72062: उपदेशेऽत्वतः =================== **Padacheda:** उपदेशे | S | 7 | 1 | अत्वतः | S | 5 | 1 | Sutrartha --------- **** Vasu English Summary -------------------- After a root which possesses a short अ as its root-vowel in the original enunciation (the धातुपाठ) and after which the Periphrastic Future तास् is always devoid of the augment इट् , थल् the personal-ending of the लिट् (Perfect Tense), like तास् does not get the augment इट् । Vasu English Translation ------------------------ After a root which possesses a short अ as its root-vowel in the original enunciation (the धातुपाठ) and after which the Periphrastic Future तास् is always devoid of the augment इट् , थल् the personal-ending of the लिट् (Perfect Tense), like तास् does not get the augment इट् । As Future पक्ता, Periphrastic पपक्थ, यष्टा, इयष्ट, शक्ता, शशक्थ ॥ Why do we say 'in the Original Enunciation'? Observe Future कर्ष्टा Periphrastic चकर्षिथ in which the अ of '*karsh*' is the result of *guna* substitution. Why do we say 'having an अ'? Observe Future भेत्ता Periphrastic बिभेविथ, here the root-vowel is इ ॥ Why do we say "short अ"? Observe Future राद्धा Periphrastic रराधिथ from राध् the root-vowel being long आ ॥ The word तास्वत् is understood here also. Therefore we have जिघृक्षति, जिग्रहिथ ॥ Here the root ग्रह is *anit* before सन् (7.2.12) and not before तास् so it will not be *anit* before थ ॥ The words नित्यम् अनिटः are also understood here. Therefore the rule does not apply to आनञ्जिथ (7.4.71), (7.4.72). For the root अञ्जू (VII.21) takes optionally इट् before तास् (7.2.44) as अञ्जिता and अङ्क्ता ॥ Bhashya ------- उदेशेऽत्वतः तासावत्वत्प्रतिषेधे घसेः प्रतिषेधप्रसङ्गोऽकारवत्त्वात् ॥ तासावत्वत्प्रतिषेधे घसेः प्रतिषेधः प्राप्नोति - जघसिथ ॥ किं कारणम्? ॥ अकारवत्त्वात्। सोऽपि ह्यकारवान् ॥ सिद्धं तु हलादिग्रहणात् ॥ सिद्धमेतत् ॥ कथम्? ॥ हलादिग्रहणात् । हलादिग्रहणं कर्तव्यम्। तच्चावश्यं कर्तव्यम् - अट्यशी प्रयोजयतः ॥ अट्यशी तावन्न प्रयोजयतः ॥ किं कारणम्? ॥ तासावनिट इत्युज्यते सेटौ चेमौ तासौ ॥ अञ्ञ्ज्वशू तर्हि प्रयोजयतः ॥ अञ्ञ्ज्वशू चापि न प्रयोजयतः ॥ किं कारणम्? ॥ तासौनित्याऽनिटःइत्युच्यते,विभाषितेटावेतौ ॥ अदिस्तर्हि प्रयोजयति। आदिथ ॥ क्रियमाणेऽपि वै हलादिग्रहणेऽत्र प्राप्नोति - जघसिथ। एषोऽपि हि हलादिः ॥ तस्य चाभावात्तासौ ॥ तासावनिट इत्युच्यते न च घसिस्तासावस्ति ॥ ननु च यस्तासौ नात्यनिडप्यसौ तासौ भवति ॥ नैवं विज्ञायते - यस्तासावनिडिति ॥ कथं तर्हि? ॥ यस्तासावस्त्यनिट् चेति ॥ किं वक्तव्यमेतत् ? ॥ न हि ॥ कथमनुच्यमानं गंस्यते ? ॥ सप्त्यम्यर्थे वतिः ॥ सप्तम्यर्थेऽपि वै वतिर्भवति। तद्यथा मथुरायामिव मथुरावत्। पाटलिपुत्र इव पाटलिपुत्रवत् । एवं तासाविव तास्वत् ॥ उपदेशेत्वतः ॥ Kashika ------- उपदेशे यो धातुरकारवान् तासौ नित्यानिट् तस्मात् तासाविव थलीडागमो न भवति। पक्ता — पपक्थ। यष्टा — इयष्ठ। शक्ता — शशक्थ। उपदेश इति किम्? कर्ष्टा — चकर्षिथ। अत्वत इति किम्? भेत्ता — बिभेदिथ। तपरकरणं किम्? राद्धा — रराधिथ। तास्वदित्येव — जिघृक्षति — जग्रहिथ। नित्यमनिट इत्येव — अङ्क्ता, अञ्जिता — आनञ्जिथ॥ Siddhanta Kaumudi ----------------- उपदेशे अकारवतस्तासौ नित्यानिटः परस्य थल इण्न स्यात् ॥ Laghu Siddhanta Kaumudi ----------------------- उपदेशेऽकारवतस्तासौ नित्यानिटः परस्य थल इण् न स्यात्॥ Balamanorama ------------ **उपदेशेऽत्वतः** - उपदेशेऽत्वतः । 'अत्वत' इति च्छेदः । अत् = ह्रस्वाकारः, सोऽस्याऽस्तीति अत्वान् । 'तसौ मत्वर्थ' इति भत्वान्न जश्त्वम् । अचेति वर्जं पूर्वसूत्रं, तत्र यदनुवृत्तं तदप्यनुवर्तते । तदाह — उपदेशेऽकारवत इति ।शक्लृ शशक्थ, 'पच्' पपक्थेत्युदाहरणम् । अत्र क्रादिनियमप्राप्त इण्न भवति । उपदेशे किम् ।कृष विलेखने॑ । चकर्षिथ । अत्वत इति किम् । बिभेदिथ । तपरः किम् । रराधिथ । तासौ किम् । जग्रहिथजिघृक्षती॑त्यत्रसनि ग्रहगुहोश्चे॑ति सनि नित्यमनिट् , न तु तासौ । नित्येति किम् ।अञ्ज॑, आनञ्जथ ।ऊदित्त्वात्तासौ वे॑डिति भाष्यम् । चक्रमिथेत्यप्युदाहरणम्, स्नुक्रमो॑रिति नियमेनात्मनेपदे तासावनिट्कत्वेऽपि परस्मैपदे सेट्कत्वात् । Tattvabodhini ------------- **उपदेशेऽत्वतः** - उपदेशेऽत्वतः । पपक्थ । इयष्ठ । उपदेशे किम् । कर्ष्ठा । चकर्षिथ । अकारवत इति किम् । भेत्ता । बिभेदिथ । तपरकरणं कम् । राद्धा । रराधिथ । तासौ किम् । जिघृक्षति । जग्रहिथ ।सनि ग्रहगुहोश्चे॑ति सनि नित्यमनिरट् । क्रान्तः । चक्रमिथ । ऊदित्त्वेन क्त्वायां वेट्कत्वात्यस्य विभाषे॑ति निष्ठायां नेट् । नित्यानित्याऽनिट् ।स्नुक्रमोरनात्मनेपदनिमित्ते॑ इति परस्मैपदे सेक्टत्वात् । Padamanjari ----------- अनजन्तार्थ आरम्भः । इयष्टेति । लिट।ल्भ्यासस्योभयेषाम् इति अभ्यासस्य सम्प्रसारणम्, व्रश्चादिष्ट्वम्। चक्रर्षिथेति । कृष विलेखने । भवत्ययं गुणे कृते सम्प्रत्यकारवान्, न तूपदेशे । जिग्रहिथेति । सनि ग्रहगुहोश्च इतीट्प्रतिषेधाद्भावत्ययं सनि नित्यानिट्, न तासौ । आनञ्चिथेति । अत आदेः तस्मान्नुड्द्विहलः, स्वरत्यादिसूत्रेण तासौ विकल्पितेडयम् ॥ Nyaas ----- अनजन्तार्थोऽयमारम्भः। `इयष्ठ` [`इयष्ट` इति पदमञ्जरी] इति। पूर्ववदभ्यासस्य सम्प्रसारम्, व्रश्चादिसूत्रेण (8.2.36) षत्वम्, ष्टुत्वम्। `चकर्षिथ` इति। `कृष विलेखने` (धातुपाठः-990)। भवत्ययमकारवान्, न तूपदेशे, किं तर्हि? पश्चाद्गुणे कृते। उपदेशग्रहमिह शक्यमकर्त्तुम्, शक्यत एव हि `एकाच उपदेशे` (7.2.10) इत्यत उपदेशग्रहणमनुवर्तयितुम्? तत्? क्रियते विस्पष्टार्थम्। असति तस्मिन्, पूर्वसूत्रे तस्यानुपयोगान्निवृतिंत मन्यमानः `तासावत्वतः` इत्येवमपि कश्चित्? प्रतिपद्येत। `रराधिथ` इति। `राध साध संसिद्धौ` (धातुपाठः-1262,1263)। `जिघृक्षति` इति। **सनि ग्रहगुहोश्च** (7.2.12) इतीट्प्रतिषेधाद्भवति नित्यानिट्, न तु तासौ, किं तर्हि? सचि।`आनाञ्जथ` इति। `अन्जू `व्यक्तिभ्रक्षणादिषु` [`व्यक्तिमरषणकान्तिगतिषु` - धातुपाठः-] (धातुपाठः-1458)। **अत आदेः** (7.4.70) इत्यभ्यासस्य दीर्घः, `तस्मान्नुङ्? द्विहलः` (7.4.71) नुट्, भवत्ययं धातुरुपदेशेऽकारवान्, न तु तासौ नित्यानिट्; स्वरत्यादिसूत्रेण (7.2.44) विकल्पितेट्कत्वात्॥ Prakriyasarvasvam ----------------- धातुपाठऽकारवतस्तासौ नित्यानिटः परस्य थलो नेट् । तत्रापि 'ऋतो भारद्वाजस्य' इति वेट् । इट्पक्षे, Sutra Prayogas -------------- * **ययाथ** (भट्टिकाव्यम्): `उपदेशे ऽत्वतः` इति थलीट्प्रतिषेधः ।