72009: तितुत्रतथसिसुसरकसेषु च ============================= **Padacheda:** तितुत्रतथसिसुसरकसेषु | S | 7 | 3 | च | S | 0 | 0 | Sutrartha --------- **** Vasu English Summary -------------------- The इट् augment is not taken by the following कृत् affixes - 1. ति 2. तु 3. त्र 4. त 5. थ 6. सि 7. सु 8. सर 9. क and 10. स। Vasu English Translation ------------------------ The इट् augment is not taken by the following कृत् affixes - 1. ति 2. तु 3. त्र 4. त 5. थ 6. सि 7. सु 8. सर 9. क and 10. स। Thus (1) क्तिच् - तन्तिः but तनिता, तनितुम्, क्तिन् - दीप्तिः but दीपिता, दीपितुम् ॥ (2) तुन् (*Unadi* I.70) - सक्तुः but सचिता, सचितुम् ॥ (3) ष्ट्रन् (3.2.182) — पत्त्रं but पतिता, पतितुम्, so also *Unadi*ष्ट्रन् (*Unadi* IV. 158), as तन्त्रम् from तन् ॥ (4) तन् (*Unadi* III.86) - हस्तः but हसिता, हसितुम्; so also लीतः, पीतः, धूर्त्तः from लू, पू, धूर्वि forming सेट् लविता, पविता, धूर्विता ॥ The त affix mentioned in the *sutra* refers to this *Unadi* त (*Unadi* III.86), and not to the त (क्त) of *Nishtha*, for the *Nishtha* त takes the augment, as हसितम् ॥ (5) क्थन् (*Unadi* II.2) - कुष्ठम् but कोषिता, कोषितुम्, काष्ठम् but काशिता, काशितुम् ॥ (6) क्सि (*Unadi* III.I55), as कुक्षिः but कोषिता, कोषितुम् ॥ (7) क्सु (*Unadi* III.157) - इक्षुः but एषिता, एषितुम्; (8) सरन् (*Unadi* III.70) -अक्षरम्, but अशिता, अशितुम् ॥ (9) कन् (*Unadi* III.43) - शल्कः but शलिता, शलितुम् ॥ (10) स (*Unadi* III.62) - वत्सः but वदिता, वदितुम् ॥ Vart:- The affix ति, तु and त्रि take इट् augment after ग्रह् and words of similar formations:- as विगृहीतिः, उपस्निहितिः, निकुचिति निपठितिः ॥ Before non-*krit* ति &c, we have इट्, as रोदिति, स्वपिति ॥ Bhashya ------- तितुत्रतथसिसुसरकसेषु च ॥ तितुत्रेष्वग्रहादीनाम् ॥ तितुत्रेष्वग्रहादीनामिति वक्तव्यम् । इह मा भूत् । निगृहीतिः । उपस्निहितिः निकुचितिः । निपठितिरिति ॥ Kashika ------- ति तु त्र त थ सि सु सर क स इत्येतेषु कृत्सु इडागमो न भवति। तीति क्तिन्क्तिचोः सामान्यग्रहणम्। क्तिच् — तनिता। तनितुम्। तन्तिः। क्तिन् — दीपिता। दीपितुम्। दीप्तिः। तु — **सितनिगमिमसिसच्यविधाञ्क्रुशिभ्यस्तुन्** (प०उ०१.६९) — सचिता। सचितुम्। सक्तुः। त्र — **दाम्नीशसयुयुज०** (३.२.१८२) इति ष्ट्रन्। पतिता। पतितुम्। पत्त्रं वाहनम्। उणादिष्वपि **सर्वधातुभ्यः ष्ट्रन्** (प०उ० ४.१६०) — तनिता। तनितुम्। तन्त्रम्। त — **हसिमृग्रिण्वामिदमिलूपूधुर्विभ्यस्तन्** (प०उ० ३.८६) — हसिता। हसितुम्। हस्तः। लविता। लवितुम्। लोतः। पविता। पवितुम्। पोतः। धूर्विता। धूर्वितुम्। धूर्तः। औणादिकस्यैव तशब्दस्य ग्रहणमिष्यते, न पुनः क्तस्य। हसितमित्येव हि तत्र भवति। थ — **हनिकुषिनीरमिकाशिभ्यः क्थन्** (प०उ० २.२.) — कोषिता। कोषितुम्। कुष्ठम्। काशिता। काशितुम्। काष्ठम्। सि — **प्लुषिशुषिकुषिभ्यः क्सिः** (प०उ० ३.१५५) — कोषिता। कोषितुम्। कुक्षिः। सु — **क्सुश्च इषेः** (द०उ० १.१५४) — एषिता। एषितुम्। इक्षुः। सर — **अशेःसरन्** (प०उ० ३.७०) — अशिता। अशितुम्। क — **इण्भीकापाशल्यतिमर्चिभ्यः कन्**(प०उ० ३.४३) — शलिता। शलितुम्। शल्कः। स — **वृतृवदिहनिकमिकषियुमुचिभ्यःसः** (द०उ० ९.२१) — वदिता। वदितुम्। वत्सः॥ तितुत्रतथेष्वग्रहादीनामिति वक्तव्यम्॥ ग्रहादयो ग्रहप्रकाराः, येषामिट् क्तिनि दृश्यते। निगृहीतिः। उपस्निहितिः। निकुचितिः। निपठितिः। कृतीत्येव — रोदिति। स्वपिति॥ Siddhanta Kaumudi ----------------- एषां दशानां कृत्प्रत्ययानामिण्न स्यात् । शस्त्रम् । योत्रम् । योक्त्रम् । स्तोत्रम् । तोत्रम् । सेत्रम् । सेक्त्रम् । मेढ्रम् । पत्रम् । दंष्ट्रा । नद्ध्री ॥ Laghu Siddhanta Kaumudi ----------------------- एषां दशानां कृत्प्रत्ययानामिण् न। शस्त्रम्। योत्रम्। योक्त्रम्। स्तोत्रम्। तोत्त्रम्। सेत्रम्। सेक्त्रम्। मेढ्रम्। पत्त्रम्। दंष्ट्रा। नद्ध्री॥ Balamanorama ------------ **तितुत्रतथसिसुसरकसेषु च** - तितुत्रत । ति, तु, त्र, त,थ, सि, सु, सर, क , स एषां दशानां द्वन्द्वः । अत्रसरे॑त्येकम् । ति, — तन्तिः ।स्त्रिया॑मिति क्तिन् । तु- सक्तुः ।तनिगमी॑त्यादिनातु॑प्रत्ययः । त्र, — शस्त्रम्, पत्रम् ।दाम्नी॑ति त्रप्रत्ययः । त, — हस्तः । औणादिकस्तप्रत्ययः । क्तप्रत्यये तु हसितमित्येव । थ — कुष्टम् । औणादिकः क्थप्रत्ययः । सि — कुक्षिः । कुषेरौणादिकः क्सिप्रत्ययः । सु — इक्षुः । इषेरौणादिकः क्सुप्रत्ययः । सर — अक्षरम् । अशेः सरन् । कृ शल्कः । शलेः कः । स — वत्सः ।वदेः सः॑ । मेढ्रमिति । 'मिह सेचने' त्रः । ढत्वध्तवष्टुत्वलोपाः । दंष्ट्रेति । दंशधातोस्त्रः । क्ङित्प्रत्ययाऽभावान्नलोपो न । सूत्रे दशेति शपा नर्देशात्दंशसञ्जे॑ति नलोपः । केचित्तु देशेत्यकार उच्चारणार्थः । नलोपनिर्देशात्क्वचिदन्यस्मिन्नपि प्रत्यये अक्ङित्यपि नलोप इति 'दशन दन्ताः' इत्याहुः । नद्ध्रीति । नह्रते अनयेति विग्रहः । चर्मरज्जुः । 'नह बन्धने' त्रः । 'नहो धः'झषस्तथो॑रिति तस्य धः । षित्त्वाङीष् । Tattvabodhini ------------- **तितुत्रतथसिसुसरकसेषु च** - मेढ्रमिति ।हो ढः॑ । धत्वष्टुत्वढलोपाः । दंष्ट्रेति । षित्वेऽपि ङीषिह न भवति,अनित्यः षितां ङी॑षित्युक्तत्वात् । अन्ये त्वजादिपाठाट्टापमाहुः । नद्द्रीति ।नहो धः॑ इति धत्वम् ।झषस्तथोर्धोऽधःट इति जश्त्वम् । सूत्रेदशे॑ति नलोपिनो निर्देशो ज्ञापकः — क्वचिदकित्यपि दंशेर्नलोपो भवती॑ति । तेन दंश दशने इत्यस्माल्ल्युटिदशना दन्ता॑ इति सिद्धम् । न च सन्निधानात् ष्ट्रन्येव नलोपः स्यादिति वाच्यम्,सुनो दन्तदंष्ट्रे॑ति निर्देशात् । Padamanjari ----------- क्तिन्क्तिचोः सामान्येन ग्रहणमिति । रोदितीत्यस्य तिप एकानबचन्धकस्याप्यग्रहणम् कृति इत्यनुवृतेः । दीप्तिरिति । क्तिन्नाबादिभ्यश्चः इति क्तिन् । औणादिकस्यैवेति । एतच्च भूयोभिरौणादिकैः साहचर्याल्लभ्यते । ततुत्रेष्विति । अस्मिन् सूत्र इत्यर्थः । अग्रहादीनामिति । ग्रहदिव्यतिरिक्तानां धातूनां सम्बन्धिषु तितुत्रादिषु प्रतिषेध इत्यर्थः । आदिशब्दः प्रकार इत्याह - ग्रहप्रकारा इति । कः पुनः प्रकारः इत्यह - येषामिति । निकृचितिरिति । कुञ्चेः पूर्ववत् क्तिन्, उपधालोपः, कुच शब्दकरणे इत्यतस्माद्वा क्तिन् ॥ Prakriyasarvasvam ----------------- तिप्रभृतिषु दशसु प्रत्ययेष्विण् न स्यात् । शस्त्रम् । तुतथादय उणादौ । यु मिश्रणे । योत्रम् । चोः कुः । योक्त्रं रज्जुः । स्तोत्रम् । खरि चर् । तोत्त्रम् । सेत्रम् । सेक्त्रम् । मिहेर्ढत्वादि । मेढ्रम् । पत्रम् । दंश् इति धातुः । छशां षः । ष्टुत्वम् । दंष्ट्रा । अनित्यः षितां ङीष् । 'नहो धः' । 'झषस्तथोः—' (८-२-४०) इति तस्य घः । ङीप् । नद्ध्री रज्जुः । पाधातोश्च भोजः । पात्रं पात्री ॥ Vartika ------- तितुत्रेष्वग्रहादीनामिति वक्तव्यम् ।