72081: आतो ङितः =============== **Padacheda:** आतः | S | 6 | 1 | ङितः | S | 6 | 1 | Sutrartha --------- **** Vasu English Summary -------------------- For the आ being a portion of a सार्वधातुक personal-ending which is ङित् (i.e. आते , आथे and आताम् and आथाम्), coming after a verbal अङ्ग (stem) ending in a short अ , there is substituted इय् । Vasu English Translation ------------------------ For the आ being a portion of a सार्वधातुक personal-ending which is ङित् (i.e. आते , आथे and आताम् and आथाम्), coming after a verbal अङ्ग (stem) ending in a short अ , there is substituted इय् । Thus पचेते, पचेथे, पचेताम्, पचेथाम्, यजेते, यजेथे, यजेथाम्, दास्यथे, दास्येते ॥ The य् of इय् drops by (6.1.66). Why do we say "the long आ"? Observe पचन्ति, यजन्ति, पचन्ते, यजन्ते ॥ Why do we say 'a ङित् affix'? Observe पचावहै, पचामहै (1.2.4). Why do we say 'ending in short अ'? Observe चिन्वति, सुन्वति ॥ Why 'short'? Observe मिमाते, मिमाथे ॥ All *sarvadhatuka* affixes which have not an indicatory प् are ङित् by (1.2.4) Now सार्वधातुकमपित् (1.2.4) is a *sutra* in which the word ङित् is understood from (1.2.1). But the grammatical construction of the word ङित् in the two *sutras* (I.2. I) and (1.2.4) is not the same. In the first *sutra*, it means ङिति इव - ङित्वत्, i. e. the roots गा कुट् &c are treated in the same way as they would have been treated, had a ङित् affix followed. But in the second *sutra* (1.2.4), the word ङिद्वत् is equal to ङित इव "like of ङित्" ॥ The *sutra* (1.2.1). is so explained in order to evolve the form उच्चुकुटिषति ॥ For when the सन् is added to कुट्, the root कुट् is treated as if the सन् was a ङित् affix, and so there is no *guna*. But if सन् itself had become ङित् then the Desiderative root चुकुटिष्, being a ङित् root would require *atmanepada* affixes by अनुदात्तङित आत्मनेपदम् (1.3. 12). In the case, however, of *sarvadhatuka*-*apit*-affixes, the affixes themselves become like ङित्, and are treated as ङित् affixes, not only with regard to the stem preceding them, but with regard to their own selves also, as we see in the present *sutra*. Kashika ------- आकारस्य ङिदवयवस्य अकारान्ताद् अङ्गादुत्तरस्य सार्वधातुकस्येय् इत्ययमादेशो भवति। पचेते। पचेथे। पचेताम्। पचेथाम्। यजेते। यजेथे। यजेताम्। यजेथाम्। **सार्वधातुकमपित्** (१.२.४) इत्यत्र न ङितीव ङिद्वद् इत्येवमङ्गीक्रियते, अपि तु ङित इव ङिद्वदिति। पूर्वसूत्र एव उच्चुकुटिषतीति प्रसिद्धये तथाङ्गीकरणम्। यदि गाङ्कुटादिसूत्रे (१.२.१) ङित इव ङिद्वद्भवतीत्येवमङ्गीक्रियते, तदा **अनुदात्तङित आत्मनेपदम्** (१.३.१२) इत्यात्मनेपदं प्राप्नोतीति। आत इति किम्? पचन्ति। यजन्ति। पचन्ते। यजन्ते। ङित इति किम्? पचावहै, पचामहै। अत इत्येव — चिन्वाते। सुन्वाते। तपरकरणं किम्? मिमाते। मिमाथे॥ Siddhanta Kaumudi ----------------- अतः परस्य ङितामाकारस्य इय् स्यात् । एधेते । एधन्ते ॥ Laghu Siddhanta Kaumudi ----------------------- अतः परस्य ङितामाकारस्य इय् स्यात्। एधेते। एधन्ते॥ Balamanorama ------------ **आतो ङितः** - आतो ङितः । ङित इत्यवयवषष्ठी । 'अतो येय' इत्यस्मादत इति पञ्चम्यन्तम्, इय इति प्रथमान्तं चानुवर्तते । यकारादकार उच्चारणार्थः । तदाह — अतः परस्येति । 'ङिता॑मित्यनन्तरम्'अवयवस्ये॑ति शेषः । एधेते इति । एध — आतो इति स्थिते, आकारस्य इञ्, '#आद्गुणः' अन्तादेशे, पररूपे, टेरेत्वमिति भावः । अथ लटो मध्यमपुरुषैकवचने थासादेसे कृतेटित आत्मनेपदाना॑मित्येत्वे प्राप्ते — Padamanjari ----------- एआकारमात्रस्य ङितोऽसम्भवाद् आतः ङ्तिः इति व्यधिकरणे षष्ठयौ । ङितोऽवियवस्यात् इत्यर्थः । उदाहरणेषु स्वरितत्वादात्मनेपदम् । ननु गाङ्कुटादिसूत्रे परत्र परशब्दप्रयोगादध्यादह्रियमाणो वतिः सप्तमीसमर्थादध्याहर्तव्यः - हितीव दिति, अन्यथा चुकुटिषंतीत्यत्र सनो ङित्वादात्मिनेपदप्रसङ्गादित्युक्तम् । सार्वधातुकमपित् इत्यत्रापि तदेवानुवर्तते, ततश्च पूर्वस्य कार्य प्रत्येव सार्वधातुकस्य ङ्त्विम्, न स्वकार्य प्रतीत्ययुक्तान्युदाहरणानि लङ्लृङेस्तु युक्तमुदाहर्तुम् - अपचेताम्, अकरिष्येतामिति अस्ति ह्यत्रापि स्थानिवद्भावेन ङ्त्विमत आह - सार्वधातुकमपिदित्यत्रेत्यादि । ममाते, मिमाथे इति । असति तपरकरणे श्नाभ्यस्तयोरातः इति लोपात्परत्वादयमेव विधिः स्यात् ॥ Nyaas ----- `आतः`, `ङितः` इति व्यधिकरणे षष्ठ्यौ। आत इयादेशापेक्षया स्थाने षष्ठीति। ङित इति आकारापेक्षयावयवषष्ठी` ङितो ह्रकारमात्रस्यासम्भवात्। ङित इत्येषोऽवचवयोगे षष्ठो विज्ञायते - ङिदवयस्येति ङकार इद्यस्य स ङित्, तस्यावयवो ङिदवयवः। `पचेते` पचेथे` इति। लट्, स्वरितेत्त्वादात्मनेपदम्, आतामथाम्, `सार्वधातुकमपित्` (1।2। 4) इति ङित्त्वम्। `पचोताम्, पचेथाम्` इति। लोट्, टेरेत्त्वे (3.4.79) कृते `आमेतः` (3.4.90) इत्याम्। ननु च ङिदवयवोऽत्राकारो न भवति, यस्माद्गाङकुटादिसूत्रे (1.2.1) ङितीव ङिद्वदित्येवमर्वोऽङ्गौक्रियते, तथा **सार्वधातुकमपित्** (1.2.4) इत्यत्राप्ययमर्थः, तथा ह्रस्मिन्नपि योगे तदेव ङिद्ग्रहणमनुवर्तते, तस्मश्चार्थेऽङ्गीक्रियमाणे ङिति यत्कार्यं तदपि हि सार्वधातुके परतः पूर्वस्य लक्ष्यते, न तु तस्यैवापित्सार्वधातुकस्यङित्वम्? इत्याह - `सार्वधातुकमपिदित्यत्र` इत्यादि। `पूर्वसूत्र एव` इति। गाङ्कुटादिसूत्रे (1.2.1) यद्येवमङ्गीक्रियते - गाङ्कुटादिभ्यः परो योऽञ्णित्प्रत्ययोऽसौ ङिदवद्भवतीति, तदा कुटादिभ्यः परस्य सनो ङित्त्वं भवति, ङित्त्वे सति `अनुदात्तङितः` (1.3.12) इत्यादिनाऽऽत्मनेदपं स्यात्, ततश्चोच्चुकुटिपतीति न सिध्येत्। तस्मादेतत्सिध्यर्थं ङितीय ङिद्वदित्यङ्गीक्रियते। `सार्वधातुकमपित्? (1.2.4) इत्यत्र तु तत्? सार्वधातुकं ङिद्भवतीत्येषोऽर्थोऽङ्गीक्रियते। तस्माद्युक्तमेवाकारस्य ङिदवयवत्वम्। `पचन्ते, यजन्ते` इति। `भवत्यत्र [`भवत्यङिदवयवो` - मुद्रितपाठः] ङिदवयवोऽक्तादेशस्याकारः, तथाप्यात इति वचनात्र भवति। `पचावहै, पचामहै` इति। लोट्? वहिमहिङौ। आडुत्तमस्य पिच्च` (3.4.92) इत्याट्, उत्तमश्च पिद्भवतीति। अत्र पित्त्वान्ङित्त्वं न भवतीति आतो ङिददयवाकारो न भवति। `मिमाते, मिमाथे` इति। `माङ माने` [`माने शब्दे च` - धातुपाठः-] (धातुपाठः-1088), जुहोत्यादित्वाच्छपः श्लुः। `श्लौ` (6.1.10) इति द्विर्वचनम्, `भृञायित्` (7.4.76) इत्यभ्यासस्येत्त्वम्, `श्नाभ्यस्तयोरातः` (6.4.112) इत्याकारलोपः॥ Prakriyasarvasvam ----------------- अतः परस्य ङितामात इय् स्यात् । भव इय् ते । लोपो व्योः'— इति यलोपः । 'आद् गुणः' । भवेते । झस्यान्तादेशः । एत्वम् । भवन्ते । मध्यमपुरुषे थास् ।