72099: त्रिचतुरोः स्त्रियां तिसृचतसृ ==================================== **Padacheda:** त्रिचतुरोः | S | 6 | 2 | स्त्रियाम् | S | 7 | 1 | तिसृचतसृ | S | | | 1 Sutrartha --------- **विभक्तिप्रत्यये परे त्रि-शब्दस्य चतुर्-शब्दस्य च स्त्रीत्वं द्योतयितुम् तिसृ तथा चतसृ - एतौ आदेशौ भवतः ।** 'त्रि' तथा 'चतुर्' एतौ सङ्ख्यावाचिनौ शब्दौ । स्त्रीत्वस्य विवक्षायाम् विभक्तिप्रत्यये परे एतयोः (क्रमेण) 'तिसृ' तथा 'चतसृ' एतौ आदेशौ भवतः । अग्रे एतयोः रूपाणि ऋकारान्तशब्दवदेव भवन्ति । यथा - 1. त्रि + जस् [प्रथमाबहुवचनस्य प्रत्ययः । **सुपः** (1.4.103) इति जस्-प्रत्ययस्य विभक्तिसंज्ञा] → तिसृ + जस् [स्त्रीत्वस्य विवक्षायाम् **त्रिचतुरोः स्त्रियां तिसृचतसृ** (7.2.99) इति त्रि-शब्दस्य तिसृ-आदेशः] → तिसृ + अस् [इत्संज्ञालोपः] → तिस्रः [**प्रथमयोः पूर्वसवर्णः** (6.1.102) इत्यनेन पूर्वसवर्णदीर्घे प्राप्ते अपवादत्वेन **अचि र ऋतः** (7.2.100) इति ऋकारस्य रेफादेशः] 2. चतुर् + शस् [द्वितीयाबहुवचनस्य प्रत्ययः । **सुपः** (1.4.103) इति जस्-प्रत्ययस्य विभक्तिसंज्ञा] → चतसृ + जस् [स्त्रीत्वस्य विवक्षायाम् **त्रिचतुरोः स्त्रियां तिसृचतसृ** (7.2.99) इति चतुर्-शब्दस्य चतसृ-आदेशः] → चतसृ + अस् [इत्संज्ञालोपः] → चतस्रः [**प्रथमयोः पूर्वसवर्णः** (6.1.102) इत्यनेन पूर्वसवर्णदीर्घे प्राप्ते अपवादत्वेन **अचि र ऋतः** (7.2.100) इति ऋकारस्य रेफादेशः] 3. त्रि + भिस् [तृतीयाबहुवचनस्य प्रत्ययः । **सुपः** (1.4.103) इति भिस्-प्रत्ययस्य विभक्तिसंज्ञा] → तिसृ + भिस् [स्त्रीत्वस्य विवक्षायाम् **त्रिचतुरोः स्त्रियां तिसृचतसृ** (7.2.99) इति त्रि-शब्दस्य तिसृ-आदेशः] → तिसृभिः [विसर्गनिर्माणम्] एतवेम तिसृभ्यः, चतसृभिः, चतसृभ्यः, तिसृषु, चतसृषु - एतानि रूपाणि अपि सिद्ध्यन्ति । 3. त्रि + आम् [षष्ठीबहुवचनस्य आम्-प्रत्ययः । **सुपः** (1.4.103) इति आम् -प्रत्ययस्य विभक्तिसंज्ञा] → तिसृ + आम् [स्त्रीत्वस्य विवक्षायाम् **त्रिचतुरोः स्त्रियां तिसृचतसृ** (7.2.99) इति त्रि-शब्दस्य तिसृ-आदेशः] → तिसृ + नुट् + आम् [ **अचि र ऋतः** (7.2.100) इति ऋकारस्य रेफादेशे प्राप्ते ; तस्मिन्नेव समये **ह्रस्वनद्यापो नुट्** (7.1.54) इत्यनेन प्रत्ययस्य नुडागमे अपि प्राप्ते इति वार्तिकस्य प्रयोगः क्रियते । अनेन वार्तिकेन नुडागमः एव भवति, **अचि र ऋतः** (7.2.100) इति रेफादेशः न ।] → तिसृनाम् [**नामि** (6.4.3) इत्यनेन नाम्-प्रत्यये परे अङ्गस्य दीर्घे प्राप्ते **न तिसृचतसृ** (6.4.4) इति निषेधः] → तिसृणाम् [ अनेन वार्तिकेन णत्वम् भवति ] एवमेव चतसृणाम् इत्यपि रूपं सिद्ध्यति । अस्मिन् सूत्रे निर्दिष्टम् 'स्त्रीत्वम्' त्रि-शब्दस्य चतुर्-शब्दस्य अस्ति, अङ्गस्य न । इत्युक्ते, समस्तपदस्य विषये अनेन सूत्रेण निर्दिष्टः आदेशः तदैव भवति यदा त्रि-शब्दस्य चतुर्-शब्दस्य वा स्त्रीत्वम् विवक्षते । यथा - 1. 'प्रियाः तिस्रः ललनाः यस्य सः' इत्यत्र यद्यपि समस्तपदम् पुंलिङ्गे अस्ति, तथापि 'त्रि' शब्दस्य तु स्त्रीत्वमेव विवक्षते । अतः अत्र त्रि-शब्दस्य 'तिसृ' आदेशः भवति । यथा - प्रियत्रि + सुँ [प्रथमैकवचनस्य सुँ-प्रत्ययः । **सुपः** (1.4.103) इति आम्-प्रत्ययस्य विभक्तिसंज्ञा] → प्रियतिसृ + स् [स्त्रीत्वस्य विवक्षायाम् **त्रिचतुरोः स्त्रियां तिसृचतसृ** (7.2.99) इति त्रि-शब्दस्य तिसृ-आदेशः] → प्रियतिसन् + स् [**ऋदुशनस्पुरुदंसोऽनेहसां च** (7.1.94) इति अनङ्-आदेशः] → प्रियतिसान् स् [**सर्वनामस्थाने चासम्बुद्धौ** (6.4.8) इति नकारान्तस्य अङ्गस्य उपधादीर्घः] → प्रियतिसान् [**हल्ङ्याब्भ्यो दीर्घात् सुतिस्यपृक्तं हल्** (6.1.68) इति सुँलोपः] → प्रियतिसा [**नलोपः प्रातिपदिकान्तस्य** (8.2.7) इति नकारलोपः] तथैव प्रियतिसारौ, प्रियतिसारः आदीनि रूपाणि अपि भवन्ति । 2. 'प्रियाः त्रयः यस्याः सा' इत्यत्र यद्यपि समस्तपदम् स्त्रीलिङ्गे अस्ति, तथापि 'त्रि' शब्दस्य तु पुंस्त्वमेव विवक्षते । अतः अत्र त्रि-शब्दस्य 'तिसृ' आदेशः न भवति । यथा - प्रियत्रि + सुँ [प्रथमैजवचनस्य सुँ-प्रत्ययः] → प्रियत्रिः [विसर्गनिर्माणम्] एवमेव प्रथमाद्विवचनस्य 'प्रियत्री', प्रथमाबहुवचनस्य 'प्रियत्रयः' आदीनि रूपाणि अपि सिद्ध्यन्ति । अत्र एकम् वार्तिकम् ज्ञातव्यम् - । इत्युक्ते, **संज्ञायां कन्** (8.3.87) अनेन कन्-प्रत्यये कृते त्रि-शब्दस्य स्त्रीत्वस्य विवक्षायाम् तिसृ-आदेशः भवति । यथा - त्रि + कन् [**संज्ञायां कन्** (8.3.87) इति कन्-प्रत्ययः] → तिसृ + कन् + टाप् [स्त्रीत्वस्य विवक्षायाम् **अजाद्यतष्टाप्** (4.1.4) इति टाप्-प्रत्ययः, त्रि-शब्दस्य इति तिसृ-आदेशः] → तिसृका कन्-प्रत्ययस्य चतुर्-शब्दस्य विषये प्रसक्तिः नास्ति । Sutrartha (English) ------------------- The words त्रि and चतुर् are respectively converted to तिसृ and चतसृ to indicate the feminine property, when followed by a विभक्ति-प्रत्यय Vasu English Summary -------------------- तिसृ is substituted for त्रि and चतसृ for चतुर् in the feminine when a case-ending follows. Vasu English Translation ------------------------ तिसृ is substituted for त्रि and चतसृ for चतुर् in the feminine when a case-ending follows. Thus तिस्रः, चतस्रः, तिसृभिः, चतसृभिः ॥ Why 'in the Feminine'? Observe त्रयः, चत्वारः, त्रीणि, चत्वारि ॥ The word स्त्रियाम् qualifies त्रि and चतुर् and not the word अङ्ग 'stem' which is of course understood here. Therefore, the substitution will take place even where the *anga* refers to a Masculine, or a Neuter; when त्रि and चतुर् refer to a Feminine; as प्रियास्तिस्रो ब्राह्मण्योऽस्य ब्राह्मणस्य = प्रियतिस्रा ब्राह्मणः (7.1.94) प्रियतिस्रौ, प्रियतिस्रः ॥ The *guna* of (7.3.110) is debarred in anticipation by (7.2.100) ordaining र ॥ प्रियतिसृ ब्राह्मणकुलं, प्रियतिसृणी, प्रियतिसॄणि ॥ Similarly प्रियचतस्रा, चतस्रौ, चतस्रः, प्रियचतसृ, चतसृणी, चतसॄणि ॥ The *samasanta* affix कप् (5.4.153) is however not added in the above, because तिसृ &c are *bahiranga* substitutions. Conversely, the *anga* may be feminine, but if त्रि and चतुर् refer to Masculine or Neuter nouns, the substitution will not take place: as प्रियास्त्रयोऽस्याः or प्रियाणि त्रीणि वा अस्या ब्राह्मण्याः = प्रियत्रिः 'a *Brahmani* to whom three are beloved.' dual. प्रियत्रीः, प्रियत्रयः ॥ Similarly प्रियचत्वाः, प्रियचत्वारौ, प्रियचत्वारः ॥ Vart:- The substitution of तिसृ for त्रि takes place before the affix कन्; as तिसृका नाम ग्रामः ॥ Vart:- चतसृ has acute on the first, as च꣡तस्रः पश्य ॥ Rule (6.1.167) does not apply. But चतसृणा꣡म् according to (6.1.179): the हलादि debars the निपातन accent. Bhashya ------- त्रिचतुरोः स्त्रियां तिसृचतसृ ॥ तिसृभावे संज्ञायां कन्युपसङ्ख्यानम्(1) ॥ तिसृभावे संज्ञायां कन्युपसङ्ख्यानं कर्तव्यम् । तिसृका नाम ग्रामः ॥ चतसर्याद्युदात्तनिपातनं च ॥ चतसर्याद्युदात्तनिपातनं कर्तव्यम् ॥ त्रिचतुरोः स्त्रियां तिसृ चतसृ ॥ किं प्रयोजनम् ? ॥ चतस्रः पश्य । शसि स्वरो मा भूतिदि ॥ किं चान्यत् ? ॥ उपदेशिवद्वचनं च ॥ उपदेशिवद्भावश्च वक्तव्यः ॥ किं प्रयोजनम् ? ॥ स्वरसिध्द्यर्थम् ॥ उपदेशावस्थायामेवाद्युदात्तनिपातने कृते विभक्तिस्वरेण बाधनं यथा स्यात् - चतसृणामिति(2) ॥ स तर्ह्युपदेशिवद्भावो वक्तव्यः ? ॥ न वक्तव्यः । ॥ उक्तं वा(3) ॥ किमुक्तम् ? ॥ विभक्तिस्वरभावश्च हलादिग्रहणात् । आद्युदात्तनिपातने हि हलादिग्रहणानर्थक्यम् ॥ इति । (त्रिचतुरोः स्त्रियाम्) ॥ Kashika ------- त्रि चतुर् इत्येतयोःस्त्रियां वर्तमानयोस्तिसृ चतसृ इत्येतावादेशौ भवतो विभक्तौ परतः। तिस्रः। चतस्रः। तिसृभिः। चतसृभिः। स्त्रियामिति किम्? त्रयः। चत्वारः। त्रीणि। चत्वारि। स्त्रियामिति चैतत् त्रिचतुरोरेव विशेषणं नाङ्गस्य। तेन यदा त्रिचतुःशब्दौ स्त्रियाम्, अङ्गं तु लिङ्गान्तरे, तदाप्यादेशौ भवत एव। प्रियास्तिस्रो ब्राह्मण्योऽस्य ब्राह्मणस्य प्रियतिसा ब्राह्मणः, प्रियतिस्रौ, प्रियतिस्रः। प्रियतिसृ ब्राह्मणकुलम्, प्रियतिसृणी, प्रियतिसृणि। प्रियचतसा, प्रियचतस्रौ, प्रियचतस्रः। प्रियचतसृ, प्रियचतसृणी, प्रियचतसृणि। **नद्यृतश्च** (५.४.१५३) इति समासान्तो न भवति, विभक्त्याश्रयत्वेन तिसृभावस्य बहिरङ्गलक्षणत्वात्। यता तु त्रिचतुःशब्दौ लिङ्गान्तरे, स्त्रियामङ्गम्, तदादेशौ न भवतः। प्रियास्त्रयोऽस्याः, प्रियाणि त्रीणि वा अस्या ब्राह्मण्याः, सा प्रियत्रिः, प्रियत्री, प्रियत्रयः, प्रियचत्वाः, प्रियचत्वारौ, प्रियचत्वारः॥ तिसृभावे संज्ञायां कन्युपसंख्यान कर्तव्यम्॥ तिसृका नाम ग्रामः॥ चतसर्याद्युदात्तनिपातनं कर्तव्यम्॥ चत॑स्रः पश्येत्यत्र **चतुरः शसि** (६.१.१६७) इत्येष स्वरो मा भूत्। च॒त॒सृ॒णामित्यत्र तु **षट्त्रिचतुर्भ्यो हलादिः** (६.१.१७९) इत्येव स्वरो भवति। हलादिग्रहणसामर्थ्याद् निपातनस्वरो बाध्यते॥ Siddhanta Kaumudi ----------------- स्त्रीलिङ्गयोरेतयोरेतावादेशौ स्तो विभक्तौ परतः ॥ Laghu Siddhanta Kaumudi ----------------------- स्त्रीलिङ्गयोरेतौ स्तो विभक्तौ॥ Balamanorama ------------ **त्रिचतुरोः स्त्रियां तिसृचतसृ** - त्रिचतुरोः । एतयोरेताविति । त्रिचतुरोस्तिसृ चतसृ इत्येतावित्यर्थः । विभक्ताविति । 'अष्टन आ विभक्तौ' इत्यतस्तदनुवृत्तेरिति भावः । जश्शसोः-तिसृ अस् इति स्थिते । Tattvabodhini ------------- **त्रिचतुरोः स्त्रियां तिसृचतसृ** - त्रिचतुरोः ।अष्टन आ विभक्ता॑वित्यतोऽनुवर्तनादाह — — विभक्तौ परत इति ।विभक्तौ किम्त्रिभार्यः चतुर्भार्य॑इति केचित् । तन्मन्दम् ।स्त्रिया- पुंव॑दिति पुंवद्भावेनापीष्टसिद्धेः । किंतु प्रियादौ पकतः पुंवद्भावो नेतित्रिप्रिय॑इत्याद्युदाहर्तव्यमिति नव्याः । Padamanjari ----------- त्रिचतुरोरेव विशेषणमिति । श्रुतत्वात् । नाङ्गस्येति । विपर्ययात् । तेन किं सिद्धं भवति इत्याह - तेनेति । प्रियतिसेति । अनङ्सौ, ऋदुशनस्पुरुदंसोऽनेहसाञ्च इत्यनङ् । प्रियतिस्नाविति । ऋतो ङिसर्वनामस्थानोयोः इति गुणं परमपि बाधित्वोतरसूत्रेण रादेशः । प्रियतिसृ इति । इकोऽचि विभक्तौ इत्यज्ग्रहणेन ज्ञापितम् - लुमता लुप्तेऽपि क्वचित्प्रत्ययलक्षणं भवतीति । तेन स्वमोर्नपुंसकात् इति नित्ये लुकि कृतेति तिसृभावः । प्रियतिसृणी इति । रादेशात्पूर्वविप्रतिषेधेन नुमिति क्वचित्पठ।ल्ते । नद्यःतश्चेति कब्न भवतीति । समास्यमानदशायामृकारान्तस्य तत्र ग्रहणमिति भावः । कबभावे हेतुः - विभक्त्याश्रयत्वादित्यादि । एवं तावत् स्त्रियाम् इत्यनेन त्रिचतुरोर्विशेषणादव्याप्तिपरिहारो दर्शितः । अतिव्याप्तिरपि परिहृतेत्याह - यदा चेति । तिसृकेति । स्वार्थे कन्प्रत्ययः अल्पत्वे, कुत्सितत्वे, संज्ञायां वा । तत्र विभक्तेर्लुकि कृते तत्र विधीयमानस्तिसृबावो न स्यादिति वचनम् । तत्र स्वार्थिकप्रत्ययान्तत्वाद्वहुवचनान्तस्तिसृकाशब्दः संज्ञेत्येके । ग्रामस्य कस्यचिदेषा संज्ञा रूढिरिति नास्ति बहुवचनप्रसङ्ग इत्यन्ये । चतसरीति । यथा प्रियतिस्नावित्यत्र सवनामस्थानलत्रणं गुणं बाधित्वा रादेशो भवति, तथा ङवपि प्राप्नोति तथा चोतरसूत्रे प्रियतिस्नीति ङवपि रादेशमुदाहरिष्यति, पूर्वपिप्रतिषेधं च वक्ष्यति । अत्राहुः - अस्मादेव निर्देशादर्थप्रधानयोरेवादेशः । इह तु स्वरूपप्रधानत्वात्त्दभावे गुण इति । चतस्न इति । अत्र स्थानिवद्भावात् चतुरः शसि इत्यन्तोदातत्वे सति उदातयणो हल्पूर्वात् इति शस उदातत्वप्रसङ्गः, स निपातनस्वरेण बाध्यते । यथैव तर्हि निपातनस्वरः शसिस्वरं बाधते, तथा षट्त्रिचतुर्भ्यो हलादिः इत्येतं एविभक्तिस्वरमपि बाधेत तत्राह - चतसृणामित्यत्र त्विति । तत्र कारणमाह - हलादिग्रहणसामर्थ्यादिति । तत्र हलादिग्रहणस्य चतस्नः पश्येत्येतदेव व्यावर्त्यम्, नान्यत्किञ्चित् । एतच्च तत्रैवोपपादितम् । यदि च निपातनस्वरो विभक्तिस्वरस्यापि बाधकः स्यात्, तदान्तरेणापि हल्ग्रहणं विभक्तेः स्वरो न भविष्यति, किं हलादिग्रहणेन तत्क्रियमाणं ज्ञापयति - निपातनस्वरं विभक्तिस्वरो बाधते इति । अन्ये त्वाहुः हलादि - ग्रहणादेव चतस्नः पश्येत्यत्र चतुरः शसि इत्यस्याप्रवृत्तिरवसीयते । यदि स्यात्, ततः उदातयणओ हल्पूर्वात् इति स्यादेव विभक्तेरुदातत्वमिति तव्द्यावृतये हलादिग्रहणमनर्थकं स्यात् । तस्मादाद्यौदातनिपातनमेव न कर्तव्यमिति । तत्राद्यौदातस्य चतुश्शब्दस्यानन्तर्यत आद्यौदात एव चतस्नदेशे सति चतसृणामित्यत्र षट्त्रिचतुर्भ्यो हलादिः इति विभक्तेरुदातत्वं भवति ॥ Nyaas ----- `त्रयः` इति। `जसि च` (7.3.109) इति गुणः। `चत्वारः` इति। **चतुरनडुहोरामुदात्तः** (7.1.98) इत्याम्। `त्रीणि` इति। **जश्शसोः शिः** (7.1.20) इति शिभावः, **नपुंसकस्य झलचः** (7.1.72) नुम्, **नोपधायाः** (6.4.7) , `सरवनामस्थाने चासम्बुद्धौ` (6.4.8) इति दीर्घः।`स्त्रियामिति चैतत्? त्रिचतुरोर्विशेषणम्` इति। तयोरेव श्रुतत्वात्। `नाङ्गस्य` इति। एवकारस्य व्यवच्छेद्यं दर्शयति - `तेन` इति। विशेषणविशेष्यभावेन। यदि हि स्त्रियामित्यनेनाङ्गमेव विशेष्यते,[`विशेष्येत` - मुद्रितपाठः] ततो यदा त्रिचतुशब्दौ पुंसि नपुंसके वा वर्तेते, अङ्गं [`अङ्गे` - मुद्रितपाठः] तु स्त्रियाम्, तदाप्येतावादेशौ स्याताम्। `त्रिचतुरोः स्त्रियाम्` इत्यनेन विशेष्यमाणयोर्न भवतः। `प्रियत्रिः` इत्यादि। स्त्रिया अन्यपदार्थत्वादङ्गं स्त्रियां वर्तते, त्रिचतुःशब्दौ लिङ्गान्तरे। यदा त्वङ्गं पुंसि नपुंसके वा वर्तते, त्रिचतुःशब्दौ तु स्त्रियाम्, तदा भवत एव। प्रियास्तिरुआओ बाह्रण्योऽस्येति प्रियतिसा, प्रियतिरुआऔ, प्रियतिस्नः। प्रियतिसृ ब्राआहृणकुलम्, प्रियतिसृणो, प्रियतिसृणि। प्रियचतसृ ब्राआहृणकुलम्, प्रियचतसृणी, प्रियचतसृणि। `तिसृभावे` इत्यादि। त्रिशब्दात्? संज्ञायां कन्` (5.3.87) इति कनि कृते विभक्त्यभावान्न प्राप्नोतीतीदमारभ्यते। उपसंख्यानशब्दस्य प्रतिपादनमर्थः। तत्रेदं प्रतपादनम् - पूर्वसूत्रादिह चकारोऽनवर्तते, स चानुक्तसमुच्चयार्थः। तेन संज्ञायां कन्यपि भविष्यति। `तिसृका` इति। ग्रामस्यैषा संज्ञा। `चतसर्याद्युदात्तत्वनिपातनम्` इति। चतरुआः पश्येत्यत्र **चतुरः शसि** (6.1.167) इत्यन्तोदात्तत्वं प्राप्नोति, आद्युदात्तञ्चेष्यते, तदर्थमाद्युदात्तत्वनिपातनं कर्तव्यम्। निपातनस्वरेण बाधितत्वादन्तोदात्तत्वं मा भूदित्येवमर्थम्। यथैवं तर्हि निपातनस्वरः शसिस्वरं बाधते, तथा **षट्त्रिचतुर्भ्यो हलादिः** (6.1.179) इत्यमेन यदविभक्तेराद्युदात्तत्वं विधीयते तदपि बाधेत, ततश्चतसृणामित्यत्राम उदात्तत्वं न स्यत्? इत्यत आह - `चतसृणामित्यत्र तु` इत्यादि। `हलादिग्रहणसामर्थ्यात्` इति। तत्रैवायं हेतुः। हलादिग्रहणं हि तत्राजादिनिवृत्त्यर्थ क्रियते। चतुःशब्दश्चायं हुवचनविषयः। सर्वाणि बहुवचानि प्रथमाद्वितीयाषष्ठीबहुवचनेभ्योऽन्यानि हलादीनि। तत्रामो नुमचिरतृज्वद्भावेभ्यो पूर्वविप्रतिषेधेन नुटि कृते भवितव्यमाद्युदात्तत्वेन; हलादितत्वात्। जसस्तु **अञ्चेश्छन्दस्यसर्वनामस्थानम्** (6.1.170) इत्यतोऽसर्वनामस्थानग्रहणस्यानुवर्तमानत्वादाद्युदात्तत्वं [`ग्रहणानुवर्तमानत्वात्` - मुद्रितः पाठः] न भवति। तस्माच्छसो मा भूदित्येवमर्थं तत्र हलादिग्रहणं कृतम्। यदि च निपातनस्वरो न भविष्यति। तस्मान्मा भूद्धलादिग्रहणस्य व#ऐयथ्र्यम्। इह हलादिग्रहमसमथ्र्याद्विभक्तिस्वरेण निपाततस्वरो बाध्यत इति, तेन चतसृणामित्यत्रान्तोदात्तत्वं भवति॥ Prakriyasarvasvam ----------------- स्त्र्यर्थयोस्त्रिचतुरोः सुप्येतौ स्तः । ‘ऋतो ङि—’ (७-४-११०) इति गुणे प्राप्ते । Sarala ------ (स्त्रीलिङ्गयोरेतयोरेतावादेशौ स्तो विभक्तौ) । **त्रिचतुरोः** - षष्ठ्यन्तं, **स्त्रियां** - सप्तम्यन्तं, **तिसृचतसृ** - लुप्तप्रथमान्तम् ॥ Sudha ----- **त्रिचतुरोरिति ।** **अष्टन आ विभक्तौ**(7.2.84) इत्यतो विभक्तावित्यनुवर्तते, तदाह - **विभक्त्ताविति ।**