71090: गोतो णित् ================ **Padacheda:** गोतः | S | 5 | 1 | णित् | S | 1 | 1 | Sutrartha --------- **गो-शब्दात् परस्य सर्वनामस्थानम् 'णित्' भवति ।** 'गो' इति ओकारान्तशब्दः । अस्मात् शब्दात् विहितः सर्वनामस्थानप्रत्ययः 'णित्' भवति (इत्युक्ते, सः णित्-वत् कार्यम् करोति) । किम् कार्यम् णित्-वत् भावस्य? **अचो ञ्णिति** (7.2.115) इत्यनेन अजन्त-शब्दस्य णित्-प्रत्यये परे वृद्धि-आदेशः भवति । यथा - 1. गो + सुँ [प्रथमैकवचनस्य प्रत्ययः] → गौ + सुँ [**गोतो णित्** (7.1.90) इति सुँ-प्रत्ययस्य णिद्वद्भावः । अतः **अचो ञ्णिति** (7.2.115) इति णित्-प्रत्यये परे अजन्तस्य अङ्गस्य वृद्धिः । ओकारस्य वृद्धिः औकारः] → गौः [**ससजुषोः रुँः** (8.2.66) इति रुँत्वम् । **खरवसानर्योविसर्जनीयः** (8.3.15) इति विसर्गः] 2. गो + औ/औट् [प्रथमा/द्वितीयाद्विवचनस्य प्रत्ययः] → गौ + औ / औट् [**गोतो णित्** (7.1.90) इति औ-प्रत्ययस्य णिद्वद्भावः । अतः **अचो ञ्णिति** (7.2.115) इति णित्-प्रत्यये परे अजन्तस्य अङ्गस्य वृद्धिः । ओकारस्य वृद्धिः औकारः] → गावौ [**एचोऽयवायावः** (6.1.78) इति आव्-आदेशः] 3. गो + जस् [प्रथमाबहुवचनस्य प्रत्ययः] → गौ + अस् [**गोतो णित्** (7.1.90) इति जस्-प्रत्ययस्य णिद्वद्भावः । अतः **अचो ञ्णिति** (7.2.115) इति णित्-प्रत्यये परे अजन्तस्य अङ्गस्य वृद्धिः । ओकारस्य वृद्धिः औकारः] → गावस् [**एचोऽयवायावः** (6.1.78) इति आव्-आदेशः] → गावः [**ससजुषोः रुँः** (8.2.66) इति रुँत्वम् । **खरवसानर्योविसर्जनीयः** (8.3.15) इति विसर्गः] **प्रथमयोः पूर्वसवर्णः** (6.1.102) अस्य सूत्रस्य एतासु प्रक्रियासु प्रसक्तिः नास्ति, यतः **प्रथमयोः पूर्वसवर्णः** (6.1.102) इत्यस्मिन् सूत्रे 'अकः' इति अनुवर्तते । ओकारः तु अक्-प्रत्याहारे नास्ति । अत्र एकं वार्त्तिकं ज्ञातव्यम् - । इत्युक्ते, केवलं गोशब्दादेव न, अपितु सर्वेषाम् ओकारान्तशब्देभ्यः परस्य सर्वनामस्थानसंज्ञकस्य णित्-अतिदेशः भवति, इति । यथा, 'सुद्यो' अस्य ओकारान्तपुंलिङ्गशब्दस्य रूपाणि अपि गो-शब्दवदेव भवन्ति - सुद्धौः सुद्यावौ, सुद्यावः । ज्ञातव्यम् - 1. अनेन सूत्रेण गो-शब्दात् परस्य सर्वनामस्थानसंज्ञकप्रत्यये 'णित्' गुणस्य आरोपणम् भवति, अतः एतत् सूत्रम् 'अतिदेशसूत्रम्' नाम्ना ज्ञायते । ** अन्यतुल्यत्वविधानमतिदेशः ** इति अतिदेशस्य व्याख्या । 2. अस्मिन् सूत्रे षष्ठ्यन्तं पदम् नास्ति, अतः ** उभयनिर्देशे पञ्चमीनिर्देशः बलीयान् ** अनया परिभाषया अत्र सप्तमीनिर्दिष्टः शब्दः स्थानिनः कार्यं करोति । अतएव णित्-गुणः सर्वनामस्थानस्य भवति, 'गो' शब्दस्य न । 3. द्वितीया-एकवचनस्य अम्-प्रत्यये परे वर्तमानसूत्रेण वृद्धि-आदेशे प्राप्ते अपवादत्वेन **औतोम्शसोः** (6.1.93) इत्यनेन पूर्वपरयोः आकारः एकादेशः भवति, अतः 'गाम्' इति रूपम् सिद्ध्यति । Sutrartha (English) ------------------- The सर्वनामस्थान-प्रत्यय following the word गो becomes णित्. Vasu English Summary -------------------- The endings of the strong cases are णित् after गो। Vasu English Translation ------------------------ The endings of the strong cases are णित् after गो। That is, these affixes produce all the णित् operations: such as *Vriddhi* &c. As गौः, गावौ, गावः ॥ Why have we added a त् after गो ? The rule applies to the form गो, and not when it assumes the form गु, as in चित्रगुः, शबलगुः ॥ How do you explain the forms हे चित्रगो, हे शबलगवः ? This is done on the maxim अङ्गवृत्ते पुनर्वृत्तावविधिर्निष्टितस्य, (when an operation which is taught in the *Angadhikara* (VI.4.-VII.4). has taken place, and another operation of the *Angadhikara* is subsequently applicable, this latter operation is not allowed to take place). For when *Guna* once takes place before the Vocative and the Nominative Plural affix by (7.3.108) — (7.3.109), the णित्व operation of this rule will not again take place. Or गोतः in the *sutra* may be construed as *Sambandha*-*lakshana* *Sasthi* (a Genitive denoting a general relation): and the meaning will be "that *sarvanamasthana* affix, denoting singular, dual, plural, which refers to the meaning of गो the or 'cow.' While in चित्रगु, the *sarvanamasthana* affix does not refer to 'cow' but to another object, namely to a 'person' who possesses brindled cows. त् in गोत् in this view is for specification only. Some read the *sutra* as ओतः णित्, so that the rule will apply to द्यो also: as, द्यौः, द्यावौ, द्यावः ॥ If the reading be taken गोतः, then we extend this rule to द्यो also, by taking गो as merely illustrative of all words ending in ओ; and this is done by the letter त् in गोतः, for the तपर rule applies to letters, and not to words, so that गोतः means and includes गो and words ending in ओ ॥ Bhashya ------- गोतो णित् किमिदं गोतः परस्य सर्वनामस्थानस्य णित्त्वमुच्यते, आहो स्वित्सर्वनामस्थाने परतो णित्कार्यमतिदिश्यते ? ॥ कश्चात्र विशेषः ? ॥ गोतः सर्वनामस्थाने णित्कार्यातिदेशः ॥ गोतः सर्वनामस्थाने णित्कार्यमतिदिश्यते । ॥ सर्वनामस्थाने णिद्वचने(2) ह्यसंप्रत्ययः षष्ठ्यनिर्देशात् (3) ॥ सर्वनामस्थानस्य णिद्वचने(2) ह्यसंप्रत्ययः स्यात् ॥ किं कारणम् ? ॥ षष्ठ्यनिर्देशात् । षष्ठीनिर्दिष्टस्यादेशा उच्यन्ते, न चात्र षष्ठीं पश्यामः ॥ एवं तर्हि वतिनिर्देशोऽयं गोतो णिद्वद्भवती ति ॥ स तर्हि वतिनिर्देशः कर्तव्यो, न ह्यन्तरेण वतिमतिदेशो गम्यते ॥ अन्तरेणापि वतिमतिदेशो गम्यते । तद्यथा - एष(1) ब्रह्मदत्तः । अब्रह्मदत्तं ब्रह्मदत्त इत्याह(2) ते मन्यामहे ब्रह्मदत्तवदयं भवतीति । एवमिहाऽप्यणितं णिदित्याह । णिद्व दिति गम्यते ॥ अथवा पुनरस्तु गोतः परस्य सर्वनामस्थानस्य णित्त्वम् ॥ ननु चोक्तं सर्वनामस्थाने णिद्वचने(3) ह्यसंप्रत्ययः षष्ठ्यनिर्देशादिति ॥ नैषः दोषः । गोत इत्येषा पञ्ञ्चमी सर्वनामस्थान इति सप्तम्याः षष्ठीं प्रकल्पयिष्यति - तस्मादित्युत्तरस्येति ॥ अथ तपरकरणं किमर्थम् ? ॥ इह मा भूत् - चित्रगुः शबलगुरिति ॥ नैतदस्ति । ह्रस्वत्वे कृते न भविष्यति ॥ स्थानिवद्भावात्प्राप्नोति ॥ अत उत्तरं पठति ॥ तपरकरणमनर्थकं स्थानिवत्प्रतिषेधात्(4) ॥ तपरकरणमनर्थकम् ॥ किं कारणम् ? ॥ स्थानिवत्प्रतिषेधात् प्रतिषिध्यतेऽत्र स्थानिवद्भावो - गोः पूर्वणित्वात्त्वस्वरेषु(5) स्थानिद्भावो न भवतीति । स चावश्यं प्रतिषेधः आश्रयितव्यः ॥ इतरथा हि संबुद्धिजसोः प्रतिषेधः ॥ यो हि मन्यते तपरकरणसार्मथ्यादत्र न भविष्यतीति संबुद्धिजसोस्तेन प्रतिषेधो वक्तव्यः स्यात्, - हे चित्रगो (हे) चित्रगव इति ॥ अथेदानीं सत्यपि स्थानिवद्भावप्रतिषेधे(7) गुणे कृते कस्मादेवात्र न भवति(1) ? ॥ लक्षणप्रतिपदोक्तयोः प्रतिपदोक्तस्यैवेति ॥ ननु चेदानीमसत्यपि(2) स्थानिवद्भावप्रतिषेधे एतया परिभाषया शक्यमुपस्थातुम् ? ॥ नेत्याह । न हीदानीं क्व चिदपि स्थानिवत्स्यात् ॥ ( गोतो णित् ) ॥ Kashika ------- गोशब्दात् परं सर्वनामस्थानं णिद् भवति। णित्कार्यं तत्र भवतीत्यर्थः। गौः, गावौ, गावः। तपकरणं किम्? चित्रगुः। शबलगुः। कथं हे चित्रगो, हे चित्रगव इति? **अङ्गवृत्ते पुनर्वृत्तावविधिर्निष्ठितस्य**इति संबुद्धिजसोर्गुणे कृते णित्त्वं न भवति। अथवा गोत इति संबन्धलक्षणा षष्ठी। गोतः संबन्धि यत् सर्वनामस्थानमिति। यत् च तदर्थस्यैकत्वादिषु सर्वनामस्थानं तद् गोः सर्वनामस्थानमित्युच्यते। चित्रगुशब्दात् तु यत् सर्वनामस्थानं तदन्यपदार्थस्यैकत्वादीनाह। तपरकरणं तु निर्देशार्थमेव। केचिद् ओतो णित् इति पठन्ति, द्योशब्दादपि यत् सर्वनामस्थानं विद्यते तदर्थम्। द्यौः, द्यावौ, द्यावः। गोत इत्येतदेव तपरकरणनिर्देशादोकारान्तोपलक्षणं द्रष्टव्यम्। वर्णनिर्देशेषु हि तपरकरणं प्रसिद्धम्॥ Siddhanta Kaumudi ----------------- गोशब्दात्परं सर्वनामस्थानं णिद्वत् स्यात् । गौः । गावौ । गावः ॥ Laghu Siddhanta Kaumudi ----------------------- ओकाराद्विहितं सर्वनामस्थानं णिद्वत्। गौः। गावौ। गावः॥ Balamanorama ------------ **गोतो णित्** - गोतो णित् । 'गोत' इति तपरकरणम् ।इतोऽत्सर्वनामस्थाने॑ इत्यतः 'सर्वनामस्थाने' इत्यतः 'सर्वनामस्थाने' इत्यनुवृत्तं प्रथमया विपरिणम्यते । तदाह — घोशब्दादित्यादिना । णिद्वत्स्यादिति । णिति परे यत्कार्यं तत्कार्यकारीत्यर्थः । गौरिति । णिद्वत्त्वेअचो ञ्णिती॑ति वृद्धिरौकारः । रुत्वविसर्गाविति भावः । गावौ गाव इति । णिद्वत्त्वे वृद्धिरावादेशश्चेति भावः । हे गौः । वृद्धौ एङः परत्वाऽभावान्नसंबुद्धिलोपः । अमि गो अम् इति स्थिते णिद्वत्त्वाद्वृद्धो प्राप्तायाम्- । Tattvabodhini ------------- **गोतो णित्** - गोतो णित् ।इतोऽत्सर्वमाभस्थाने॑इत्यतोऽनुवृत्तं सप्तम्यन्तं सर्वनामस्थानग्रहणं प्रथमया विपरिणम्यते,णि॑दित्यनेन समानाधिकरण्यात्तदाह -सर्वनामस्थानमिति । णित्कार्यकृत्स्यादिति । णिति परे पूर्वस्य यत्कार्यं तत्कारोतीत्यर्थः । Padamanjari ----------- गाङ्कुटादिसूत्रे यावन्तः पक्षाः, इहापि तावन्त एव, त थएव गुणा दोषश्च, तद्वदेव चातिदेशपक्ष आश्रीयते, यदाह - णिद्भवतीति । परत्र परशब्दः प्रयुक्तोऽन्तरेणापि वतिं वत्यर्थं गमयति, यथा - सिंहो माणवक इति । णिदित्यनेन सामानाधिकरण्यात् सर्वनामस्थाने इति सप्तम्यन्तं प्रथमया विपरिणम्यते, तत्र सर्वनामस्थानस्य णित्यार्यं विधेयं न सम्भवतीति णिति यत्कार्यं तत्सर्वनामस्थाने पूर्वस्यातिदिश्यते । तदाह - णित्कार्याणि तत्र भवन्तीत्यर्थ इति । चित्रगुरिति । बहुव्रीहौ गोस्ज्ञियोरुपसर्जनस्य इति ह्रस्वत्वम् । अत्रासति तपरकरणेऽङ्गाधिकारे तदन्तविधेरभ्युपगमात् सर्वे सर्वपदादेशाः इति न्यायेन स्थानिवद्भावेन गोशब्दान्तत्वात् णिद्वद्भावः प्राप्नोति । तपरकरणे तु तत्कालार्थे सति न भवति भिन्नकालत्वात्, तपरस्तत्कालस्य इत्यत्राणित्यस्य निवृतत्वाद नणोऽपि तत्कालनियमो भवतीति मन्यते । कथमिति । ह्रस्वस्य गुणः जसि चेति गुणे कृते सत्यपि तकारे स्थानिवत्वात् तत्कालत्वाण्णित्वं प्राप्नोत्येवेति प्रश्नः । न च स्थानिवद्भावविषये लक्षणप्रतिपदोक्तपरिभाषा तस्य वैयर्थ्यप्रसङ्गात् । अङ्गवृते इत्यादि परिहारः । णित्वं न भवतीति । णित्कार्यं न भवतीत्यर्थः । भवतु सम्बुद्धावेष परिहारः, जसि त्ववादेशामन्तरेणानिष्ठीतत्वादङ्गस्य नायं परिहारः इत्याशङ्क्याह - अथ वेति । यच्चेत्यादिनार्थद्वारकं विशेषसम्बन्धमाह । आनन्तर्यलक्षणे तु सम्बन्धे चित्रगुशब्दादपि प्रसङ्गे यदि, तर्ह्यर्थद्वारकसम्बन्धाश्रयणादेव चित्रगुशब्देऽप्रसङ्गः, किमर्थं तपरकरणम् इत्याह - तपरकरणं तु निर्देशार्थमेवेति । स्पष्टनिर्देशार्थमेवेत्यर्थः । इतरथा गोः इत्युच्यमाने गुशब्दस्यापि निर्देशः सम्भाव्येत । केचिदित्यादि । एवं पाठे प्रयोजनमाह - द्योशब्दादपीति । ये तर्ह्येवं न पठन्ति तेषां कथं द्योशब्दे णिद्वद्भावः इत्यत आह - गोत त्येतिदेवेति । कथं पुनरेदोकारान्तोपलक्षणं द्रष्ट्ंअ शक्यम् इत्यत आह - वर्णनिर्द्देश एव तपरत्वं दृष्टम्, तस्मातपरकरणादिह ओकारान्तोपलक्षणं विज्ञायते ॥ Nyaas ----- णिदिति संज्ञा वाऽनेन क्रियते - गोतः परं सर्वनामस्थानं णिद्भवति, णित्संज्ञं भवतीत्यर्थः; अथ वा - गोतः परस्य सर्वनामस्थधानस्य णकार इत्संज्ञको भाव्यते, तेन गोतः परसक्य सर्वनामस्थानस्य णकार इत्संज्ञको भवतीति; आदेशो वा विधीयते - गोतः परस्य सर्वनामस्थानस्य णिणकारानुबन्धवानादेशो भवति; अतिदेशो क्रियते - गोतः णिद्भवति, णिद्वद्भवतीत्यर्थः, विनापि वतिना वत्यर्थो गम्यते, यथा - गाङकुटादिसूत्रे (1.2.1) । तत्राद्ये पशे संज्ञोच्चारिता संज्ञिनं प्रत्याययतीति णित्प्रदेशेषु कृत्रिमत्वादस्यैव सर्वनामस्थानस्य ग्रहणं प्राप्नोति, न ण्वुलादीनाम्। द्वितीये तु णकार इत्संज्ञकः सर्वनामस्थानस्य प्रसज्येत। तृतीये तु पुनर्णित्? सर्वनामस्थानं न क्वचिद्दृष्टमिति। य एवैते ष्वुलादयस्य एवादेशाः प्रसज्येरन्नित्येते दोषा आद्येषु त्रिषु पक्षेषु यथाक्रमं प्रतिविधेयाः। तत्प्रतिविधाने प्रतिपत्तिगौरवं स्यात्, अतिदेशपक्षे तु न किञ्चित्? प्रतिविधेयम्, अतः स एव साधुरिति। तमेवाश्रित्याह - `गोशब्दात्` इत्यादि। `णित्कार्यम्` इत्यादिना णिद्भवतीत्यस्यार्थं व्याचक्षणः कार्यातिदेशोऽयमित्याचष्टे। गौरिति वृद्धिर्णित्कार्यम्। `चित्रगुः` इति। यत्र बहुव्रीहौ कृते **गोस्त्रियोरुपसर्जनस्य** (1.2.48) इति ह्रस्वः। तत्रासति तपरकरणे `अङ्गाधिकारे तस्य तदुत्तरपदस्य` (पु।प।वृ।85) इति वचनात्तदन्तविधिमभ्युपगम्य स्थानिवद्भावेन गोशब्दान्तमेतदङ्गं भवतीति णिद्भावः प्राप्नोति। तपकरणे तु ततकालनियमे सति न भवति; भिन्नकालत्वात्। **तपरस्तत्कालस्य** (1.1.70) इत्यत्राण्ग्रहणस्य निवृत्तत्वादनणोऽपि तत्कालनियमो भवत्येव। `कथम्` इत्यादि। सत्यपि तपरकरणं `ह्रस्वस्य गुणः` (7.3.108) , `जसि च` (7.3.109) इति सम्बुद्धिजसोर्गुणे कृते हे चित्रगो, हे चित्रगव इत्यत्र प्राप्नोति। तत्कालत्वादित्यभिप्रायः। ननु च लक्षमप्रतिपदोक्तपरिभाषया (व्या।प।3) न भविष्यति? नैतदस्ति; यत्र हि स्थानिवद्भावस्तत्रैवा नोपतिष्ठते; अध्यया हि स्थानिवद्भावोऽनर्थकः स्यात्। `अङ्गवृत्ते पुन` इत्यादि परीहारः। एष तु हे चित्रगवित्यत्र परीहारः, न तु चित्रगव इत्यत्र; अनिष्ठितत्वात्। अवादेशे हि कृते निष्ठितत्वमत्र भविष्यति, न च गुणमात्रे; अप्रयोगार्हत्वात्। अत एवाव्यापकत्वादस्य परीहारस्यापरितुष्यन्? परिहारान्तरमाह - `अथ वा` इत्यादि। स्यादेतत् - अत्रापि गोः सम्बन्धि सर्वनामस्थानमानन्तर्यलक्षणेन भवति सम्बन्धेनेति/ अत आह - `यच्च` इत्यादि। यद्यानन्तर्यलक्षणेन गोः सम्बन्धि सर्वनामस्थानं गृह्रते तदा षष्ठआश्रयणामनर्थकं स्यात्, पञ्चम्येवाश्रयितव्येति; क्रमव्यतिक्रमे प्रयोजनाभावात्। तस्मात्? षष्ठआश्रयणसामर्थ्याद्गोशब्दस्यार्थस्य य एकात्वादयस्तेषु यत्सर्वनामस्थानं तद्गोः सर्वनामस्थानमित्युच्यते। तत्? पुनर्गोशब्दस्यैकत्वादीनां वेदितव्यम्। आदिशब्देन द्वित्वादिपरि ग्राहः। तत्रैतत्? स्यात् - चित्रगुशब्दादपि यत्? सर्वनामस्थानं तद्गोशब्दस्यार्थस्यैकत्वादिषु वर्तते? इत्याह - `चित्रगुशब्दात्` इत्यादि। यदि यद्गोः सम्बन्धि सर्वनामस्थानं तस्य णिद्भावो विधीयते, तदा तपरकरणमनर्थकं स्यात्, तद्धि चित्रगुरित्यादौ मा भूदित्येवमर्थं क्रियते। न चात्र प्राप्तिः, न ह्यत्र गोः सम्बन्धि सर्वनामस्थानम्, किं तर्हि? अन्यपदार्थस्येत्याह - `तपरकरणं` तु इत्यादि। `केचित्` इत्यादि। किमर्थं पुनस्त एवं पठन्ति? इत्याह - `द्योशब्दोऽपि` इत्यादि। य त्वेदं न पठन्ति `गोतः` इति, तेषां द्योशब्दात्? परस्य सर्वनामस्थानस्य णिद्भावो न सिध्यतीत्याह - `गोत इत्येतदेव` इत्यादि। कथं पुनरेतदोकारान्तोपलक्षणार्थं शक्यं विज्ञातुम्? इत्याह - `वर्णनिर्देशेषु` इत्यादि। यथा **वृद्धिरादैच्** (1.1.1) , `अदेङ्गुणः` (1.1.2) इत्यवमादिषु योगेषु वर्णस्तपरो निर्दिश्यत इति तपरकरणं वर्णनिर्देशेषु हि प्रसिद्धम्। तस्मादिहापि तपरनिर्देशात्? `गोतः` इत्येतदोकारान्तोपलक्षणं द्रष्टव्यमिति। अतो वचनात्? तपरकरणं वर्णनिर्देशार्थ मेवेत्यस्यैवौकारान्तोपलक्षणार्थं विज्ञायते॥ Prakriyasarvasvam ----------------- गोत इति तपरोक्तिरोद्ग्रहणार्था । ओदन्तात्परं सर्वनामस्थानं णित् स्यात् । वृद्धिः । गौः । गावौ । गावः । हे गौः । गो अम् । औतोऽशसोः (६–१–९३) इत्यात्वमेकादेशः । गाम् । गावौ । गाः । गवे । ‘ङसिङसोश्च, (६–१–११०) इति पूर्वरूपत्वम् । गोः । गवोः । गवाम् । गवि । गोषु । एवं सुद्यौः । सुद्यावौ । सुद्याम् । सुद्यावौ । सुद्याः । सुद्यवा । सुद्योभ्यामित्यादि । रैशब्दः पुंस्यप्युक्तः प्रसादादौ । रै स्— हलादौ सुपि परे राय आत्वं स्यात् । राः । अजादिष्वाय्, हलादिष्वात्वम् । रायौ । रायः । हे राः । राभ्यामित्यादि । आत्वे तदन्तविधेः सुराः । सुरायौ । सुराभ्यामित्यादि । ग्लौः । ग्लावौ । हे ग्लौः । ग्लौभ्यामित्यादि ॥ इत्यजन्तपुल्लिङ्गः ॥ आदन्तस्त्रीलिङ्गः । रमा । आबन्तत्वात्स्वादिः । 'हल्ड्याभ्य-' (६-१-६८) इति सुलोपः । रमा ॥ Sarala ------ **गोतः** - पञ्चम्यन्तं, **णित्** - प्रथमान्तम् । **इतोऽत्सर्वनामस्थाने** (७.१.८६) इत्यतः "सर्वनामस्थाने" इत्यनुवर्त्तते ॥ Sudha ----- **गोतो णिदिति ।** गोत इति तपरकरणम् । **इतोऽत् सर्वनामस्थाने**(7.1.86) इत्यतः सर्वनामस्थाने इत्यनुवृत्तं प्रथमया विपरिणम्यते । तदाह - **ओकाराद्विहितमित्यादिना । गौरिति ।** गोशब्दात्सावागते **गोतो णित्**(7.1.90) इति णिद्वद्भावे **अचो ञ्णिति**(7.2.115) इति वृद्धौ औकारे रुत्वे विसर्गे च "गौः" इति । **गावौ गाव इति ।** णिद्वत्वे वृद्धिः, अवादेशश्चेति भावः । हे गौः । वृद्धौ एङः परत्वाभावात् न सम्बुद्धिलोपः । Vartika ------- ओतो णिदिति वाच्यम् ।