप्रमी॑ति रूपम् । अघित्वादिदुदन्तत्वाऽभावाच्च अच्च घे॑रिति,औ॑दिति च न भवति । वस्तुतस्तुईदूतौ च सप्तम्यर्थे॑ इति सूत्रेसप्तम्यन्तमीदूदन्तं लोके नास्ति । अतःसोमो गौरी अधिश्रितः॑ 'मामकी तनू' इति वेद एव तदुदाहरण॑मिति भाष्यविरोधाद्वातप्रमी इति सप्तम्यन्तस्य लोके प्रयोगो नेत्यनुमीयत इति शब्देन्दुशेखरे स्पष्टम् । यापोरिति ।पापोः किद्द्वोषेचे॑त्यौणादिकसूत्रम् । याधातोः, पाधातोश्च ईप्रत्ययः स्यात्, सच कित् । प्रकृतिभूतयोस्तयोर्द्वित्वं चेत्यर्थः । कित्त्वादातो लोप इटि चेत्याल्लोपः । अभ्यासह्रस्वः । क्विबन्तवातेति । 'माङ् माने' इत्यस्मात्कर्तरि क्विपिघुमास्थे॑तीत्त्वेवातप्रमी॑शब्द इति केचित् । तन्न, 'ईत्त्वमवकारादौ' इति वार्तिकविरोधात् ।मीञ् हिंसाया॑मिति मीधातोः क्विपि तुवातप्रमी॑शब्दो निर्बाधः । वक्ष्यमाणो यणिति । अमिपूर्वरूपं, शसि पूर्वसवर्णदीर्घः, ङौ सवर्णदीर्घं च बाधित्वा परत्वात् 'एरनेकाचः' इति यण्, ईकारान्तधातुत्वादिति भावः । प्रधीवदिति । प्रकृष्टं ध्यायतीति प्रधीः ।ध्यायतेः संप्रसारणं चे॑ति क्विपि यकारस्य संप्रसारणमिकारः ।संप्रसारणाच्चे॑ति पूर्वरूपम् । 'हलः' इति दीर्घः । अस्य च ईकारान्तधातुत्वादमि ङसि ङौ च 'एरनेकाचः' इति यणादेशः । बह्वय इति ।बह्वादिभ्यश्चे॑ति ङीष् । श्रेयस्य इति । अतिप्रशस्ता इत्यर्थः ।द्विवचनविभज्योपपदे॑ इति ईयसुन् । 'प्रशस्यस्य श्रः' इति श्रः ।उगितश्चे॑ति ङीप् । बहुश्रेयसीति ।स्त्रियाः पुंव॑दिति पुंवत्त्वम् ।गोस्त्रियोरि॑ति ह्रस्ववस्तु न,ईयसोबह#उव्रीहेर्नेति वाच्य॑मिति तन्निषेधात् । बहुश्रेयसी-सिति स्थिते प्रक्रियां दर्शयति — दीर्घङ्यन्तत्वादिति । ननु श्रेयसीशब्द एव ङ्यन्तः, प्रत्ययग्रहणे यस्मात्स विहितस्तदादेरेव ग्रहणात् । नचस्त्रीप्रत्यये न तदादिनियमः॑ इति निषेधान्नेह तदादिनियम इति वाच्यम्, अनुपसर्जन एव स्त्रीप्रत्यये हि न तदादिनियम इति प्रतिषेधः । इह तूपसर्जनन्वात्तदादिनियमोऽस्त्येवेति चेत्, अस्तु श्रेयसीशब्दस्यैव ङ्यन्तत्वम्, नतु बहुश्रेयसीशब्दस्य । तथापि हल्ङ्यादिलोपोऽत्र निर्बाधः । सोङ्र्यन्तात् श्रेयसीशब्दात्परत्वस्याऽनपायात् । नहि॒हल्ङ्याब्भ्य॑ इति विहितविशेषणं, प्रमाणाऽभावात् । या सा केत्यादावव्याप्तेश्च, तत्र सोष्टाबन्ताद्विहितत्वाऽभावात् । नहि॒हल्ङ्याब्भ्य॑इति विहितविशेषणं, प्रमाणाऽभावात् । या सा केत्यादावव्याप्तेश्च, तत्र सोष्टाबन्ताद्विहितत्वाऽभावात्, यत्त्त्किमिति हलन्तेभ्यः सुबुत्पत्तौ त्यदाद्यत्वे सत्येव टापः प्रवृत्तेः । नच तत्र हलन्ताद्विहितत्वेन निर्वाहः शङ्क्यः, यः सः क इत्यादावतिव्याप्तेः, कर्ता सखेत्यादावव्याप्तेश्चेत्यास्तां तावत् ।दीर्घाज्झसि चे॑ति पूर्वसवर्णदीर्घनिषेधे यणि बहुश्रेयस्यौ । बह#उश्रेयस्यः । Tattvabodhini ------------- **त्यदादीनामः** - त्यदादिनामः ।अष्टन आ विभक्तौ॑इत्यतोऽनुवर्तनादाह-विभक्ताविति किम् । तद् ।यद् । सोर्लुका लुप्तत्वात्प्रत्ययलक्षणं न ।द्विपर्यन्तानां किमिति । युष्मदस्मच्छब्दयोरिष्टआभावेऽपि दोषो नास्ति, आत्वयत्वलोपैर्विशेषविहितैरत्वस्य बाधनात् । तथा किंशब्देऽपि न दोषः, किमः कादेशस्य विशिष्टस्य विधानादिति प्रश्नः । भवानिति । भवत्-सु इति स्थिते तकारस्थाने अत्वे कृतेअतो गुणे॑ इति पररूपेउगिदचाम् — — ॑इति नुमि सतिसर्वनामस्थाने॑इत्यनेन दीर्घे सुलोपे नलोपे च सतिभवा॑इति रूपं स्यादिति भावः । भवन्ताविति । पूर्ववत्तकारस्याऽत्वे पररूपे नुमि दीर्घेभवाना॑विति रूपं स्यादिति भावः । उडूनीव लोमानि यस्य तस्यापत्यमौडुलोमिः ।इञोऽपवाद इति । तथा च बहुत्वे अकारान्तोऽयमुडुलोमशब्दः, स औडुलोमिशब्दादन्य एव, तस्य च इकारान्तेषु व्युत्पादनं प्रासङ्गिकमिति बोध्यम् । इति इदन्ताः । किदिति । तेनआतो लोप इटि चे॑ त्यालोप इति भावः । क्विबन्तवातप्रमीति । माङ्धातोः क्किपिईत्त्वमवकारादौ॑इति निषेधादीत्त्वं नेति शङ्क्यायां मीनातेरेव क्किब्बोध्यः । यद्वा ईप्रत्ययान्तवातप्रमीशब्दादाचारक्किबन्तात्कर्तरि क्किबोध्यः । श्रेयस्य इति ।प्रशस्यश्रः॑इतीयसुनि श्रादेशः ।उगितश्चे॑ङीप् । बहुश्रेयसीति ।स्त्रियाः पुंवत् — ॑इति पुंवद्भावः ।ईयसश्चे॑ति न कप् । नाऽप्युसर्जनह्रस्वः,ईयसो बहुव्रीहिर्ने॑ति निषेधात् । Padamanjari ----------- द्विपर्यन्ता इत्यादि । इष्टिरेवेयम् । यतूच्यते - शेषेलोपवचनं ज्ञापकमिति, तदयुक्तम्, उपसर्जनार्थत्वादतियूयमतिवयमिति । यदा तु शेषे लोपष्टिलोपस्तदा तु सुतरामज्ञापकम् । पाठादेव पर्युदस्ता इति । तथा च सर्वादिसूत्रे वार्तिकम् संज्ञोपसर्जनानां प्रतिषेधः पाठात्पर्युदासः इति ए। तेन पाठोपजीवनेन प्रवर्तमानमिदमपि संज्ञोपसर्जनीभूतानां न भवति । त्यदादीति । त्यादादीनामर्थः प्रधानं यत्र समासे तत्रेत्यर्थः । न हि ते पाठात्पर्युदस्ताः ॥ Nyaas ----- `स्यः` इति। **तदोः सः सावनन्त्ययोः** (7.2.106) इति तकारस्य सकारः। `त्यः` इति। `जसः सी` (7.1.17) इति शीभावः, **आद्गुणः** (6.1.87) । `इमौ` इति। `दश्च` (7.2.109) इति मत्वम्। `असौ` इति। **अदस औ सुलोपश्च** (7.2.107) । `अमू` इति। `अदसोऽसेर्दादु दो मः` 8.2.80) इति मत्वोत्वे, **प्रथमयोः पूर्वसवर्णः** (6.1.102) इति दीर्घः। `अमी` इति। **एत ईद्बहुवचने** (8.2.81) इतीत्त्वम्। अथेह कस्मान्न भवति - भवानिति? अत आह - `द्विपर्यन्तानाम्` इत्यादि। एतच्च **शेषे लोपः** (7.2.90) इत्यत्र प्राग्वि ज्ञापितम्। `भवान्` इति। `उगिदचाम्` (7.1.70) इति नुम्, **अत्वसन्तस्य चाधातोः** (6.4.14) इति दीर्घः। अथेह संज्ञोपसर्जनीभूतानामपि कस्मान्न भवति त्याददौ - त्यद्? अतिस्यद्, अतित्यदः? इत्यत आह - `संज्ञोपसरजनीभूताः` इत्यादि। सर्वाद्यन्तःपातिनस्त्यदादयः। सर्वादयश्चासंज्ञीभूता अनुपसर्जनीभूतश्च पठन्ते। तथा हि - तेषां `सर्वनामानि` (1.1.27) इति महत्याः संज्ञायाः करणस्यैतत्? प्रयोजनम् - सर्वेषां नामभूतानां संज्ञा यथा स्यात्। ये तु कस्याचिदेव संज्ञाभूता उपसर्जनीभूताश्च, तेषां मा भूदिति। तस्मात्? संज्ञोपसर्जनीभूतास्त्यदादयः पाठादेव पर्युदस्ताः, त्यदादिभ्यो बहिष्कृता इत्यर्थः। तस्मादत्यदादित्वात्? तेषां न भवति त्यदादिकार्यम्। `त्यदादिप्रधाने शब्दे तु भवत्येव` इति। त्यदादयः प्रधाना यस्मिन्? शब्दे स त्यदादिप्रधानः, तत्र भवत्येवात्त्वम्; तस्य पाठापदर्युदस्तत्वात्। अपर्युदस्तत्वं तु सर्वनामसंज्ञायस्तदन्तविधेः सर्वादेरभ्युपगमात्॥ Praudhamanorama --------------- **ययीपप्यादय इति।** यत्तु प्राचोक्तम्—एवं देवयज्यतिलक्ष्म्यादय इति। तन्न, देवान् यजत इति विग्रहे 'इन्' इत्यौणादिकसूत्रेण ह्रस्वान्तस्यैव देवयजिशब्दस्योज्ज्वलदत्तादिभिः साधितत्वात्। 'अद्मो द्विजान्देवयजतीन्निहन्म' इति भट्टिप्रयोगस्य ह्रस्वविषयकतयैव व्याख्यातत्वात्। न च यजेर्दीर्घ ईप्रत्ययः प्रतिपदोक्तोऽस्ति। बहुलग्रहणात्कल्प्यत इति चेद्? भवेदेवं, यद्यनन्यथासिद्धं कल्पकमुपलभ्येत। वेदेऽपि ह्रस्व एव प्रयुज्यते—'आयजिं त्वा मनवे जातवेदसे' इति। अतिलक्ष्मीशब्दस्य तु नदीत्वात् ह्रस्वे आडागमे नुटि आमि च कृते महदेव वैलक्ष्यण्यमिति न वातप्रमीसाम्यम्। एतच्च मूले एव स्पष्टीभविष्यति। **क्विबन्तेति।** एतच्चमाङ् माने शब्दे च इति धातौ माधवग्रन्थे स्पष्टम्। **बहुश्रेयसीति।** 'ईयसश्च' इति न कप्। नाप्युपसर्जनह्रस्वः, 'ईयसो बहुव्रीहेर्न' इति निषेधात्। **पूर्वमिति।** वृत्तेः प्रागित्यर्थः। **वक्तव्यमिति।** संज्ञाया यथोद्देशप्रवृत्तौ न्यायसिद्धमिदं, कार्यकालत्वे तु वाचनिकमेव। Prakriyasarvasvam ----------------- त्यदादीनां विभक्तौ परतोऽन्त्यस्यात्वं स्यात् । तु अ तस् पररूपं ततः । यतः ॥ Sarala ------ (एषामकारोऽन्तादेशः स्याद्विभक्तौ) । **द्विपर्यन्तानामेव** - त्यच्छब्दमारभ्य द्विशब्दान्तानां शब्दानामेव, **इष्टिः** = भाष्यकृता त्यदादित्वमिष्यते इत्यर्थः । **दीर्घाज्जसि च** (६.१.१०५) (दीर्घाज्जसि इचि च परे न पूर्वसवर्णदीर्घः) । **दीर्घात्वात्** = ह्रस्वान्तत्वाऽभावान्नद्यन्तत्वाऽभावाच्च - न नुडित्यर्थः । **वातप्रमीः** = मृगविशेषः । **वातप्रमीर्वातमृगः** इत्यमरः ॥ Sudha ----- **त्यदादीनाम इति ।** **अष्टन आ विभक्तौ**(7.2.84) इत्यतो विभक्तावित्यनुवर्तते । **एषामिति ।** त्यदादीनामित्यर्थः । त्यद् आदिर्येषामिति विग्रहः । **द्विपर्यन्तानामिति ।** सर्वादिगणे ये त्यदादयः पठिताः तेषामिह द्विपर्यन्तानामेव ग्रहणे भाष्यकारस्येच्छेत्यर्थः । **द्वौ ।** द्विशब्दस्य द्वित्वनियतत्वात् द्विशब्दो नित्यं द्विवचनान्तः । अतो द्विशब्दात् प्रथमाद्विवचने औ समागते "द्वि औ" इति स्थिते **त्यदादीनामः**(7.2.102) इत्यकारान्तादेशे **प्रथमयोः पूर्वसवर्णः**(6.1.102)इति पूर्वसवर्णदीर्घादेशे प्राप्ते **नादिचि**(6.1.104) इति निषिद्धे **वृद्धिरेचि**(6.1.88) इति वृद्धौ कृतायां सत्यां "द्वौ" इति रूपम् । **द्वौ ।** द्वितीयाद्विवचने औटि **त्यदादीनामः**(7.2.102) इति अत्वे वृद्धौ "द्वौ" इति । **द्वाभ्याम् ।** द्विशब्दात् भ्यामि त्यदाद्यत्वे **सुपि च**(7.3.102) इति दीर्घे "द्वाभ्याम्" इति । **द्वयोः ।** द्विशब्दाद् ओसि **त्यदादीनामः**(7.2.102) इत्यकारान्तादेशे "द्व ओस" इति जाते **ओसि च**(7.3.104) इति द्वशब्दगताऽकारस्य एत्वे **एचोऽयवायावः**(6.1.78) इत्ययादेशे सस्य रुत्वे विसर्ग च "द्वयोः" इति रूपम् । **पपीः ।** पा रक्षणे इति धातोः औणादिकेन (उणादिः 3.159) इति सूत्रेण ईप्रत्यये द्वित्वे अभ्यासकार्ये ईप्रत्ययस्य कित्वात् **आतो लोप इटि च**(6.4.64) इत्याकारलोपे निष्पन्नपपीशब्दस्य कृदन्तत्वात्प्रातिपदिकसंज्ञायां प्रथमैकवचनसुप्रत्यये समागते "पपी-सु" अत्र उकारस्येत्संज्ञायां लोपे च **ससजुषो रुः**(8.2.66) इति सस्य रुत्वे अनुबन्धलोपे रेफस्य **खरवसानयोर्विसर्जनीयः**(8.3.15) इति विसर्गे सति रूपम् । **पप्यौ ।** 'पपी - औ' इति स्थिते **प्रथमयोः पूर्वसवर्णः**(6.1.102) इति पूर्वसवर्णदीर्घादेशे प्राप्ते **दीर्घाज्जसि च**(6.1.105) इति निषेधे **इको यणचि**(6.1.77) इति यणि "पप्यौ" इति रूपम् । **पप्यः ।** पूर्ववत्साधनिका । **हे पपी: ।** ह्रस्वान्तत्वाभावान्न सुलोपः । सम्बोधनद्विवचनबहुवचने पप्यौ, पप्यः इति । अमि - पपीम् **अमि पूर्वः**(6.1.107) । औटि - पप्यौ, साधनिकापूर्ववत् । शसि - अनुबन्धलोपे पूर्वसवर्णदीर्घादेशे कृते **तस्माच्छसो नः पुंसि**(6.1.103) इति शसः सकारस्य नकारादेशे - **पपीन्** इति रूपम् । **पप्या ।** "पपी-आ" अत्र **इको यणचि**(6.1.77) इति यणि रूपम् । पपीशब्दाद्भ्यामि- **पपीभ्याम्** इति रूपम् । भिसि - **पपीभिः ।** चतुर्थ्येकवचने ङे परे यणि रूपम् – **पप्ये ।** भ्यसि रुत्वे विसर्गे च - **पपीभ्यः ।** ङसि अनुबन्धलोपे यणि - **पप्यः ।** ओसि परे यणि - **पप्योः । पप्याम् ।** आमि **इको यणचि**(6.1.77) इति यणि रूपम् । सप्तम्येकवचने ङौ परे अनुबन्धलोपे **इको यणचि**(6.1.77) इति यणि प्राप्ते तं प्रबाध्य **अकः सवर्णे दीर्घः**(6.1.101) इति दीर्घे कृते - "पपीः" इति रूपम् । सप्तमीद्विवचने ओसि - **पप्योः |** सुपि परे पकारस्य **हलन्त्यम्**(1.3.3) इतीत्संज्ञायां **तस्य लोपः**(1.3.9) इति लोपे **आदेशप्रत्यययोः**(8.3.59) इति सकारस्य मूर्धन्यादेशे (आन्तरतम्यात्) षकारे कृते सति **पपीषु** इति रूपम् । **वातप्रम्यादय इति ।** वातप्रमीः निःशृङ्गो मृगाकृतिः पशुरिति **ईदूतौ च सप्तम्यर्थे**(1.1.19) इति सूत्रे कौस्तुभे । आदिना यान्त्यनेनेति ययीमर्गः इति ग्राह्यम् । रूपाणि - वातप्रमीः, वातप्रम्यौ, वातप्रम्यः, प्र... । हे वातप्रमीः, हे बातप्रम्यौ, हे वातप्रम्यः, सम्बो... । वातप्रमीम्, वातप्रम्यौ, वातप्रमीन्, द्वि... । वातप्रम्या, वातप्रमीभ्याम् वातप्रमीभिः, तृ... । वातप्रम्ये, वातप्रमीभ्याम् वातप्रमीभ्यः, च... । वातप्रम्य, वातप्रमीभ्याम् वातप्रमीभ्यः, पं... । वातप्रम्यः, वातप्रम्योः, वातप्रम्यम्, ष... । वातप्रमी, वातप्रम्योः, वातप्रमीषु सप्तमी । क्विबन्तवातप्रमीशब्दस्य तु अमि - शसि-ङौ च - **एरनेकाचोऽसंयोगपूर्वस्य**(6.4.82) इति यणि - वातप्रम्यम्, वातप्रम्यः, वातप्रम्यि इति विशेषो ज्ञेयः । **बहुश्रेयसी ।** इति निषेधादुपसर्जनह्रस्वो न । समासत्वात्प्रातिपदिकसंज्ञायां प्रथमैकवचने सौ समागते उकारस्येत्संज्ञायां लोपे च "बहुश्रेयसी-स्" इति स्थिते ङ्यन्तत्वात् **हल्ङ्याब्भ्यो दीर्घात् सुतिस्यपृक्तं हल्**(6.1.68) इति स् इत्यस्य लोपे "बहुश्रेयसी" इति रूपम् । औ परे - बहुश्रेयस्यौ, जसि - बहुश्रेयस्यः । अत्र दीर्घत्वात् पूर्वसवर्णदीर्घनिषेधे सति यणि कृते रूपम् । Vartika ------- द्विपर्यन्तानामेवेष्टिः ।