72080: अतो येयः =============== **Padacheda:** अतः | S | 5 | 1 | या | S | | | 6 इयः | S | 1 | 1 | Sutrartha --------- **अवर्णात् परस्य सार्वधातुक-लिङ्लकारस्य प्रत्ययस्य 'या' इत्यस्य इय्-आदेशः भवति ।** सार्वधातुक-लिङ्लकारस्य प्रत्यये **यासुट् परस्मैपदेषूदात्तो ङिच्च** (3.4.103) इत्यनेन यासुट्-आगमः भवति । अस्य आगमस्य 'या' इत्यस्य अनेन सूत्रेण इय्-आदेशः विधीयते । अयमादेशः तदा एव भवति यदा अयम् 'या' इति अवर्णात् परः आगच्छति । यथा, पठ्-धातोः विधिलिङ्लकारस्य प्रथमपुरुष-एकवचनस्य रूपसिद्धिः इयम् - पठ् + लिङ् [**विधिनिमन्त्रणामन्त्रणाधीष्टसंप्रश्नप्रार्थनेषु लिङ्** (3.3.161) इति लिङ्लकारः] → पठ् + तिप् [**तिप्तस्..** (3.4.78) इत्यनेन तिप्-प्रत्ययः] → पठ् + शप् + ति [**कर्तरि शप्** (3.1.68) इति औत्सर्गिकम् विकरणम् शप्] → पठ् + अ + यासुट् + ति [**यासुट् परस्मैपदेषु उदात्तः ङिच्च** (3.4.103) इति यासुट्-आगमः] → पठ् + अ + यास् + सुट् + ति [**सुट् तिथोः** (3.4.107) इति सुट्-आगमः] → पठ् + अ + या + ति [**लिङःसलोपोऽनन्त्यस्य** (7.2.79) इति द्वयोः सकारयोः लोपः] → पठ् + अ + इय् + ति [**अतो येयः** (7.2.80) इति अकारात् परस्य 'या'-इत्यस्य इय्-आदेशः] → पठ् + अ + इय् + त् [**इतश्च** (3.4.100) इति इकारलोपः] → पठ् + अ + इ + त् [**लोपो व्योर्वलि** (6.1.66) इति यकारलोपः] → पठ् + ए + त् [**आद्गुणः** (6.1.87) इति गुणः] → पठेत् ज्ञातव्यम् - 1. अस्मिन् सूत्रे 'इयः' इति उक्तमस्ति, परन्तु अत्र यकारात् परः विद्यमानः अकारः केवलमुच्चारणार्थः एव अस्ति, अतः 'इय्' इत्येव आदेशरूपेण आगच्छति । 2. 'पठ् + अ + या + ति' अस्यामवस्थायाम् **अतो दीर्घो यञि** (7.3.101) इत्यस्य अपि प्रसक्तिः अस्ति । परन्तु वर्तमानसूत्रमपवादत्वात् या-इत्यस्य इय्-आदेशं कारयति । (अत्र नित्यं**अतो दीर्घो यञि** (7.3.101) इत्यस्यैव प्रयोगं कुर्मश्चेत् वर्तमानसूत्रस्य अवकाशः एव विनश्येत् । अतः अत्र वर्तमानसूत्रम् **अतो दीर्घो यञि** (7.3.101) इत्यस्य अपवादरूपेण कार्यं करोति ।) Sutrartha (English) ------------------- 'या' present in the प्रत्यय of सार्वधातुक-लिङ्लकार is converted to एय् when it follows an अकार. Vasu English Summary -------------------- After a Present अङ्ग (stem) ending in a short अ , इय् is substituted for the सार्वधातुक या (i.e. for the या of the augment यास् of the लिङ् (Potential)). Vasu English Translation ------------------------ After a Present अङ्ग (stem) ending in a short अ , इय् is substituted for the सार्वधातुक या (i.e. for the या of the augment यास् of the लिङ् (Potential)). Thus पचेत्, पचेताम् and पचेयुः ॥ The य् of इय् is elided before affixes beginning with a consonant by (6.1.66). In the case of पचेयुः, the *pararupa* of (6.1.96) is prevented. Why 'ending in a short अ'? Observe चिनुयात्, सुनुयात् ॥ Why 'short'? Observe यायात् ॥ Why *sarvadhatuka*? Observe चिकीर्ष्यात् ॥ The objector may say, the form चिकीर्ष्यात् will be so by the elision of अ under (6.4.48), and so there is no necessity of reading the *anuvritti* of *sarvadhatuka* in this *sutra*; for when अ is elided by अतोलोपः (6.4.48), in the case of *ardhadhatuka* या the present rule cannot apply, as there is no base left which ends in अ ॥ To this we reply, this is not a good reason: for then in the case of पचेत् and यजेत् also, the rule अतो दीर्घो यञि (7.3.101) would apply, and the अ of पच would require to be lengthened. But that is not so. The fact is that the present *sutra* debars rule (7.3.101). Therefore, as this इय् substitute debars the lengthening of (7.3.101), so it would debar the *lopa* of (6.4.48). Therefore, if the *anuvritti* of *sarvadhatuka* be not read into this *sutra*, the इय् substitute would apply to *ardhadhatuka* also, and the *lopa*-elision (6.4.48) would not help, as that would be superseded by this special rule. Therefore the *anuvritti* of "*sarvadhatuka*" should be read into this *sutra*. The above is stated on general grounds. But if the maxim मध्येऽपवादाः पूर्वान् विधीन् बाधन्ते नोत्तरान् (*Apavadas* that are surrounded by the rules which teach operations that have to be superseded by the *apavada* operations, supersede only those rules that precede, not those that follow them) be applied here, then the present *sutra* would supersede only the preceding *sutra* (6.4.48) and not the following *sutra* (7.3.101) for which would not be superseded by the present *sutra*. In this view also, the *lopa* being superseded at all events, the *anuvritti* of '*Sarvadhatuka*' must be read into this *sutra*. In the दीर्घ rule (7.3.101), the word '*sarvadhatuka*' is understood from (7.3.95). But according to some, the word तिङि of (7.3.88) is also understood there, so that they would lengthen the अ, before a *sarvadhatuka* personal termination (तिङ्) only, and not before every *sarvadhatuka* affix in general. According to this view, the present *sutra* will debar only the *dirgha* rule (7.3.101) and not the *lopa* rule (6.4.48), on the maxim येन न प्राप्ति &c. The word येयः in the *sutra* is formed by या + इयः; and या is exhibited without any case-termination. Others say, the word is यः the sixth case of या formed on the analogy of विश्वपः by the elision of आ (6.4.140). Then यः + इयः = य + इयः (8.3.19) after this elision, there ordinarily would take place no *sandhi*; as this elision is considered *asiddha* (8.2.1) for the purposes of (6.1.87). Contrary to this general rule, however, the *sandhi* takes place here and we have येयः by (6.1.87). The अ in इयः is for the sake of pronunciation only. The real substitute is इय् ॥ Some read the *sutra* as अतो यासियः ॥ So that the *sthani* is यास् and not या, and यासियः is a genitive compound. Bhashya ------- अतोयेयः(2) किं सार्वधातुकग्रहणमनुवर्तत उताहो न ? ॥ किं चार्थोऽनुवृत्त्या ? ॥ बाढमर्थः(3) ॥ यद्यकारात्परो याशब्द(4) - आर्धधातुकमस्ति ॥ ननु चायमस्ति चिकीर्ष्यात् जिहीष्यात्(1) ॥ लोपोऽत्र बाधको भविष्यति ॥ किं तर्ह्यस्मिन्योग उदाहरणम् ? ॥ पचेत्(2) यजेत् ॥ अत्राप्यतो दीर्घो यञ्ञीति दीर्घत्वं प्राप्नोति । स यथैवेयादेशो दीर्घत्वं बाधते एवं लोपमपि बाधेत । तस्मात्सार्वधातुकग्रहणमनुर्वत्यम् ॥ ( अतो येयः ) ॥ Kashika ------- अकारान्तादङ्गादुत्तरस्य या इत्येतस्य सार्वधातुकस्येय् इत्ययमादेशो भवति। पचेत्, पचेताम्, पचेयुरित्यत्र **उस्यपदान्तात्** (६.१.९६) इति पररूपं बाधितम्। अत इति किम्? चिनुयात्। सुनुयात्। तपरकरणं किम्? यायात्। सार्वधातुक इत्येव — चिकीर्ष्यात्। ननु च अतो लोपेन (६.४.४८) अत्र भवितव्यम्? पचेदित्यत्रापि हि तर्हि **अतो दीर्घो यञि** (७.३.१०१) इति दीर्घत्वेन भवितव्यम्। तदनेनावश्यं विध्यन्तरं बाधितव्यम्, स यथैव दीर्घस्य बाधक एवमतो लोपस्यापि बाधकः स्यात्। स्यादेतदेवं यदि दीर्घः सार्वधातुके विधीयते। अथ तु तिङि विधीयते, तदा येन नाप्राप्तिन्यायेन दीर्घस्यैव बाधकः स्याद् न पुनरतो लोपस्य। येय इत्यविभक्तिको निर्देशः। य इति वा षष्ठीनिर्देशे यलोपस्यासिद्धत्वमनाश्रित्य **आद् गुणः** (६.१.८७) कृतः, सौत्रत्वाद् निर्देशस्येति। केचिद् अत्र अतो यासिय इति सूत्रं पठन्ति। तेषां सकारान्तः स्थानी, षष्ठीसमासश्च॥ Siddhanta Kaumudi ----------------- अतः परस्य सार्वधातुकावयवस्य या इत्यस्य इय् स्यात् । गुणः । यलोपः । भवेत् । सार्वधातुके किम् । चिकीर्ष्यात् । मध्येऽपवादन्यायेन हि अतो लोप एव बाध्येत । भवेदित्यादौ तु परत्वाद्दीर्घः स्यात् । भवेताम् ॥ Laghu Siddhanta Kaumudi ----------------------- अतः परस्य सार्वधातुकावयवस्य यास् इत्यस्य इय्। गुणः॥ Balamanorama ------------ **अतो येयः** - तथा च भव या त् इति स्थिते — अतो येयः । 'या' इति लुप्तषष्ठीकं पदम् । 'अत इति' पञ्चमी । परस्येत्यध्याहार्यम् । 'इय' इत्यत्राऽकार उच्चारणार्थः । 'रुदादिभ्य' इत्यस्मात् 'सार्वधातुक' इत्यनुवृत्तमवयवषष्ठआ विपरिणम्यते । तदाह — अतः परस्येत्यादिना । भव इय् त् इति स्थितम् । गुण इति ।आद्गुण इत्येनेने॑ति शेषः । भवेय् त् इति स्थितम् । यलोप इति ।लोपो व्योरित्यनेने॑ति शेषः । भवेदिति.यलोपात्प्राग्घल्ङ्यादिलोपः संयोगान्तलोपश्च न शङ्क्यः, अन्तरङ्गत्वेन यलोपस्य पूर्वं प्रवृत्तेः, संयोगान्तलोपस्य त्रैपादिकत्वेनाऽसिद्धत्वाच्चेति भावः । सार्वधातुके किमिति । 'रुदादिभ्य' इत्यतः सार्वधातुक इत्यनुवृत्तिलभ्यं । सार्वधातुकावयवस्येति किमर्थमित्यर्थः । भूयादित्यादावाशीर्लिङि आर्धधातुकेऽतः परत्वाऽभावादेव इयादेशाऽभावसिद्धेः सार्वधातुकग्रहणानुवृत्तिव्र्यर्थेत्याशयः । चिकीष्र्यादिति । कृञ्धातोः सन्नन्तादाशीर्लिङि तिबादौ चिकीर्ष — यादिति स्थिते 'अतो लोप' इत्यकारलोपे चिकीष्र्यादिति रूपम् । तत्र 'अतो येय' इत्यत्र सार्वधातुकग्रहणाननुवृत्तौ चिकीर्ष — यादिति स्थिते 'अतो येय' इति इयादेशे आद्गुणे यलोपे चिकीर्षेदिति स्यात् । सार्वधातुकग्रहणानुवृत्तो तु न दोषः, आशीर्लिङादेशस्य तिङो लिङाशिषीत्यार्धधातुकताया वक्ष्यमाणत्वादिति भावः । ननु आशिषि लिङि चिकीर्ष -यादिति स्थिते नित्यत्वादतो लोप इत्यकारलोपे सति अतः परत्वाऽभावादेव 'आतो येय' इत्यस्याऽप्रवृत्तेस्तत्र सार्वधातुकग्रहणानुवृत्तिव्र्यर्थैवेत्यत आह — मध्येऽपवादन्यायेन ह्रतो लोप एव बाध्येनेति । षष्ठस्य चतुर्थपादे अतो लोप इति सूत्रं, सप्तमस्य द्वितीयपादे अतो येय इति सूत्रं, सप्तमस्य चतुर्थपादे तु अतो दीर्घो यञीति सूत्रमिति स्थितिः । तत्र आशीर्लिङ आर्धधातुके चिकीर्ष — यादित्यत्राऽल्लोपप्राप्त्या, विधिलिङि तु भव यादित्यत्र अतो दीर्घप्राप्त्या च इयादेशस्य निरवकाशत्वेन बाध्यसामान्यचिन्तामाश्रित्यापवादतया तेन अन्यतरस्मिन् बाध्ये सति,मद्येऽपवादाः पूर्वान् विधीन् बाधन्ते नोत्तरा॑निति न्यायेनातो लोप एव बाधमर्हति न तु अतो दीर्घ इत्यर्थः । एवं चार्धधातुके भव — यादिति स्थिते इयादेशं परत्वाद्बाधित्वाअतो दीर्घो यञी॑ति यञादौ सार्वधातुके परे अतो विधीयमानो दीर्घः स्यात् । ततश्च अतः परत्वाऽभावादियादेशो न स्यादित्यव्याप्तिः स्यादित्यर्थः । न च इयादेशस्य निरवकाशत्वाद्दीर्घबाधकत्वं शङ्क्यम् । चिकीष्र्यादित्यार्धधातुके दीर्घप्राप्त्ययोगे इयादेशस्य सावकाशत्वादिति भावः । भवेतामिति । तसस्तामादेशे शपि गुणे अवादेशे यासुडागमे सुटि सकारद्वयलोपे या इत्यस्य इयादेशे आद्गुणे यलोपः । Tattvabodhini ------------- **अतो येयः** - मध्येऽपवादन्यायेनेति ।रुदादिभ्य॑ इति सूत्रात्सार्वधातुक इत्यननुवृत्तावयं न्यायः प्रवर्तत इति भावः । Padamanjari ----------- सार्वधातुके इति प्रकृतमर्थात् षष्ठ।ल्न्तं सम्पद्यते, तदाह - अकारान्तादङ्गादुतरस्य सार्वधातुकस्येति । अवयवसम्बन्धे चैषा षष्ठी, सार्वधातुकस्यावयवस्य याशब्दस्येत्यर्थः । इय् इत्ययमिति । सूत्रे त्वाकार उच्चारणार्थः । पचेदिति । इयादेशे कृते शवकारेण सहाद्गुणः, वलादिषु वलि लोपः । यकारस्य च श्रवणम् - पचेयुः, पचेयमित्यादौ । पचेयुरित्यत्रेत्यादि । पररूपस्यावकाशः चिनुयुः, सुनुयुः, इयादेशस्य तु पचेदित्यादि, पचेयुरित्यत्रोभयप्रसङ्गे परत्वादियादेशः । यदि पूर्वमेव पररूपं स्यात्, याशब्दाभावादियादेशो न स्यात् । एवमतो लोपस्यापि बाधकः स्यादिति । एतच्च मध्येऽपवादाः इति न्यायमनाश्रित्योक्तम् । तदाश्रयणे त्वतो लोपस्यैव बाधकः स्यात् । दीर्घस्तु परत्वात्स्यादेव । स्वादेतदेवमित्यादि । दीर्घविधौ तुरुस्तुशम्यम्ः सार्वधातुके इति प्रकृतम्, मूसुवोस्तिङ् ईति च । एयोय इत्यविभक्तिको निर्देश इति । येयः इत्यस्मिन्समुदाये या इत्युविभक्तिको निर्देश इत्यर्थः । य इति वेति । याशब्दात्षष्ठी, आतो धातोः इत्याकारलोपः । केचितु - अतो यास् इति सकारान्तानुकरणं पठन्ति ॥ Nyaas ----- सार्वधातुकं यत्? प्रकृतं तदर्थादिह विभक्तिविपरिणामेन षष्ठन्तं प्रतिपद्यते। अत एवाह - `अकारान्तादङ्गादुत्तरस्य सार्वधातुकस्य` इति। `पचेत` [`पठेत्` - इति प्राचीनमुद्रितः पाठः] इति। इयादेशे कृतेऽकारेण सह **आद्गुणः** (6.1.87) , **लोपो व्योर्वलि** (6.1.66) इति यकारलोपः। `चिनुयात्` इति। **स्वादिभ्यः श्नुः** (3.1.73) `यायात्` इति। अदादित्वाच्छपो लुक्। `चिकीष्र्यात्` इति। सनन्तादाशिषि लिङ्। `ननु चातो लोपेनात्र भवितव्यम्` इति। नार्थोऽनुवृत्तेन सार्वदातुकग्रहणेनेत्यभिप्रायः। `पचेदित्यत्रापि` इत्यादि। यद्यपि पचेदितोदमस्योदाहरणमभिमतम्, तत्रापि **अतो दीर्घो यञि** (7.3.101) इति दीर्घत्वेन भवितव्यमिति, ततश्च सर्वविषयस्य विध्यन्तरेणावष्टब्धत्वादनवकाशोऽयमियादेशः। तस्मादवश्यमनेन विध्यन्तरं बाधितव्यम्। एवञ्च यथा दीर्घस्यायं बाधकः, तथाऽतो लोपस्यापि स्यात्। तस्मात्? सार्वधातुकग्रहणमनुवर्तयितन्यमिति भावः। `स्यादेतदेवम्` इत्यादि। यदि च दीर्घत्वं `तुरुस्तुन्नम्यमः सार्वधातुके` (7.3.95) इत्यतः सार्वधातुकग्रहणमनुवत्त्यं विधीयते, ततश्च स्यादेतदेवं यदुक्तवानसि; इयादेशस्यानवकाशत्वात्। अथ **भूसुवोस्तिङि** (7.3.88) इति तिङ्ग्रहणमनुवर्त्त्य विधीयते, तदा तिङ्मात्रमभावि दीर्घत्वमिति लिङ्? विधीयमान इत्यादेशे नाप्राप्ते तस्मिन्नयमारभ्यते, ततश्च `येन नाप्राप्ति` (व्या।प।49) न्यायेन तस्यैव बाधको भवति, न त्वतो लोपस्य। इयोऽतो लोपे प्राप्ते चाप्राप्तेऽयमारभ्यते। आर्धधातुके हि प्राप्ते सार्वधातुके त्वप्राप्ते।अथ येय इति कोऽयं निर्द्देशः, अत्र हि `या` इत्येष यः स्थानी तत्र षष्ठआं कृतायामतो या अस्? इय इति स्थिते `आतो लोपः` (6.4.48) इति `आतः `धातोः` (6.4.140) इति योगविभागाद्वा आकारलोपे कृते `ससजुषोः` (8.2.66) इति षष्ठीसकारस्य रुत्वे कृते त्सय `भोभयोअघोअपूर्वस्य योऽशि` (8.3.17) इति यकारः। तस्यापि `लोपः शाकस्यस्य` (8.3.19) इति लोपे च `य इयः` इति निर्द्देशेन भवितव्यमिति, न तु यत इति। न ह्यत्राद्गुणो भवितुमुत्सहते; **पूर्वत्रासिद्धम्** (8.2.1) इति यलोपस्यासिद्धत्वात्? इत्यत आह - `येय इत्यविभक्तिकोऽयं निर्द्देशः` इति। येय इत्यस्मिन्? स्थान्यादेशसमुदयेन `या` इति। योऽयं निर्द्देशः सोऽविभक्तिकः; `सुपां सुलुक्` (7.1.39) इति विभक्तेर्लुप्तत्वात्। अङ्गीकृत्य च सविभक्तिकत्वं निर्देशस्य परीहारान्तरमाह - `यः` इति। `वा` इत्यादि। कथं पुन लोपस्यासिद्धत्वं शक्यमनाश्रयितुम्? इत्यत्राह - `सौत्रोऽयं निर्देशः` इति। इतिकरणो हेतौ। यस्मात्? `सर्वे विधयश्छन्दसि विकल्प्यन्ते` (पु।प।वु।56) इति `छन्दोवत्? सूत्राणि भवन्ति` (म।भा) इति, तस्मात्, सौत्रत्वादस्य निर्द्देशस्यासिद्धत्वमनाश्रित्य **आद्गुणः** (6.1.87) कृतः। इत्यादेशेऽकार उच्चारणार्थः॥ Prakriyasarvasvam ----------------- अतः परस्य याशब्दस्य सार्वधातुके इय् स्यात् । भव इय् त् । 'आद्गुणः । यलोपः । भवेत् । पदान्तत्वाज्जश्त्वं वा चर्त्वं च । भवेत् भवेद् :