72087: द्वितीयायां च ==================== **Padacheda:** द्वितीयायाम् | S | 7 | 1 | च | S | 0 | 0 | Sutrartha --------- **** Vasu English Summary -------------------- आ is substituted for the final of युष्मद् and अस्मद् before the case-ending of the Accusative -2nd case. Vasu English Translation ------------------------ आ is substituted for the final of युष्मद् and अस्मद् before the case-ending of the Accusative -2nd case. As त्वाम्, माम्, युवाम्, आवाम्, युष्मान् and अस्मान् ॥ This rule applies to endings which are even substitutes, otherwise the last rule would have been sufficient. See (7.2.28), (7.2.29), and (7.2.92) and (7.2.97). Kashika ------- द्वितीयायां च परतो युष्मदस्मदोराकारादेशा भवति। त्वाम्। माम्। युवाम्। आवाम्। युष्मान्। अस्मान्। आदेशार्थं वचनम्॥ Siddhanta Kaumudi ----------------- युष्मदस्मदोराकारः स्यात् । त्वाम् । माम् । युवाम् । आवाम् ॥ Laghu Siddhanta Kaumudi ----------------------- अनयोरात्स्यात्। त्वाम्। माम्॥ Balamanorama ------------ **द्वितीयायां च** - त्व अद् अम्, म अद् अम् इति स्थिते- । द्वितीयायां च । शेषपूरणेन सूत्रं व्याचष्टे — युष्मदस्मदोरिति ।युष्मदस्मदोरनादेशे॑ इत्यतस्तदनुवृत्तेरिति भावः । आकार इति । 'अष्टन आ विभक्तौ' इत्यतस्तदनुवृत्तेरिति भावः । तथाच द्वितीयाविभक्तौ परतो युष्मदस्मदोराकारः स्यादिति फलति ।अलोऽन्त्यस्ये॑ति दकारस्य भवति । त्व अ आ अम्, म अ आ अमिति स्थिते पररूपे, सवर्णदीर्घे, अमि पूर्वरूपे च परिनिष्ठितं रूपमाह — त्वां मामिति । युवाम् । आवामिति । पूर्ववत् ।द्वितीयायां चे॑त्यात्वमिति विशेषः । प्रथमायाश्चे॑त्यस्याऽत्राप्रवृत्तेः । Padamanjari ----------- उदाहरणेषु णेó प्रथमयोरम् इति विभक्तेरम्भावः ॥ Nyaas ----- `त्वाम्, माम्` इति। **त्वमावेकवचने** (7.2.97) इति त्वमादेशौ। `युवाम्, आवाम्` इति। `यवावौ1 द्विवचने` (7.2.92) इति युवावादेशौ। सर्वत्र `ङे प्रथमपोरम्` (7.1.28) इत्यम्भावे विभक्तेः कृतोऽमि पूर्ववत्वम्? (6.1.103) ॥ Prakriyasarvasvam ----------------- अनयोर्द्वितीयायां परतः आत् स्यात् । शेषमौवत् । त्वाम् । माम् । युवाम् । आवाम् ॥ Sudha ----- द्वितीयायाञ्चेति । अत्र **युष्मदस्मदोरनादेशे**(7.2.86) इत्यतो युष्मदस्मदोः, **अष्टन आ विभक्तौ**(7.2.84) इत्यतो 'विभक्तौ' इति 'आ' इति चानुवर्तते । तथाच - द्वितीयाविभक्तौ परतः युष्मदस्मदोराकारः स्यादिति च फलति । **अलोऽन्त्यस्य**(1.1.52) इति अन्त्यस्य भवति । त्वाम्, माम् । युष्मद् + अम् अस्मद् + अम् इत्यत्र **त्वमावेकवचने**(7.2.97) इति युष्मदो मपर्यन्तस्य त्वादेशे अस्मदो मपर्यन्तस्य च मादेशे विहिते 'त्व अद् अम्' 'म अद् अम्' इति जाते **अतो गुणे**(6.1.97) इति पररूपत्वे **द्वितीयायां च**(7.2.87) इत्यन्त्यस्य दस्यात्वे **अकः सवर्णे दीर्घः**(6.1.101) इति सवर्णदीर्घत्वे **अमि पूर्वः**(6.1.107) इति पूर्वरूपैकादेशे च कृते 'त्वाम्' इति, 'माम्' इति ।