71095: तृज्वत् क्रोष्टुः ======================== **Padacheda:** तृज्वत् | S | 0 | 0 | क्रोष्टुः | S | 1 | 1 | Sutrartha --------- **असम्बुद्धिवाचके सर्वनामस्थाने परे क्रोष्टु-शब्दः तृच्-वत् भवति ।** 'क्रोष्टु' इति उकारान्तपुँल्लिगः शब्दः । अयं शब्दः सम्बोधनस्य सुँ-प्रत्ययं विहाय अन्येषु सर्वनामस्थानसंज्ञकप्रत्ययेषु परेषु 'तृच्-वत्' भवति । इत्युक्ते, अस्य शब्दस्य 'क्रोष्टृ' इति शब्दवत् रूपाणि भवन्ति । यथा - 1) क्रोष्टु + सुँ [प्रथमैकवचनस्य प्रत्ययः] → क्रोष्टृ + सुँ [ **तृज्वत् क्रोष्टुः** (7.1.95) इति अङ्गस्य तृज्-वत् भावः] → क्रोष्ट् + अनङ् + स् [**ऋतो ङिसर्वनामस्थानयोः** (7.3.110) इत्यनेन अङ्गस्य गुणे प्राप्ते अपवादत्वेन **ऋदुशनस्पुरुदंसोऽनेहसाम् च** (7.1.94) इति अनङ्-आदेशः] → क्रोष्टान् स् [**अप्तृन्तृच्स्वसृनप्तृनेष्टृत्वष्टृक्षत्तृहोतृपोतृप्रशास्तॄणाम्** (6.4.11) इत्यनेन ऋकारान्तस्य अङ्गस्य सर्वनामस्थाने परे उपधादीर्घः ।] → क्रोष्टान् [**हल्ङ्याब्भ्यो दीर्घात् सुतिस्यपृक्तं हल्** (6.1.68) इत्यनेन सुँ-प्रत्ययस्य लोपः] → क्रोष्टा [**नलोपः प्रातिपदिकान्तस्य** (8.2.7) इत्यनेन नकारस्य लोपः] 2) क्रोष्टु + औ [प्रथमा/द्वितीया-द्विवचनस्य प्रत्ययः] → क्रोष्टृ + औ [ **तृज्वत् क्रोष्टुः** (7.1.95) इति अङ्गस्य तृज्-वत् भावः] → क्रोष्टर् + औ [**ऋतो ङिसर्वनामस्थानयोः** (7.3.110) इत्यनेन सर्वनामस्थाने परे अङ्गस्य गुणः । **उरण् रपरः** (1.1.51) इति सः रपरः] → क्रोष्टार् + औ [**अप्तृन्तृच्स्वसृनप्तृनेष्टृत्वष्टृक्षत्तृहोतृपोतृप्रशास्तॄणाम्** (6.4.11) अनेन अङ्गस्य उपधायाः दीर्घः] → क्रोष्टारौ 3) क्रोष्टु + जस् [प्रथमाबहुवचनस्य प्रत्ययः] → क्रोष्टृ + जस् [ **तृज्वत् क्रोष्टुः** (7.1.95) इति अङ्गस्य तृज्-वत् भावः] → क्रोष्टर् + अस् [**ऋतो ङिसर्वनामस्थानयोः** (7.3.110) इत्यनेन सर्वनामस्थाने परे अङ्गस्य गुणः । **उरण् रपरः** (1.1.51) इति सः रपरः] → क्रोष्टारस् [**अप्तृन्तृच्स्वसृनप्तृनेष्टृत्वष्टृक्षत्तृहोतृपोतृप्रशास्तॄणाम्** (6.4.11) अनेन अङ्गस्य उपधायाः दीर्घः] → क्रोष्टारः [**ससजुषोः रुँः** (8.2.66) इति रुँत्वम् । **खरवसानयोर्विसर्जनीयः** (8.3.15) इति विसर्गः] 4) **ऋतो ङिसर्वनामस्थानयोः** (7.3.110) इत्यनेन सर्वनामस्थाने परे ऋकारान्तस्य अङ्गस्य गुणः । **उरण् रपरः** (1.1.51) इति सः रपरः] क्रोष्टु + अम् [द्वितीयैकवचनस्य प्रत्ययः] → क्रोष्टृ + अम् [**तृज्वत् क्रोष्टुः** (7.1.95) इति अङ्गस्य तृज्-वत् भावः ] → क्रोष्टर् + अम् [**ऋतो ङिसर्वनामस्थानयोः** (7.3.110) इत्यनेन सर्वनामस्थाने परे अङ्गस्य गुणः । **उरण् रपरः** (1.1.51) इति सः रपरः] → क्रोष्टारम् [**अप्तृन्तृच्स्वसृनप्तृनेष्टृत्वष्टृक्षत्तृहोतृपोतृप्रशास्तॄणाम्** (6.4.11) अनेन अङ्गस्य उपधायाः दीर्घः] सम्बोधनैकवचनस्य सुँ-प्रत्यये परे अस्य सूत्रस्य प्रसक्तिः नास्ति - क्रोष्टु + सुँ [सम्बोधनैकवचनम्] → क्रोष्टो सुँ [**ह्रस्वस्य गुणः** (7.3.108) इति उकारस्य गुणः ओकारः] → क्रोष्टो [**एङ्ह्रस्वात् सम्बुद्धेः** (6.1.69) इति सुँ-प्रत्ययस्य लोपः ] ज्ञातव्यम् - अनेन सूत्रेण तृच्-प्रत्ययान्तशब्दानां रूपाणि क्रोष्टु-शब्दे आरोपितानि सन्ति, अतः इदम् 'अतिदेशसूत्रम्' अस्ति । अतिदेशः सप्त-प्रकारस्य वर्तते - कार्यातिदेशः, रूपातिदेशः, निमित्तातिदेशः, अर्थातिदेशः, शास्त्रातिदेशः, तादात्म्यादिदेशः तथा व्यपदेशातिदेशः । एतेषु अयम् 'रूपातिदेशः' अस्ति । Sutrartha (English) ------------------- The word क्रोष्टु behaves like a तृच्-प्रत्ययान्त word when followed by a सर्वनामस्थान not belonging to सम्बोधनैकवचनम्. Vasu English Summary -------------------- The word क्रोष्टु 'a jackal' is treated in the strong cases (with the exception of Vocative Case singular) as if it ended in तृच् (तृ). Vasu English Translation ------------------------ The word क्रोष्टु 'a jackal' is treated in the strong cases (with the exception of Vocative Case singular) as if it ended in तृच् (तृ). The word क्रोष्टु is declined like क्रोष्ट in the strong cases. As क्रोष्टा꣡, क्रोष्टा꣡रौ, क्रोष्टा꣡रः, क्रोष्टा꣡रम्, क्रोष्टा꣡रौ ॥ But क्रो꣡ष्टून् in weak cases, and हे क्रो꣡ष्ठो in the Vocative Singular. The accent in the strong cases is also that of the तृच् affix, i.e. acute on the final. The word क्रोष्टु is formed by the affix तुन् (*Unadi* सितनिगमि &c, 1.69). Bhashya ------- तृज्वत्क्रोष्टुः स्त्रियां च ॥ अथात्र विभक्तावित्यनुवर्तते उताहो न ? ॥ किं चातः ? ॥ ॥ तृज्वत्स्त्रियां(3) विभक्तौ चेत्क्रोष्टीभक्तिर्न सिध्यति ॥ तृज्वत्स्त्रियां विभक्तौ चेत्क्रोष्ट्रीभक्तिरिति न सिध्यति ॥ एवं तर्हि ईकार एव तृज्वद्भावं वक्ष्यामि ॥ तदीकार ग्रहणं कर्तव्यम् ? ॥ न कर्तव्यम् । क्रियते न्यासे एव । प्रश्र्लिष्टनिर्देशोऽयं - स्त्री इर् - स्त्री, स्त्रियामिति । ॥ ईकारे तन्निमित्तः सः ॥ ईकारे चेत् । तन्न ॥ किं कारणम् ? ॥ तन्निमित्तः सः । तृज्वद्भावनिमित्तः स ईकारः, नाऽकृते तृज्वद्भावे ईकारः प्राप्नोति ॥ किं कारणम् ? ॥ ऋन्नेभ्यो ङीबित्युच्यते । ईकारे च तृज्वद्भावस्तदिदमितरेतराश्रयं(1) भवति । इतरेतराश्रयाणि च न प्रकल्पन्ते ॥ एवं तर्हि गौरादिषु पाठादीकारो भविष्यति । ॥ गौरादिषु न पठ्यते ॥ नहि किं चित्तुन्नन्तं गौरादिषु पठ्यते ! ॥ एवं तर्हि एतज्ज्ञापयत्याचार्यो - भवत्यत्र ईकार इति यदयमीकारे तृज्वद्भावं शास्ति ॥ ॥ तेनैव भावनं चेत्स्यादनिष्टोपि प्रसज्यते ॥ यद्यपि नास्ति विशेषो ङीपो वा(1) ङीषो वा, ङीनपि तु प्राप्नोति । इह च न प्राप्नोति - पञ्ञ्चभिः क्रोष्ट्रीभिः क्रीतै रथैः - पञ्ञ्चक्रोष्टृभी रथैरिति ॥ एवं तर्हि - ॥ नचाऽपरं(2) निमित्तं संज्ञा च प्रत्ययलक्षणेन(3) ॥ न चापरं निमित्तमाश्रीयते, अस्मिन्परतः क्रोष्टुस्तृज्वद्भवतीति ॥ (किं तर्हि ?) ॥ अङ्गस्य क्रोष्टुस्तृज्वद्भवत्यङ्गसंज्ञा च भवति प्रत्ययलक्षणेन ॥ किं पुनरयं शास्त्रातिदेशः - तृचो यच्छास्त्रं तदतिदिश्यते, आहो स्विद्रूपातिदेशः, तृचो यद्रूपं तदतिदिश्यते इति ? ॥ कश्चात्र विशेषः ? ॥ ॥ तृज्वदिति शास्त्राऽतिदेशश्चेद्यथा चिणि तद्वत् ॥ तृज्वदिति शास्त्रातिदेशश्चेद्यथा चिणि तद्वत्प्राप्नोति ॥ कथं च चिणि ? ॥ उक्तम्(1) - अङ्गस्येति तु प्रकरणादाङ्गशास्त्रातिदेशात्सिद्धमिति । आङ्गं यत्कार्यं तदतिदिश्यते ॥ एवमिहाप्यनङ्गुणदीर्घत्वान्यतिदिष्टानि रपरत्वमनतिदिष्टम् ॥ तत्र को दोषः ? ॥ ॥ तत्र रपरवचनम्(2) ॥ तत्र रपरत्वं न सिध्यति, तद्वक्तव्यम् ॥ नैषः दोषः । गुणेऽतिदिष्टे रपरत्वमप्यतिदिष्टं भवति ॥ कथम् ? ॥ कार्यकालं संज्ञापरिभाषं यत्र कार्यं तत्र द्रष्टव्यम्, ऋतो ङिसर्वनामस्थानयोर्गुणो भवति उपस्थितमिदं भवति - उरण्रपर इति ॥ एवं तर्हि अयमन्यो दोषो जायते - आहत्य तृचो यच्छास्त्रं तदतिदिश्येताऽनाहत्य(2) वेति ? ॥ किं चातः ? ॥ यद्याहत्य, - दीर्घत्वमतिदिष्टम्, अनङ्गुणरपरत्वान्यनतिदिष्टानि ॥ अथानाहत्य, अनङ्गुणरपरत्वान्यतिदिष्टानि, दीर्घत्वमनतिदिष्टम् ॥ अस्त्वाहत्य ॥ ननु चोक्तं दीर्घत्वमतिदिष्टमनङ्गुणरपरत्वान्यनतिदिष्टानीति । नैष दोषः - दीर्घत्वेऽतिदिष्टेऽनङ्गुणरपरत्वान्यनयतिदिष्टानि भवन्ति ॥ कथम् ? ॥ उपधाया इति वर्तते, न चाऽकृतेष्वेतेषु दीर्घत्वभाविन्युपधा(1) भवति ॥ कुतो नु खल्वेतदेतेषु विधिषु कृतेषु या उपधा तस्या उपधायाः दीर्घत्वं भविष्यति न पुनः क्रोष्टोर्योऽन्तरतमो(3) गुणस्तस्मिन्कृतेऽवादेशे च योपधा तस्या दीर्घत्वं भविष्यति ? ॥ नैकमुदाहरणं योगारम्भं प्रयोजयतीति (4)। तत्र तृज्वद्वचनसार्मथ्यादेतेषु विधिषु कृतेषु योपधा तस्या दीर्घत्वं भविष्यति ॥ अथ वा किं न एतेन - आहत्याऽनाहत्य वेति । आहत्याऽनाहत्य च तृचो यच्छास्त्रं तदतिदिश्यते ॥ अथ वा पुनरस्तु रूपातिदेशः ॥ अथैतस्मिन्रूपातिदेशे सति किं प्रागादेशेभ्यो यद्रूपं तदतिश्यते, आहो स्वित्कृतेष्वादेशेषु ? ॥ किं चातः ? ॥ यदि प्रागादेशेभ्यो यद्रूपं तदतिदिश्यते, ऋकार एकोऽतिदिष्टोऽनङ्गुणरपरत्वदीर्घत्वान्यनतिदिष्टानि । अथ कृतेष्वादेशेषु, - ऋकारोऽनतिदिष्टोऽनङ्गुणरपरत्वदीर्घत्वान्यतिदिष्टानि ॥ उभयथा च(1) स्वरोऽनतिदिष्टो न हि स्वरो रूपवान्(2) ॥ (उभयथा(1) च स्वरोऽनतिदिष्टः ॥ किं कारणम् ? ॥ न हि स्वरो रूपवान् ॥) अस्तु प्रागादेशेभ्यो यद्रूपं तदतिदिश्यते ॥ ननु चोक्तम्ऋकारोतिदिष्टोऽनङ्गुणरपरत्वदीर्घत्वान्यनतिदिष्टानीति ॥ नैषः दोषः - ऋकारेऽतिदिष्टे स्वाश्रया अत्रैते विधयो भविष्यन्ति ॥ यदप्युच्यते - उभयथा च(1) स्वरोऽनतिदिष्टो नहि स्वरो रूपवानिति । सचकारग्रहणसार्मथ्यात्स्वरो भविष्यति ॥ ॥ रूपातिदेश(2) इति चेत्सर्वादेशप्रसङ्गः(3) ॥ रूपातिदेश इति चेत्सर्वादेशः प्राप्नोति । सर्वस्यतुन्नन्तस्य तृशब्द आदेशः प्राप्नोति ॥ सिद्धन्तु रूपातिदेशात् ॥ सिद्धमेतत् ॥ कथम् ? ॥ रूपातिदेशात् । रूपातिदेशोऽयम् ॥ ननु चैवमेव कृत्वा चोद्यते - रूपातिदेश इति चेत्सर्वादेशप्रसङ्ग इति ? ॥ सिद्धं तु प्रत्ययग्रहणे यस्मात्स तदादितदन्तविज्ञानात् ॥ सिद्धमेतत् ॥ कथम् ? ॥ प्रत्ययग्रहणे यस्मात्स विहितस्तदादेस्तदन्तस्य च ग्रहणं भवती-त्येवं तुन्नन्तस्य तृजन्त आदेशो भविष्यति ॥ एवमपि किं चिदेव तृजन्तं प्राप्नोति, इदमपि प्राप्नोति - पक्तेति ॥ आन्तरतम्याच्च(4) सिद्धम् ॥ क्रोष्टोर्यदन्तरतमं(5) तद्भविष्यति ॥ किं पुनस्तत् ? ॥ कुशेर्यस्तृज्विहितस्तदन्तम् ॥ तृज्वद्वचनमनर्थकम्(6) (किं कारणम् ?) ॥ तृज्विषये तृचो मृगवाचित्वात् ट ॥ तृज्विषये एतत्तजन्तं मृगवाचि ( ॥ तुनो निवृत्त्यर्थम् ॥ ) ॥ तुनो निवृत्त्यर्थं तर्हीदं वक्तव्यम् । तुनः सर्वनामस्थाने निवृत्तिर्यथा स्यात् ॥ तुनो निवृत्त्यर्थमिति चेत्सिद्धं यथान्यत्रापि(7) ॥ तुनो निवृत्त्यर्थमिति चेत्तदन्तरेण वचनं सिद्धं, - यथान्यत्राप्यविशेषविहिताः शब्दाः नियतविषया दृश्यन्ते ॥ क्वाऽन्यत्र ? ॥ तद्यथा घरतिरस्मायविशेषेणोपदिष्टः स घृतं घृणा घर्म इत्येवं(1) विषयः । रशिरस्मायविशेषेणोपदिष्टः स राशिः रश्मिः रशना इत्येवं विषयः । लुशिरस्मायविशेषेणोपदिष्टः स लोष्ट इत्येवं विषयः ॥ इदं तर्हि प्रयोजनं - विभाषां (2)वक्ष्यामीति विभाषा तृतीयादिष्वचीति ॥ वावचनानर्थक्यं च स्वभावसिद्धत्वात् ॥ वावचनं चानर्थकम् ॥ किं कारणम् ? ॥ स्वभावसिद्धत्वात् । स्वभावत(3) एतत्तृतीयादिष्वजादिषु विभक्तिषु तृजन्तं च तुन्नन्तं च मृगवाचीति ॥ गुणवृध्द्योत्वतृज्वद्भावेभ्यो नुम्पूर्वविप्रतिषिद्धम् (4) ॥ ॥। गुणवृध्द्यौत्वतृज्वद्भावेभ्यो नुम्भवति पूर्वविप्रतिषेधेन ॥ तत्र गुणस्यावकाशः - अग्नये वायवे । नुमोऽवकाशः - त्रपुणी । जतुनी । इहोभयं प्राप्नोति त्रपुणे । जतुने ॥ वृद्धेरवकाशः - सखायौ सखायः। नुमः स एव । इहोभयं प्राप्नोति - अतिसखीनि ब्राह्मणकुलानीति । औत्वस्यावकाशः - अग्नौ । वायौ । नुमः स एव । इहोभयं प्राप्नोति-त्रपूणि । जतूनीति । तृज्वद्भावस्यावकाशः - क्रोष्ट्रा । क्रोष्टुना । नुमः स एव । इहोभय प्राप्नोति - कृश-क्रोष्टुने अरण्याय । हितक्रोष्टुने वृषलकुलाय । नुम्भवति पूर्वविप्रतिषेधेन ॥ स तर्हि पूर्वविप्रतिषेधो वक्तव्यः ? ॥ न वक्तव्यः । इष्टवाची परशब्दो विप्रतिषेधे परं-यदिष्टं तद्भवतीति ॥ नुमचिरतृज्वद्भावेभ्यो नुट्(5) (पूर्वविप्रतिषेधेन) ॥ नुमचिरतृज्वद्भावेभ्यो नुट् पूर्वविप्रतिषेधेन वक्तव्यः । नुमोऽवकाशः - त्रपूणि जतूनि । नुटोऽवकाशः - अग्नीनां वायूनाम् । इहोभयं प्राप्नोति - त्रपूणां जतूनाम् ॥ अचि रादेशस्यावकाशः - तिस्रस्तिष्ठन्ति । चतस्रस्तिष्ठन्ति । नुटः स एव । इहोभयं प्राप्नोति - तिसृणां चतसृणाम् ॥ तृज्वद्भावस्यावकाशः-क्रोष्ट्रा क्रोष्टुना । नुटः स एव । इहोभयं प्राप्नोति - क्रोष्टूनां । नुड्भवति पूर्वविप्रतिषेधेन ॥ स तर्हि पूर्वविप्रतिषेधो वक्तव्यः ? ॥ न वक्तव्यः(1) ॥ न वा नुडि्वषये रप्रतिषेधात् ॥ न वैतद्विप्रतिषेधेनापि सिध्यति - तिसृणां चतसृणामिति ॥ कथं तर्हि सिध्यति ? ॥ नुडि्वषये रप्रतिषेधात् । नुडि्वषये रप्रतिषेधो वक्तव्यः । (स चावश्यं वक्तव्यः(1)) ॥ इतरथा हि सर्वापवादः ॥ इतरथा हि सर्वापवादो रादेशः स यथैव गुणपूर्वसवर्णौ बाधते एवं नुटमपि बाधेत । ॥ तस्मान्नुडि्वषये रप्रतिषेधः ॥ तस्मान्नुडि्वषये रादेशस्य प्रतिषेधो वक्तव्यः ॥ न वक्तव्यः(1)। आचार्यप्रवृत्तिर्ज्ञापयति न रादेशो नुटं बाधत इति, यदयं न तिसृचतसृ इति प्रतिषेधं शास्ति- नामि दीर्घत्वस्य (तृज्वत्क्रोष्टुः) ॥ Kashika ------- क्रोष्टुशब्दस्तुन्प्रत्ययान्तः संज्ञाशब्दः सर्वनामस्थानेऽसंबुद्धौ परतः तृज्वद् भवति। तृजन्तस्य यद् रूपं तदस्य भवतीत्यर्थः। रूपातिदेशोऽयम्। प्रत्यासत्तेश्च क्रुशेरेव तृजन्तस्य यद् रूपं तदतिदिश्यते। तत् च क्रोष्टृ इत्येतदन्तोदात्तम्। क्रोष्टा, क्रोष्टारौ, क्रोष्टारः। क्रोष्टारम्, क्रोष्टारौ। सर्वनामस्थान इत्येव — क्रोष्टून्। असंबुद्धावित्येव — हे क्रोष्टो॥ Siddhanta Kaumudi ----------------- क्रोष्टुशब्दस्तृजन्तेन तुल्यं वर्तते असंबुद्धौ सर्वनामस्थाने परे । क्रोष्टुशब्दस्य स्थाने क्रोष्टृशब्दः प्रयोक्तव्य इत्यर्थः ॥ Laghu Siddhanta Kaumudi ----------------------- असम्बुद्धौ सर्वनामस्थाने परे । क्रोष्टुशब्दस्य स्थाने क्रोष्टृशब्दः प्रयोक्तव्य इत्यर्थः ॥ Balamanorama ------------ **तृज्वत् क्रोष्टुः** - तयोरविशेषेण सर्वत्र प्रयोगे प्राप्ते विशेषं दर्शयितुमाह — तृज्वत्क्रोष्टुः । प्रत्ययग्रहणपरिभाषया 'तृच्' इति तृजन्तं गृह्रते ।तेन तुल्य॑मिति तृतीयान्ताद्वतिः ।इतोऽत्सर्वनामस्थाने॑ इत्यतः 'सर्वनामस्थाने' इति 'सख्युरसंबुद्धौ' इत्यतो॒ऽसंबुद्धाविति॑ चानुवर्तते । तदाह — क्रोष्टुस्तृजन्तेनेत्यादिना ।कार्यरूपनिमित्तार्थशास्त्रतादात्म्यशब्दिताः । व्यपदेशश्च सप्तैतानतिदेशान् प्रचक्षते॑ । इति व्यतिदेशाः सप्त, तत्र प्राधान्यादिह तृजन्तरूपमेव अतिदिश्यते, तच्च न 'कर्तृ' 'भर्तृ' इत्यादि तृजन्तं रूपं, किंतु 'क्रोष्टु' इत्येव तृजन्तरूपमतिदिश्यते । क्रुशधातोरुपस्थितत्वात्, अर्थत आन्तर्याच्चेत्यभिप्रेत्य फलितमाह — क्रोष्टुशब्दस्य स्थाने इति । निमित्तादीनामुदाहरणानि तु तत्र तत्र प्रधर्शयिष्यामः । क्रोष्टृ स् इति स्थिते । Tattvabodhini ------------- **तृज्वत् क्रोष्टुः** - तृज्वत्क्रोष्टुः ।क्रुश आह्वाने रोदने च॑ । अस्मा॒त्सितनिगमिमसिसच्यविधाञ्क्रुशिभ्यस्तुन्इति तुन्प्रत्यये क्रोष्टुशब्दः । तृचि तु क्रोष्टृशब्दः । द्वावपि शृगालवचनौ । तत्राऽविशेषेण द्वयोः प्रयोगे प्राप्तेसर्वष्टु॑ रिति तुन्नन्तात्प्रथमा ।तृज्व॑दिति तृतीयान्ताद्वतिः । निमित्तेव्यपदेशतादात्म्यशास्त्रकार्यरूपविषयकत्वेनातिदेशस्यानेकविधत्वेऽपि प्राधान्यादिह रूपमेवातिदिश्यते [इत्याह — तृजन्तवद्रूपमिति ।]तच्च न पचादेर्यस्य कस्यचित्कतु क्रुशेरेव, उपस्थितत्वादर्थत आन्तर्याच्चेत्यभिप्रेत्य फलितमाह — क्रोष्टुशब्दस्य स्थाने क्रोष्टुशब्द इति । निमित्तोतिदेशो यथा — चिकीर्षति । चिकीर्षते । अत्र सन्नन्तस्यपूर्ववत्सनः॑इत्यनेन ञित्त्वातिदेशे कर्तृगामिनि क्रियाफले आत्मनेपदं सिध्यति । ननु कार्यातिदेशोनाप्येतद्गतार्थमिति चेदत्राहुः -निमित्तप्रतिसन्धानपूर्वकत्वात्तस्येति निमित्तातिदेशः पृथगुक्तं इति । व्यपदेशातिदेशे यथा -॒आद्यन्तवदेकस्मि॑न्नित्यनेनकर्तव्य॑मित्यादौ सावकाशः प्रत्ययाद्युदात्तत्वफलक आदित्वव्यपदेश औपगवादावतिदिश्यते । तादात्म्यातिदेशो यथा — — ॒सुबामन्त्रिते पराङ्गवत्स्वरे॑इत्यनेनद्रवत्पाणी शुभस्पती॑इत्यत्र शुभशब्दस्य पराङ्गवत्त्वे सति षाष्ठिकेनआमन्त्रितस्ये॑त्यनेन शकारादुकारस्याद्युदात्तत्वं सिध्यति । शास्त्रातिदेशो यथा -॒कालेभियो भवव॑दित्यनेन कालवाचिभ्यःतत्र भवः॑इत्यधिकारे यच्छस्त्रं तत्सास्य देवकते॑त्यर्थोऽतिदिश्यते । तेनमासिकं॒॑प्रावृषेण्य॑मित्यत्रा यथाविहितंकालाट्ठञ्प्रावृष् एण्यः॑इति सिध्यति । कार्यातिदेशे तु — — इह प्रकृतिपत्र्ययादीनां साङ्कर्यं स्यात् । कायातिदेशेगोतो णित् । गौः गावौ गावः । अत्र णित्कार्यं वृद्धि रतिदिश्यते, प्राधान्यात् । केचित्तु निमित्तातिदेशेगोतो णि॑दित्युदाहरन्ति, तन्मते कार्यातिदेशस्यकर्मवत्कर्मणा॑,स्थानिदादेशः — ॑इत्याद्युदाहर्तव्यम् । रूपातिदेशो यथा-वतण्डी चासौ वृन्दीरिका च वातण्डवृन्दरिका । अत्र वतण्डीशब्देपुंवत्कर्मधारये॑त्यनेन पुंवाचकवातण्डशब्दरूपमितिदिश्यते । इह मनोरमायामतिदेशस्य षड्विधत्वमुक्तम् । अन्ये त — ॒कार्यरूपनिमित्तार्थशास्त्रतादात्म्यशब्दिताः । व्यपदेशश्च सप्तैतानतिदेशान्प्रचक्षते ।॑ — — इति वप्तविधत्वमाहुः । अर्थातिदेशस्योदाहरणं तु — गर्गी च गग्र्यायणौ च गर्गाः । अत्रस्त्री पुंवच्चे॑ — त्यनेन गोत्रप्रत्ययान्तस्त्रीव#आचकस्यवृद्धोयूने॑ त्येकशेषे सति रूयर्थस्य पुमर्थोऽतिदिश्यते । तेन स्त्रियामपत्यकृतबहुत्वेयञञोश्चे॑ति लुक् सिध्यति । Padamanjari ----------- क्रोष्टुअशब्दस्तुन्प्रत्ययान्त इति । क्रुश आह्वाने, सितनिगमिमसिसच्यविधाञ्कुशिभ्यस्तुन् । संज्ञाशब्द इति । तुन्प्रत्ययस्य संज्ञार्थे विधानात् । जम्बुकस्य चेयं संज्ञा । वस्तुस्वरुपकथनमेतत् । अत्रानन्तरं तस्येति पठितव्यम् क्रोष्टुअरिति सूत्रे षष्ठीनिर्देशात् । तृज्वद्बवतीति । तृच इव तृज्वत् । तत्र तस्येव इति षष्ठीसमर्थाद्वतिः । तदेत्सर्वमुतरग्रन्थे स्पष्टीकृतम् । तृजन्तस्य यद्रूपं तदस्य भवतीति । प्रत्ययग्रहणपरिभाषया तृजन्तस्येति लभ्यते । अतिदेशोऽनेकप्रकारः - निमित व्यापदेश - तादात्म्य - शास्त्र - कार्य - स्वरुपविषयः । तत्रेहादितस्त्रयाणामसम्भावादनतिदेशः, शास्त्रकार्यातिदेशयोश्चायं विशेषः । शास्त्रातिदेशे तेनतेन शास्त्रेण कार्याणि भवन्ति, कार्यातिदेशे त्वतिदेशवाक्येनैवेति तत्र विप्रतिषेधे फलविशेषः । तद्यथा - कर्मवत्कर्मणा इत्यत्र शास्त्रातिदेशे कर्मकर्तरि भावकर्मणोः इत्येतद्वाधित्वा स्वाश्रयं कर्तुत्वमाश्रित्य शेषात्कर्तरि परस्मैपदप्रसङ्गः, कार्यातिदेशे त्वात्मनेपदमेव परत्वाद्भवतीति । इह तु नैवं विशेषः सम्भवतीति तयोरभेदमाश्रित्य विचारः प्रवतिंतो महाभाष्ये - किं पुनरयं शास्त्रातिदेशः आहोस्विद्रूपातिदेश इति तत्र शास्त्रस्य शास्त्रं प्रत्यासन्नमिति शास्त्रातिदेशः आहोस्विद्रूपातिदेश इति तत्र शास्त्रस्य शास्त्रं प्रत्यासन्नमिति शास्त्रातिदेशः प्राप्नोति, प्राधान्यात्त्उ रुपातिदेशप्रसङ्गस्तदर्थत्वादतिदेशान्तरणाम् । तत्राद्ये पक्षे आहत्य तृचि यच्छास्त्रं तद्वातिदिश्यते अनाहत्य वा यदि तृच्छब्दवच्छास्त्रमतिदिश्यते तत आहत्येति पक्षः, ताथ तृच्छब्दे ऋकार एव विवक्षितः, चकारः स्वरार्थः, तकारस्त्वप्रसिद्धाशङ्कानिवृत्यर्थः ऋज्वत् इत्युच्यमाने अप्रसिद्धाश्रयोऽतिदेशः शङ्क्यत, ऋक्प्) इत्यक्शब्दनिबन्धनस्य वा समासान्तस्यातिदेशः शङ्क्येत, तस्मातजन्ते यदृकारप्रयुक्तं शास्त्रं कार्यं वा तदतिदेशेनाहत्येति पक्षः । तत्राहत्येति पक्षे अप्तृन्तृच् इति दीर्घत्वमेकमतिदिष्ट्ंअ स्यादनङ्गुणरपरत्वान्यनतिदिष्टानि - अनङ् ऋदुशनस्पुरुदं सोऽनेहसां च, ऋतो ङिसर्वनामस्थानयोः, उरण् रपरः इति, नह्यएतानि तृच्संशब्दनेन विधीयन्ते । ननु च दीर्घत्वेऽतिदिष्टेऽनङदीन्यप्यतिदिष्टान्येव भवन्ति, कथम् दीर्घविधौ उपधायाः इति वर्तते, अचश्चेति चोपतिष्ठते, ततश्च तृजन्तस्येव तुन्नन्तस्यापि दीर्घो भवतीत्युक्ते - थौपधाया अचो दीर्घो भवतीत्युक्तं भवति, न चाकृतेष्वनङदिषु तुन्नन्तस्योपधा दीर्घभाविनी सम्भवति । जसि गुणावादेशयोः सम्भवतीति चेत् न ह्यएकमुदाहरणं योगारम्भं प्रयोजयति, यद्येतावत्प्रयोजनं स्यात्, अंप्तृन् इत्यत्रैव क्रोष्टुअग्रहणं कुर्यात् । नन्वेवम् स्त्रियां च, विभाषा तृतीयादिष्वचि इत्येवमर्थं पुनः तृजावतक्रोष्टुअः इति वक्तव्यं स्यादिति गौरवं स्यात् स्यादेतत् अचि र ऋतः इत्यस्यानन्तरम् क्रोष्टुअः स्त्रियाम् विभाषा तृतीयादिष्वचि इति रादेशार्थं वक्ष्यामीति नास्ति गौरवमिति । एवमपि क्रोष्टुअः, क्रोष्टरि, पञ्चक्रोष्टुअभी रथैरिति न सिद्ध्यति, नापि उदातयणो हल्पूर्वात् इति स्वरः, तुन्नन्तस्याद्यौदातत्वातदेवं जसि दीर्घातिदेशेऽपि नातिदेशाश्रणं व्यर्थमिति न तत्सामर्थ्यादनङदीनामाक्षेपतः सिद्धिः - इत्याहत्यपक्षो दुष्ट एव । अथानाहत्यपक्षः, अनङदीन्यतिदिष्टानि दीर्घत्वमनतिदिष्टम्, न हि तदृत इत्येवं विधीयते । अथ तृजीतिसमुदाय एव विवक्षितः, न त्वृकारः, न चाहत्यपक्ष आश्रीयते, किं तर्हि तृचि यद् दृष्ट्ंअ यत्किञ्चन निबन्धनं तस्य सर्वस्यातिदेशः एवमप्यङ्गप्रकरणादङ्गाधिकार एव विहितं यत् शास्त्रं कार्यं तदेवातिदिश्यत, न विप्रकृष्टमनाङ्गम् । यथाचि रवद्भावेन वृद्ध्यादीन्येव भवन्ति, न हनिणिङदेशः, ततश्च रपरत्वमनतिदिष्ट्ंअ स्यात् । रपरत्वमप्याङ्गम्, कार्यकालं संज्ञापरिभाषम्, ऋतो ङ् सिर्वनामस्थानयोः गुणो भवति, उपस्थितमिदं एभवति - उरण् रपरः इति । स्त्रियां च इत्यत्र तर्हि क्रोष्ट्रीत्यत्रानाङ्गयोरीकारयणोरतिदेशो न स्यात् वचनाद्भविष्यति, न तृजन्तस्य स्त्रियामाङ्गं किञ्चिदस्ति । स्त्रियामप्याङ्गं किञ्चिदस्ति - पञ्चभिः कर्तुभिः क्रीतो रथः पञ्चकर्ता रथः, हे पञ्चकर्त, पञ्चकर्तरीति स्त्रीलिङ्गे कर्तृशब्दे ङसिम्बुद्ध्योर्दृष्टस्य गुणस्यातिदेशः स्त्रियां च इत्यज्ञ सम्भवति न हि सम्बुद्धौ तृज्वत्कोष्टुअः इत्यनेन सिद्धिः, असम्बुद्धौ इत्यधिकारात् । ङै विभाषा तृतीयादिषविचि इति विकल्पः स्यात् । स्यादेतत् - स्त्रियां च इत्यत्र न किञचिन्निमितमुपादीयते, ततश्च प्रागेव विभक्त्युत्पतेः स्त्रियां वर्तत इत्येवं तृजन्ते दृष्टस्यातिदेशः, न च तदाङ्गं सम्भवतीति अनाङ्गस्याप्यतिदेश इति एवमपि पञ्चभिः क्रोष्ट्रभिः क्रीतै रेथैः पञ्चक्रोष्ट्ःअभी रथैरित्यत्र न कथञ्चन तृजनतरुपप्रादुर्भावः सम्भवति । तथा विभाषा तृतीयादिष्वचि इत्यत्रापि क्रोष्टरीति आङ्गस्य गुणस्यातिदेशसम्भवात् क्रोष्ट्रा, क्रोष्टुअरिति यण्शास्त्रमुत्वशास्त्रं चानाङ्गं नातिदिश्यते, नापि स्वरः । ननु तन्नापि तृतीयादिग्रहण सामर्थ्यादनाङ्गमप्यतिदिश्येत, अन्यथा विभाषा ङै इत्येव ब्रूयात् नैतदस्ति अभावातिदेशार्थं तृतीयादिग्रहणं स्यात्, वतिनिर्द्देशेष्वभावातिदेशस्यापि दृष्टत्वात्, यथा - मरुभूमिवदस्मिन्ग्रामे जलमिति । शास्त्रेऽपि तृतीयादिषु भाषितपुंसक्म् - इत्यत्र नुम्ह्रस्वयोरभावोऽतिदिश्यते । यदा हि प्रत्यासतेराङ्गमेवातिदेश्यमिति स्थितम्, तदा न सर्वासु तृतीयादिषु भावातिदेशः सम्भवतीति यस्य शास्त्रस्य भावस्तृजन्ते दृष्टः, तुन्नन्तेऽपि तस्य भावोऽतिदिश्यते । यस्य त्वभावः, तृजन्तेऽपि तस्याभावोऽतिदेश्यः स्यात् । तदेवं शास्त्रातिदेशास्य बहुच्छिद्रत्वाद्रूपातिदेश एवायमाश्रयणीयः । तदाह रुपातिदेशोऽयमिति । यद्यवम्, यस्य कस्यचितृजन्तस्य रुपमतिदिश्यते - पक्ता, वक्तेति तत्राह - प्रत्यासतेरिति । अथैतस्मिन् रुपातिदेशे प्रयोगसमवायि यद्रूपम् - क्रोष्टा, क्रोष्टारौ, पञ्चक्रोष्ट्ःअभी रथैः, क्रोष्ट्रा, क्रोष्टुअः, क्रोष्टरीत्येवम् - सावाकारन्तं द्विवचनादावारन्तम्, स्त्रियां क्वचिद्रेफान्तं क्वचिदकारान्तम्, तृतीयादौ रेफान्तम्, ङसिङ्सोरुकारान्तम्, ङवरन्तमिति तदतिदिश्यते आहोस्विच्छास्त्रीयं यद्रूपम् ण्वुल्तृचौ, तृज्वत्क्रोष्टुअः इत्युपदेशवाक्येऽतिदेशवाक्ये च श्रुतं तदतिदिश्यते तत्राद्ये पक्षे उदातयणो हल्पूर्वात् इति स्वरो न सिद्ध्यति, न हि क्रोष्ट्रेत्यादावृकारावस्था कदाचिद्दृष्टा, यतोऽयमुदातयणः स्यात् । तस्माद् द्वितीयः पक्ष आश्रणीयः । तदाह - तच्च क्रोष्ट्ःअ इत्येतदिति । नन्वत्रापि पक्षे उपदेशवाक्ये, अतिदेशवाक्ये च तृशब्दस्योदातस्योच्चारणाभावादुच्चारितस्य वा गुणानामभेदकत्वेनाकिञ्चित्करत्वात् स्वरस्यातिदेशो न स्यात् सत्यम् चकारग्रहणसामर्थ्यातस्याप्यतिदेशो भविष्यति । तदाह - अन्तोदातमपि । यद्वा - मा भूत्स्वरस्यातिदेशः, तृजन्तरुपेऽतिदिष्टे तृज्बुध्या यथा दीर्घादीनि स्वेनस्वेन शास्त्रेण भवन्ति, स्वरोऽप्येवमेव भविष्यति । वतिनिर्द्देशाच्चायमतिदेश आश्रितः । यदि वतिनिर्देशमकृत्वा स्थान्यादेशभावं एवाश्रीयते, न किञ्चिदनिष्टम् तथा तु न कृतमित्येव ॥ Nyaas ----- `क्रोष्टुशपब्दस्तुन्प्रत्ययान्तः संज्ञाशब्दः` इति। `क्रुश आह्वाने` (धा।856)[`अह्वाने रोदने च` - धातुपाठः-] इत्येतस्मात्? `सितनिगमिमसिसच्यविघाञ्कृशिभ्यस्तुन्` (द।उ।1।122)[`पसि` - द।उ] इति तुन्प्रत्ययान्तस्य संज्ञायां व्युत्पादितत्वात्। संज्ञा पुनरियं जम्बुकस्य। `तृज्वद्भवति` इति। तृचा तुल्यं वर्तत इति तृज्वत्। `रूपातिदेशोऽयम्` इति वक्षयति। तत्र `तृज्वद्भवति` इत्युक्ते तृच्छब्दसय यद्रूपं तदतिदिश्यत इति कस्यचिद्भ्रान्तिः स्यात्? अतस्तां निराकर्त्तुमाह - `तृजन्तसय यद्रूपम्` इत्यादि। एतच्च `प्रत्ययग्रहणे यस्मात्म विहितस्तदादेस्तदन्तस्य ग्रहणं भवति` (पु।प।वृ।44) इत्यतो लभ्यते। यद्यपि शास्त्रातिदेशेऽप्यदोषो बहुधा भाव्ये प्रदर्शिताः - तस्यादुष्टत्वेन प्रातिपादनात्, कार्यातिदेशोऽपयदीषवानेव व्याख्यातः - तस्य शास्त्रातिदेशेनाभिन्नत्वात्; तथापि शास्त्रातिदेशकार्यातिदेशयोररूपार्थत्वाद्रूपे गुणाभावः। रूपस्य तु प्राधान्यम्; ताभ्यां तस्य संस्कार्यत्वात्। अतो रूपातिदेशोऽयं युक्त इत्याह - `रूपातिदेशोऽयम्` इत्यादि। यदि तर्हि तृजन्तस्य यद्रूपं तत्? क्रोष्टुशब्दस्यातिदिश्यते तदा यत्किञ्चिदेव तृजन्तस्य रूपम् - वक्तृ, पक्तृ - इत्येवमाद्यपि प्राप्नोति? अत आह - `प्रत्यासत्तेश्च` इत्यादि। इह धात्वन्तरस्य पचतिप्रभृते स्तृजन्तस्य रूपमस्ति, क्रुशेरपि, तत्? किमश्रुतसय धातोस्तृजन्तस्य यद्रूपं तदतिदिश्यते, उत्त श्रुतस्य क्रुशेरिति? तत्र श्रुतस्यैव यद्रूपं तदेवातिदेष्टुं इति। चकारोच्चारणसामर्थ्यात्? स्वरोऽप्यतिविश्यते। अन्यथा `तृवत्` इत्येव ब्राऊयादिति भावः। `क्रोष्टा` इति। तृज्वद्भावे कृते पूर्वसूत्रेणानङ्। `क्रोष्टारौ` क्रोष्टारः` इति। **ऋतो ङिसर्वनामस्थानयोः** (7.3.110) इति गुणः, रपरत्वम्, अप्त्रादिसूत्रेण (6.4.11) दीर्घः। `क्रोष्टन्` इति। **प्रथमयोः पूर्वसवर्णः** (6.1.102) इति दीर्घः। **तस्माच्छसो नः पुंसि** (6.1.103) इति नत्वम्॥ Prakriyasarvasvam ----------------- असम्बुद्धौ सर्वनामस्थाने परे क्रोष्टुशब्दस्तृजन्तक्रुशितुल्यरूपः स्यात् । क्रोष्टृ स्- Sarala ------ (क्रोष्टुशब्दस्तृजन्तवद्रूपं लभते असम्बुद्धौ सर्वनामस्थाने परे) । **तृज्वत्** - अव्ययपदम् । **क्रोष्टुः** - प्रथमान्तम् । **इतोऽत् सर्वनामस्थाने** (७.१.८६) इत्यतः "सर्वनामस्थाने" इति, **सख्युरसम्बुद्धौ** (७.१.९२) इत्यतः - "असम्बुद्धावि"ति चानुवर्त्तते, तदाह - **असम्बुद्धाविति** ॥ Sudha ----- **तृज्वत्क्रोष्टुरिति ।** प्रत्ययग्रहणपरिभाषया तृच इत्यनेन तृजन्तं गृह्यते । **तेन तुल्यं क्रिया चेद्वतिः**(5.1.115) इति तृतीयान्ताद्वतिः । **इतोऽत् सर्वनामस्थाने**(7.1.86) इत्यतः सर्वनामस्थाने इति **सख्युरसम्बुद्धौ**(7.1.92) इत्यतोऽसम्बुद्धाविति चानुवर्तते । तदाह - **सम्बुद्धावित्यादिना ।**