71089: पुंसोऽसुङ् ================= **Padacheda:** पुंसः | S | 6 | 1 | असुङ् | S | 1 | 1 | Sutrartha --------- **सर्वनामस्थाने विवक्षिते पुम्स्-इत्यस्य अङ्गस्य असुङ् आदेशः भवति ।** पुम्स्-इत्यस्य अङ्गस्य सर्वनामस्थाने विवक्षिते असुङ् आदेशः भवति । असुङ् इत्यत्र ङकारः इत्संज्ञकः अस्ति, उकारः उच्चारणार्थः अस्ति । ङित्वात् अयमादेशः **ङिच्च** (1.1.53) इत्यनेन स्थानिनः अन्तिमवर्णस्य स्थाने विधीयते । यथा - पुम्स् + औ [प्रथमाद्विवचनस्य प्रत्ययः] → पु मस् + औ [**पुंसोऽसुङ्** (7.1.89) इति अस्-आदेशः] → पु म न् स् + औ [**उगिदचां सर्वनामस्थानेऽधातोः** (7.1.70) इत्यनेन नुमागमः] → पुमा न् स् औ [**सान्तमहतः संयोगस्य** (6.4.10) इत्यनेन नकारात् पूर्वस्य अकारस्य दीर्घादेशः भवति ।] → पुमान्सौ ज्ञातव्यम् - अस्मिन् सूत्रे 'सर्वनामस्थाने' इति परसप्तमी नास्ति, विषयसप्तमी अस्ति । इत्युक्ते, 'सर्वनामस्थाने' इत्यस्य अर्थः 'सर्वनामस्थाने परे' इति अत्र न करणीयः, अपितु 'सर्वनामस्थाने विवक्षिते' इति करणीयः । सर्वनामस्थानस्य विवक्षायाम्, परन्तु सर्वनामस्थानस्य प्राप्तेः पूर्वमेव अयमादेशः भवतीति अस्य अर्थः । अस्य किम् कारणम्? 'परमपुमान्' अस्य शब्दस्य प्रक्रियां पश्यामश्चेत् स्पष्टं भवेत् । 'परमः च असौ पुमान्' अस्मिन् अर्थे **सन्महत्परमोत्तमोत्कृष्टाः पूज्यमानैः** (2.1.61) अनेन सूत्रेण तत्पुरुषः समासः विधीयते । तदा 'परमपुम्स्' अस्य सामासिकशब्दस्य अन्तिमः स्वरः, इत्युक्ते पकारोत्तरः उकारः **समासस्य** (6.1.223) इत्यनेन उदात्तत्वं प्राप्नोति, यत् न इष्यते । वस्तुतः असुङ्-आदेशात् अनन्तरम् यत् 'परमपुम स्' इति रूपं सिद्ध्यति, तस्य यः अन्तिमस्वरः (अकारः) सः उदात्तः अस्ति । एतत् साधयितुम् समस्तपदस्य निर्माणप्रक्रियायाम् एव सर्वनामस्थानस्य विवक्षां कृत्वा असुङ्-आदेशः करणीयः, येन 'परमपुम स्' इत्यस्यैव समस्तपदत्वं जायते, न हि केवलं 'परमपुम्स्' इत्यस्य । एवं भवति चेत् **समासस्य** (6.1.123) इत्यनेन समस्तपदस्य अन्तिमस्वरः (अकारः) उदात्तत्वं प्राप्नोति । Sutrartha (English) ------------------- The पुम्स् अङ्ग gets the असुङ् आदेश when it is expected to be followed by a सर्वनामस्थान. Vasu English Summary -------------------- असुङ् (अस्) is substituted for the final of पुंस् in the strong cases. Vasu English Translation ------------------------ असुङ् (अस्) is substituted for the final of पुंस् in the strong cases. The word पुंस् is derived from पा (to protect) + डुम्सुन् (*Unadi* IV. 178), the म् being changed to *anusvara*. So when स् of पुंस् is replaced by अस् we get the form पुमस्, the उ of असुङ् indicates that न् should be added in the strong cases after अ (7.1.70), so we have पुमान्, पुमांसौ, पुमांसः ॥ This substitution must take place in its incipient stage before the affixes are added, (उपदेशिवद्भावः) : otherwise the accent will be wrong. The compounds have acute on the final, (6.1.223), therefore, परमपुंस् has acute on पु. and in the Nominative Singular परमपुमान् the acute will remain on पु, but it is intended that it should be on मा, thus परमपुमान् ॥ The simple word पुमान् of course, has accent on पु ॥ Bhashya ------- पुंसोऽसुङ् ॥ असुङ्युपदेशिवद्वचनं स्वरसिद्ध्यर्थं बहिरङ्गलक्षणत्वात् ॥ असुङ्युपदेशिवद्भावो वक्तव्यः । उपदेशावस्थायामेवासुङ्भवतीति वक्तव्यम् ॥ किं प्रयोजनम् ? ॥ स्वरसिद्ध्यर्थमुपदेशावस्थायामसुङि कृते इष्टः स्वरो यथा स्यात् - परमपुमानिति । अक्रियमाणे ह्युपदेशिवद्भावे समासान्तोदात्तत्वेऽसुङ् आन्तर्यतोऽस्वरकस्याऽस्वरकः(2) स्यात् । किं पुनः कारणं समासान्तोदात्तत्वं तावद्भवति न पुनरसुङ्। न परत्वादसुङा भवितव्यम्?।बहिरङ्गलक्षणत्वात्। बहिरङ्गलक्षणोऽसुङ्, अन्तरङ्गः स्वरः । असिद्धं बहिरङ्गमन्तरङ्गे ॥ स तर्हि उपदेशिवद्भावो वक्तव्यः ? ॥ न वक्तव्यः । असुङ(3) आद्युदात्तनिपातनं करिष्यते । स निपातनस्वरः समासस्वरस्य बाधको भविष्यति ॥ एवमप्युपदेशिवद्भावो वक्तव्यः, स यथैव हि निपातनस्वरः समासस्वरं बाधते एवं प्रकृतिस्वरमपि बाधेत, - पुमान् । तस्मात्सुष्ठूच्यते - असुङ्युपदेशिवद्वचनं स्वरसिद्ध्यर्थं बहिरङ्गलक्षणत्वादिति(1) ॥ ( पुंसोऽसुङ् ) ॥ Kashika ------- पुंस् इत्येतस्य सर्वनामस्थाने परतोऽसुङित्ययमादेशो भवति। पुमान्, पुमांसौ, पुमांसः। इह परमपुमानिति प्रागेव विभक्त्युत्पत्तेः समासान्तोदात्तत्वम्, उत्पन्नायां विभक्तावसुङ् इत्यनिष्टः स्वरः प्राप्नोति। तदर्थमसुङ्युपदेशिवद्वचनं कर्तव्यम्। तेन परमपुमानित्यन्तोदात्तो भवति। पुमानित्ययं पुनराद्युदात्त एव॥ Siddhanta Kaumudi ----------------- सर्वनामस्थाने विवक्षिते पुंसोऽसुङ् स्यात् । उकार उच्चारणार्थः । बहुपुंसी इत्यत्र उगितश्च (SK455) इति ङीबर्थं कृतेन पूञो डुम्सुन् इति प्रत्ययस्योगित्त्वेनैव नुम्सिद्धेः । पुमान् । हे पुमन् । पुमांसौ । पुमांसः । पुंसः । पुंसा । पुंभ्याम् । पुंभिः । पुंसु । ऋदुशन (SK276) इत्यनङ् । उशना । उशनसौ । उशनसः । (वार्तिकम्) ॥ हे उशनन् । हे उशन । हे उशनः । उशनोभ्यामित्यादि । अनेहा । अनेहसौ । अनेहसः । हे अनेहः । अनेहोभ्यामित्यादि । वेधाः । वेधसौ । वेधसः । हे वेधः । वेधोभ्यामित्यादि । अधातोरित्युक्तेर्न दीर्घः । सुष्ठु वस्ते सुवः । सुवसौ । सुवसः । पिण्डं ग्रसते पिण्डग्रः । पिण्डग्लः । ग्रसु ग्लसु अदने ॥ Laghu Siddhanta Kaumudi ----------------------- सर्वनामस्थाने विवक्षिते पुंसोऽसुङ् स्यात्। पुमान्। हे पुमन्। पुमांसौ। पुंसः। पुम्भ्याम्। पुंसु॥ ऋदुशनेत्यनङ्। उशना। उशनसौ। **अस्य संबुद्धौ वानङ्, नलोपश्च वा वाच्यः** (वार्त्तिकम्)। हे उशन, हे उशनन्, हे उशनः। हे उशनसौ। उशनोभ्याम्। उशनस्सु॥ अनेहा। अनेहसौ। हे अनेहः॥ वेधाः। वेधसौ। हे वेधः। वेधोभ्याम्॥ Balamanorama ------------ **पुंसोऽसुङ्** - तत्र सुटि विशेषमाह — पुंसोऽसुङ् ।इतोऽत्सर्वनामस्थाने॑ इत्यतः 'सर्वनामस्थाने' इत्यनुवृत्तिमभिप्रेत्य शेषपूरणेन सूत्रं व्याचष्टे — सर्वनामस्थाने इति ।पुंसोऽसुङ् स्यात्सर्वनामस्थाने॑ इति फलितम् । ननु तत्पुरुषात्परमपुंस्शब्दात्सुटि असुङादेशात्प्रागेवसमासस्ये॑त्यन्तोदात्तत्वं पकारादुकारस्य स्यात् । सर्वनामस्थानोत्पत्तेः प्रागेव समासस्वरस्याऽन्तरङ्गत्वात्प्राप्तेः । इष्यते तु असुङि कृते परमपुमस् इत्यत्र मकारादकारस्य । अत आह — विवक्षिते इति । 'पुंसोऽसुङ्' इत्यत्र सर्वनामस्थान इति न परसप्तमी, किंतु 'विवक्षिते' इत्यध्याह्मत्य सर्वनामस्थाने प्रयोक्तुमिष्टे सति ततः प्रागेव असुङित्यर्थ आश्रीयते । एवं च सर्वनामस्थानोत्पत्तेः प्रागेव असुङि कृतेसमासस्ये॑त्यन्तोदात्तत्वं, परमपुमस् इत्यत्र मकारादकारस्य भवतीति न दोष इति भावः । नच परसप्तमीपक्षेऽपि सर्वनामस्थानोत्पत्तेः प्रागन्तरङ्गेऽपि समासस्वरः पकारादुकारस्य अकृतवव्यूहपरिभाषया न भवति, असुङि कृते पकारादुकारस्य समासान्ततायाः प्रनङ्क्ष्यत्त्वादिति वाच्यम्, विविक्षित इत्यर्थाश्रयणेनैव सिद्धे अकृतव्यूहपरिभाषाया अस्वीकार्यत्वादिति भावः । अत्रअसुङि उकार इत् उदित्कार्यार्थ॑ इति प्राचीनमतं दूषयितुमाह — उच्चारणार्थ इति । न त्वित्संज्ञकः । प्रयोजनाऽभावादिति भावः । ननूदित्कार्यमस्ति प्रयोजनमित्यत आह — उगित्त्वेनैवेति । ननु विनिगमनाविरह इत्यत आह-ङीबर्थमिति । बहवः पुमांसो यस्यामिति बहुव्रीहौ सुब्लुकि निमित्ताऽपायादसुङो निवृत्तौ बहुपुंस्शब्दादुगित्त्वान्ङीपि बहुपुंसीशब्दः । अत्र ङीपोऽसर्वनामस्थानत्वात्तस्मिन्विवक्षिते असुङः प्राप्तिरेव नास्ति । डुम्सुन उगित्त्वादेव ङीप् वक्तव्यः । तदर्थं डुम्सुन उगित्त्वमावश्यकं । तेनैव नुमोऽपि सिद्धत्वादसुङ उकार उच्चारणार्थ इति भावः । यद्यप्युणादिषु 'पात्तेर्डुम्सुन्' इति वक्ष्यते, तथापि पाठान्तरमिदं द्रष्टव्यम् । 'स्त्रियाम्' इति सूत्रभाष्यकैयटयोस्तु सूत्रेः सस्य पः, ऊकारस्य ह्रस्वः, म्सुन्प्रत्यय इत्युक्तम् । पुमानिति । डुंसुन् इति कृतानुस्वानिर्देशः । ततश्च पुंस्शब्दात्सौ विवक्षिते असुङ् । ङकार इत्, उकार उच्चारणार्थः ।ङिचेचे॑त्यन्तादेशः । निमित्ताऽपायादनुस्वारनिवृत्तौ पुम्स्शब्दात् सुः, उगित्त्वान्नुम्, 'सान्तमहतः' इति दीर्घः, सोर्लोपः सस्य संयोगान्तलोपः, तस्याऽसिद्धत्वान्नलोपो नेति भाव#ः । पुमांसाविति । असुङि पुमस् औ इति स्थिते नुमिसान्ते॑ति दीर्घः ।नश्चे॑ति नुमोऽनुस्वार इति भावः । पुंसः पुंसेति । शसादावसर्वनामस्थानत्वादसुङभावे रूपम् । यय्परत्वाऽभावान्न परसवर्ण इति भावः । पुम्भ्यामिति । सस्य संयोगान्तलोपे निमित्ताऽपायादनुस्वारनिवृत्तौ भकारमाश्रित्य पुनरनुस्वारे परसवर्णे रूपमिति भावः । इत्यादीति । पुंसे । पुंसः, पुंसोः । पुंसीति । अत्र यय्परत्वाऽभावान्न परसवर्णः । नुम्स्थानिकानुस्वारस्यैवोपलक्षणात्नुम्विसर्जनीये॑ति षत्वं नेति भावः । 'वश क्रान्तौ' अस्मात् 'वशेः कनसिः' इति कनसि प्रत्ययः । ककार इत् । इकार उच्चारणार्थः , ङित्त्वादन्तादेशः । उशनन्स् इति स्थिते उपधादीर्घः, हल्ङ्यादिना सुलोपः, नलोपः । उशना इति रूपमिति भवः । यद्यपि वशधातुश्चान्दस इति लुग्विकरणे वक्ष्यते, तथापि तत्प्रायिकम्, 'वष्टि वागुरिः' इत्यादिनिर्देशात्, 'उशना भार्गवः कविः' इति कोशाच्च ।अस्य संबुद्धाविति । एतच्च वृत्तौ पठितम् । वशधातौ माधवस्तुसंबोधने तूशनसरिउआरूपं सान्तं तथा नान्तमथाप्यदन्त॑मिति श्लोपवार्तिकमित्याह । भाष्याऽदृष्टत्वादिदमप्रामाणिकमेवेति प्रामाणिकाः । हे उशनन्निति । अनङि नलोपाऽभावे रूपम् । हे उशनेति । अनङि नलोपे रूपम् । हे उशन इति । अनङभावे रूपम् । उशनोभ्यामिति । सस्य रुत्वेहशि चे॑त्युत्त्वेआद्गुणः॑ । उशनःसु-उशनस्सु । अनेहेति ।नञि हन एह चे॑ति नञि उपपदे हनधातोरसुन्, प्रकृतेरेहादेशश्च, उपपदसमासः, 'नलोपो नञः,' 'तस्मान्नुडचि' अनेहस्शब्दः । ततः सुः, अनङ्, सुलोपः, उपधादीर्घः, नलोप इति भावः । हे अनेहः । अनेहोभ्यामित्यादि । वेधा इति ।विधञौ वेध च॑ । विपूर्वाद्धाञ्धातोरसुन्प्रकृतेर्धादेशश्च । असुनि उकार उच्चारणार्थः । उगित्वाऽभावन्न नुम्, ततः सुः, असन्तत्वाद्दीर्घः, सुलोपः, रुत्वविसर्गाविति भावः ।वस आच्छादने॑लुग्विकरणः । सुपूर्वादस्मात्क्विप्, सुवस्शब्दः । ततः सुः, हल्ङ्यादिलोपः, रुत्वविसर्गौ, 'सुव' इति रूपं वक्ष्यति । अत्रअत्वसन्तस्ये॑ति दीर्घमाशङ्क्य आह — दीर्घ इति । नच सुवस्शब्दस्य असन्तत्वादधातुत्वाच्च दीर्घो दुर्वार इति वाच्यम्, धात्ववयवभिन्नोयोऽस्तदन्तस्य दीर्घ इत्याश्रयणात् । सुवोभ्यामित्यादि । 'वस निवासे' इति भौवादिकस्य तु नेदं रूपं, तस्य यजादित्वेन संप्रसारणप्रसङ्गात् । पिण्डग्रस्शब्दः सुवस्शब्दवत् । Tattvabodhini ------------- **पुंसोऽसुङ्** - पुंसोऽसुङ् ।इतोऽत्सर्वनामस्थाने॑इत्यतः सर्वनामस्थाने इत्यनुवर्तनादाह — सर्वनाम स्थान इति । विवक्षित इति । तेन॒परमपुमा॑नित्यत्र परत्वादसुङि कृते समासान्तोदात्तत्वं भवदसुङ एवाऽकारस्य भवति । परसप्तम्यां तु नैतत्सिध्यते । सर्वनामस्थानोत्पतेः प्रागेव पुम्शब्दोकारस्योदात्तत्वे कृते रुआंसनधर्मणो हलः स्थाने तद्धर्मणोऽनुदात्तस्यैवादेशस्य पर्सङ्गात् । न चोकारस्य कृतोऽपि स्वरोऽनन्त्यत्वान्निवर्तयिष्यते, असुङश्चान्त्यत्वात्करिष्य इति वाच्यम्, अन्तरङ्गे स्वरे कर्तव्ये बहिरङ्गस्याऽसुङोऽसिद्धत्वादिति भावः । वस्तुतस्तु अकृतव्यूहपरिभाषाया अन्तरङ्गपरिभाषापवादत्वात्परसप्तमोपक्षोऽपि सूपपादः । एतच्च मनोरमायां स्पष्टम् । पूञ इति । यद्यप्युणादिषुपातेर्डुम्सु॑न्निति वक्ष्यति, तथापि पाठान्तरमनुसृत्याऽत्रोक्तमिति बोध्यम् । हे पुमन्निति ।असंबुद्धा॑वित्युक्तेःसान्ते॑ति न दीर्घः । पुंस्विति । संयोगान्तलोपेमोऽनुस्वारः॑ । नुम्स्थानिकस्यैवाऽनुस्वारस्योपलक्षणान्नुम्बिसर्जनीयेति न षत्वम् । उशनेति ।वशेः कनसिः॑ ।ग्रहिज्ये॑ति संप्रसारणम् । अस्य संबुद्धाविति । एतच्च वार्तिकम् । हरदत्तादयस्त्वाहुः — ॒सोर्डेति वाच्येअनङ् सा॑विति वचनेन क्वचिदनङ्श्रवणस्य ज्ञापितत्वादेतत्सिद्धमिति । यद्यपिसोर्डे कृते डित्त्वसामर्थ्याट्टिलोपेसर्वनामस्थाने चाऽसंबुद्धौ॑इति दीर्घे॒उशाने॑त्यनुष्टरूपं प्रसज्यते, तथाप्यङ्गवृत्तपरिभाषाया दीर्घो नेति कृत्वा ज्ञापकत्वं सङ्गच्छत इति तेषामाशयः । अनेहा । वेधा इति । असुन्प्रकरणएनञि हनएहच॒॑विधाञो वेध चे चि व्युत्पादनादसन्तत्वेन दीर्घः । अनेहा-कालः । वेधाः — विआसृट् Padamanjari ----------- असुङे ङ्कारोऽन्तादेशार्थः । उकार उच्चारणार्थः । पुमानिति । पुंस्शब्दस्योगित्वान्नुम्, स हि पुञो डुमसुन् इति व्युत्पाद्यते । डकारष्टिलोपार्थः उकार उगित्कार्यर्थः - बहुपुंसीति ङीब् उगिल्लक्षणो भवति । नकारः स्वरार्थः । मकारेऽकार उच्चारणार्थः । इहेत्यादि । चोद्यम् । प्रागेव च प्रत्ययोत्पतेरिति । प्रत्ययः, सर्वनामस्थानम् । समासान्तोदातत्वमिति । पुंस्शब्दोकारस्य । अनिष्टः स्वर इति । स्रंसनधर्मणः सकारस्य हलः स्थाने तद्धर्माऽनुदात आदेशः स्यादित्यर्थः ए। ननु चोकारस्यकृतमपि समासान्तोदातत्वमसुइङ् कृतेऽनन्त्यत्वान्निवर्तिष्यते, असुङ्श्चान्त्यत्वात्प्रवर्तिष्यते नैतदस्ति, थान्तरणेó स्वरे कर्तव्ये बहिरङ्गस्यासुङेऽसिद्धत्वात्, प्रवृतस्य निवर्तनायोगाच्च । तदर्थमित्यादि । परिहारः । अर्थशब्दो निवृतवचनः, तस्यानिष्टस्वरस्य निवृत्यर्थमित्यर्थः । उपदेशिवद्वचनमिति । उपदेशोऽस्यास्तीत्युपदेशी, सकारः, स यथोपदेशावस्थायां सन्निहितस्तयाऽसुङ्पीत्यर्थः । सर्वनामस्थाने कैति विषयसप्तम्याश्रयणीयेत्युक्तं भवतीति, तत्र समासानन्तरमेव परत्वादसुङ् कृते पिश्चादुदातत्वं भवदसुङ् एवाकारस्य भवतीति सिद्धमिष्टम् । यद्यवम्, पुमानित्यादावसमासेऽपि उपदेशावस्थायामसुङ् कृते प्रितिपदिकस्वरो भवन्नसुङ् एव स्यात् इत्यत आह - पुमानित्ययं पुनरिति । पुंस्शब्दे प्रत्ययो निदित्युक्तम्, तत्सामर्थ्यादाद्यौदातत्वम् ॥ Nyaas ----- असुङो ङकारोऽन्त्यादेशार्थः। उकार उगित्कार्यार्थः। `पुमान्` इति। `उगिदचाम्` (7.1.70) इत्यादिना नुम्, **सान्तमहतः संयोगस्य** (6.4.10) इति दीर्घः, हल्ङ्यादिसंयोगान्तलोपौ। `इह परमपुमान्` इत्यादि। परमश्चासौ पुमांश्चेति **सन्महत्परमोत्तमोत्कृष्टाः पूज्यमानैः** (2.1.61) इत्यादिना समासे कृते यावद्विभक्तिर्नोत्पद्यते तावदसुङादेशेन न भवितव्यम्; तस्य तदाश्रयत्वात्। समासान्तोदात्तत्वं तु न किञ्चिदपेक्षत इति अन्तरङ्गत्वात्? प्रागेव विभक्तेरन्तोदात्तत्वं भवति। पश्चादुत्पन्नायां विभक्तावसुङ् अस्वरस्य व्यञ्जनस्य स्याने भवन्न नियतस्वरः स्यात्? ततश्चानिष्टोऽपि स्वरः प्राप्नोति, अन्तोदात्तमेव चोत्तरपदमिष्यते, आद्युदात्तत्वं प्राप्नोति। `तदर्थम्` इत्यादि। अर्थशब्दो निवृत्तिवाची, यथा - मशकार्थो धूम इति। तदर्थं तस्यानिष्टस्य स्वरसय निवृत्त्यर्थमुपदेशिवद्ववचनं कर्तव्यम्, अकृते समासान्तोदात्तत्वं उपदेशावस्थायामेव विभक्त्युत्पत्तेः प्रागसुङ्? यथा स्यात्। तेनासुङि पूर्वं कृते पश्चात्? समासान्तोदात्तत्वेन परमपुमानित्ययं शब्दोऽन्तोदात्तो भवति। यद्येवम्, पुमानित्ययं शब्दोऽप्यन्तोदात्तः स्यात्, उपदेशावस्थायामेवासुङि कृते पश्चात्? प्रातिपदिकस्वरेण भवितव्यम्? इत्याह - `पुमानित्ययं पुनः` इत्यादि। पुम्स्शब्दोऽयं पुनातेः `मुक्सुनो ह्रस्वश्च` (द।उ।9।48) [पातेः डुम्सुन्-द।उ। पातेडुस्सुन्? पं।उ।4।177] इति मुक्सुन्प्रत्ययान्तो व्युतपादितः। तेन नित्स्वरेणायमाद्युदात्तो भवति, नान्तोदात्तः॥ Praudhamanorama --------------- **विवक्षित इति।** तेन परमपुमानित्यत्र परत्वादसुङि कृते समासान्तोदात्तत्वं भवदसुङ एवाकारस्य भवति। परसप्तम्यां तु नैतत्सिद्ध्येत्, सर्वनामस्थानोत्पत्तेः प्रागेव पुंशब्दोकारस्योदात्तत्वे कृते स्रंसनधर्मिणो हलः स्थाने तद्धर्मिणोऽनुदात्तस्यैवादेशस्य प्रसङ्गात्। न चोकारस्य कृतोऽपि स्वरोऽनन्त्यत्वान्निवर्तयिष्यते, असुङश्चान्त्यत्वात् करिष्यत इति वाच्यम्, अन्तरङ्गे स्वरे कर्तव्ये बहिरङ्गस्याऽसुङोऽसिद्धत्वादिति भावः। एतच्च कैयटहरदत्तादीनामनुरोधेनोक्तम्। वस्तुतस्तु परसप्तमीपक्षोऽपि सूपपादः। अकृतव्यूहपरिभाषाया अन्तङ्गपरिभाषापवादत्वादित्यवधेयम्। नन्वेवमसमासेऽप्यसुङि कृते प्रातिपदिकस्वरेण सतिशिष्टेन प्रत्ययस्वरस्य बाधादसुङ उदात्तत्वं स्यात्, इष्यते तूकारस्य। पुमान् पुमांसं परिपात्वित्यादौ तथैव पाठादिति चेत्सत्यम्। डुम्सुनो नित्करणसामर्थ्यात् प्रातिपदिकस्वरो न भवतीति हरदत्तादयः। नन्वेतदयुक्तम्। प्रकृतिप्रत्ययविभागशून्येष्वेव 'फिषः' इत्यस्य प्रवृत्तेरिति चेत्सत्यम्। क्वचित्सखण्डेष्वपि प्रवृत्ताविदं लिङ्गम्। यद्यपि 'असिद्धं बहिरङ्गम्' इत्येवेदं सिद्धम्, तथाऽपि बहिरङ्गपरिभाषाया अनित्यत्वमपि ज्ञापयितुं नित्करणमिति निष्कर्षः। **उच्चारणार्थ इति।** यत्तु प्राचोक्तमुङाविताविति, यच्च तत्पौत्रेण व्याख्यातमुकार उगित्कार्यार्थ इति, तदसङ्गतमिति भावः। **हे पुमन्निति।** असम्बुद्धावित्युक्तेर्न दीर्घः। **पुंस्विति।** संयोगान्तलोपे 'मोऽनुस्वारः'। नुम्स्थानिकस्यैवानुस्वारस्योपलक्षणात् 'नुम्विसर्जनीय' इति न षत्वम्। अस्य सम्बुद्धाविति। एतच्च वाचनिकम्। यत्तु हरदत्तादय आहुः— सोर्डेति वाच्ये अनङ् साविति वचनेन क्वचिदनङ एव श्रवणस्य ज्ञापितत्वादेतत्सिद्धमिति; तत्तु प्रागेव दूषितम्। अङ्गवृत्तपरिभाषया वा समाधेयम्। Prakriyasarvasvam ----------------- सुटि पुंसोऽन्त्यस्यासुङ् स्यात् । उकार उक्तचर्थः । पुमस् स् । पुंस उगित्त्व- स्योक्तत्वान्नुम् । ‘सान्तमहतः—’ (६-४-१०) इति दीर्घः । पुमान् । पुमांसौ । हे पुमन् । पुमांसम् । पुमांसौ । ‘मोऽनुस्वारः’ (८-३-२३) । पुंसः । पुंसा । संयोगान्तलोपः । पुंभ्याम् । पुंसु । उशनस् स् । ‘ऋदुशनस्—’ (७-१-९४) इति सस्यानङ् । ‘अतो गुणे’ (६-१-९७) । उशनाः । उशनसौ । उशनसः । संयोगान्तलोपः । पुंभ्याम् । पुंसु । उशनस् स् । ‘ऋदुशनस्—’ (७-१-९४) इति सस्यानङ् । ‘अतो गुणे’ (६-१-९७) । उशनाः । उशनसौ । उशनसः । ‘सम्बोधने तूशनसस्त्रिरूपं सान्तं तथा नान्तमथाप्यदन्तम् ।’ इत्युक्तत्वाद् हे उशनः, हे उशनन्, हे उशन । उशनसा । उशनोभ्याम् । उशनस्सु । एवमनेहा । अनेहसौ । सम्बुद्धौ तु हे अनेहः । एवं पुरुदंसा । पुरुदंससौ । इन्द्रनामैतत् । वेधस् । असन्तत्वादीर्घः । वेधाः । वेधसौ । हे वेधः । वेधोभ्याम् । वस्तेः क्विपि सुवस् । अधातोरित्युक्तेर्न दीर्घः । सुवः । सुवसौ । सुवोभ्याम् । प्रसारिणिनस्तु वसेः क्विपि, उदन्वति वसतीति उदन्वदुः । ‘शासिवसि’ (८-३-६०) इति षः । उदन्वदुषौ उदन्वदुर्भ्याम् । उदन्वदुष्षु । एवं व्रजोः व्रजोषौ । व्रजोर्भ्याम् । भास्शब्दः पुल्लिङ्गोऽप्यस्ति वेणीसंहारे प्रयोगश्चेत्यमरव्याख्या । भाः । भासौ । भ्यामादौ रोर्यत्वम् । लोपः । भाभ्याम् । अदस् स् । Sudha ----- पुंसोऽसुङ् । अत्र **इतोऽत् सर्वनामस्थाने**(7.1.86) इत्यतः 'सर्वनामस्थाने' इत्यनुवर्तते । पुमान् । पंस्+सु इत्यत्र **पुंसोऽसुङ्**(7.1.89) इत्यसुङि विहिते **ङिच्च**(1.1.53) इति अन्तिमसकारस्य स्थाने जाते पुमसुङ्+सु इति भूते **हलन्त्यम्**(1.3.3) इति ङकारस्य **उपदेशेऽजनुनासिक इत्**(1.3.2) इति उकारस्य चेत्संज्ञायां **तस्य लोपः**(1.3.9) इति उभयोर्ङ्कारोकारयोर्लोपे पुमस्+सु इति स्थिते सोर्हल्ङ्यादिना लोपे प्रत्ययलक्षणे **उगिदचां सर्वनामस्थानेऽधातोः**(7.1.70) इति नुमि उमि गते मित्वादन्त्यादचः परे **सान्तमहतः संयोगस्य**(6.4.10) इति उपधायाः दीर्घत्वे **संयोगान्तस्य लोपः**(8.2.23) इति स् लोपे च 'पुमान्' इति । हे पुमन् । पुंस्+सु अत्र **पुंसोऽसुङ्**(7.1.89) इत्यसुङि ङित्वादन्त्यावयवे जाते अनुबन्धलोपे सोर्लोपे च जाते नुमि, **सान्तमहतः संयोगस्य**(6.4.10) इत्यत्र 'असम्बुद्धौ' इत्युक्तत्वात् दीर्घाभावे संयोगान्तलोपे च रूपम् । पुमांसौ । पुंस्+औ अत्र **पुंसोऽसुङ्**(7.1.89) इत्यसुङि **ङिच्च**(1.1.53) इत्यन्तावयवे जाते उङो लोपे **उगिदचां सर्वनामस्थानेऽधातोः**(7.1.70) इति नुमि मित्वादन्त्यादचः परे उमि गते 'पुमन् स् औ' इति जाते **सुडनपुंसकस्य**(1.1.43) इति सर्वनामस्थानसंज्ञायां **सान्तमहतः संयोगस्य**(6.4.10) इति सान्तसंयोगस्योपधायाः दीर्घे **नश्चापदान्तस्य झलि**(8.3.24) इति अनुस्वारे 'पुमांसौ' इति रूपम् । पुंसः । पुंस्+शस् अत्र शकारस्येत्संज्ञायां लोपे च कृते, कृते च संयोगे अन्तिमसकारस्य रुत्वे, तस्य विसर्गे च रूपम् । पुंभ्याम् । पुंस्+भ्याम् अत्र **स्वादिष्वसर्वनामस्थाने**(1.4.17) इति पदसंज्ञायां **संयोगान्तस्य लोपः**(8.2.23) इति स् लोपे 'पुम्भ्याम्' इति । पुंसु । अत्र पदसञ्ज्ञायां सस्य संयोगान्तलोपः । उशना । उशनस्+सु अत्र **ऋदुशनस्पुरुदंसोऽनेहसां च**(7.1.94) इति अनङि **ङिच्च**(1.1.53) इत्यन्तस्य सः स्थाने कृते ङकारस्येत्सञ्ज्ञायां लोपे च अकारस्योच्चारणार्थत्वात्तस्मिन् गते 'उशनन् सु' इति स्थिते **सुडनपुंसकस्य**(1.1.43)इति सर्वनामस्थानसञ्ज्ञायां **सर्वनामस्थाने चासम्बुद्धौ**(6.4.8) इति नान्तोपधायाः दीर्घत्वे **हल्ङ्याब्भ्यो दीर्घात् सुतिस्यपृक्तं हल्**(6.1.68) इति सोर्लोपे **नलोपः प्रातिपदिकान्तस्य** (8.2.7) इति नलोपे 'उशना' इति रूपम् । हे उशन - हे उशनन् - हे उशनः । 'हे उशनस्+सु' अत्र सोर्लोपे इति वार्तिकेन अनङि कृते नलोपे च कृते 'हे उशन' इति । वाग्रहणान्नलोपाऽभावे 'हे उशनन्' इति । अनङादेशाभावे सस्य रुत्वे रेफस्य विसर्गत्वे च कृते 'हे उशनः' इति । उशनोभ्याम् । उशनस् +भ्याम् अत्र **स्वादिष्वसर्वनामस्थाने**(1.4.17) इति पदसंज्ञायां **ससजुषो रुः**(8.2.66) इति सकारस्य रुत्वे **हशि च**(6.1.114) इत्युत्वे **आद्गुणः**(6.1.87) इति गुणे च कृते उशनोभ्याम् इति रूपम् । **उशनस्सु ।** उशनस् + सु अत्र पदसंज्ञायां **ससजुषो रुः**(8.2.66) इति रुत्वे उकारस्येत्संज्ञायां लोपे च **खरवसानयोर्विसर्जनीयः**(8.3.15) इति रेफस्य विसर्गत्वे **वा शरि**(8.3.36) इति विसर्गस्य स्थाने विसर्गे विहिते 'उशनःसु' इति । पक्षे **विसर्जनीयस्य सः**(8.3.34) इति विसर्गस्य सत्वे 'उशनस्सु' इति । अनेहा अनेहस् + सु अत्र **ऋदुशनस्पुरुदंसोऽनेहसां च**(7.1.94) इत्यनङि ङित्वादन्त्यस्य स्थाने कृते अनुबन्धलोपे हल्ङयादिना सोर्लोपे **सर्वनामस्थाने चासम्बुद्धौ**(6.4.8) इत्युपधाया दीर्घत्वे **नलोपः प्रातिपदिकान्तस्य**(8.2.7) इति नलोपे 'अनेहा' इति रूपम् । हे अनेहः । 'हे अनेहस्+सु' अत्र सोर्लोपे सस्य रुत्वे कृते रेफस्य विसर्गः । वेधाः । वेधस् + सु अत्र **अत्वसन्तस्य चाधातोः**(6.4.14) इत्यसन्तत्वाद्दीर्घे सोर्लोपे च कृते रुत्वविसर्गौ 'वेधाः' । हे वेधः । अत्र 'असम्बुद्धौ' इत्युक्तेर्न दीर्घः । वेधोभ्याम् । वेधस् + भ्याम् अत्र **स्वादिष्वसर्वनामस्थाने**(1.4.17) इति पदसंज्ञायां **ससजुषो रुः**(8.2.66) इति सकारस्य रुत्वे **हशि च**(6.1.114) इति रोरुत्वे **आद्गुणः**(6.1.87) इति गुणे 'वेधोभ्याम्' इति ।