72060: तासि च कॢपः ================== **Padacheda:** तासि | S | | | 6 च | S | 0 | 0 | कॢपः | S | 5 | 1 | Sutrartha --------- **** Vasu English Summary -------------------- The परस्मैपद आर्धधातुक affixes beginning with स् and the affix तास् (the sign of the Periphrastic Future) do not get the इट् augment after the root कॢप्। Vasu English Translation ------------------------ The परस्मैपद आर्धधातुक affixes beginning with स् and the affix तास् (the sign of the Periphrastic Future) do not get the इट् augment after the root कॢप्। Thus कल्प्ता, कल्प्स्यति, अकल्प्स्यत्, चिक्लृप्स्यति ॥ But कल्पितासे, कल्पिषीष्ट, कल्पिष्यते, अकल्पिष्यत, चिकल्पिषते in the *Atmanepada*. In the case of क्लृप् also, the इट् is added to the *ardhadhatuka* affixes in the *Atmanepada*, when the root stands in the same *pada* with the affixes and there is prohibition everywhere else. So also there is prohibition before *krit*-affixes, and the *luk*-elision of *Parasmaipada*. As चिक्लृप्सिता, चिक्लृप्स त्वं ॥ According to *Padamanjari*, these two *sutras* could have been shortened thụs:- (1) न वृद्भ्यः पञ्चभ्यः, (2) तासि च; and "क्लृपः" could well have been omitted. The तास् comes only after क्लृप and not after other roots of *Vritadi* class, in *Parasmaipada* (l. 3.92) and (l. 3.93). Therefore, there is no fear that the prohibition तासि च will apply to the other roots of *vritadi*, but only to '*klip*', because the word परस्मैपदिषु is understood here; and as no roots of *vritadi* class take *Parasmaipada* in the Periphrastic Future except '*klip*', there is no fear of any ambiguity. Kashika ------- कृप उत्तरस्य तासेः सकारादेश्चार्धधातुकस्य परस्मैपदेष्विडागमो न भवति। श्वः कल्प्ता। कल्प्स्यति। अकल्प्स्यत्। चिक्ऌप्सति। परस्मैपदेष्वित्येव — कल्पितासे। कल्पिष्यते। कल्पिषीष्ट। अकल्पिष्यत। चिकल्पिषते। क्ऌपेरप्यात्मनेपदेन समानपदस्थस्येडागम इष्यते। अन्यत्र प्रतिषेधः। कृत्यपि हि परस्मैपदलुकि च प्रतिषेधो भवति — चिक्ऌप्सिता। चिक्ऌप्स त्वमिति॥ Siddhanta Kaumudi ----------------- कॢपेः परस्य तासेः सकारादेरार्धधातुकस्य चेण्न स्यात्तङानयोरभावे । कल्प्तासि । कल्प्तास्थ । कल्पितासे । कल्प्तासे । कल्प्स्यति । कल्पिष्यते । कल्प्स्यते । कल्पिषीष्ट । कॢप्सीष्ट । अकॢपत् । अकल्पिष्ट । अकॢप्त । अकल्प्स्यत् । अकल्पिष्यत । अकल्प्स्यत ॥ वृत् ॥ वृत्तः संपूर्णो द्युतादिर्वृतादिश्चोत्यर्थः ॥ अथ त्वरत्यन्तास्त्रयोदशानुदात्तेतः षितश्च ।{$ {!763 घट!} चेष्टायाम्$} । घटते । जघटे । घटादयो मित इति वक्ष्यमाणेन मित्संज्ञा । तत्फलं तु णौ मितां ह्रस्वः-(SK2568) इति चिण्णमुलोर्दीर्घोऽन्यतरस्याम् (SK2762) इति च वक्ष्यते । घटयति । विघटयति । कथं तर्हि कमलवनोद्घाटनं कुर्वते ये । प्रविघाटयिता समुत्पतन् हरिदश्वः कमलाकरानिवेत्यादि । शृणु । घट संघात इति चौरादिकस्येदम् । न च तस्यैवार्थविशेषे मित्त्वार्थमनुवादोऽयमिति वाच्यम् । नान्ये मितोऽहेताविति निषेधात् । अहेतौ स्वार्थे णिचि ज्ञपादिपञ्चकव्यतिरिक्ताश्चुरादयो मितो नेत्यर्थः ।{$ {!764 व्यथ!} भयसंचलनयोः$} । व्यथते ॥ Balamanorama ------------ **तासि च कॢपः** - तासि च । चकारात्सकाराद्याद्र्धदातुकं गृह्रते ।सेऽसिचि कृत॑इत्यतः 'से' इति,आर्धधातुकस्ये॑त्यत आर्धधातुकस्येडिति चानुवर्तते ।न वृद्भ्यश्चतुर्थ इत्यतो नेति च,गमेरि॑डित्यतः परस्मैपदमिति च । तदाह — कॢपेः परस्येत्यादिना.कल्प्तासीति । 'लुटि च कॢप' इति परस्मपैपदपक्षे ऊदिल्लक्षणमिड्विकल्पं बाधित्वा 'तासि च कॢपः' इति इण्निषेधे गुण रपरत्वे लत्वे रूपम् । परस्मपैदाऽभावपक्षे तु ऊदिल्लक्षममिड्विविकल्पं मत्वा आह — कल्पितासे कल्प्तासे इति । लृटि तु 'लुटि च कॢपः' इति परस्मैपदपक्षे ऊदिल्लक्षणमिड्विकल्पं बाधित्वा 'तासि च कॢपः' इति इण्निषेधं मत्वा आह — कल्प्स्यतीति । परस्मपैदाऽभावे तु ऊदित्त्वादिडविकल्पं मत्वा आह — कल्पिष्यते कल्प्स्यत इति । कल्पताम् । अकल्प । कल्पेत । आशीर्लिङि ऊदिल्लक्षणमिड्विकल्पं मत्वा आह — कल्पिषीष्टेति, कॢप्सीष्टेति च । इडभावेलिङ्सिचावात्मनेपदेषु॑ इति कित्त्वान्न गुणः । अकॢपदिति ।द्युद्भ्यो लुङी॑ति परस्मैपदपक्षे द्युतादिलक्षणे अङि सति ङित्त्वान्न गुणः । अङभावे तु ऊदिलक्षणमिड्विकल्पं मत्वा आह — अकल्पिष्टेति, अकॢप्तेति च । अकल्प्स्यदिति । लृङि स्ये 'लुटि च कॢप' इत#इ परस्मैपदपक्षे ऊदिलक्षणमिड्विकल्पं बाधित्वा 'तासि च कॢप' इति इण्निषेध इति भावः । परस्पैपदाऽभावपक्षे तु ऊदिल्लक्षणमिड्विकल्पं मत्वा आह — कल्पिष्यत अकल्प्स्यतेति । वृदिति । वृत्तेः समाप्त्य्रथकात्कर्तरि क्विप् । तदाह — वृत्त इति । 'गत्यर्थाकर्मके' ति कर्तरि क्तः । वृत्तशब्दस्य विवरणं - सम्पूर्ण इति । द्युतादयः कृपूपर्यन्ता अनुदात्तेतो गताः । अथ त्वरत्यन्ता इति । 'ञि त्वरा संभ्रमे' इत्यन्ता इत्यर्थः । षितश्चेति । षित्संज्ञका इत्यर्थः । षित्कार्यभाज इति वा ।ञि त्वरा संभ्रमे इत्युक्त्वाघटादयः षितः॑इति वक्ष्यमाणत्वादिति भावः । षित्फलं तु त्विति । मित्त्वफलं तु 'मितां ह्रस्वः' इति णौ ह्रस्वः॑ इति णौ ह्रस्वः, 'चिण्णमुलोर्दीर्घः' इति दीर्घश्च वक्ष्यते ।धातुपाठे अर्थनिर्देश उपलक्षण॑मित्युक्तम् । ततश्चार्थान्तरवृत्तेरपि घटदातोर्घटादिकार्यं भवत्येव । तदाह — घटयति विघटयतीति । संश्लेषयति विश्लेषयतीत्यर्थः । णौ ह्रस्वोदाहरणमिदम् । अघटि अघाटीति । चिण्युदाहरणम् । घाटंघाटम्, घटंघटमिति ण्यन्ताण्णमुलि दीर्घविकल्पस्योदाहरणम् ।नित्यवीप्सयो॑रिति द्विर्वचनम् । ननु यद्यर्थान्तरवृत्तेरपि घटधातोर्मित्त्वं तदा 'उद्घाटनं' 'प्रविघाटियते' त्यत्र विकासनार्थकस्यापि घटधातोर्णौ मित्त्वाद्ध्रस्वः स्यादित्याक्षिपति — कथं तर्हीति । शृण्विति ।समाधानमिति शेषः । चौरादिकस्येति । चुरादौ 'घट सङ्घाते' इति पठितम् । तदिदं घाटादिकाद्धटधातोर्धात्वन्तरमेव । तस्य णौ मित्त्वाऽभावाद्ध्रस्वाऽभावे 'उद्घटनं'प्रविघाटयिते॑ति निर्बाधमेव, अर्थनिर्देशस्योपलक्षणतया सङ्घातादन्यत्र विकसनेऽपि चौरादिकस्य वृत्तिसंभवादिति भावः । ननु घटादिगणादन्यत्र अर्थान्तरे पठितानां धातूनामिह धातूनामिह घटादिगणे पाठो घटादिगणनिर्दिष्टएवार्थे मित्त्वार्थोऽनुवाद एव,नतु धातुभेदः । अन्यथा घाटादिकत्वं, गणान्तरस्थत्वं चादाय मित्त्वतदभावयोर्विकल्पापत्तेः । ये तु धातवो घटादिगण एव पठिता न तु गणान्तरे, ते,#आमन्त्वर्थान्तरवृत्तावपि मित्त्वमिति धातुवृत्त्यादिग्रन्थेषु सिद्धान्तः । घटधातुस्तु 'घट सङ्घाते' इति चुरादौ पठितः । अतस्तस्यैवात्र गणे चेष्टायामर्थे मित्त्वार्थोऽनुवाद इति लब्धम् । एवं चविघटयती॑त्यादावर्थान्तरवृत्तौ ण्यन्तस्य कथं मित्त्वमित्याशङ्क्य निराकरोति -नचेति । तस्यैव — चौरादिकस्यैव, घटधातोश्चेष्टात्मके अर्थविशेषे वृत्तौ मित्त्वार्थोऽनुवादः स्यादिति न वाच्यमित्यर्थः । कुत इत्यत आह — नान्ये मितोऽहेताविति । चुराद्यन्तर्गणसूत्रमिदम् । तत्र हि 'ज्ञप मिच्च' 'यम च परिवेषणे' 'चह परिवेषणे' 'चह परिकल्कने' 'रह त्यागे' 'बल प्राणने' 'चिञ् चयने' इति पञ्चधातून् पठित्वा 'नान्ये मितोऽहेतौ' इति पठितम् । तत्र 'चह परिकल्कने' इत्यस्य स्थानेचपे॑ति केचित्पठन्ति । तथाच पञ्चत्वस्य न विरोधः । एषु पञ्चस्वपि मिदित्यनुवर्तते ।अहेता॑विति च्छेदः । कस्मादन्ये इत्यपेक्षायां संनिहितत्वाज्ज्ञापादिपञ्चभ्य इति लभ्यते । हेतुशब्देनहेतुमति चे॑ति सूत्रविहितो णिज्लभ्यते । तद्भिन्नो णिच् स्वार्थिकोऽहेतुः । तदाह - अहेतौ स्वर्थे णिचीति । ज्ञप आदिर्येषामिति अतद्गुणसंविज्ञानो बहुव्रीहिः । ज्ञपधातोस्तदुत्तरेभ्यश्च पञ्चभ्य इत्येवं षड्भ्योऽन्ये ये चुरादयस्ते मितो नेति फलितम् । एवं च चुरादौ ज्ञपादिपञ्चकव्यतिरिक्तानां मित्त्वाऽभावात् घट चेष्टाया॑मिति निर्देशश्चौरादिकस्य 'घट सङ्घाते' इत्यस्य चेष्टायां वृत्तौ मित्त्वार्थोऽनुवाद इति न युज्यते, किंतु इहैव घटादिगणेघट चेष्टाया॑मित्यपूर्वोऽयं धातुः । तस्य चाऽर्थान्तरवृत्तावपि मित्त्वमस्त्येवेतिविघटयती॑त्यादौ मित्तवाद्ध्रर्वो निर्बाध इति भ#आवः । Tattvabodhini ------------- **तासि च कॢपः** - तासि च कॢपः । चकारात्साद्याद्र्धधातुकं गृह्रते । कॢप्सीष्टेति ।लिङ्सिचावात्मनेपदेषु॑ इति कित्त्वान्न गुणः । (ग ।) वृत । वृदिति । वृतु वर्तने इत्यस्मात्क्विप् ।ञित्वरा संभ्रमे॑ इत्यस्यानन्तरंघटादयः षितः॑ इत्युक्तत्वात्त्वरत्यन्तारुआयोदसैव षितो न तु फणान्ताः सर्वेऽपीति सिद्धं,तथापि स्पष्टप्रतिपत्त्यर्थमाह — षितश्चेति । प्रयोजनं तु षिद्भिदादिभ्यः॑ इत्यङि टाप् । घटा व्यथेत्यादिरूपसिद्धिः । ये धातवोऽन्यत्राधीतास्तेषमिह पाठोऽर्थनियमाय । ये त्विहैव पठन्ते तेषामुपसर्गादिनाऽर्थान्तरपरत्वेऽपि मित्त्वमस्त्येवेति धातुवृत्त्यादिषु स्थितं । तदेतद्ध्वनयन्नुदाहरति — विघटयतीति । Padamanjari ----------- उदाहरणेषु लुटि च कॢपः इति परस्मैपदम् । कॢपेरपीत्यादि । अन्यथा कल्प्स्यतीत्यादावेव स्यात्, न तु चिकॢप्सिता, चिकॢप्स त्वमित्यादाविति भावः । इह तु न वृद्भ्यः पञ्चभ्यस्तासि चेति वक्तव्यम्, कॢपिग्रहणं तु शक्यमकर्तुम् । न च वृतादिभ्योऽपि तासौ प्रसङ्गः, परस्मैपदाभावात्, आत्मनेपदेन समानपदस्थत्वाच्च ॥ Nyaas ----- `कृपू सामर्थ्ये` (धातुपाठः-762)। तस्मादूदित्त्वाद्विकल्पेनेटि प्राप्ते प्रतिषेधोऽयमारब्यते। `कल्प्ता` इति। लुट्, `लुटि च कॢपः` (1.3.93) इति परस्मैपदं विकल्पेन, **कृपो रो लः** (8.2.18) इति लत्वम्। `चिकॢप्सति` इति। पूर्ववत्कित्त्वम्। `कॢपेरपि` इत्यादि। अयमर्थो वृदादीनामनुवृत्तर्लभ्यते, तदनुवत्तौ सत्यामेवाभिसम्बन्धः करिष्यते - यथा वृदादीना प्रतिषेधो भवति, तथाऽयमपि कॢपेरिति। यदि तर्हि वृददीनां ग्रहणमिहानुवर्तते, तदा वृदादीनामपि तासौ प्रतिषेधः प्राप्नोति? योगविभागकरणसामर्थ्यान्न भविष्यति। यदि वृदादीनामपि तासौ स्यात्, तदा `न वृद्भ्यः पञ्चभ्यस्तासि च` इत्येकरणे कुर्यात्॥ Prakriyasarvasvam ----------------- कृपेः परस्य सादेरार्धधातुकस्य तासेश्चात्मनेपदाभाव इण् न स्यात् । कल्पता । कल्प्तारौ । कल्प्तारः । कल्प्तासि । तङि तूदित्त्वाद् वेट् । कल्पिता, कल्प्ता । कल्पितासे, कल्प्तासे । लृटि कल्प्स्यति; कल्पिष्यते, कल्प्स्यते । लृङि अकल्प्स्यत्; अकल्पिष्यत, अकल्प्स्यत । व्यथ भयचलनयोः । व्यथते । भावे व्यथ्यते । लुङि अव्यथिष्ट । अव्यथिध्वम्, अव्यथिढ्वम् । चिणि अव्याथि । लिटि— Sutra Prayogas -------------- * **अकल्प्स्यद** (भट्टिकाव्यम्): `तासि च क्लृपः` इति चकारात् स्वकारे च ने- द । * **कल्प्ता** (भट्टिकाव्यम्): `तासि च क्लृपः` इतीट्प्रतिषेधः । * **अकल्प्स्यत्सन्निधिं** (भट्टिकाव्यम्): `तासि च क्लृपः` इति स्ये परस्मैपदे लृङ्। * **** (भट्टिकाव्यम्): `तासि च क्लृपः` इतीट्प्रतीषेधः। * **कल्प्तास्थः** (भट्टिकाव्यम्): `तासि च क्लृपः` इतीट्प्रतीषेधः।