72006: ऊर्णोतेर्विभाषा ====================== **Padacheda:** ऊर्णोतेः | S | 6 | 1 | विभाषा | S | 1 | 1 | Sutrartha --------- **** Vasu English Summary -------------------- Before an इट् beginning substituted-Aorist of the परस्मैपद there is optional वृद्धि of the vowel of ऊर्णु। Vasu English Translation ------------------------ Before an इट् beginning substituted-Aorist of the परस्मैपद there is optional वृद्धि of the vowel of ऊर्णु। As प्रौर्णावीत् or प्रौर्णवीत् ॥ This option applies when the सिच् is not treated as ङित् ॥ But after ऊर्णु, सिच् is optionally ङित्, (1.2.6): when it is ङित्, there being neither *guna* nor *vriddhi*; we have उवङ् substitution, as प्रौर्णुवीत् (6.4.77). Kashika ------- ऊर्णोतेरिडादौ सिचि परस्मैपदपरे परतो विभाषा वृद्धिर्न भवति। प्रौर्णवीत्, प्रौर्णावीत्। **विभाषोर्णोः**(१.२.३) इत्यङित्त्वपक्षे वृद्धिविकल्पोऽयम्। ङित्त्वपक्षे तु गुणवृद्ध्योरभाव उवङ् भवति। प्रौर्णुवीत्॥ Siddhanta Kaumudi ----------------- इडादौ सिचि परस्मैपदे परे वा वृद्धिः स्यात् । पक्षे गुणः । और्णावीत् । और्रणविष्टाम् । और्णाविषुः । और्णवीत् ।{$ {!1040 द्यु!} अभिगमने$} । द्यौति । द्योता ।{$ {!1041 षु!} प्रसवैश्वर्ययोः$} । प्रसवोऽभ्यनुज्ञानम् । सोता । असौषीत् ।{$ {!1042 कु!} शब्दे$} । कोता ।{$ {!1043 ष्टुञ्!} स्तुतौ$} । स्तौति । स्तवीति । स्तुतः । स्तुवीतः । स्तुते । स्तुवीते । स्तुसुधूञ्भ्यः - (SK2385) इतीट् । अस्तावीत् । प्राक्सितात् - (SK2276) इति षत्वम् । अभ्यष्टौत् । सिवादीनां वा (SK2359) । पर्यष्टौत् । प्रयस्तौत् ।{$ {!1044 ब्रूञ्!} व्याक्तायां वाचि$} ॥ Laghu Siddhanta Kaumudi ----------------------- इडादौ सिचि वा वृद्धिः परस्मैपदे परे । पक्षे गुणः । और्णावीत्, और्णुवीत् । और्णवीत् और्णाविष्टाम्, और्णुविष्टाम् और्णविष्टाम् । और्णुविष्ट, और्णविष्ट । और्णुविष्यत्, और्णविष्यत् । और्णुविष्यत, और्णविष्यत ॥इत्यदादयः ॥ Balamanorama ------------ **ऊर्णोतेर्विभाषा** - ऊर्णोतेर्विभाषा ।सिचि वृद्धिः परस्मैपदेषु॑ इत्यनुवर्तते,नेटी॑त्यत इटीति च । तदाह — इडादाविति । आत्मनेपदे तु लुङि और्णविष्ट और्णुविष्ट । और्णविष्यत् — और्णुविष्यत् । और्णविष्यत — और्णुविष्यत । द्यु इति । अनिट् । द्यौतीति । उतो वृद्धिः । सार्वधातुके लिटि च युधातुवत् । द्योतेति । द्योष्यति । अद्यौषीत् । षु प्रसव इति । षोपेशोऽयम् । अनिट् । सौतीत्यादि द्युदातुवत् । एवं कु शब्दे इतय्पि । ष्टुञ् स्तुताविति । उभयपदी अनिट् । 'तुरुस्तुशम्ययः' इति ईड्विकल्पम्, ईडभावपक्षे तु उतो वृदिंध च मत्वा आह — स्तौति स्तवीतीति । स्तुवन्ति । स्तौषि — स्तवीषि, स्तुथः — स्तुवीथः, स्तुथ-स्तुवीथ । स्तौमि-स्तवीमि, स्तुवःस्तुवीमः । स्तुमः । स्तुवीमः । आत्मनेपदे लटि ईड्विकल्पं मत्वा आह — स्तुते । स्तुवीते इति । स्तुवाते स्तुवते । स्तुषे — स्तुवीषे स्तुवाथे स्तुध्वे-स्तुवीद्वे ।स्तुवे स्तुवहे — स्तुवीवहे स्तुमहे — स्तुवीमहे । लिटि — तुष्टाव तुष्टुवतुः तुष्टुवुः । क्रादित्वात्थल्यपि नेड्भवति । तुष्टोथ तुष्टुवथुः तुष्टुव । तुष्टाव — तुष्टव । तुष्टुव तुष्टुम । तुष्टुवे इत्यादि । स्तोता । स्तोष्यति स्तोष्यते । स्तौतु — स्तुवीतु, स्तुतात् — स्तुवीतात्, स्तुताम् — स्तुवीताम्, स्तुवन्तु । स्तुहि — स्तुवीहि, स्तुतात् — स्तुवीतात्, स्तुतम्-स्तुवीतम्, स्तुत-स्तुवीत । स्तवानि स्तवाव स्तवाम । स्तुताम् — स्तुवीताम्, स्तुवाताम्, स्तुवताम् । स्तुष्व — स्तुवीष्व स्तुवाथाम् स्तुध्वम् — स्तुवीध्वम् । स्तवै स्तवावहै स्तवावहै । लङि — अस्तौत्-अस्तवीत् अस्तुताम् — अस्तुवीतामस्तुवन् । अस्तौः — अस्तवीः, अस्तुतम् — अस्तुवीतम्, अस्तुत — अस्तुवीत । अस्तवम्, अस्तुव-अस्तुवीव, अस्तुम-अस्तुवीम । अस्तुत — अस्तुवीत अस्तुवातामित्यादि । विधिलिङि स्तुयात् — स्तुवीयादित्यादि । आत्मनेपदे स्तोषीष्टेत्यदि । लुङि सिचि इडभावे प्राप्ते आह — स्तुसुधूञ्भ्य इति । तथा चइट ईटी॑ति सिज्लोपे सिचि वृद्धौ अस्तावीदिति फलति । अस्ताविष्टामित्यादि । 'स्तुसुधूञ्भ्यः' इत्यत्र परस्मैपदेष्वित्यनुवृत्तेरात्मनेपदे इण्न । अस्तोष्ट अस्तोषातामित्यादि । Tattvabodhini ------------- **ऊर्णोतेर्विभाषा** - ॒सिचि वृद्धि॑रिति सूत्रं,नेटी॑त्यत्र इटीति चानुवर्तत इत्याशयेनाह - इडादावित्यादि । स्तवीतीति ।तुरुस्तुशम्यमइति ईड्वा ।स्तुसुधूञ्भ्यः॑ इत्यत्र परस्मैपदेष्वित्युक्तेरात्मनेपदे तु नेट् । अस्तोष्ट । अस्तोषाताम् । Nyaas ----- नित्यं वृद्धिप्रसङ्गे प्राप्ते विकल्पार्थं वचनम्॥ `नेटि` (7.2.4) इति प्रतिषेधे प्राप्ते विकल्पार्थमिदमारभ्यते। `अकणीत्, अकाणीत्` इति। `अण रण वण कण भण क्वण` (धातुपाठः-444-446,449,447,450) इति भ्वादौ पठते। `अरणीत्? अराणीत्` इति। रणिरपि तत्रैव।`न्यकुटीत्` इति। `कुट कौटिल्ये (धातुपाठः-1366)। `न्यपुटीत्` इति। `पुट संश्लेषणे` (धातुपाठः-1367) ननु चात्र कुटादित्वान्ङित्त्वे सति **क्ङिति च** (1.1.5) इति प्रतिषेधो भविष्यति, ततो नैतन्नियुयर्थम्? `अतः इत्येतत्? कर्तव्यम्? इत्यत आह - `अत इत्येतस्मिन्नसति` इत्यादि। यदि `अतः` इति नोच्येत, ततोऽवश्यम्? **वदव्रजहलन्तस्याचः** (7.2.3) इत्यनुवर्तयितव्यम्; अन्यथा ह्रनिर्दिष्टस्थानिकत्वादिक एव लघोर्विकल्पेन वृद्धिः स्यात् - अदेवीदित्यादौ, अकाणीदित्यादौ त्वकारस्य न स्यात्। अज्ग्रहणानुवृत्तौ तु सत्यामज्लक्षमेयं वृद्धिः स्यात्, नेग्लक्षणा; निर्द्दिष्टस्थानिकत्वात्। यत्र हि स्थानी न निर्द्दिश्यते स इग्लक्षणाया वृद्धेर्विषयः, न तु यत्र स्थानो निर्दिश्यते सोऽपि, ततश्च **क्ङिति च** (1.1.5) इति प्रतिषेधो न स्यात्; तत्र `इकः` इत्यधिकारात्। तस्मान्न्यकुटीत्, न्यपुटीदित्यत्र विकल्पेन वृद्धिर्मा भूदित्येवमर्थमत इति वक्तव्यम्। `अतक्षीत्, अरक्षीत्` इति। `तक्षू त्वक्षू तनूकरणे` (धातुपाठः-655,656), `रक्ष पालने` (धातुपाठः-658)। इह सिच आनन्तर्येऽकारस्य वृद्धिरुच्यते, न क्वचिदनन्तरः सिच्? सम्भवति। तत्र `येन नाव्यवचानं तेन व्यवहितेऽपि वचनप्रामाण्यात्` (व्या।प।46) इति व्यवधानेऽपि वृद्ध्या भवितव्यम्। एवं यथा अकाणीदित्यत्र लघोरकारस्य भवति, तथा अचकासीदित्यत्रापि लघोरकारस्य वृद्ध्या भदितव्यमेव? इत्यनेनाभिप्रायेणाह - `अथेह कस्मान्न भवत्यचकासीत्` इति। `चकासृ दीप्तौ` (धातुपाठः-1074)। `येन` इत्यादि परीहारः। `हला व्यवधानमाश्रितम्` इति। हलन्तस्येत्यनुवृत्तेरित्यभिप्रायः।लघोरिति किमिति येनैवं पृष्टम्, स एवं लघुग्रहणं प्रत्याचिख्यासुराह - `अथ पुनः` इत्यादि। यद्येवं परिकल्प्यते, वचनप्रामाण्यद्धला व्यवधानमाश्रीयते, न त्वचा, `अतो लघोः` इति वक्तव्यम्, अन्यथा ह्रतक्षीदित्यादावपि स्यात्? अत्र हि हला व्यवधानम्, नाचा। अथ पुनरिवं परिकल्प्यते - `येन नाव्यवधानं तेन व्यवहतेऽपि वचनप्रामाण्यात` (व्या।प।46) इत्येकेन वर्णेन व्यवधानमाश्रीयते, न पुनरनेकेनेति नार्थो लघोरित्यनेनेति, न ह्रेवं परिकल्प्यमानेऽतक्षीदित्यादौ प्राप्नोति यद्यनेकेन वर्णेन व्यवधानम्? इत्यत आह - `तत्? क्रियते` इत्यादि॥ Prakriyasarvasvam ----------------- इडादौ परस्मैपदपरे सिचि पर ऊर्णोतेर्वृद्धिः वा स्यात् । और्णवीत् । और्णाविष्टाम् । वृद्ध्यभावे 'विभाषोर्णोः' इति इडादिप्रत्ययस्य वा ङित्त्वादुवङ्गुणौ । और्णुवीत् । और्णुविष्टाम्; और्णवीत् । और्णविष्टाम् । तङ्यपि वा ङित्त्वम् । और्णाविष्ट । और्णाविषाताम् । और्णुविष्ठाः । और्णुविढ्वम्, और्णुविध्वम् । और्णुविषि । और्णुविष्वहि । अङित्त्वे और्णविष्ट । और्णविषाताम् । इत्यादि । कर्मणि वा चिण्वत्त्वम् । अन्यत्तद्ववत् । और्णावि । और्णाविषाताम्, और्णुविषाताम् । और्णविषाताम् । इत्यादि । 'लिटि वाच्य ऊर्णोर्नुवद्भाव इति णुवदेकाच्त्वा- दामभावः ।