72023: घुषिरविशब्दने ==================== **Padacheda:** घुषिः | S | 1 | 1 | अविशब्दने | S | 7 | 1 | Sutrartha --------- **** Vasu English Summary -------------------- The participial affix does not take the augment इट् after the root घुष् in any sense other than that of 'proclaimed'. Vasu English Translation ------------------------ The participial affix does not take the augment इट् after the root घुष् in any sense other than that of 'proclaimed'. As घुष्टा रज्जुः, घुष्टो पादौ but अवघुषितं वाक्यमाह ॥ विशब्दन = प्रतिज्ञानम् 'assertion, affirmation, agreement'. घुषिर् अविशब्दने is' *Bhvadi* (1.683), and घुषिर् विशब्दने is *Churadi* (X. 187), both of these are referred to in the *sutra*. The prohibition of विशब्दन in the *sutra*, indicates by *jnapaka* that the णिच् added to the root in the *Churadi* class in the sense of विशब्दन is *anitya*. So the following construction becomes valid:- as महीपालवचः श्रुत्वा जुघुषुः पुष्पमाणवाः "expressed their opinions in words". In short the णिच् is optionally added to the घुषिर् of the *Churadi* class. Some say the *Churadi* णिच् is *anitya* generally and not only after घुषिर् (अनित्य ण्यन्ताश्चुरादयः) ॥ This is inferred from the mention of the root चिति स्मृत्याम् (X. 2) in this class. The indicatory इ in चिति shows that the augment इट् will be added to the root, which will thus become चिन्त and this न will be retained throughout and never dropped. (7.1.48). Now had the णिच् been *nitya*, then the root ought to have been taught as चिन्त स्मृत्याम्, because no rule would have caused the elision of the न् of चिन्त when णिच् was added. The enunciation of the root as चिति, therefore, indicates that the *churadi* णिच् is *anitya*, and thus we get the forms like, चिन्तितः, चिन्त्यात्, चिन्त्यते, चिन्तति, चिन्तेत् &c. Bhashya ------- घुषिरविशब्दने किमर्थमविशब्दन इत्युच्यते, न विशब्दने चुरादिणिचा भवितव्यम् ॥ एवं तर्हि सिद्धे सति यदयमविशब्दन इत्याह तज्ज्ञापयत्याचार्यौ - विशब्दने घुषेर्विभाषा णिज्भवतीति ॥ किमेतस्य ज्ञापने प्रयोजनम् ? ॥ महीपालवचः श्रुत्वा जुघुषुः पुष्यमाणवाः(3) - एष प्रयोग उपपन्नो भवति ॥ Kashika ------- घुषेर्धातोरविशब्दनेऽर्थे निष्ठायामिडागमो न भवति। घुष्टा रज्जुः। घुष्टौ पादौ। अविशब्दन इति किम्? अवघुषितं वाक्यमाह। विशब्दनं प्रतिज्ञानम्। घुषिरशब्दार्थ इति भूवादिषु (४३६) षठ्यते, घुषिरविशब्दन इति चुरादिषु (१९५)। तयोरिह सामान्येन ग्रहणम्। विशब्दनप्रतिषेधश्च ज्ञापकश्चुरादिणिज् विशब्दनार्थस्यानित्य इति। तेनायमपि प्रयोग उपपन्नो भवति — **महीपालवचः श्रुत्वा जुघुषुः पुष्यमाणवाः** (महाभाष्य ३.२८८) इति। स्वाभिप्रायं शब्देनाविष्कृतवन्त इत्यर्थः॥ Siddhanta Kaumudi ----------------- घुषिर्निष्ठायामनिट् स्यात् । घुष्टा रज्जुः । अविशब्दने किम् । घुषितं वाक्यम् । शब्देन प्रकटीकृताभिप्रायमित्यर्थः ॥ Balamanorama ------------ **घुषिरविशब्दने** - घुषिरविशब्दने । घुष्टा रज्जुरिति । उत्पादितेत्यर्थः । आयामितेति वा । शब्देन अभिप्रायप्रकाशनं विशब्दनम् । तदाह — शब्देनेति । Tattvabodhini ------------- **घुषिरविशब्दने** - घुषिरवि । घुषिरविशब्दार्थ इति भ्वादिः , घुषिरविशब्दन इति चुरादिः, द्वयोरपि सामान्येन ग्रहणम् । ननु विशब्दनार्थाद्धुषेश्चुरादिणिचा भाव्यं, ततश्च णिचा व्यवधानाद्धुषेः परा निष्ठा नास्तीति कथमिण्निषेधप्रसङ्गः, किं च विशब्दने त्विण्निषेधाऽभावाण्णिच्युपधागुणेनिष्ठायां सेटी॑ति णिलोपे चघोषितं वाक्य॑मित्यपि स्यादिति चेत् । अत्राहुः — एवं तर्हि विशब्दनप्रतिषेध एव ज्ञापकः - विशब्दनार्थस्य चुरादिणिजनित्य इति [इति] नास्त्युक्तदोष इति दिक् । Padamanjari ----------- घुष्टा - अविशब्दिता । अवधुषितम् - विशब्दितम्, आविष्कृताभिप्रायमित्यर्थः । चौरादिकस्य चायं प्रयोगः स एव ह्यस्मिन्नर्थे वर्तते । द्वावपीति । घुषिरिति सूत्रोपातं रुपं द्वयोरपि साधारणमित्यर्थः । कथं सामान्येन ग्रहणम्, यावता विशब्दने णिचा भवितव्यम्, केवलश्चेह घुषिरुपातः अत ताअह - विशब्दनप्रतिषेधश्चेति । विशब्दनार्थस्यानित्य इति । अन्ये तु अनित्यण्यन्ताश्चनरादयः इति सामान्येन ज्ञापकमाहुः । अपर आह - चिति स्मृत्यामितीदित्वमत्र ज्ञापकमस्य हि । फलं चिन्तित तित्यादौ न लोपो मा स्म भूदिति ॥ नित्ये च णिचि सत्यत्र नलोपस्याप्रसङ्गतः । चिन्त स्मृत्यामित्येव च पठितव्यं भवेदिति ॥ अयमपीति । यद्यपि अवधुषितं वाक्यमाह - इत्येतदपि प्रयोजनम्, तथापि जुघुषुरित्यपि प्रयोग उपपन्न इत्यर्थः ॥ Nyaas ----- `विशब्दनं प्रतिज्ञानम्` इति। स्वाभिप्रायस्य शब्देनाविष्करणमित्यर्थः। `सामान्येन ग्रहणम्` इति। विशेषानुपादानात्। यदि `घुषिरविशब्देने` (धातुपाठः-1726) [`घुषिर्? विशब्देने - धातुपाठः-]इति चुरादौ पठते एवं सति णिचा भवितव्यम्, न च णिजन्तस्येटि सत्यसति वा कश्चिद्विशेषोऽस्ति। तथा हि - इटि सति **निष्ठायां सेटि** (6.4.52) इति णिलोपे कृते घोषितमिति यद्रूपं भवत्यसत्यपीटि णिलोपाभावात्? तदेव। न च तदन्ताविट्प्रतिषेधस्य प्रप्तिरस्ति; `एकाचः` (7.2.10) इत्यधिकारात्। भौवादिकस्य (धातुपाठः-653) [`घुषिर्? अविश्बदेन` - धातुपाठः-] घुषेर्विशब्दने वृत्तिरेव नास्ति; शब्दशक्तिस्वाभाव्यात्; तत्क विशब्दनप्रतिषेधेन? इत्यत आह - `विशब्दनप्रतिषेधः` इत्यादि। यदि च नित्यो णिच्? स्यात्, तदा यथोक्तया रीत्या प्रतिषेधोऽनर्थकः स्यात्, ततश्च न कर्तव्य एव स्यात्, कृतश्च, तस्मादयमेव प्रतिषेधो ज्ञापयित - चुरादिणिज्विशब्दनार्थस्यानित्य इति। `जुघुषुः` इति। अनित्यप्रतिज्ञाप्रयोजनम्। असति ह्रनित्यत्वे घोषयाञ्चक्रुरिति स्यात्॥ Prakriyasarvasvam ----------------- विशब्दनमभिप्रायाविष्करणं, ततोऽन्यत्र घुषेरिण् न । घुष्टा घण्टा । घुष्टो गजेन वृक्षः । निघृष्ट इत्यर्थमाह शङ्करः । अन्यत्र अवघुषितं वाक्यम् । आविष्कृताभिप्रायमित्यर्थः ॥ Sutra Prayogas -------------- * **घृष्ट** (भट्टिकाव्यम्): `घुपिरविशब्दने` इति निष्ठायामनिट् । * **घुष्ट** (भट्टिकाव्यम्): `घुपिरविशव्दने` इति इट्प्रतिषेधः।