72018: क्षुब्धस्वान्तध्वान्तलग्नम्लिष्टविरिब्धफाण्टबाढानि मन्थमनस्तमःसक्ताविस्पष्टस्वरानायासभृशेषु ================================================================================================== **Padacheda:** क्षुब्ध-स्वान्त-ध्वान्त-लग्न-म्लिष्ट-विरिब्ध-फाण्ट-बाढानि | S | 1 | 3 | मन्थ-मनस्-तमस्-सक्त-अविस्पष्ट-स्वर-अनायास-भृशेषु | S | 7 | 3 | Sutrartha --------- **** Vasu English Summary -------------------- The following words are made without the इट् augment in the senses given against them - 1. क्षुब्ध 'a churning stick' 2. स्वान्तः 'the mind' 3. ध्वान्तः 'darkness' 4. लग्नः 'attached' 5. म्लिष्टः 'indistinct or unintelligible' 6. विरिब्धः 'a note or a tone' 7. फाण्टः 'made without an effort or by an easy process' and 8. बाढः 'excessive'. Vasu English Translation ------------------------ The following words are made without the इट् augment in the senses given against them - 1. क्षुब्ध 'a churning stick' 2. स्वान्तः 'the mind' 3. ध्वान्तः 'darkness' 4. लग्नः 'attached' 5. म्लिष्टः 'indistinct or unintelligible' 6. विरिब्धः 'a note or a tone' 7. फाण्टः 'made without an effort or by an easy process' and 8. बाढः 'excessive'. When the words have not the above sense, we have 1. क्षुभितं 'disturbed or agitated'. The phrase क्षुब्धो गिरिः or नदी is a metaphorical use of the word. 2. स्वनितः as स्वनितो मृदङ्गः, स्वनितं मनसा ॥ 3. ध्वनितो मृदङ्गः or ध्वनितं मनसा ॥ 4. लगितं, 5. म्लेच्छितं, (= अपभाषितं) 6. विरोभितं from रेभृ 'to sound', or विरिभितं from रिभि ॥ 7. फाणितं ॥ फाण्ट is a decoction, prepared without much trouble, by simply slightly heating the substance with some water, without powdering or pasting it. (यदशृतमपिष्टं च कषायमुदकसंपर्कमात्राद् विभक्तरसमीषदुष्णं) a medicine for any disease may be administered in five forms :- रसः or essence, कल्कः paste or powder, शृतः decoction or extract, शीतः cold extract prepared by throwing pounded drugs into cold water, and keeping that all night to soak. This watery extract, to be drunk in the morning, is so called. फाण्ट is a similar hot preparation, but for immediate use, when the drugs are put in boiling water and the decoction after purification is ready for use as a drink. 8. वाहितं from वाह 'to strive'. Bhashya ------- क्षुब्धस्वान्तध्वान्तलग्नम्लिष्टविरिब्धफाण्टवाढानि मन्थमनस्तमस्सक्ताऽविस्पष्टस्वराऽनायासभृशेषु ॥ क्षुब्धं मन्थाऽभिधाने(1) ॥ क्षुब्धं मन्थाभिधाने इति वक्तव्यम् । क्षुभितं मन्थेनेत्येवान्यत्र । क्षुब्ध ॥ स्वान्त- ॥ स्वान्तं(1) मनोभिधाने ॥ स्वान्तं मनोभिधाने इति वक्तव्यम् । स्वनितं मनसेत्येवान्यत्र । स्वान्त ॥ ध्वान्त - ॥ ध्वान्तं(1) तमोऽभिधाने ॥ ध्वान्तं तमोभिधान इति वक्तव्यम् । ध्वनितं तमसेत्येवान्यत्रा ध्वान्त ॥ (लग्न(2) - ॥ लग्नं सक्ताभिधाने(1) ॥ लग्नंसक्ताभिधाने इति वक्तव्यम् ॥ लगितं सक्तेनेत्येवान्यत्र । लग्न ॥ ल्मिष्ट - ॥ ल्मिष्टं विस्पष्टाऽभिधाने(1) ॥ ॥ ल्मिष्टं विस्पष्टाऽभिधान इति वक्तव्यम् । म्लेच्छितं विस्पष्टेनेत्येवान्यत्र । ल्मिष्ट ॥ विरिब्ध - ॥ विरिब्धं स्वराभिधाने(1) ॥ विरिब्धं स्वराभिधाने इति वक्तव्यम् । विरेभितं स्वरेणेत्येवान्यत्र । विरिब्ध ॥ - फाण्ट - ॥ फाण्टमनायासाभिधाने(1) ॥ फाण्टमनायासाभिधाने इति वक्तव्यम् । फाणितमेवान्यत्र । फाण्ट ॥ बाढ - ॥ बाढं भृशाभिधाने ॥ बाढं भृशाभिधाने इति वक्तव्यम् ॥ 8 ॥ बाहितमेवान्यत्र(2)) ॥ (क्षुब्धस्वान्त) ॥ Kashika ------- क्षुब्ध स्वान्त ध्वान्त लग्न म्लिष्ट विरिब्ध फाण्ट बाढ इत्येते निपात्यन्ते यथासंख्यं मन्थ मनः तमः सक्त अविस्पष्ट स्वर अनायास भृश इत्येतेष्वर्थेषु। क्षुब्ध इति भवति मन्थाभिधानं चेत्। क्षुब्धो मन्थः। क्षुभितमन्यत्। क्षुभितं मन्थेन। क्षुब्धा गिरिनदी इत्येवमाद्युपमानाद् भविष्यति। स्वान्तमिति मनोऽभिधानं चेत्। स्वनितमन्यत्। स्वनितो मृदङ्गः। स्वनितं मनसा। ध्वान्तमिति भवति तमोऽभिधानं चेत्। ध्वनितमन्यत्। ध्वनितो मृदङ्गः। ध्वनितं मनसा। लग्नमिति भवति सक्तं चेत्। लगितमन्यत्। म्लिष्टमिति भवत्यविस्पष्टं चेत्। म्लेच्छितमन्यत्। इत्वमप्येकारस्य निपातनादेव। विरिब्धमिति स्वरश्चेत्। विरेभितमन्यत्। **रेभृ शब्दे** इत्यस्यैतद् निपातनम्। अन्ये तु विरिभितमन्यदिति पठन्ति। रिभिं सौत्रं धातुं पठन्ति। ते विरिभितमिति प्रत्युदाहरन्ति। फाण्टमिति भवत्यनायासश्चेत्। फणितमन्यत्। यदशृतमपिष्टं च कषायमुदकसंपर्कमात्राद् विभक्तरसमीषदुष्णं तत् फाण्टम्। तदल्पप्रयत्नसाध्यत्वादनायासेन लक्ष्यते। बाढमिति भवति भृशं चेत्। बाहितमन्यत्। **बाहृ प्रयत्ने** इत्यस्य धातोरेतद् निपातनम्। अतिशयश्च भृशमिहोच्यते॥ Siddhanta Kaumudi ----------------- क्षुब्धादीन्यष्टावनिट्कानि निपात्यन्ते समुदायेन मन्थादिषु वाच्येषु । द्रवद्रव्यसंपृक्ताः सक्तवो मन्थो मन्थनदण्डश्च । क्षुब्धो मन्थश्चेत् । स्वान्तं मनः । ध्वान्तं तमः । लग्नं सक्तम् । निष्ठानत्वमपि निपातनात् । म्लिष्टविस्पष्टम् । विरिब्धः स्वरः । म्लेच्छ रेभृ अनयोरुपधाया इत्वमपि निपात्यते । फाण्टमनायाससाध्यः कषायविशेषः । माधवस्तु नवनीतभावात्प्रागवस्थापन्नं द्रव्यं फाण्टमिति वेदभाष्ये आह । बाढं भृशम् । अन्यत्र तु क्षुभितम् । क्षुब्धो राजेति त्वागमशास्त्रस्यानित्यत्वात् । स्वनितम् । ध्वनितम् । लगितम् । म्लेच्छितम् । विरेभितम् । फणितम् । बाहितम् ॥ Balamanorama ------------ **क्षुब्धस्वान्तध्वान्तलग्नम्लिष्टविरिब्धफाण्टबाढानि मन्थमनस्तमःसक्ताविस्पष्टस्वरानायासभृशेषु** - क्षुब्धस्वान्त । क्षुब्ध, स्वान्त, ध्वान्त, लग्न, म्लिष्ट, विरिब्ध, फाण्ट, बाढ एषामष्टानां द्वन्द्वात्प्रथमाबहुवचनम् । मन्थ, मनः, तमः, सक्त, अविस्पष्ट, स्वर, अनायास, भृश एषामष्टानां द्वन्द्वात्सप्तमी । यथासङ्ख्यमन्वयः । समुदायेनेति । मन्थादिष्वेते रूढाः । अवयवार्थाऽभिनिवेशो न कर्तव्य इत्याह- द्रव्यद्रव्येति । अत्र याज्ञिकप्रसिद्धिरेव शरणीकर्तव्या । मन्थनदण्डश्चेति ।वैशाखमन्थमन्थानमन्थानोमन्थदण्डके॑ इत्यमरः । क्षुब्ध इति । 'क्षुभ संचलने' अस्मात् क्तः, इडभावो निपात्यते ।झषस्तथो॑रिति धः , जश्त्वम् । स्वान्तमिति । स्वनधातोः क्तः,अनुनासिकस्य क्वी॑ति दीर्घः । निपातनान्नेट् ।स्वान्तं ह्मन्मानसं मनः॑ इत्यमरः । ध्वान्तं तम इति ध्वनेः क्तः ।अनुनासिकस्य क्वी॑ति दीर्घः ।अन्धकारोऽस्त्रियां ध्वान्तं तमिरुआं तिमिरं तमः॑ इत्यमरः । लग्नं सक्तमिति । संबद्धमित्यर्थः । लगेः क्तः, इडभावः । ततर् रदाभ्यां परतवाऽभावात्कतं निष्ठानत्वमित्यत आह — निपातनादिति । म्लिष्टमविस्पष्टमिति । इडभावेव्रश्चे॑त षः । तकारस्य ष्टुत्वेन टः ।अथ म्लिष्टमविस्पष्ट॑मित्यमरः । विरब्धः स्वर इति । स्वरविशेष इत्यर्थः । 'रेभृ शब्दे' अस्मात् क्तः, इडभावे 'झषस्तथोर्धोऽध' इति धः । उभयत्र धातुस्वरूपं प्रदर्शयन्नाह — म्लेछ रेभृ अनयोरिति । इत्त्वमपीति । इडभावश्चेत्यर्थः । फाण्टमिति । फणेः क्तः, इडभावः, निष्ठातस्य टत्वं च निपात्यते । तस्याऽसिद्धत्वात्अनुनासिकस्ये॑ति दीर्घः ।अनायासकृतं फाण्ट॑मित्यमरः । वृत्तिकृन्मतमाह — कषायविशेष इति.॒यदशृतमपिष्टं च कषायमुदकसंसर्गमात्राद्विभक्तरसमीपषदुष्णं तत्फाम्टमित्युच्यते॑ इति वृत्तौ स्थितम् । वेदभाष्ये आहेति ।तद्वै नवनीतं भवति । घृतं वै देवानां फाण्टं मननुष्याणा॑मिति शतपथब्राआहृणव्याख्यावसरे आहेत्यर्थः । बाढं भृशमिति । 'बाह्म प्रयत्ने' अस्मात् क्तः, इडभावः, ढत्वधत्वष्टुत्वढलोपाः । अन्यत्र त्विति । मन्थादेर्वाच्यत्वाऽभाव इत्यर्थः । Tattvabodhini ------------- **क्षुब्धस्वान्तध्वान्तलग्नम्लिष्टविरिब्धफाण्टबाढानि मन्थमनस्तमःसक्ताविस्पष्टस्वरानायासभृशेषु** - क्षुब्ध । क्षुभ संचलनेझषस्तथो॑रिति धत्वम् । स्वन ध्वन शब्दे । इडभावेअनुनासिकस्य क्विझलो॑ रिति दीर्घः । लगे सङ्गे, म्लेच्छ अव्यक्ते शब्दे,व्रश्चे॑ ति षत्वे ष्टुत्वम् । रेभृ शब्दे, फण गतौ । दीर्घः, ष्टुत्वम् । बाह्म प्रयत्ने । इडभावे ठत्वधत्वष्टुत्वढलोपाः । अनयासशब्देन तत्साध्यो लक्ष्यत इत्याह — — अनायाससाध्य इति ।क्षुण्णमौषधजातमुष्णोदके प्रक्षिप्य सद्योऽभिषुत्य पूत्वा यत्पीयते तत्फाण्टमित्याहुः । वेदभाष्ये इति ।तद्वै नवनीतं भवति । घृतं देवानां फाण्टं मनुष्याणा॑मिति शतपथश्रुतेर्वयाख्यायामित्यर्थः । अन्यत्र त्विति । मन्थादेरवाच्यत्वे त्वित्यर्थः । Padamanjari ----------- मन्थाभिधानं चेदिति । समुदायेन चेन्मन्थोऽभिधीयत इत्यर्थः । एतेन समुदायानामभिधेयभावेन मन्थादय एइहोपाता इति दर्शयति । यदि तु धात्वर्थोपाधित्वेनाश्रीयेरन् - मनथादिसाधने धात्वर्थे क्षुब्धादयो निपात्यन्त इति, तदा क्षुभितं मन्थेनेत्यादावपि स्यात् । द्रवद्रव्यसम्पृक्ताः सक्तवः- मन्थः । दधिमन्थान्मधुमन्थांश्चेति हि दृश्यते । अन्ये तु मथ्यतेऽनेनेति मन्थनदण्डः खञ्जकः - मन्थ इत्याहुः । मन्थादिषु क्षुब्धादिशब्दानां चलानादिक्रियायोगो यथासम्भवं द्रष्टव्यः । उपमानादिति । उपमानम् - सादृश्यम्, तचच् यथासम्भवं द्रष्टव्यम् । स्वान्तशब्देन विषयष्वविक्षिप्तमनाकुलं मन उच्यते । स्वनितं शब्दायितमित्यर्थः । मनसेति । कर्तरि करणे वा तृतीया । एवं ध्वनितं तमसेत्यत्रापि । लग्निमिति । रगे लगे ष्टगे संवरणे, अत्र निष्ठानत्वमपि निपात्यते । ग्लिष्टमिति । म्लेच्छ अव्यक्ते शब्दे । म्लेच्छितमिति । अपभाषितमित्यर्थ । अत्रार्थस्याविस्पष्टतया शब्दस्याविस्पष्टत्वमपशब्दानामपि स्वरुपेणाभिव्यक्तत्वात् । उदाहरणेषु वर्णानभिव्यक्तिः - विस्पष्टत्वम् । फाण्डमित्यादि । कः पुनरत्रानायासो विवक्षितः इत्यत आह - यदशृतमित्यादि । यस्य व्याधेर्यदौषधं जातं तस्य पञ्चधा कल्पान - रसः, कल्कः, शृतः, शीतः, फाण्ट इति । रसः - स्वरसः । कल्कः - पिष्टम् । शृतम् - क्वाथः । शीतो नाम - क्षुण्णमौषधजातमुदके प्रक्षिप्य रात्रावधिवासितमुदकं प्रातः पीयते । तदेवोष्णोदके प्रक्षिप्य सद्योऽभिषुत्य पूत्वा यत्पीयते सः फाण्टः । यथाह वाग्भटः - सद्योऽभिषुत्य पूतस्तु फाण्टः इति । पञ्चाप्येते कषायाः । तत्राशृतमिति क्वाथस्य व्यावृत्तिः, अपिष्टमिति कल्कस्य, उदकसम्पर्केअणेति स्वरस्य, ईषदुष्णमिति शीतस्य, मात्रशब्दः स्वभावानुवादः । विभक्तरसम् प्राघवस्थाया भिन्नरसम् । यदेवम्भूतं कषायं तत्फाण्टमित्यर्थः । कषायशब्द उभयलिङ्गः । कथं पुनरेतदनायासशब्देनोच्यते लक्षणया । यदाह - अनायासेनेति ॥ Nyaas ----- `क्षुब्धः` इति। `क्षुभ सञ्चलने` (धातुपाठः-1239) इत्यस्येडभावो निपात्यते। `मन्थाभिधानं चेत्` इति। समुदायेन चेन्मन्थोऽभिधीयते। मन्थ इति द्रवद्रव्यसम्पृक्ताः सक्तव उच्यन्ते। `क्षुग्धो मन्थः` इति। चलितो मन्थ इत्यर्थः। `क्षुभितं मन्तेन` इति। नात्र मन्थोऽभीधीयते, किं तर्हि? तत्साधनं चलनम्। अथ मन्थाभिधाने क्षुब्धशब्दो निपात्यते, क्षुब्धा गिरिनटी, क्षुब्धा सेना, क्षुब्धः समुद्रः - इत्यादि। नोपपद्यते? इत्यत आह - `क्षुब्धा गिरिनदी` इत्तयादि। चलितमन्थसाधम्र्याद्गिरिनद्यादिषु तथा व्यवपेश इति दर्शयति। यथा क्षुब्धत्वं मन्थस्य चलनं प्रति साधनभावः, तथा गिरिनद्यादेरर्थस्य चलनं प्रति साधनभावः क्षुब्धमन्थसाधम्र्यात्? क्षुब्धशब्देन व्यपदिश्यते, यथा गोसाधम्र्याद्गोशब्देन वाहीक उच्यते। `स्वान्तम्, ध्वान्तम्` इति। `स्वन ध्वन शब्दे` (धातुपाठः-827,828)। इडभावो निपात्यते। एवमुत्तरेष्वप्युदाहरणेषु वेदितव्यम्। बाह्रेषु विषयेष्वविक्षिप्तमनाकुलं मनः=स्वःन्तमुच्यते। **अनुनासिकस्य क्विझलोः क्ङिति** (6.4.15) इति दीर्घः। `स्वनितं मनसा` इति। मनः कर्त्तृकं स्वननमुच्यते, न तु मनः। `ध्वनितं तमसा` इति। अत्रापि तमःकर्त्तृकं ध्वननमुच्यते, न तमः। `लग्नः` इति। `रगे लगे सङ्गे` (धातुपाठः-785,786)[`रगे शङ्कायाम्` - धातुपाठः-] निष्ठानत्वं निपात्यते। `स्वरश्चेत्` इति। स्वरशपब्दोऽत्र ध्वनौ वर्तते। `फाष्टम्` इति। `फण गतौ` (धातुपाठः-821)। पूर्ववद्दीर्घः ष्टुत्वञ्च। कः पुनरयमनायासो नाम? इत्याह - `यदशृतम्` इत्यादि। अशृतमित्यपक्वम्। अपिष्टमित्यचूर्णितम्। उदकसम्पर्कः उदकसंयोगः। मात्रशब्देन निष्पीडनादेव्र्यवच्छेदः। `विभक्तरसम्` इति। पृथग्भूतरसमित्यर्थः। ईषदुष्णं कोष्णम्। `तदल्पप्रयत्नसाध्यत्वादनायासेन लक्ष्यते` इति। आयासः प्रयत्नाधिक्यम्, तद्यस्मिन्न विद्यते सोऽल्पप्रयत्नासाध्योऽनायासः। तेनेह यदशृतत्वादिविशिष्टं वस्तु तदल्पप्रयत्नासाध्यत्वादनायासेन लक्ष्यते। तदनेनानायासोपलक्षतो यो वस्तुविशेषस्तत्र फाष्टमिति निपात्यते, न त्वनायास एव। नान्यत्रापि सर्वत्रानायसोपलक्षित इति दर्शयति। अयं चार्थो निपातनसामर्थ्याल्लभ्यते। यथैव ह्रन्यत्? किञ्चिदिडभावादिकं निपतनसामर्थ्याल्लभ्यते तथाऽर्थविशेषेऽपि। `बाढम्` इति। अत्र पूर्वदद्? ढत्वादिकार्यम्॥ Prakriyasarvasvam ----------------- क्षुब्धादयोऽनिटः क्तान्ता मन्थाद्यर्थे निपातिताः । मन्थो मथनदण्डः स्यात् सक्तवो वा द्रवीकृताः ।। ११२ ।। तद्वाची क्षुब्धशब्दोऽयं तयोश्च चलितत्वतः । चलितेष्वपि सर्वेषु प्रयोगोऽस्योपचारतः ।। ११३ ।। स्वान्तं मनस्तमो ध्वान्तं सक्तं लग्नमितीर्यते । अस्पष्टशब्दे वाच्ये तु म्लेच्छतेर्म्लिष्टमिष्यते ।। ११४ ।। स्वरे वाच्ये विरिब्धिश्च शब्दार्थाद् रेभतेर्भवेत् । उष्णाम्बुन्यौषधं क्षुण्णं क्षिप्त्वा सद्योऽभिसुत्य च ।। ११५ ।। पीयते यः कषायोऽसौ फाण्टोऽनायाससाधितः । बाढ प्रयत्न इत्यस्माद् भृशेऽर्थे बाढमिष्यते ।। ११६ ।। एभ्योऽन्यत्र क्षुभितः । स्वनितः । ध्वनितः । विच्छन्नो लगितः । म्लेच्छितः । विरेभितः । फणितो गतः । बाहितः ।। Sutra Prayogas -------------- * **मन्दरक्षुब्ध** (शिशुपालवधम्): `क्षुब्धस्वान्तध्वान्तलग्नम्लिष्टविरिब्धफाण्टबाढानि मन्थमनस्तमःसक्ताविस्पष्टास्वरानायासभृशेषु` इति मन्थार्थे निपातनात् सिद्धम्। * **विरिब्धैः** (शिशुपालवधम्): `क्षुब्धस्वान्त-` इत्यादिना निष्ठान्तोऽनिट्त्वेन निपातितः।