72005: ह्म्यन्तक्षणश्वसजागृणिश्व्येदिताम् ========================================= **Padacheda:** ह्म्यन्तक्षणश्वसजागृणिश्व्येदिताम् | S | 6 | 3 | Sutrartha --------- **** Vasu English Summary -------------------- The वृद्धि of the vowel of the following अङ्ग (stems), does not take place before the इट् augment s-Aorist in the परस्मैपद ; namely - the अङ्ग (stems) ending in 1. ह् 2. म् or 3. य् , the roots 1. क्षण् 2. श्वस् 3. जागृ , a stem formed with णि, the root श्वि and the roots having an indicatory ए in the धातुपाठ। Vasu English Translation ------------------------ The वृद्धि of the vowel of the following अङ्ग (stems), does not take place before the इट् augment s-Aorist in the परस्मैपद ; namely - the अङ्ग (stems) ending in 1. ह् 2. म् or 3. य् , the roots 1. क्षण् 2. श्वस् 3. जागृ , a stem formed with णि, the root श्वि and the roots having an indicatory ए in the धातुपाठ। Thus ग्रह, 'to catch' अग्रहीत्, स्यम्, 'to sound' अस्यमीत्, व्यय, 'to expend' अव्ययीत्, टुवम्, 'to vomit' अवमीत्, क्षण 'to hurt' अक्षणीत्, श्वस् 'to breathe' अश्वसीत्, जागृ 'to be awake' अजागरीत्, णि, ऊन (*churidi*) 'to lose' ऊनयीत्, ईल् 'to send' ईलयीत्, श्वि, अश्वयीत् ॥ एदिताम्, रगे 'to cover' अरगीत्, कखे, अकखीत् ॥ ह्मयन्तक्षणश्वसामेदितां च अतो हलादेर्लघोरिति विकल्पे प्राप्ते प्रतिषेधः ॥ जागृणिश्वीनां तु सिचि वृद्धिः प्राप्ता, सा च नेटीति न प्रतिषिध्यते, न वान्तरङ्गत्वादत्र पूर्वे गुणो भवति सिचि वृद्धेरनवकाशत्वात् ॥ यदि पूर्वं गुणः स्यादिहणिश्विग्रहणमनर्थकं स्यात् ॥ गुणायादेशयोः कृतयोर्यकारान्तत्वादेव प्रतिषेधस्य सिद्धत्वात् ॥ तस्मादिदमेव णिश्विग्रहणं ज्ञापकं न सिच्यन्तरङ्गमस्तीति ॥ अथ जागृग्रहणं किमर्थम् ॥ जाग्रोविचिण्णल्ङित्सुं इति जागर्तेर्गुणो वृद्धेरपवादो विधीयते ॥ स यथा अचो ज्णितीति वृद्धिं बाधते, तथा सिचि वृद्धिमपि बाधिष्यते ॥ नैतदस्ति ॥ कृते गुणऽतोल्रान्तस्येति या वृद्धिः प्राप्नोति सा प्रतिपिध्यते, ॥ अथ गुणविधानसामर्थ्यादुत्तरकालभाविन्यपि वृद्धिर्बाध्यते, ॥ यथा जागरयतीत्यत्रात उपधाया इत्यपि वृद्धिर्न भवति, तथा चिण्णलोः प्रतिषेधोर्थवान्भवति इति शक्यमिह जागृग्रहणमकर्त्तुम् ॥ तस्तु क्रियते विस्पष्टार्थम् ॥ In the case of roots ऊन and ईल in the above examples, the चङ् is prohibited by (3.1.51). This is an exception to (7.1.7) : so far as stems in ह्, य् and म् are concerned. There is no option allowed here. In the case of जागृ, णि roots, and श्वि, the *Vriddhi* would have taken place by (7.1.1) and (7.1.4), could not have debarred *Vriddhi*, hence the special mention of these roots. Nor can it be said, in the case of these roots, that "they will take first *guna*, on account of its being an *Antaranga* operation", because, then the rule of *Vriddhi* ordained by (VII.I.I) will find no scope. Moreover, if the *guna* took place first and then *Vriddhi*, the mention of णि-roots and श्वि in the *sutra* would be redundant. For in ऊनयीत् and अश्वयीत्, having gunated the roots ऊनि and श्वि to ऊने and श्वे, and then substituting अय् (which is also *antaranga* ) for ए before ईत्, we have ऊनय् + ईत्, and श्वय् + ईत् ॥ Now these are roots which end in य् and would be covered by the first portion of the present *sutra*, viz, "*h*-*m* *y*-*anta*", so the especial mention of णि-roots and श्वि would be superfluous, if *guna* was to take place first. The very mention of णि-roots and श्वि in this *sutra*, is a *jnapaka* (indicator) of the following maxim न सिचि अन्तरङ्गमस्ति ॥ Why have we used the root जागृ in the *sutra*, when the special *sutra* (7.3.85) will cause *guna* by superseding *Vriddhi* in the case of जागृ? This supersession will take place on the analogy of अचोऽञ्णिति (7.2.115); for as this *vriddhi* rule (7.2.115) is superseded by (7.3.85), so will the present *Vriddhi* rule (7.2.1). Ans. No, this is not so. No doubt (7.3.85) does supersede the *vriddhi* rule (7.2.1) and we have *guna*, as जागर् + ईत् ॥ Then comes in (7.2.2), which would cause *vriddhi*, because now it is a root ending in र; this second *Vriddhi* is prohibited by the present *sutra*. You can say, that by the very fact that the *guna* rule (7.3.85) takes effect, will prevent every future *Vriddhi*, as in जागरयति there is no penultimate *vriddhi* by (7.2.116) [जागृ + णि = जागर् + णि (7.3.85) = जागरि the rule (7.2.116) does not apply after *guna*] You can, of course, say so, and there is no answer to this but by saying that the mention of जागृ is only for the sake of distinctiess. In case the reading of जागृ in the *sutra* be held necessary, then the operations which it undergoes, are shown below: जागृ + इस् + ईत् ॥ Now appears (1) the rule (6.1.77). requiring the change of ॠ into र ॥ (2) This यणादेश is however, debarred by the rule (7.3.84) which causes *guna* of the finals of verbal stems before all *sarvadhatuka* and *ardhadhatuka* affixes, because this *guna* rule is an *apavada* to यणादेश ॥ (3) But this *guna* in its turn is debarred by the rule (VII.2. I) requiring the *vriddhi*. (4) But this *vriddhi* is, however, superseded by (7.3.85), which causes the *guna* of the final of जागृ ॥ Now having gunated it, we get this form : जागर् + इस् + ईत् ॥ Now appears (7.2.3) which requires *vriddhi*, because it is a root ending in a consonant. (2) But that *vriddhi* is superseded by (7.2.4) because the affix सिच् has taken the इट् augment. (3) Then appears the rule (7.2.7) requiring optional *vriddhi*, (4) But that optional *vriddhi* is superseded by the compulsory *vriddhi* requirred by (7.2.2), because it is a root ending in र ॥ (5) And this last *vriddhi* is prohibited by the present *sutra* (7.2.5). These nine stages through which the form अजागरीत् is evolved, is abbreviated in the following mnemonic verse :- गुणो वृद्धिर्गुणो वृद्धिः प्रतिषेधो विकल्पमम् ॥ पुनर्वृद्धिर्निषेधोऽतो यण्पूर्वाः प्राप्तयो नव ॥ Bhashya ------- ह्म्यन्तक्षणश्र्वसजागृणिश्र्व्येदिताम् किमर्थं जागर्तेर्वृद्धिप्रतिषेध उच्यते ? ॥ सिचि वृद्धिर्मा भूदिति ॥ नैतदस्ति प्रयोजनम् । जागर्तेर्गुण उच्यते, वृद्धिविषये प्रतिषेधविषये च स बाधको भविष्यति ॥ गुणे तर्हि कृते रपरत्वे च हलन्तलक्षणा वृद्धिः प्राप्नोति ॥ नेटीति तस्याः प्रतिषेधो भविष्यति ॥ इयं तर्हि - प्रतिषेधोत्तरकाला वृद्धिरारभ्यतेऽतो ल्रान्तस्येति ॥ अपर आह - कक्ष्यया कक्ष्या निमातव्या । सिचि वृद्धिश्च प्राप्नोति गुणश्च । गुणो भवति । गुणे कृते रपरत्वे च हलन्तलक्षणा वृद्धिः प्राप्नोति । नेटीति च(1) तस्याः प्रतिषेधो भवति । प्रतिषेधोत्तरकालमतो हलादेर्लघोरिति विभाषा वृद्धिः प्राप्नोति । न च किं चित् । अतो ल्रान्तस्येति च(1) वृद्धिः प्राप्नोति । न च(2) किंचित् ॥ ( ह्म्यन्तक्षणश्र्वसजागृणिश्र्व्येदिताम् ) ॥ Kashika ------- हकारान्तानां मकारान्तानां यकारान्तानामङ्गानां क्षण श्वस जागृ णि श्वि इत्येतेषामेदितां च इडादौ सिचि परस्मैपदे परतो वृद्धिर्न भवति। ग्रह — अग्रहीत्। स्यम — अस्यमीत्। टुवम — अवमीत्। व्यय — अव्ययीत् । क्षण — अक्षणीत्। श्वस — अश्वसीत्। जागृ — अजागरीत्। णि — औनयीत्। ऐलयीत्। श्वि — अश्वयीत्। एदिताम् — रगे — अरगीत्। कखे — अकखीत्। ह्म्यन्तक्षणश्वसामेदितां च **अतो हलादेर्लघोः** (७.२.७) इति विकल्पे प्राप्ते प्रतिषेधः। जागृणिश्वीनां तु सिचि वृद्धिः (७.२.१) प्राप्ता, सा च **नेटि** (७.२.४) इति न प्रतिषिध्यते। न चान्तरङ्गत्वादत्र पूर्वं गुणो भवति, सिचि वृद्धेरनवकाशत्वात्। यदि पूर्वं गुणःस्यादिह णिश्विग्रहणमनर्थकं स्यात्, गुणायादेशयोः कृतयोर्यकारान्तत्वादेव प्रतिषेधस्य सिद्धत्वात्। तस्मादिदमेव णिश्विग्रहणं ज्ञापकं न सिच्यन्तरङ्गमस्तीति। अथ जागृग्रहणं किमर्थम्,**जाग्रोऽविचिण्णल्ङित्सु** (७.३.८५) इति जागर्तेर्गुणो वृद्धेरपवादो विधीयते, स यथा **अचो ञ्णिति** (७.२.११५) इति वृद्धिं बाधते तथा सिचि वृद्धिमपि बाधिष्यते? नैतदस्ति। कृते गुणे **अतो ल्रान्तस्य** (७.२.२) इति या वृद्धिः प्राप्नोति, सा प्रतिषिध्यते। अथ गुणविधानसमार्थ्यादुत्तरकालभाविन्यपि वृद्धिर्बाध्यते, यथा जागरयतीत्यत्र **अत उपधायाः** (७.२.११६) इत्यपि वृद्धिर्न भवति, तथा च चिण्णलोः प्रतिषेधोऽर्थवान् भवतीति शक्यमिह जागृग्रहणमकर्तुम्। तत् तु क्रियते विस्पष्टार्थम्॥ Siddhanta Kaumudi ----------------- हमयान्तस्य क्षणादेर्ण्यन्त्य श्वयतेरेदितश्च वृद्धिर्न स्यादिडादौ सिचि । अकटीत् ।{$ {!295 अट!} {!296 पट!} गतौ $}। आट । आटतुः । आटुः । पपाट । पेटतुः । पेटुः ।{$ {!297 रट!} परिभाषणे$} । रराट ।{$ {!298 लट!} बाल्ये$} । ललाट ।{$ {!299 शट!} रुजाविशरणगत्यवसादनेषु$} । शशाट ।{$ {!300 वट!} वेष्टने$} । ववाट । ववटतुः । ववटुः । ववटिथ ।{$ {!301 किट!} {!302 खिट!} त्रासे $}। केटति । खेटति ।{$ {!303 शिट!} {!304 षिट!} अनादरे $}। शेटति । शिशेट । सेटति सिषेट ।{$ {!305 जट!} {!306 झट!} संघाते $}।{$ {!307 भट!} भृतौ$} ।{$ {!308 तट!} उच्छ्राये$} ।{$ {!309 खट!} काङ्क्षायां {!310 णट!} नृत्तौ$} ।{$ {!311 पिट!} शब्दसंघातयोः$} ।{$ {!312 हट!} दीप्तौ$} ।{$ {!313 षट!} अवयवे$} ।{$ {!314 लुट!} विलोडने$} । डान्तोऽयमित्येके ।{$ {!315 चिट!} परप्रेष्ये$} ।{$ {!316 विट!} शब्दे$} ।{$ {!317 बिट!} आक्रोशे$} । बशादिः । हिटेत्येके{$ {!318 इट!} {!319 किट!} {!320 कटी!} गतौ$} । एटति । केटति । कटति । ईकारः श्वीदितो निष्ठायाम् (SK3039) इतीण्निषेधार्थः । केचित्तु इदितं मत्वा नुमि कृते कण्टतीत्यादि वदन्ति । अन्ते च इ ई इति प्रश्लिष्य । अयति । इयाय । इयतुः । इयुः । इययिथ । इयेथ । इयाय । इयय । दीर्घस्यतु इजादेश्च-(SK2237) इत्यामि अयांचकारेत्याद्युदाहरन्ति ।{$ {!321 मडि!} भूषायाम्$} ।{$ {!322 कुडि!} वैकल्ये$} । कुण्डति । कुण्डत इति तु दाहे गतम् ।{$ {!323 मुड!} {!324 प्रुड!} मर्दने$} ।{$ {!325 चुडि!} अल्पीभावे$} ।{$ {!326 मुडि!} खण्डने$} । मुण्डति । पुडि चेत्येके । पुण्डति{$ {!327 रुटि!} {!328 लुटि!} स्तेये$} । रुण्टति । लुण्टति । रुठि लुठि इत्येके । रुडि लुडि इत्यपरे{$ {!329 स्फुटिर्!} विशरणे$} । इरित्वादङ्वा । अस्फुटत् । अस्फोटीत् । स्फुटि इत्यपि केचित् । इदित्त्वान्नुम् । स्फुण्टति ।{$ {!330 पठ!} व्यक्तायां वाचि$} । पेठतुः । पेठिथ । अपठीत् । अपाठीत् ।{$ {!331 वठ!} स्थौल्ये$} । ववठतुः । ववठिथ ।{$ {!332 मठ!} मदनिवासयोः$} ।{$ {!333 कठ!} कृच्छ्रजीवे$} ।{$ {!334 रट!} परिभाषणे$} । रठेत्येके ।{$ {!335 हठ!} प्लुतिशठत्वयोः$} । बलात्कार इत्येके । हठति । जहाठ ।{$ {!336 रुठ!} {!337 लुठ!} {!338 उठ!} उपघाते$} । ओठति । ऊठेत्येके । ऊठति । ऊठांचकार ।{$ {!339 पिठ!} हिंसासंक्लेशनयोः$} ।{$ {!340 शठ!} कैतवे च$} ।{$ {!341 शुठ!} प्रतिघाते$} । शोठति । शुठीति स्वामी । शुण्ठति ।{$ {!342 कुठि!} च$} । कुण्ठति ।{$ {!343 लुठि!} आलस्ये प्रतिघाते च$} ।{$ {!344 शुठि!} शोषणे$} ।{$ {!345 रुठि!} {!346 लुठि!} गतौ$} ।{$ {!347 चुड्ड!} भावकरणे$} । भावकरणमभिप्रायसूचनम् । चुड्डति । चुचुड्ड ।{$ {!348 अड्ड!} अभियोगे$} । अड्डति । आनड्ड ।{$ {!349 कड्ड!} कार्कश्ये$} । कड्डति । चुड्डादयस्रयो दोपधाः । तेन क्विपि, चुत् । अत् । कत् । इत्यादि ।{$ {!350 क्रीडृ!} विहारे$} । चिक्रीड ।{$ {!351 तुडृ!} तोडने$} । तोडति । तुतोड । तूड इत्येके ।{$ {!352 हुडृ!} {!353 हूडृ!} {!354 होडृ!} गतौ$} । हुड्यात् । हूड्यात् । होड्यात् ।{$ {!355 रौडृ!} अनादरे$} ।{$ {!356 रोडृ!} {!357 लोडृ!} उन्मादे$} ।{$ {!358 अड!} उद्यमे$} । अडति । आड । आडतुः । आडुः ।{$ {!359 लड!} विलासे$} । लडति । लडयोर्लळयोश्चैकत्वस्मरणाल्ललतीति स्वम्यादयः ।{$ {!360 कड!} मदे$} । कडति । कडि इत्येके । कण्डति ।{$ {!361 गडि!} वदनैकदेशे $}। गण्डति । इति टवर्गीयान्ताः ॥ अथ पवर्गीयान्ताः । तत्रानुदात्तेतः स्तोभत्यन्ताश्चतुस्त्रिंशत् ।{$ {!362 तिपृ!} {!363 तेपृ!} {!364 ष्टिपृ!} {!365 ष्टेपृ!} क्षरणार्थाः$} । आद्योऽनुदात्तः । क्षीरस्वामी त्वयं सेडिति बभ्राम । तेपते । तितिपे । क्रादिनियमादिट् । तितिपिषे । तेप्ता । तेप्स्यते ॥ Laghu Siddhanta Kaumudi ----------------------- हमयान्तस्य क्षणादेर्ण्यन्तस्य श्वयतेरेदितश्च वृद्धिर्नेडादौ सिचि । अकटीत् । अकटिष्यत् ॥ {$ {! 12 गुपू !} रक्षणे $} (धातुपाठे (01.0461))॥ Balamanorama ------------ **ह्म्यन्तक्षणश्वसजागृणिश्व्येदिताम्** - ह्रन्त । ह्रन्त क्षम आस जागृ इआ एदित् — एषां द्वन्द्वात्षष्ठी । ह् म् य् इत्येते वर्णा येषामन्तेते ह्रन्ताः । तदाह — हमयान्तस्येति । क्षणादेरिति । आदिना आस जागृ इत्यनयोग्र्रहणम् । ण्यन्तस्येति । प्रत्ययग्रहणपरिभाषया णिग्रहणेन तदन्तग्रहणमिति भावः । आयतेरिति । इआधातोरित्यर्थः । एदित इति । एत् इद्यस्येति विग्रहः । वृद्धिर्न स्यादिति ।सिचि वृद्धि॑रित्यतो,नेटी॑त्यतश्च तदनुवृत्तेरिति भावः । इडादौ सिचीति ।सिचि वृद्धि॑रित्यतः सिचीति,नेटी॑त्यत इटीति चानुवर्तत इति भावः । अकटीदिति । एदित्वान्न वृद्धिः । अट पटेति ।अत आदे॑रिति दीर्घं मत्वाह - आटेति । पेटतुरिति । एत्त्वाभ्यासलोपौ । वटवेष्टने । ववटतुरिति ।न शसददवादिगुणाना॑मिति निषेधः । ववटिथेति । अत्रथलि च सेटी॑ति प्राप्तस्यन शसददे॑ति निषेधः । किट खिट त्रास इति । यद्यपि 'इट किट कटी गता' विति अग्रे किटधातुः पठते, तथाप्यर्थ भेदात्पुनरिह पाठः । खिट त्रासे,किट गतौ चेति पठितुं युक्तम् । शिट षिटेति । आद्यस्तालव्यादिः । द्वितीयस्तु षोपदेशः । जट झटेति । आद्यस्य अवैरूप्यापादकादेशादित्वादेत्त्वाऽभ्यासलोपौ । द्वितीयस्य तु न । जेटतुः जझटतुः । णट नृत्ताविति । णोपदेशेः । चुरादारेव नाटेः पर्युदासादयं णोपदेश एव । प्रणटति । इट किट कटी गताविति ।कटे वर्षाऽवरणयो॑रिति कटिः पूर्वमेदित्पठितः । इह ईदित्पठते । एदित्त्वाऽभावात् ह्रन्तेति वृद्धिनिषेधो न भवति । अकटीत् अकाटीत् । ननु तर्हि कटेत्येव कुतो न पठत इत्यत आह — ईकार इति । केचित्त्विति । कटि इति ह्रस्वान्तपाठं मत्वा इदित्त्वान्नुमि कृते अनुस्वारे परसवर्णे च कण्टतीति वदन्तीत्यर्थः । अन्ये त्विति । उदाहरन्तीत्यन्वयः । प्रश्लिष्येति । कटीत्यनन्तरम् इ ई इति धातुद्वयं सवर्णदीर्घेण प्रश्लिष्य निर्दिष्टमिति भावः । अयतीति । इधातोर्लटि शपि गुणेऽयादेशः । इयायेति । णलि द्वित्वे वृद्धौ आयादेशे 'अभ्यासस्याऽसवर्णे' इति इयङ् । इयुतिरिति । इकारोऽत्र ह्रस्वः । तथाहि — इ-अतुसिति स्थिते कित्त्वाऽद्गुणाऽभावेद्विर्वचनेऽची॑ति निषेधाद्यणभावे 'इ' इत्यस्य द्वित्वे इ इ अ — तुसिति स्थिते सवर्णपरकत्वादभ्यासस्य इयङभावे सति 'वार्णादाङ्गं बलीय' इति सवर्णदीर्घं बाधित्वा 'एरनेकाच' इत्युत्तरखण्डस्य यणिइयतु॑रिति रूपम् । इधातोर्भारद्वाजनियमात्थलि वेट् । तत्र इट्पक्षे रूपमाह — इययिथेति । थलि द्वित्वे इटि पित्त्वेन कित्त्वाऽभावाद्गुणेऽयादेशेऽभ्यासस्य इयङ् । न चाऽचः परस्मिन्निति गुणस्य स्थानिवत्त्वेनाऽसवर्णपरत्वाऽभावात्कथमभ्यासस्य इयङिति वाच्यम्, असवर्णग्रहणसामर्थ्यादेव स्थानिवत्त्वाऽप्रसक्तेः । एवं णलि इयायेत्यत्रापि वृद्धेर्न स्थानिवत्त्वम् । थलि इडभावपक्षे रूपमाह — इयेथेति । थलि द्वित्वे गुणेऽभ्यासस्येयङ् । अथुसि इयथुः । इयेति । थस्य अकारादेशे द्वित्वे उत्तरखण्डस्य 'एरनेकाच' इति यणि रूपम् ।णलुत्तमो वे॑ति णित्त्वपक्षे आह-इयायेति । द्वित्वे पित्त्वेन कित्त्वाऽभावाद्वृद्धावायादेशेऽभ्यासस्य इयङ् । णित्त्वाभावे आह — इययेति । द्वित्त्वे पित्त्वेन कित्त्वाऽभावाद्गुणेऽयादेशेऽभ्यासस्येयङ् । वसि मसि च क्रादिनियमान्नित्यमिटि द्वित्वे उत्तरखण्डस्य 'एरनेकाच' इति यणि इयिव इयिमेति रूपम् । एता एष्यति अयतु आयत् अयेत् । आशीर्लिङि तुअकृत्सार्वधातुकयो॑रिति दीर्घः । ईयात् । सिचि वृद्धिः । ऐषीत् । ऐष्यत् । दीर्घस्य त्विति । दीर्घस्य ईधातोरित्यर्थः । तस्य लिटं वर्जयित्वा लडादिषु पूर्ववत् । लिटि विशेषमाह — अयाञ्चकारेति । ईधातोरामि गुणे अयादेशः, अनुप्रयोगश्च । कुडि वैकल्य इति । वैकल्यमविवेक इत्याहुः । अपूर्णभावो वा । मुड प्रुड मर्दन इत्यादि । स्पष्टम् । पठधातोर्लिटि अतुसादौ किति एत्वाभ्यासलोपौ । तदाह - पेठतुरिति । पेठिथेति । पित्त्वेन अकित्त्वेऽपिथलि च सेटी॑त्येत्त्वाभ्यासलौपौ । अपठीत् अपाठीदिति ।अतो हलादेर्लघो॑रिति वृद्धिविकल्पः । वठ स्थौल्य इति । स्थौल्यं — स्थूलीभवनम् ।न शसददवादिगुणाना॑मित्येत्वाभ्यासलोपनिषेध इति मत्वाह — ववठतुः । ववठिथेति । दोपधा इति । ष्टुत्वेन डोपधनिर्देश इति भावः । चुदिति । चुड्डधातोः क्विपि हल्ङ्यादिना सुलोपे द्वितीयस्य डस्य संयोगान्तलोपे ष्टुत्वनिवृत्तौ 'वावसाने' इति चर्त्त्वे चुदिति रूपम् । अदिति । अड्डधातोः क्विपि पूर्ववद्रूपम् । कदिति । कड्डधातोः क्विपि रूपम् । इत्यादीति । आदिना जश्त्वेन चुदित्यादिसङ्ग्रहः । एकत्वस्मरणादिति ।शिक्षादा॑विति शेषः । गडडि वदनेति । तवर्गान्तेषु गडीति गतम् । परस्मैपदिनः शौटु गर्व इत्यादयो गताः । तिपृ इति । प्रथमतृतीयाविदुपधौ । द्वितीयचतुर्थौ एदुपधौ । तृतीयचतुर्थौ षोपदेशौ च,तकारस्य ष्टुत्वेन टकारस्य निर्दिष्टतया दन्त्यपरकसादित्वात् । आद्य इति । तिपृधातुरित्यर्थः । भाष्यादावनुदात्तोपदेशेष्वस्य पाठादिति भावः । बभ्रामेति । भाष्यविरुद्धत्वादिति भावः । आद्यस्योदाहरति — तेपत इति । शपि लघूपधगुणः । तितिप इति ।असंयोगा॑दिति कित्त्वान्न गुणः । अथ तितिपिष इत्यत्र 'एकाच उपदेश' इति निषेधमाशङ्क्याह - क्रादिनियमादिति । तेप्स्यत इति । लोडादौ तु तेपतामा, अतेपत, तेपेत । अथाशीर्लिङि सीयुटि सुटि तिप्सीष्टेति रूपं वक्ष्यति । तत्र लघूपधगुणे प्राप्ते — । Tattvabodhini ------------- **ह्म्यन्तक्षणश्वसजागृणिश्व्येदिताम्** - हृयन्तलक्षणां अग्रहीत् । टुवम् । अवमीत् । हय गतौ । अहयीत् । क्षणु हिंसायाम् । अक्षणीत् । आस प्राणने । अआसीत् । जागृ निद्राक्षये । अजागरीत् ण्यन्ते छन्दसिनोनयतिध्वनयती॑ त्यादिना चङि निषिद्धे औनयीदिति उदाहरणम् । टुओश्वि । अआयीत् । इडादौ सिचीति । इडादौ किम् । दह भस्मीकरणे । अधक्षीत् । किट खिट । इट किटेति किटिर्गतौ पठिष्यते । इह पाठस्त्वर्थभेदात् । जट झट । जेटतुः । जझटतुः । इह त्वादेशादित्वादेत्वाभ्यासलोपौ न । खट ।अशूप्रुषिलटिखटिकणिविशिभ्यः क्वन् । खट्वा । णट नृतौ । प्रणटति । णोपदेशपर्युदासे नाटीति सवृद्धिकनिर्देशेननट अवस्यन्दने॑ इति चौरादिकस्यैव ग्रहणादयं णोपदेश एव । हट दीप्तौ । हाटकं — सुर्वणम् ।संज्ञायां चे॑ति ण्वुल् बाहुलकादस्त्रियामपि । षट । पटाद्यजन्ताट्टाप् ।॒सटा जटाकेसरयोःर॑ । चिट ।सर्वधातुभ्यः॑ इतिऔणादिक इन् । चेटिः ।कृदिकारात् — ॑ इति ङीष् । चेटी । विट । इगुपधलक्षणः कः । विटः । इयायेति । द्वित्वे कृते णलि वृद्धौ सत्यामायादेशः ।अभ्यासस्याऽसवर्णे॑ इति इयङ् । ईयतुरिति । द्वित्वे ककृतेएरनेकाच॑ इति यणं बाधित्वा अन्तरङ्गत्वात्सवर्णदीर्घः । ततःअचि श्नुधातु-॑ इतीयङ् । एकादेशस्य पूर्वान्तवत्त्वेन अभ्यासग्रहणेन ग्रहणात्अभ्यासस्याऽसवर्णे॑ इत्यनेनेत्येके । केचित्तु — वार्णादाङ्गं बलीयःर॑ इति दीर्घं बाधित्वा यण् । न चेह समानाश्रयत्वं नेति वाच्यम्, अभ्यासोत्तरस्येकारस्य सवर्णदीर्घयणौ प्रति स्थानित्वेन तयो समानाश्रयत्वात् । अत एव ईयतुरित्यत्रइणो यण् इति यणै ततोदीर्घ इणः किति॑ इत्यब्यासस्य दीर्घो विधीयते । अन्यथा सूत्रमिदं निर्विषयं स्यात्, अभ्यासाऽभावादित्याहुः । स्यादेतत् — णल्थलोस्त्वभ्यासस्येयङ् दुर्लभः, तस्मिन्कर्तव्येअचः परस्मिन्-॑ इति वृद्धिगुणयोः स्थानिवद्भावेन असवण इति प्रतिषेधादिति चेत् । अत्राहुः — न ह्रेकमुदाहरणं योगारम्भं प्रयोजयति । अन्यथा ह्रभ्यासस्यार्ताविति ब्राऊयात् । एवं चान्तरङ्गत्वात्सवर्णदीर्घे कृते ततो वृद्धिगुणयोः सतोर्णलि आय, थलि — एथ । इट्पक्षे तु अयिथेति स्यादित्याशङ्कापि न कार्या,अब्यासस्याऽसवर्णे॑ इत्यस्य वैयथ्र्यापत्तेरिति । एता । एष्यति ।अकृत्सार्वेति दीर्घः । ईयात् । ऐषीत् । कुडि । वैकल्यविवेकः । तुड्ट । तोडनं दारणं हिंसनं च । रोड्ट लोड्ट । उन्मादश्चित्तविभ्रमः । गडि वदनैकदेशे । टवर्गीयप्रकरणादिह पाठस्तु उचितः । अन्तत्यादिषु तुपञ्चैते न तिङ्विषया॑ इति मतान्तरं बोधयितुं प्रसङ्गादुपन्यस्तः । तिपृ तेपृ । Padamanjari ----------- उदाहरणेषु ग्रह उपादेने, स्यमु स्वनध्वन शब्दे, टुअवम उद्गिरणे, व्ययवितसमुत्सर्गे, क्षणु हिंसायाम्, श्वस प्रणने, जगृ निद्राक्षये, ऊन परिहाणे इल प्रेरणे चुरादी, टुअओश्वि गतिवृद्ध्योः, रगे लगे सगे सर्वरणे, कखे खगे कगे हसने इति धातवः । ऊनयत्येलयत्योर्नोनयतिध्वनयतीति चङ्ः प्रतिषेधः । यदि च पूर्व गुणः स्यादित्यादि । एतदपि सिचिवृद्धिसूत्र एव व्याख्यातम् । अथ जागृग्रहणं किमर्थमिति । येन पृष्ट्ंअ स एव यथैतन्न कर्तव्यं तथा दर्शयति - जाग्रोऽविचिण्णल्ङित्स्विति । कृते गुणे इत्यादि । अङ्गवृते पुनर्वृतावविधिः इत्येतत् नाश्रितम्, निष्ठितत्वस्य दुर्ज्ञानत्वात् । अथ त्विति । अन्यथा वृद्धिविषये गुणविधानमनर्थकं स्यादिति भावः । तथा चेति । चिण्णलोः प्रतिषेधेन उतरकालभाविवृद्धिमात्रं न भवतीति सामान्येन ज्ञाप्यते, न तूपधालक्षणवृद्धिर्न भवतीत्येवं विशेषेणेति भावः । जागृग्रहणे सति चायं सूत्राणां प्राप्तिक्रमः, जागृ - इस् - ईत् इति स्थिते पूर्व यण् प्राप्तः, तमपवादत्वात् सार्वधातुकार्धधातुकयोः इति गुणो बाधते, तमपि सिचि वृद्धिः, तामपि जागर्तिगुणः, तत्र कृते हलन्तलत्रणा वृद्धिः, तस्याः नेटि इति प्रतिषेधः, ततः **अतो हलादेर्लघोः** (7.2.7) इति वकल्पः, ततः अतो लरन्तस्य इति नित्या वृद्धिः, ततोऽयं प्रतिषेध थैति । आह च गुणो वृद्धिर्गुणो वृद्धिः प्रतिषेधो विकल्पनम् । पुनर्वृद्धिर्निषेदोऽतो यण्पूर्वाः प्राप्तयो नव ॥ Nyaas ----- `अग्रहीत्` इति। ग्रह उपादाने` (धातुपाठः- 1533)। `अस्यमीत्` इति। `स्थमु स्वन ध्वन शब्दे`(धातुपाठः-826)-828) `अवमीत्` इति। `टु वम उद्गिरणे` (धातुपाठः-849)। `अद्यतीत्` इति। `व्ययवित्तसमुत्सर्गे` (धातुपाठः-1932) `अक्षणीत्` इति। `क्षणु हिंसायाम्` (धातुपाठः-1465) अआसीदिति। `आसप्राणने` (दा।पा।1069)। `अजागरीत्` इति। `जागृ निद्राक्षये` (धातुपाठः-1072)। `औनयीत्? ऐलयीत्` `ऊन परिहाणे` (धातुपाठः-1888), [परिहरणे - धातुपाठः-] `ईल प्रेरणे` (धातुपाठः-1660), [`इल` - धातुपाठः-] चुरादिणिच्। `नोनयति` (3.1.51) इत्यादिना चङि प्रतिषिद्धे सिजेव भवति, **आडजादीनाम्** (6.4.72) इत्याट्, `आटश्च` (6.1.87) इति वृद्धिः। `अआयीत्` इति। `टु ओश्यि गतिवृद्द्योः` (धातुपाठः-1010)। `अरगीत्, अलगीत्? इति। `रगे लगे सङ्गे [रगे शंकायाम् - धातुपाठः-] (धातुपाठः-785,786)। `अस्थागीत्` इति। `स्थगे संवरणे` (धातुपाठः-790) [`ष्टगे` - धातुपाठः-] `अकखीत्` इति। `कखे हसने` (धातुपाठः-784)। `सा च नेटीति न प्रतिषिध्यते` इति। अनन्तराया हलन्तक्षणाया वृद्धेः प्रतिषेधः, न पूर्वस्याः। अथ किमर्थं णिइआग्रहणम्, यावतान्तरङ्गत्वादेवात्र गुणेन भवितव्यम्, कृते गुणेऽयादेशेन, ततश्च यकारान्तत्वादेव तथोः प्रतिषेधो भविष्यति? इत्याह - `न च` इत्यादि। इदमन्तरङ्गत्वं सिच्यभ्युपेत्योक्तम्। इदानीमन्तरङ्गत्वमेव सिचि नास्तीति दर्शयितमाह - `यदि` इत्यादि। किं कारणं णिइआग्रहणमनर्थकं स्यात्? इत्यात आह - `गुणायादेशयोः` इति। यदि तर्हि सिच्यन्तरङ्गत्वं नास्ति, यदुक्तं `अन्तरङ्गमपि गुणमेषा वृद्धिर्वचनाद्वाधते` इति तद्विरुध्यते? नास्ति विरोधः, अध्यारोप्यो तथाभिधानात्। `अथ` इत्यादि। अत्र वक्ष्यमाणोऽभिप्रायः। अथ जागृग्रहणं किमर्थमिति पृष्टस्य किं कारणं जागृग्रहणं न कर्तव्यमिति प्रश्नावसरे येनाभिप्रायेण पृष्टवांस्तमाविष्कर्त्तुमाह - `जाग्रोऽविचिण्` इत्यादि। यथा जागरयतीत्यादौ **अचो ञ्णिति** (7.2.115) इति प्राप्तां वृदिंध जागर्तर्गुणो बाधते तथा सिचिवृद्धिमपि बाधिध्यते, वृद्ध्यपवादत्वाद्गुणशास्त्रसय। `गृणे कत` इत्यादि। अकृते हि गणे या सिचि वृद्धिः प्राप्नोति सापवादत्वाद्गुणेन बाध्यते; अकृतार्थत्वाद्गुणशास्त्रस्य। न च साऽनेन वचनेन बाधिष्यते; किं तर्हि? गुणे कृते रपरत्वे च **अतो ल्रान्तस्य** (7.2.2) इत्युत्तरकालं या वृद्धि प्राप्नोति तस्याः प्रतिषेधो विधीयते, न च शक्या गुणेन बाधितुं सा। न हि **जाग्रोऽविचिण्णल्ङित्सु** (7.3.85) इति शास्त्रं पुनः प्रवर्त्तितुमुत्सहते; कृतार्थत्वात्। न चान्यद्गुणलक्षणमस्त्युत्तरकालवृद्धेर्बाधकम्। तत्र यदि जागग्रहणं न क्रियते, **अतो ल्रान्तस्य** (7.2.2) इति वृद्धि स्यात्। `अथ` इत्यादि चोदकः। यदि गुणेऽपि कृते पुनर्वृद्धिः स्यात्, वृद्धिविषये गुणविधानमनर्थकं स्यात्। तस्मात्? गुणविधानसामर्थ्याद्यापि गुणे कृते रपरत्वे च पश्चात्? **अतो ल्रान्तस्य** (7.2.2) इति वृद्धिः प्राप्नोति सा प्रतिषिध्यते, यथा - जागरयतीत्यत्र। गुणे कृते रपरत्वे च या प्राप्नोति **अत उपधायाः** (7.2.116) इत्युत्तरकालभादिनी वृद्धिः, साऽपि न भवति; गुणेन बाधितत्वात्। `तथा च` इत्यादि। गुणाविधानसामर्थ्यादुत्तरकालभाविन्यपि वृद्धिर्बाध्यते; अन्यथा हि गूणे कृते रपरत्वे च `अत उपधायाः` इत्युत्तरकालभाविनी वृद्धिः, साऽपि न भवति; गणेन बाधितत्वात्। `तथा च` इत्यादि। गुणविधानसामर्थ्यादुतरकालभाविन्यपि वृद्धिर्गुणेन बाध्यत इति, तदेव द्रढयति। एवञ्च चिण्णलोः प्रतिषेधोऽर्थवान्? भवति यद्युत्तरकालभाविन्यपि वृद्धिर्बाध्यते; अन्यथा हि गुणे कृते रपरत्वे च **अत उपधायाः** (7.2.116) इति वृद्ध्या भवितव्यम्। चिण्णलोर्यः प्रतिषेधः क्रियते सोऽनर्थकः स्यात्। तस्मादुत्तरकालभाविन्यपि वृद्धिर्गुणेन बाध्यत इति स्थिमेतत्। ततश्च शक्यमेव जागृग्रहणमकर्तम्। एवं प्रत्याख्याते जागृग्रहणे, इतर आह - `तत्? क्रियते` इत्यादि। य एवं प्रतिपत्तुं न शक्तः, तं प्रति विस्पष्टार्थं जागृग्रहणं क्रियते॥ Sutra Prayogas -------------- * **न्यश्वसिषुः** (भट्टिकाव्यम्): `हृयन्त-` इत्यादिना श्वसेर्वृद्धिप्रतिषेधः । * **श्वसीः** (भट्टिकाव्यम्): `हयन्त क्षण श्वस-जागृ-णि` इति वृद्धिप्रतिषेधः। * **न्यश्वसीच्चाऽऽयतं** (भट्टिकाव्यम्): `ह्र्यन्तक्षणश्वसजागृणिश्व्येदिताम्` इति वृद्धिर्न भवति। * **अवमिषू** (भट्टिकाव्यम्): `ह्म्यन्त` इति वृद्धिप्रतिषेधः। * **न्यश्वसीत्** (भट्टिकाव्यम्): `हृम्यन्तक्षणश्वसजागृणिश्व्येदिताम्` इति वृद्धिप्रतिषेधः । * **अवादिषम्** (भट्टिकाव्यम्): `ह्रयन्त-` इत्यादिना वृद्धिप्रतिपेधः। * **अग्रहीच्चाऽऽयुर्** (भट्टिकाव्यम्): `हृयन्त` इति न वृद्धिः।