71100: ॠत इद्धातोः ================== **Padacheda:** ॠतः | S | 6 | 1 | इत् | S | 1 | 1 | धातोः | S | 6 | 1 | Sutrartha --------- **दीर्घ-ॠकारान्त-धातोः अङ्गस्य अन्तिमवर्णस्य इकारादेशः भवति ।** येषां धातूनामन्तिमवर्णः दीर्घ-ॠकारः अस्ति, तस्य अनेन सूत्रेण 'इ'-आदेशः भवति । अत्र किमपि निमित्तम् नापेक्ष्यते । अनेन सूत्रेण निर्दिष्टः इ-आदेशः **उरण् रपरः** (1.1.51) इत्यनेन रपरः वर्तते । इत्युक्ते, अस्मात् इकारात् परः रेफः आगच्छति । यथा - 1. तुदादिगणस्य 'कॄ' (विक्षेपे) अस्य धातोः लट्-लकारस्य प्रथमपुरुषैकवचनस्य रूपम् - → कॄ + लट् [**वर्तमाने लट्** (3.2.123) इति लट्] → कॄ + तिप् [**तिप्तस्झि..** (3.4.78) इति प्रथमपुरुषैकवचनस्य विवक्षायाम् 'तिप्' प्रत्ययः] → कॄ + श + ति [**तुदादिभ्यः शः** (3.1.77) इति श-विकरणप्रत्ययः] → क् इर् + अ + ति [**ॠत इद्धातोः** (7.1.100) इति ॠकारस्य इकारः । **उरण् रपरः** (1.1.51) इति सः रपरः] → किरति 2. तुदादिगणस्य 'गॄ' (निगरणे) अस्य धातोः लट्-लकारस्य प्रथमपुरुषैकवचनस्य रूपम् - → गॄ + लट् [**वर्तमाने लट्** (3.2.123) इति लट्] → गॄ + तिप् [**तिप्तस्झि..** (3.4.78) इति प्रथमपुरुषैकवचनस्य विवक्षायाम् 'तिप्' प्रत्ययः] → गॄ + श + ति [**तुदादिभ्यः शः** (3.1.77) इति श-विकरणप्रत्ययः] → ग् इर् + अ + ति [**ॠत इद्धातोः** (7.1.100) इति ॠकारस्य इकारः । **उरण् रपरः** (1.1.51) इति सः रपरः] → गिरति / गिलति [**अचि विभाषा** (8.2.21) इति वैकल्पिकम् लत्वम् ] 4. क्र्यादिगणे 14 धातव; दीर्घ-ऋकारान्ताः सन्ति । एतेषां सर्वेषां विषये श्ना-विकरणप्रत्यये परे **प्वादीनां ह्रस्वः** (7.3.80) इत्यनेन ह्रस्वादेशः भवति, अतः तत्र अस्य सूत्रस्य प्रसक्तिः नास्ति । यथा, शॄ (हिंसायाम्) इत्यस्य लट्-लकारस्य प्रथमपुरुषैकवचनस्य प्रक्रिया इयम् - शॄ + लट् [**वर्तमाने लट्** (3.2.123) इति लट्] → शॄ + तिप् [**तिप्तस्झि..** (3.4.78) इति प्रथमपुरुषैकवचनस्य विवक्षायाम् 'तिप्' प्रत्ययः] → शॄ + श्ना + तिप् [**क्र्यादिभ्यः श्ना** (3.1.81) इति विकरणप्रत्ययः श्ना] → शृ + ना + ति [शित्-प्रत्यये परे **प्वादीनां ह्रस्वः** (7.3.80) इति ह्रस्वादेशः] → शृणाति [ इति णत्वम्] परन्तु अन्यत्र (शित्-प्रत्ययः नास्ति चेत्) यथायोग्यं अस्य सूत्रस्य प्रयोगः दृश्यते एव - शॄ + क्त [**निष्ठा** (3.2.102) इति क्त-प्रत्ययः] → शिर् त [**ॠत इद्धातोः** (7.1.100) इति ॠकारस्य इकारः । **उरण् रपरः** (1.1.51) इति सः रपरः] → शीर् त [**हलि च** (8.2.77) इति उपधादीर्घः] → शीर्न [**रदाभ्यां निष्ठातो नः पूर्वस्य च दः** (8.2.42) इति तकारस्य नकारः] → शीर्ण [**रषाभ्यां नो णः समानपदे** (8.4.1) इति णत्वम्] अत्र एकम् वार्तिकम् ज्ञातव्यम् - । इत्युक्ते, गुणः / वृद्धिः इत्यस्य तथा इत् / उत् इत्यस्य - उभयोः कार्ययोः समानस्थले प्रसक्तिः अस्ति चेत् गुण/वृद्धिः एव भवति । यथा, तॄ (भ्वादिगणः) अस्य धातोः लट-लकारस्य प्रथमपुरुषैकवचनस्य रूपम् - तॄ + लट् [**वर्तमाने लट्** (3.2.123) इति लट्] → तॄ + तिप् [**तिप्तस्झि..** (3.4.78) इति प्रथमपुरुषैकवचनस्य विवक्षायाम् 'तिप्' प्रत्ययः] → तॄ + शप् + ति [**कर्तरि शप्** (3.1.68) इति शप् -विकरणप्रत्ययः] अत्र **ॠत्-इद्धातोः** (7.1.100) इत्यनेन ॠकारस्य इर्-आदेशः विधीयते । तथा च, **सार्वधातुकार्धधातुकयोः** (7.3.84) इत्यनेन अङ्गस्य गुणादेशः अपि विधीयते । एतयोः द्वयोः कार्ययोः **ॠत्-इद्धातोः** (7.1.100) इत्यनेन निर्दिष्टः इर्-आदेशः 'अन्तरङ्गः' अस्ति, अतः **पूर्वपरनित्यान्तरङ्गापवादानामुत्तरोत्तरं बलीयः** अनया परिभाषया तस्यैव प्रसक्तिः स्यात् । परन्तु अनेन वार्तिकेन एतत् निर्दिश्यते यत् इत्-आदेशस्य गुणादेशस्य च समानस्थले प्रयोगः सम्भवति चेत् गुणादेशः एव भवति । अतः अत्र ॠकारस्य गुणादेशे अकारः विधीयते, स च **उरण् रपरः** (1.1.51) इति रपरः भवति । → तर् + अ + ति [ **सार्वधातुकार्धधातुकयोः** (7.3.84) इति गुणादेशः] → तरति ज्ञातव्यम् - अस्मिन् सूत्रे 'ॠत्' तथा 'इत्' उभयत्र तकारः उच्चारणार्थः अस्ति, तपरकरणार्थं न । ॠत्-इत्यत्र दीर्घस्वरेण सवर्णग्रहणम् न भवति, अतः तस्य निषेधार्थम् तरपकरणस्य प्रयोजनम् नास्ति । 'इत्' इत्यत्र इकारः विधीयमानः अस्ति, अतः **अणुदित्सवर्णस्य चाप्रत्ययः**(1.1.69) इत्यनेन सः अपि सवर्णग्रहणं न करोति, अतः तस्य विषये अपि तपरकरणस्य किमपि प्रयोजनम् नास्ति । Sutrartha (English) ------------------- The last letter of the दीर्घ-ॠकारान्त-धातु is converted to इकार. Vasu English Summary -------------------- For the final long ॠ of a root, there is substituted इर् -- उरण् रपरः (1.1.51). Vasu English Translation ------------------------ For the final long ॠ of a root, there is substituted इर् -- उरण् रपरः (1.1.51). As किरति, गिरति from कॄ and गॄ of the *Tudadi* class. आस्तीर्णम् विस्तीर्णम् from स्तॄ, the lengthening by (8.2.77). Why do we say of a root? Observe पितॄणाम्, मातॄणाम् ॥ This substitution will apply to Derivative roots also, as चिकीर्षति from कॄ 'to scatter'. Bhashya ------- ॠत इद्धातोः उपधायाश्च ॥ उदोष्ठ्यपूर्वस्य ॥ ॥ इत्त्वोत्त्वाभ्यां(1) गुणवृद्धी विप्रतिषेधेन ॥ इत्वोत्वाभ्यां गुणवृद्धी भवतो विप्रतिषेधेन । इत्त्वोत्त्वयोरवकाशः - आस्तीर्णम्(2) । निपूर्ताः पिण्डाः । गुणवृद्ध्योरवकाशः - चयनं चायकः । लवनं लावकः । इहोभयं प्राप्नोति आस्तरणम्, आस्तारकः(2) । निपरणं निपारकः । - गुणवृद्धी भवतो विप्रतिषेधेन ॥ अयुक्तोऽयं विप्रतिषेधो योऽयं गुणस्येत्त्वोत्वयोश्च ॥ कथम् ? ॥ नित्यो गुणः ॥ इति श्रीमद्भगवत्पतञ्ञ्जलिविरचिते महाभाष्ये (शब्दानुशासने ) सप्तमस्य प्रथमे द्वितीयमाह्निकम् ॥ पादश्च समाप्तः ॥ 7.1.1 ॥ Kashika ------- ॠकारान्तस्य धातोरङ्गस्य इकारादेशो भवति। किरति। गिरति। आस्तीर्णम्। विशीर्णम्। धातोरिति किम्? पितृणाम्। मातृणाम्। लाक्षणिकस्याप्यत्र ग्रहणमिष्यते। चिकीर्षतीत्यत्रापि यथा स्यादिति धातुग्रहणं क्रियते॥ Siddhanta Kaumudi ----------------- ॠदन्तस्य धातोरङ्गस्य इत्स्यात् ॥ (वार्तिकम्) ॥ तरति । ऋच्छत्यॄताम् (SK2383)इतिगुणः । तॄफल - (SK2301)इत्येत्वम् । तेरतुः । तेरुः ॥ Laghu Siddhanta Kaumudi ----------------------- ॠदन्तस्य धातोरङ्गस्य इत्स्यात्। किरति। चकार। चकरतुः। चकरुः। करीता, करिता। कीर्यात्॥ Balamanorama ------------ **ॠत इद्धातोः** - ऋत इद्धातोः । 'ॠत' इतिधातोर्विशेषणम् । तदन्तविधिः । अङ्गस्येत्यधिकृतम् । तदाह — ॠदन्तस्येति । धातोः किम् । मातृणाम् । तथा च तरति, पिपर्ति, ततार पपारेत्यादौ ॠकारस्य शपि तिपि णलि च परे गुणवृद्धी बाधित्वा अन्तरङ्गत्वादित्त्वमुत्त्वं च स्यादिति शङ्का प्राप्ता । तां परिहर्तुमाह - इत्त्वोत्त्वाभ्यामिति । ल्यब्लोपे पञ्चमीद्विवचनम् ।ॠत इद्धातो॑रिति इत्त्वम्, 'उदोष्ठपूर्वस्य' इति उत्त्वमन्तरङ्गमपि बाधित्वा गुणवृद्धी विप्रतिषेधसूत्रेण परत्वात्स्यातामिति भावः । तरतीति । णलि ततार । अतुसादौ ददवादिगुणाना॑मिति निषेधमाशङ्क्याह — तृफलेति । तेरतुः तेरुरिति । तेरिथ तेरथुः तेर । ततार — ततर तेरिव तेरिम । Tattvabodhini ------------- **ॠत इद्धातोः** - ऋत इद्धातोः । किरति । गिरति । कीर्णः । गीर्णः । स्तीर्णः । धातोः किम् । मातृणाम् । इत्त्वोत्त्वाभ्यां गुणवृद्धी विप्रतिषेधेन । इत्त्वोत्त्वाभ्यामिति ।परत्वाद्गुणवृद्धी भवत॑ इति वक्तव्ये । किमिदं वार्तिकमिति चेत् । अत्राहुः - परादप्यन्तरङ्गं प्रबलमितीत्त्वे प्राप्ते वार्तिकमिदमारब्धमिति । Padamanjari ----------- किरतीति । कृ विक्षेपे , गृ निगरणे तुदादी । आस्तीर्णम्, विशीर्णमिति । स्तृञ् आच्छादने, शृ हिंसायाम्, हलि चेति दीर्घः, रदाभ्याम् इति निष्ठानत्वम् । मातृणामिति । दीर्घत्वे कृतेऽपि लाक्षणिकत्वादेवात्र न भविष्यतीति अत आह - लाक्षणिकस्यापीति । किं प्रयोजनम् इत्याह - चिकीर्षतीत्यादि । अतस्तदर्थ धातुग्रहणमिति भावः । क्वचितु वृतावेवैतत्पठ।ल्ते ए॥ Nyaas ----- `किरिति, गिरति` इति। `कृ? विक्षेपे` (धातुपाठः-1409), `गु निगरणे` (धातुपाठः-1410)। **तुदादिभ्यः शः** (3.1.77) । `आस्तीर्णम्` इति। `स्तृ? आच्छादने` (धातुपाठः-1484),[स्तृञ् - धातुपाठः-] `रदाभ्याम्` (8.2.42) इति नत्वम्, `रषाभ्याम्` (8.4.1) इति णत्वम्, `हलि च` (8.2.77) इति दीर्घः। `विशीर्णम्` इति। `शृ? हिंसायाम्` (धातुपाठः-1488)। `मातृणाम्, पितृणाम्` इति। `नामि` (6.4.3) इति दीर्घः। सत्यपि ऋकारान्तत्वेऽधातुत्वादिह न भवति। ननु च लक्षणप्रतिपदोक्तपरिभाषयै (व्या।प।3) वत्र न भविष्यति, तत्किमेतन्निवृत्त्यर्थेन धातुग्रहणेन? इत्याह - `लाक्षणिकस्यापि` इत्यादि। किमर्थं पनर्लाक्षणिकस्य ग्रहणम्? इत्याह - `चिक्रीर्वति` इत्यादि। कथं पुनरिष्यमाणमपि लाक्षणिकस्यात्र ग्रहणं लभ्यते? अत एव धातुग्रहणाज्ज्ञापकात्। तस्य ह्रेतत्? प्रयोजनम् - मातृणाम्, पितृणामित्यत्र मा भूदिति। यदीह लाक्षणिकस्य ग्रहणं न स्यात्? तदा मातृणाम्, पितृणामित्यादौ लाक्षणिकत्वादेव न भविष्यतीति धातुग्रहणमनर्थकम्। तस्माल्लाक्षिकस्याप्यत्र ग्रहणम्। तेन चिकीर्षतीत्येव मादिषु **अज्झनगमां सनि** (6.4.16) इति दीर्घत्वे सत्यपि भवत्येव। तपरकरणमसन्देहार्थम्। `र` इत्युच्यमाने सन्देहः स्यात् - किमयं रेफस्य निर्देशः? उत्त यणादेश ॠकारस्येति? Prakriyasarvasvam ----------------- ऋदन्तस्य धातोरङ्गस्य इत् स्यात् । रपरत्वात् किरः । 'गृो लश्च ॥' इति भोजः । गिलः । किर् । पदत्वे । कीः । किरौ । Sutra Prayogas -------------- * **अवतीर्णवान्** (शिशुपालवधम्): `ऋत इद्धातोः` इतीत्वम्। * **संगिरमाण** (भट्टिकाव्यम्): `ऋत उत` इति । * **जीर्णं** (भट्टिकाव्यम्): `ऋत इद्धातोः` इति दीर्घः।