71080: आच्छीनद्योर्नुम् ======================= **Padacheda:** आत् | S | 5 | 1 | शी-नद्योः | S | 7 | 2 | नुम् | S | 1 | 1 | Sutrartha --------- **** Vasu English Summary -------------------- When the affix शतृ (अत्-अन्त्) comes after a verbal अङ्ग (stem) ending in अ or आ, it may optionally take the augment नुम् before the Neutral case-ending शी and before the feminine affix ई। Vasu English Translation ------------------------ When the affix शतृ (अत्-अन्त्) comes after a verbal अङ्ग (stem) ending in अ or आ, it may optionally take the augment नुम् before the Neutral case-ending शी and before the feminine affix ई। Thus तुदती कुले or तुदन्ती कुले, तुदन्ती ब्राह्मणी, तुदती ब्राह्मणी, याती कुले, यान्ती कुले, याती ब्राह्मणी, यान्ती ब्राह्मणी, करिष्यती कुले, करिष्यन्ती कुले, करिष्यती ब्राह्मणी, करिष्यन्ती ब्राह्मणी ॥ अत्रान्तरङ्गत्वादेकादेशे कृते व्यपवर्गाभावादवर्णान्तादङ्गादुत्तरस्य शतुरिति न युज्यते वक्तुम्, उभयत आश्रये नान्तादिवदित्यन्तादिवद्भायोपि नास्ति भूतपूर्वगत्याश्रयणो वाऽदतो घ्नतीत्येवमादिष्वतिप्रसङ्ग इति, अत्र सभाधिं केचिदाहुः, शतुरवयवे शतृशब्दो वर्त्तते, अवर्णान्तादङ्गादुत्तरो यः शत्रवयव इति ॥ अपरे पुनराहुः, आदित्येतेन शीनद्यावेव विशेष्यते, अवर्णान्तादङ्गादुत्तरे ये शीनद्या तयोः परतः शत्रन्तस्य नुम्भवतीति, तत्र येन नाव्यवधानं तेन व्यवहितेपि वचनप्रमाण्यादिति तकारेणैव व्यवधानमाश्रयिष्यते ॥ आदिरिति किम्, कुर्वती, सुन्वती ॥ शीनद्योरिति किम्, तुदताम्, नुदताम् ॥ The form तुदती is thus evolved. तुद् + श + शतृ + ङीप् ॥ The *vikarana* श is added by (3.1.77), & ङीप् by (4.1.6). This is equal to तुद् + अ + अत् + ई = तुदती the अ + अ becoming अ by the rule of पररूप *ekadesa* (6.1.97). This *ekadesa* operation being *antaranga*, now there is no शतृ affix coming after a stem ending in अ, and therefore this *sutra* will not apply. If you say the *ekadesa* will be considered as the final of तुद् by (6.1.85), we reply, that the *antachvadbhava* of that *sutra* will not apply when simultaneous operations are to be performed, for अ cannot be said at one and the same time as the final of तुद् and the beginning of अन् (शतृ). If you say the maxim सांप्रतिकाभावे भूतपूर्व गतिः (when a word cannot denote something which actually is what is expressed by the word, it must be understood to denote something which formerly was what is expressed by it), will apply here, and that तुद् will be considered to end in अ because it formerly did end in the affix अ of श; we reply that then the present rule should apply to forms like अदती घ्नती &c. For here also we have अद् + शप् लोप + शतृ + ङीप्; and अद् should be considered to end in अ, because it had the affix शप् after it, though it was afterwards elided. The maxim quoted, therefore, proves too much. To solve these objections, some say, that the word शतृ in this *sutra* means 'a portion of the affix शतृ, such as त्' and the *sutra* means 'after a stem ending in अ, to the portion त् of the affix शतृ there is added नुम्.' Others say, the word आत् in the *sutra* qualifies शी and नदी and not शतृ; and the *sutra* means "नुम् is added to a stem ending in शतृ, when शी or नदी affixes follow after a stem ending in अ." Therefore in तुदती the affix ई is considered to come after the अ of तुद, the intervening त् not debarring it. Why do we say "after अ"? Observe कुर्वती and सुन्वती, no optional नुम् is added here. Why do we say "शी and नदी following"? Observe तुदताम् and नुदताम् Bhashya ------- आच्छीनद्योर्नुम् इह कस्मान्न भवति - अदती घ्नती लुनती पुनतीति(5) ॥ लोपे कृतेऽवर्णाऽभावात्(1) ॥ किं तर्ह्यस्मिन्योगे उदाहरणम् ? ॥ याती - यान्ती ॥ ॥ एकादेशे व्यपवर्गाऽभावात्(1) ॥ अत्राप्येकादेशे व्यपर्गाऽभावान्न प्राप्नोति । अन्तादिवद्भावेन व्यपवर्गः) ॥ उभयत आश्रये नाऽन्तादिवत्(1) (भावः(2)) ॥ नोभयत आश्रयः करिष्यते । नैवं विज्ञायते - अवर्णान्ताच्छतुर्नुम्भवतीति ॥ कथं तर्हि ? ॥ अवर्णान्नुम्भवति तच्चेदवर्णं शतुरनन्तरमिति ॥ (आच्छीनद्योर्नुम्) ॥ Kashika ------- अवर्णान्तादङ्गादुत्तरस्य शतुर्वा नुमागमो भवति शीनद्योः परतः। तुदती कुले, तुदन्ती कुले। तुदती ब्राह्मणी, तुदन्ती ब्राह्मणी। याती कुले, यान्ती कुले। याती ब्राह्मणी, यान्ती ब्राह्मणी। करिष्यती कुले, करिष्यन्ती कुले। करिष्यती ब्राह्मणी, करिष्यन्ती ब्राह्मणी। अत्रान्तरङ्गत्वादेकादेशे कृते व्यपवर्गाभावादवर्णान्तादङ्गादुत्तरस्य शतुरिति न युज्यते वक्तुम्। **उभयत आश्रये नान्तादिवत्** इत्यन्तादिवद्भावोऽपि नास्ति, भूतपूर्वगत्याश्रयणे वा अदती घ्नतीत्येवमादिष्वतिप्रसङ्ग इति? अत्र समाधिं केचिदाहुः — शतुरवयवे शतृशब्दे वर्तते, अवर्णान्तादङ्गादुत्तरो यः शत्रवयव इति। अपरे पुनराहुः — आदित्येतेन शीनद्यावेव विशेष्येते — अवर्णान्तादङ्गादुत्तरे ये शीनद्यौ तयोः परतः शत्रन्तस्य नुम् भवतीति। तत्र **येन नाव्यवधानं तेन व्यवहितेऽपि वचनप्रामाण्यात्** इति तकारेणैव व्यवधानमाश्रयिष्यते। आदिति किम्? कुर्वती। सुन्वती। शीनद्योरिति किम्? तुदताम्। नुदताम्॥ Siddhanta Kaumudi ----------------- अवर्णान्तादङ्गात्परो यः शतुरवयवस्तदन्तस्याङ्गस्य नुम् वा स्याच्छीनद्योः परतः । तुदन्ती । तुदती । तुदन्ति । भात् । भान्ती । भाती । भान्ति । पचत् ॥ Laghu Siddhanta Kaumudi ----------------------- अवर्णान्तादङ्गात्परो यः शतुरवयस्तदन्तस्य नुम् वा शीनद्योः। तुदन्ती, तुदती। तुदन्ति॥ Balamanorama ------------ **आच्छीनद्योर्नुम्** - तुदच्छब्दादौङः श्याम्, असर्वनामस्थात्वान्नुमि अप्राप्ते — आच्छीनद्योर्नुम् । 'नाभ्यस्तात्' इत्यतः शतुरिति, 'वा नपुंसकस्य' इत्यतो वेति चानुवर्तते । आदिति पञ्चमी । अङ्गस्येत्यधिकृतं पञ्चम्या विपरिणम्यते, तच्च आदित्यनेन विशेष्यते , तदन्तविधिः । 'परस्ये' त्यध्याह्यियते ।सथु॑रित्यनन्तरमवयवस्येत्यध्याह्यियते, तेन च अह्गस्येति षष्ठन्तं विशेष्यते, तदन्तविधिः । अङ्गस्येत्यस्य आवृत्तिर्बोध्या । तदाह — अवर्णान्तादित्यादिना ।इदितो नुमि॑त्यतोऽनुवृत्त्यैव सिद्धे नुङ्ग्रहणं स्पष्टार्थम् । तुदन्तीतुदती इति । औङः श्यां, नुमि, तदभावे च रूपम् । शविकरणे कृते शतुरकारेण पररूपे एकादेशे सति तुद इत्यवर्णान्तमङ्गम्, तदादिग्रहणेन विकरणविशिष्टस्याप्यङ्गत्वात् । ततश्च तुददित्यन्त्यस्तकारः शतुरवयवः, तुदेत्यवर्णान्तादङ्गात्परश्चेति नुमिति भावः ।अवर्णान्तादङ्गत्वात् । ततश्च तददित्यन्त्यस्तकारः शतुरवयवः, तुदेत्यवर्णान्तादङ्गात्परश्चेति नुमिति भावः ।अवर्णान्तादङ्गात्परो यः शतृप्रत्ययः॑ इत्याश्रयणे त्वत्र नुम् न स्यात् । शविकरणाऽकारस्य शतुरकारस्य च एकादेशे कृते तस्य पूर्वान्तत्वे शतुरवर्णान्तादङ्गात्परत्वा ।भावात्, परादित्वे अवर्णान्ताङ्गाऽभावात्, उभयत आश्रयणे च अन्तादिवत्त्वनिषेधादित्यलम् । तुदन्तीति । जश्शसोश्शिः, सर्वनामस्थानत्वान्नुमिति भावः । भादिति । 'भादीप्तौ' लुग्विकरणः । लटः शतरि कृते सवर्णदीर्घे भादिति रूपम् । तस्मात् स्वमोर्लुक्, जश्त्वचर्त्वे इति भावः । भान्तीभाती इति । 'औङः शी'आच्छीनद्यो॑रिति वानुमिति भावः । भान्तीति । जश्शसोः शिः, सर्वनामस्थानत्वान्नुमिति भावः । पचदिति । पच्धातोर्लटः शतरि शप्, अतो गुणे॑ इति पररूपम् । पचदित्यस्मात्स्वमोर्लुगिति भावः । Tattvabodhini ------------- **आच्छीनद्योर्नुम्** - आच्छीनद्योः । नुम्ग्रहणमिह चिन्त्यप्रयोजनं,नाभ्यस्ताच्छतुः॒॑वा नपुंसकस्ये॑त्यत्रइदितो नुम्धातो॑रित्यतोऽनुवृत्तेरावश्यकतया तदुत्तरत्रापि तत एवानुवर्तने बाधकाऽभावात् । शतुपवयव इति । तुदादेः शस्याऽन्तरङ्गत्वाच्छत्रेदेशाऽकारेण सहैकादेशे कृतेऽवर्णान्तत्परस्य शतुरिति न सम्भवति ।उभयत आश्रयणे नान्तादिव॑दिति वक्ष्यमाणत्वादिति भावः । भादिति ।भा दीप्तौ॑ । लटः शतर्यदादित्वाच्छपो लुक् । शप्श्यनोर्नित्यम् । आरम्भसामर्थ्यान्नित्यत्वे सिद्धेऽपि नित्यग्रहणमिहवे॑त्यधिकारनिवृत्त्यर्थम् । अन्यथा ह्रारम्भसारथ्र्यादिह नित्यमुत्तरत्र विकल्प इत्याशङ्क्येत । Padamanjari ----------- अवर्णान्तादङ्गादुतरस्य शतुरिति । सूत्राक्षरैस्तावदयमेवार्थः प्रतीयते इत्येवं व्याख्यातम्, न पुनरयं व्यवस्थितः सूत्रार्थः, दूषणस्य वक्ष्यमाणत्वात् । तस्मान्नाप्रदर्शितविषयं दूषणं शक्यं वक्तुमिति विषयप्रदर्शनपरमिदं द्रष्टव्यम् । याती कुले इति । नपुंसकाच्च इत्यौङः शीभावः । याती ब्राह्मणीति । उगितश्चेति ङीप् । करिष्यतीति । लृट्, लृटः सद्वा, ऋद्वनोः स्ये इतीट् । अत्रेत्यादि चोद्यम् । अन्तरङ्गत्वं पुनरेकादेशस्य शतृमात्रापेक्षत्वात् । नुमस्तु बहिङ्गत्वम् शीनद्यौत्पत्यपेक्षत्वात् । व्यपवर्गः - भेदः - इदमवर्णान्तमङ्गम्, अयं शतृग्रत्यय इत्येवंरुपः । स एकादेशे कृते नास्ति, क्षीरोदकवत् । तद्यथा - क्षीरोदके संयुक्ते न ज्ञायेते - इदं क्षीरमिदमुदकम्, अमुष्मिन्नवकाशे क्षीरममुष्मिन्नवकाशे उदकमिति । अवर्णान्तादङ्गादुतरस्य शतुरिति न युज्यते वक्तुमिति । यथा पूर्वमवोचस्तथा न युज्यत इत्यर्थः । तथा हि सर्वत्रैवावर्णस्य निवृत्या भवितव्यम्, क्वचिल्लुका - अदती, ध्नतीति, क्वचिच्छ्लुना - जुह्वतीति, तुदतीत्यादावेकादेशेन, लुनतीत्यादौ श्नाभ्यस्तयोरातः इत्याकारलोपेन । स्यादेतते - एकादेशविषेयेऽन्तादिवद्भावेन व्यापवर्गो भविष्यतीति तत्राह - उभयत आश्रय इति । यत्र च पूर्व परं चोभयं युगपदाश्रीयते न तत्रान्तादिवद्भावोऽस्तीति, यथा उपसर्गाद्ध्रस्वः ऊहते, प्रोहते एतेर्लिङ् इभीयादिति । इहाप्यवर्णान्तमङ्गं शता चेत्युभयं युगपदाश्रीयते, इति नास्त्यन्तादिवद्भावः । एतर्ह्यच्यते चेदमवर्णान्तादङ्गादुतरस्य शतुरिति, न च सम्प्रत्येवंविधः शता क्वचित्सम्भवति, तत्र भूतपूर्वगतिराश्रयिष्यते - पूर्वं यः शता क्वचित्सम्भवति, तत्र भूतपूर्वगतिराश्रयिष्यते - पूर्वं यः शता अवर्णान्तादङ्गादुतर आसीदिति तत्राहभूतपूर्वगत्याश्रयणे वेति । समाधिः - समाधानम्, परिहारः । अवर्णान्ताच्छब्दादिति । अङ्गादिति द्रष्टव्यम्, अन्यथा ददतीत्यादावपि प्रसङ्गात् । भवति ह्यत्रापि शत्रवयवादकारत्परस्तकारः । कथं पुनरवर्णान्तस्याङ्गत्वम् एकादेशस्यान्तवद्भावात् । न हीदानीं परम्प्रत्यादिषत्वं विवक्षितम् तकारस्य स्वयमेव सत्रवयवत्वात् । एवं तेन तकारेण पुनरङ्गस्य तदन्तविधिः, अङ्गस्य इत्येतदत्रावर्त्यते । अपरे पुनरिति । अत्रापि पक्षे युगपदुभयं नाश्रीयते, किन्तु क्रमेणेत्यस्त्यन्तादिवद्भावः । ननु च तुदन्तीत्यादावन्तादिवद्भावादवर्णान्तमङ्गं भवतुः तथापि न ततः परे शीनद्यौ, तकारेण व्यवधानात् इत्यत आह - तत्रेति । प्रकृतो नुम् प्रतिषेधेन सम्बद्ध इति तदनुवतताविहापि प्रतिषेध एव विकल्पेन, शीनद्योर्वा नुम् न भवति अवर्णान्तादिति, केन पुनः प्रसङ्ग इदमेव ज्ञापकं स्यात् - अस्ति शीनद्योर्नुमिति, ततश्च कुर्वतीत्यादावनवर्णान्तन्नित्यं नुमः प्रसङ्गः, मैवं विज्ञायीति नुम्ग्रहणम् ॥ Nyaas ----- `तदुन्ती कुले` इति। **नपुंसकाच्च** (7.1.19) इति शीभावः। `तुदती ब्राआहृणी` इति। **उगितश्च** (6.3.45) इति ङीप्, `याती ब्राआहृणी` इति। अवादित्वाच्छपो लुक्, **उगितश्च** (6.3.45) इति ङीप्। `करिष्यन्ती कुले` इति। `लृटः सद्वा` (3.3.14) इति शत्रादेशः, **ऋद्धनोः स्ये** (7.2.70) इतीट्। `अत्रान्तरङ्गत्वात्` इत्यादि चोद्यम्। अकारान्तादङ्गात्? परे शतरि व्यवस्थिते ईकारे च किं नुम्? क्रियताम्? उत्तैकादेशः? अत्रान्तरङ्गत्वात्? **अतो गुणे** (6.1.97) पररूपमेकादेशः। अन्तरङ्गत्वं पुनस्तस्य वर्णाश्रयत्वाकत्? नुमस्तु बह्वपेक्षत्वाद्बहिरङ्गत्वम्। स ह्रकरान्तमङ्गं शतृप्रत्ययान्तं ततश्च परतः शीनद्योर्भावमपेक्षते। `वार्णादाङ्गम्` (व्य।प।39) इत्यादीह नास्ति; भिन्नकालत्वात् - शीनद्योर्हि परभावे सति नुम्? प्राप्नोति, एकादेशस्तु ततः प्रागेव। `यत्र च वार्णाङ्गयोर्युगपत्? प्राप्तिः, तत्रेयमुपतिष्ठते` इत्युक्तं प्राक्। व्यपवर्गाभावादवर्णान्तादङ्गादुत्तरस्य शतुरिति शक्यते वक्तुम्। भेदे हि सत्यवध्यवश्रिमतोरिदमस्मादुत्तरमिदञ्च पूर्वमित्येव व्यवहारो भवति, नान्यथा। स्यादेतत् - **अन्तादिवच्च** (6.1.85) इत्यन्तादिवदभावेनैकादेशः पूर्वं प्रत्यन्तवद्भवति परञ्च प्रत्यादिवदित्येकादेशस्य पूर्वं प्रत्यन्तत्त्वात्? परञ्च प्रत्यादिवत्त्वाद्युज्यत एवावर्णादङ्गादुत्तरस्य शतुः? इत्याह - `उभयत आश्रये` इत्यादि। अत्र ह्रकारान्तमङ्गं शता चोभयमाश्रितम्। `उभयत आश्रये` इत्यादि। अत्र ह्रकारन्तमङ्गं शता चोभयमाश्र#इतम्। `उभयत आश्रये नान्तादिवत्` (व्या।प।51) इति नास्त्यन्तादिवद्भावः। न ह्रेकस्यैकदा पूर्वं प्रत्यन्तवद्भावः परञ्च प्रत्यादिवद्भाव उपपद्यते। तथा हि - यदि पूर्वं प्रत्यन्तवद्भवति, तदा शतृरूपं न सम्पद्यते; अथ परं प्रत्यादिवद्भवति, तदाऽकारान्तताऽङ्गस्य न परिकल्प्यते; उच्यते चेदमाच्छीनद्योर्नुमिति, न चवर्णान्तादङ्गादुत्तरः शता क्वचित् सम्भवति; तत्र वचनप्रामाण्याद्भूतपूर्वगतदिराश्रीयते - अवर्णान्तादुत्तरो यः शत पूर्वमासीदिति। अत आह - `भूतपूर्वगत्या` इत्यादि। यदि हि भूतपूर्वगतिराश्रीयते, अवती, ध्नतीत्यादावतिप्रसङ्गः स्यात्; अत्राप्यवर्णान्तादङ्गादुत्तरः शता पूर्वमासीत्? इत्याह - `अत्र केचित्समाधिमाहुः` इति। समाधिः=परीहारः। परीहारश्च - शतुरवयव इति। शतुरवयवस्तकारः। तत्रेह शतृशब्दो वर्तते, यथा - पटो दन्ध इत्यत्र पटावयवे पटशब्दः, समुदायेषु प्रवृत्ताः शब्दाः क्वचिदवयेष्वपि वर्तन्त इति। स च शत्रवयव एकादेशे हि कृतेऽवर्णान्तादङ्गादुत्तरो भवतीति `अन्तरङ्गत्वादेकादेशे कृते` इत्यादिना यत्? कृतञ्चोद्यं तत्? परिह्मतं भवति। किं पुनरनच्कसय तकारस्य नुम्? रुथञ्च नुम्? स्यात्? कथञ्च न स्यात्? **मिदचोऽन्त्यात्परः** (1.1.47) इति वचनात्। मा भूत्? तकारस्य, तदन्तस्य भविष्यति। एवञ्च सूत्रार्थं वर्णयिष्यामः - अवर्णान्तादङ्गादुत्तरो यः शत्रवयवस्तदन्तस्याङ्गस्य नुम्? भवतीति। अङ्गग्रहणञ्च द्विरावर्तयिष्यामः - अवर्णान्तादङ्गदुत्तरो यः शत्रवयवस्तदन्तस्याङ्गस्य नुम्? भवतीति। अङ्गग्रहणञ्च द्विरावर्तयिण्यामः - शत्रवयवविशेषणार्थम्, अङ्गकार्यप्रतिपत्त्यर्थञ्च। कथं पुनस्तुदतीत्यादी तकारात्? पूर्वस्याङ्गत्वम्, यावता यतः प्रत्ययो विहितस्तदादेः प्रत्यये परतोऽङ्गसंज्ञा, न च तकारः प्रत्ययः असत्याञ्चाङ्गसंज्ञायां यदुक्तमवर्णान्तादङ्गादुत्तरो यः शत्रवयव इति तन्नोपपद्यते? नैष दोषः; यथैव हि शत्रवयवे शतृशबदो वर्तते, तथाङ्गवयवे तकारात्? पूर्वस्मिन्नङ्गशब्दः। किं पुनस्तदङ्गम्? यस्यावयवः शत्रन्तम्। तस्य हि शौनद्योः परतोऽङ्गत्संज्ञा विधीयते। इहापि तर्हि कस्मान्न भवति - अदती, ध्नतीति, अत्रापि ह्रवर्णान्तादङ्गादुत्तरः शत्रवयदो भवति? यद्यत्रापि स्यात्, आदिति विशेषणमनर्थकं स्यात्, शीनद्योरित्येवं ब्राऊयात्। यत्र च शीनद्योः परतः शत्रन्तमङ्गं भवति, तत्र नियोगत एवाकारान्तादङ्गादुसरो शत्रवयवो भवति। तस्मात्? `आतः` इति विशेषणोपादानसामर्थ्यात्? विशेषपरिग्रहो विज्ञायते - शत्रवयवदकारात्? पूर्षो योऽकारस्तदन्तादुत्तरो यः शत्रवयव इति नेह नुमः प्रसङ्गः। `अवर्णान्तादङ्गादुत्तरे ये शीनद्यौ` इति। अत्रापि पूर्ववदङ्गावयवेऽङ्गशब्दो वर्तते। ननु च तुदन्तीत्यादाववर्णान्तादङ्गादुत्तरे शीनद्यौ न सम्भवत एव; तकारेण व्यवधानात्? इत्याह - `तत्र येन` इत्यादि। गतार्थम्। अथ नुम्यनुवर्तमाने किमर्थ पुनर्नुम्ग्रहणम्? नेति, वेति च प्रकृतम्। तत्र नुम्ग्रहणमन्तरेणानिष्टमपि विज्ञायते - शीनद्योर्विभाषा नुमवर्णान्तान्न भवतीति। किञ्च स्यात्? कुर्वती, तन्वतीत्यत्र विभाषा स्यात्, करिष्यन्तीत्यत्र न स्यात्। केन पुनः प्राप्तस्य नुमः शोनद्योः प्रतिषेधः क्रियते? एतदेव ज्ञापयति - अस्तिशीनद्योर्दिभाषा नुमिति। नुम्ग्रहणे तु क्रियमाणे विधिरेवायं विज्ञायत इत्यदोषः॥ Prakriyasarvasvam ----------------- अवर्णान्तादङ्गात् परस्य शतुः शीनद्योः परयोर्वा नुम् स्यात् नदीति स्त्रियामीकार उक्तः । करिष्यन्ती । करिष्यती । स्यप्रत्ययात् परः शता । तुदन्ती । तुदती । अत्र शविकरणपरः । आकारात्तु यान्ती । याती । Sudha ----- आच्छीनद्योर्नुमिति । अत्र **नाभ्यस्ताच्छतुः**(7.1.78) इत्यतः शतुरिति **वा नपुंसकस्य**(7.1.79) इत्यतो वेति चानुवर्तते । तुदन्ती, तुदती । " तुदत् + औ " इत्यत्र **नपुंसकाच्च**(7.1.19) इति श्यादेशे शस्येत्सञ्ज्ञायां लोपे च " तुदत् + ई " इति स्थिते अत्र **आच्छीनद्योर्नुम्**(7.1.80) इति नुमि, उमि गते मित्वादन्त्यादचः परे जाते **नश्चापदान्तस्य झलि**(8.3.24) इत्यनुस्वारे **अनुस्वारस्य ययि परसवर्णः**(8.4.58) इति परसवर्णे 'तुदन्ती' इति । नुमभावे 'तुदती' इति । तुदन्ति । " तुदत् + जस् " अत्र **जश्शसोः शिः**(7.1.20) इति जसः स्थाने शौ कृते शस्येत्सञ्ज्ञायां लोपे च सर्वनामस्थानसञ्ज्ञायाम् **नपुंसकस्य झलचः**(7.1.72) इति नुमि, उमि गते मित्वादन्त्यादचः परे अनुस्वारे परसवर्णे च कृते 'तुदन्ति' इति । Sutra Prayogas -------------- * **सृजती** (रघुवंशम्): `आच्छीनद्योर्नुम्` इति नुम्विकल्पः। * **नुदतीं** (रघुवंशम्): `आच्छीनद्योर्नुप्` इत्यस्य वैकल्पिकत्वान्नुमभावः। * **विशतीः** (रघुवंशम्): `आच्छीनद्योर्नुम्` इति नुम्विकल्पः। * **निर्विशतीव** (कुमारसम्भवम्): `आच्छीनद्योर्नुम्` इति विकल्पान्नुमभावः। * **निक्षिपतीनाम्** (किरातार्जुनीयम्): `आच्छीनद्योर्नुम्` इति विकल्पान्नुमभावः। * **मान्तीः** (शिशुपालवधम्): `आच्छीनद्योर्नुम्` इति नुम्। * **यान्तीनाम्** (शिशुपालवधम्): `आच्छीनद्योर्नुम्` इति वैकल्पिको नुमागमः।