71074: तृतीयादिषु भाषितपुंस्कं पुंवद्गालवस्य ============================================ **Padacheda:** तृतीया-आदिषु | S | 7 | 3 | भाषितपुंस्कम् | S | 1 | 1 | पुंवत् | S | 0 | 0 | गालवस्य | S | 6 | 1 | Sutrartha --------- **गालवाचार्यस्य मतेन - भाषितपुँस्कः इगन्तः नपुंसकलिङ्गशब्दः तृतीयातः अग्रेषु अजादि-विभक्तिप्रत्ययेषु परेषु पुंलिङ्गशब्दवत् भवति ।** किम् नाम भाषितपुँस्कः ? ये शब्दाः पुँल्लिगनपुंसकलिङ्गयोः समाने अर्थे प्रयुज्यन्ते, तेषां 'भाषितपुँस्कः' इति संज्ञा अस्ति । यथा - कर्तृ, धातृ आदयः सर्वे तृच्-तृन्-प्रत्ययान्तशब्दाः उभयोः लिङ्गयोः प्रयुज्यन्ते, अतः एते सर्वे शब्दाः भाषितपुंस्काः सन्ति । गालवाचार्यस्य मतेन भाषितपुँस्कानां नपुंसकलिङ्गे अजादौ विभक्तौ परे तृतीयातः सप्तमीयावत् रूपाणि विकल्पेन पुँल्लिगवत् अपि भवन्ति । एतत् चिन्तनम् गालवाचार्यस्य अस्ति, अतः 'विकल्पेन भवति' इति तस्य अर्थः । यथा, 'धातृ' (यः धारयति सः / यत् धारयति तत्) अयं शब्दः पुंलिङ्ग-नपुंसकलिङ्गयोः समानार्थे प्रयुज्यते । अतः अस्य 'भाषितपुँस्कः' इति संज्ञा भवति । अतः अस्य तॄतीयातः अग्रे अजादिप्रत्ययेषु परेेषु रूपाणि पुंलिङ्ग-धातृ-शब्दवत् अपि भवन्ति - तृतीयैकवचनम् - धातृ + टा → धात्रा, धातृणा । चतुर्थ्येकवचनम् - धातृ + ङे → धात्रे, धातृणे । पञ्चम्येकवचनम् / षष्ठ्येकवचनम् - धातृ + ङसिँ/ङस् → धातुः / धातृणः । षष्ठीद्विवचनम् / सप्तमीद्विवचनम् - धातृ + ओस् → धात्रोः / धातृणोः । सप्तम्येकवचनम् - धातृ + ङि → धातरि, धातृणि । Sutrartha (English) ------------------- According to गालवाचार्य, for a नपुंसकलिङ्ग word which can be used also as a पुंलिङ्ग word with the same meaning, the तृतीया onwards forms are like that of the पुंलिङ्ग word. Vasu English Summary -------------------- A Neuter अङ्ग (stem) ending in a vowel except अ , of which there exists an equivalent, uniform masculine, is treated like the masculine, in the opinion of गावल before the vowel beginning affixes of the Instrumental -3rd case and the cases that follow it. Vasu English Translation ------------------------ A Neuter अङ्ग (stem) ending in a vowel except अ , of which there exists an equivalent, uniform masculine, is treated like the masculine, in the opinion of गावल before the vowel beginning affixes of the Instrumental -3rd case and the cases that follow it. As in the Masculine there is no shortening, nor the addition of युम्, so here also. As ग्रामणी is the equivalent, uniform masculine of the neuter form ग्रामणि, we have either Instrumental ग्रामणिना or ग्रामण्या ब्राह्मणकुलेन, the Instrumental Singular of ग्रामणि noun Similarly Dative ग्रामणिने or ग्रामण्ये ब्राह्मणकुलाय; Ablative ग्रामणिनो or ग्रामण्यो ब्राह्मणकुलात्, Genitive Singular ग्रामणिनो or ग्रामण्यो ब्राह्मणकुलस्य, Genitive Dual ग्रामणिनोर्ब्राह्मणकुलयोः or ग्रामण्योः; Genitive Plural ग्रामणीनां or ग्रामण्यां ब्राह्मणकुलानां ॥ Locative ग्रामणिनि or ग्रामण्यां ब्राह्मणकुले ॥ Similarly : Instrumental शुचिना (same form in masculine, and neuter), Dative शुचये or शुचिने; Ablative and Genitive शुचेः or शुचिनः Genitive Dual शुच्योः or शुचिनोः Locative शुचौ or शुचिनि ॥ Why do we say after the 3rd case and the rest? Observe ग्रामणिनी ब्राह्मणकुले, and शुचिनी Nominative dual. Why do we say having an appropriate masculine of the same form and meaning? Observe त्रपुण, जतुन ॥ Why have we only one form पीलुने फलाय, when पीलुर्वृक्षः and पीलुफलं show that पीलु has a masculine form also. The word पीलु is masculine when it applies to 'trees', and पीलु is neuter when it refers to 'fruits'; so this word पीलु cannot be said to be भाषितपुंस्कः, the masculine पीलु not having the same meaning as the neuter पीलु ॥ See (6.3.34). Why do we say "ending in a vowel except अ"? Observe कीलालपा ब्राह्मणः and कीलालपं ब्राह्मणकुलं; the Instrumental &c of कीलालपा will not be the Instrumental &c of कीलालपं ॥ The latter will have only one form कीलालपेन ब्राह्मणकुलेन ॥ &c. Before case affixes beginning with a consonant we have one form only, as ग्रामणीभ्यां ब्राह्मणकुलाभ्याम् ॥ Bhashya ------- तृतीयादिषु भाषितपुंस्क पुंवद्गालवस्य किमिह पुंवद्भावेनातिदिश्यते ? ॥ नुम्प्रतिषेधः(2) ॥ कथं पुनः पुंवदित्यनेन नुम्प्रतिषेधः शक्यो विज्ञातुम् ? ॥ वतिनिर्देशोऽयं,कामचारश्च वतिनिर्देशे वाक्यशेषं समर्थयितुम्। तद्यथा उशीनरवन्मद्रेषु यवाः । सन्ति न सन्तीति । मातृवदस्याः कलाः । सन्ति न सन्तीति । एवमिहापि पुंवत् - भवति, पुंवत्न भवतीति वाक्यशेषं समर्थयिष्यामहे । यथा पुंसो न नुम्भवत्येवं तृतीयादिषु भाषितपुंस्कस्यापि न भवतीति ॥ किमुच्यते नुम्प्रतिषेधइति, न पुनरन्यदपि पुंसः(1) प्रतिपदं कार्यमुच्यते यत्तृतीयादिष्वजादिषु विभक्तिषु(2) भाषितपुंस्कस्यातिदिश्येत ? ॥ ॥ अनारम्भात्पुंसि(3) ॥ न हि किं चित्पुंसि प्रतिपदं कार्यमुच्यते यत्तृतीयादिष्वजादिषु विभक्तिषु(2) भाषितपुंस्कस्यातिदिश्येत । नुम्प्रकृतस्तत्र किमन्यच्छक्यं विज्ञातुमन्यदतो नुम्प्रतिषेधात् ? ॥ पुंवदिति नुम्प्रतिषेधश्चेद्गुणनाभावनुडौत्त्वप्रतिषेधः ॥ पुंवदिति नुम्प्रतिषेधश्चेद्गुणनाभावनुडौत्त्वानां प्रतिषेधो वक्तव्यः । गुणः(5) - ग्रामण्ये ब्राह्मणकुलाय । गुणः(5) ॥ नाभावः - ग्रामण्या ब्राह्मणकुलेन । नाभावः ॥ नुट् - ग्रामण्यां ब्राह्मणकुलानाम् । नुट् ॥ औत्वं - ग्रामण्यां ब्राह्णकुले । ह्रस्वत्वमप्रतिषिद्धं ह्रस्वाश्रयाश्चैते विधयः प्राप्नुन्ति ॥ ह्रस्वाऽभावार्थञ्ञ्च ॥ (ह्रस्वाभावार्थञ्ञ्च) (1) ॥ किं च ? ॥ नुम्प्रतिषेधार्थं (च) । कथं पुनरत्राऽप्रकृतस्याऽसंशब्दितस्य(2) ह्रस्वत्वस्य प्रतिषेधः शक्यो विज्ञातुम् ? ॥ अर्थातिदेशात्सिद्धम् ॥ ( अर्थातिदेशात्सिद्धमेतत्(3) ) ॥ नैवं विज्ञायते - भाष्यते पुमाननेन शब्देन सोऽयं भाषितपुंस्कः, भाषितपुंस्कस्य शब्दस्य पुंशब्दो भवतीति ॥ कथं तर्हि ? ॥ भाष्यते पुमानस्मिन्नर्थे सोऽयं भाषितपुंस्कः, भाषितपुंस्कस्याऽर्थस्य पुंवदर्थो भवतीति ॥ तद्वितलुक्प्रतिषेधश्च ॥ तद्धितलुकश्च प्रतिषेधो वक्तव्यः । पीलुर्वृक्षः । पीलु फलम् । पीलुना पीलुने इति ॥ न वा समानायामाकृतौ भाषितपुंस्कविज्ञानात् ॥ न(1) वा वक्तव्यम् ॥ किं कारणम् ॥ ? सामानायामाकृतौ भाषितपुंस्कविज्ञानात् । समानायामाकृतौ यद्भाषितपुंस्कम् (इति विज्ञायते ) । आकृत्यन्तरे चैतद्भाषितपुंस्कम् ॥ किं वक्तव्यमेतत् ? ॥ नहि ॥ कथमनुच्यमानं गंस्यते ? ॥ एतदपि अर्थनिर्देशात्सिद्धम्(2) ॥ (तृतीयादिषु) Kashika ------- तृतीयादिषु विभक्तिष्वजादिषु भाषितपुंस्कमिगन्तं नपुंसकं गालवस्याचार्यस्य मतेन पुंवद् भवति। यथा पुंसि ह्रस्वनुमौ न भवतः, तद्वदत्रापि न भवत इत्यर्थः। ग्रामणीर्ब्राह्मणः, ग्रामणि ब्राह्मणकुलम्। ग्रामण्या ब्राह्मणकुलेन, ग्रामणिना ब्राह्मणकुलेन। ग्रामण्ये ब्राह्मणकुलाय, ग्रामणिने ब्राह्मणकुलाय। ग्रामण्यो ब्राह्मणकुलात्, ग्रामणिनो ब्राह्मणकुलात्। ग्रामण्यो ब्राह्मणकुलस्य, ग्रामणिनो ब्राह्मणकुलस्य। ग्रामण्योर्ब्राह्मणकुलयोः, ग्रामणिनोर्ब्राह्मणकुलयोः। ग्रामण्यां ब्राह्मणकुलानाम्,**नुमचिर०**(महाभाष्य ७.१.९६ वा०) इति पूर्वविप्रतिषेधेन नुट्, ग्रामणीनां ब्राह्मणकुलानाम्। ग्रामण्यां ब्राह्मणकुले, ग्रामणिनि ब्राह्मणकुले। शुचिर्ब्राह्मणः, शुचि ब्राह्मणकुलम्। शुचये ब्राह्मणकुलाय, शुचिने ब्राह्मणकुलाय। शुचेर्ब्राह्मणकुलात्, शुचिनो ब्राह्मणकुलात्। शुचेर्ब्राह्मणकुलस्य, शुचिनो ब्राह्मणकुलस्य। शुच्योर्ब्राह्मणकुलयोः, शुचिनोर्ब्राह्मणकुलयोः। शुचौ ब्राह्मणकुले, शुचिनि ब्राह्मणकुले। तृतीयादिष्विति किम्? ग्रामणिनी ब्राह्मणकुले। शुचिनी ब्राह्मणकुले। भाषितपुंस्कमिति किम्? त्रपुणे। जतुने। इह कस्माद् न भवति — पीलुर्वृक्षः, पीलु फलम्, पीलुने फलायेति? समानायामाकृतौ यद् भाषितपुंस्कं तुल्ये प्रवृत्तिनिमित्ते तस्य पुंवद्भावः। इह तु वृक्षाकृतिः प्रवृत्तिनिमित्तं पुंसि शब्दस्य, फलाकृतिर्नपुंसके। तदेतदेवं कथं भवति भाषितपुंस्कमिति? भाषितः पुमान् यस्मिन्नर्थे प्रवृत्तिनिमित्ते स भाषितपुंस्कशब्देनोच्यते। तद्योगादभिधेयमपि यद् नपुंसकं तदपि भाषितपुंस्कम्। तस्य प्रतिपादकं यच्छब्दरूपं तदपि भाषितपुंस्कमिति। इक इत्येव — कीलालपा ब्राह्मणः। कीलालपं ब्राह्मणकुलम्। कीलालपेन ब्राह्मणकुलेन। अचीत्येव — ग्रामणिभ्यां ब्राह्मणकुलाभ्याम्॥ Siddhanta Kaumudi ----------------- प्रवृत्तिनिमित्तैक्ये भाषितपुंस्कमिगन्तं क्लीबं पुंवद्वा स्याट्टादावचि । अनादये । अनादिने । इत्यादि । शेषं वारिवत् ॥ पीलुर्वृक्षस्तत्फलं पीलु तस्मै पीलुने । अत्र न पुंवत् । प्रवृत्तिनिमित्तभेदात् ॥ Laghu Siddhanta Kaumudi ----------------------- प्रवृत्तिनिमित्तैक्ये भाषितपुंस्कमिगन्तं क्लीबं पुंवद्वा टादावचि। सुधिया, सुधिनेत्यादि॥ मधु। मधुनी। मधूनि। हे मधो, हे मधु॥ सुलु। सुलुनी। सुलूनि। सुलुनेत्यादि॥ धातृ। धातृणी। धातॄणि। हे धातः, हे धातृ। धातॄणाम्॥ एवं ज्ञात्रादयः॥ Balamanorama ------------ **तृतीयाऽऽदिषु भाषितपुंस्कं पुंवद्गालवस्य** - टादिषु अचिविशेषमाह — तृतीयादिषु । भाषितः पुमान् येन प्रवृत्तिनिमित्तेन तत्-भाषितपुंस्कं, तदस्यास्तीति अर्शाअद्यच् । शब्दस्वरूपं विशेष्यम् । पुंस्त्वे नपुंसकत्वे च एकप्रवृत्तिनिमित्तकमिति यावत् ।इकोऽचि विभक्तौ इत्यतइकोऽची॑ति 'नपुंसकस्य झलचः' इत्यतोनपुंसकस्ये॑ति चानुवर्तते । षष्ठी च प्रथमया विपरिणम्यते । तदाह-प्रवृत्तिनिमित्तैक्य इत्यादिना । पुंवद्वेति । गालवग्रहणादिति भावः । अचीति । अजादावित्यर्थः । पुंवत्त्वे ह्रस्वनुमोरभावः फलति । घटपटादिशब्दास्तावद्घटत्वपटत्वादिरूपेणैव तत्तद्व्यकिंत प्रत्याययन्ति, ननु द्रव्यत्वपृथिबीत्वादिरूपेणेति निर्विवादम् । ततश्च यद्विशेषणं पुरस्कृत्य घटादिशब्दास्तत्तद्व्यक्तिषु प्रयुज्यन्ते तद्विशेषणं प्रवृत्तिनिमित्तमित्युच्यते । वाच्यतावच्छेदकमिति यावत् । एवंच नपुंसकत्वे लिङ्गान्तरे च यस्य एकमेव वाच्यतावच्छेदकं तच्छब्दस्वरूपं भाषितपुंस्कशब्देन विवक्षितम् । अनादिशब्दश्च उत्पत्त्यभावात्मकमनादित्वं पुरस्कृत्य स्त्रीपुंनपुंसकतत्तद्व्यक्तिप्रत्यायक इति भवति तस्य प्रवृत्तिनिमित्तैक्ये भाषुतपुंस्कता । अतस्तस्य टादावचि पुंवत्त्वविकल्प इत्यभिप्रेत्योदाहरति — अनादये अदादिने इति । पुंवत्त्वे नुमोऽप्रवृत्तेधेर्ङिती॑ति गुणः । पुंवत्त्वाऽभावे तु नुमिति भावः । इत्यादीति । अनादेः-अनादिनः । अनाद्योः-अनादिनोः । आमि तु अनादीनामित्येव । शेषं वारिवदिति । प्रथमाद्वितीययोभ्र्यामादौ हलि च वारिवदित्यर्थः ।प्रवृत्तिनिमित्तैक्य॑ इत्यस्य प्रयोजनं दर्शयितुमाह — पीलुर्वृक्ष इति । यदा वृक्षविशेषः पीलुशब्दवाच्यस्तदा पुंलिङ्गः पीलुशब्दः, यदा पीलुजन्यफलं पीलुशब्दवाच्यं तदा नपुंसकलिङ्गोऽयम् । 'फले लुक्' इत्यणो लुक् । अत्र फले वाच्ये पुंवत्त्वं नेत्यर्थः । कुत इत्यत आह-प्रवृत्तिनिमित्तभेदादिति । वृक्षत्वव्याप्यजातिविशेषात्मकं पीलुत्वं वृक्षविशेषे वाच्ये प्रवृत्तिनिमित्तम् । फलविशेषे तु वाच्ये फलत्वव्याप्यजातिविशेषात्मकं पीलुत्वं प्रवृत्तिनिमित्तमिति प्रवृत्तिनिमित्तभेदादित्यर्थः । तदुक्तम् — ॒पीलुर्वृक्षः फलं पीलु पीलुने नतु पीलवे । वृक्षे निमित्तं पीलुत्वं, तज्जत्वं तत्फले पुनः ।॑ इति । Tattvabodhini ------------- **तृतीयाऽऽदिषु भाषितपुंस्कं पुंवद्गालवस्य** - तृतीयादिषु । यद्यत्र भाषितः पुमान् येन शब्देन स भाषित पुंस्कः शब्द इति विज्ञायेत तदापीलुने॑इत्यादावतिप्रसङ्गः स्यात्, अतो व्याचष्टे — प्रावृत्तनिमित्तैक्ये इति । अयं भावः — भाषितः पुमान् यस्मिन् अर्थे तद्भाषितपुंस्कं प्रवृत्तिनिमित्तं, तदस्यास्तीति अर्श आदित्वादच् । तेनैकस्मिन् प्रवृत्तिनिमित्ते भाषितपुंस्कं यच्छब्दस्वरूपं तल्लयत इति ।इकोऽचिविभक्ता॑वित्यतोऽची॑त्यनुवर्तनादाह — टादावचीति । इगन्तं किम्, सोमपेन कुलेन । अचि किम्, ग्रामणिभ्याङ्कुलाभ्याम् । टादौ किम्, अनादिनी । अनादीनि । तत्फलमिति । पीलोः फलं पीलु ।फले लु॑गिति ओरञो लुक् । प्रवृत्तिनिमित्तभेदादिति । पीलुशब्दस्य हि वृक्षत्वव्याप्यजातिर्वृक्षे प्रवृत्तिनिमित्तं, फले तु फलत्वाव्याप्यजातिर्वृक्षविशेषप्रभवत्वं वा । उभयथापि पुंनपुंसकयोनैकं प्रवृत्तिनिमित्तमिति भावः । Padamanjari ----------- नपुंसकस्य इति यत्षष्ठ।ल्न्तं प्रकृतं तदिह भाषितपुंस्कम् इत्यनेन सम्बन्धात्प्रथमान्तं सम्पद्यते । पुंवदिति । पुंशब्देन तुल्यमित्यर्थः । केन पुनः प्रकारेण पुंशब्देन तुल्यं वर्तते इत्यपेक्षायामाह - यथेति । नुम्ह्रस्वयोरभावः पुंशब्देन दृष्टः, तद्द्वारेण यत्सादृश्यं तदिहातिदिश्यते, अन्यस्य कस्यचितृतीयादिशु पुंशब्देन सादृश्यस्यासम्भावत् । तेनार्थान्नुम्ह्रस्वयोः प्रतिषेधोऽयं सम्पद्यते । नन्वेवमपि प्रकृतत्वान्नुम एवाभावातिदेशो युक्तः , न ह्रस्वस्य, ततश्च ह्रस्वस्यावस्थितत्वातदाश्रयाणां गुणनाभावनुडौत्वात्वनां प्रतिषेधो वक्तव्यः । गुणः - घेर्ङिति, ग्रामण्ये कुलानाम् औत्वम् - औत्, अच्च घेः, ग्रामण्यां ब्राह्मणकुले नैष दोषः, अतिदेशसामर्थ्याद् एह्रस्वाभावोऽप्यतिदिश्यते, अन्यथा प्रतिषेधमेव गालवस्य विदध्यात् । ग्रामणीर्ब्राह्मण इति । भाषितपुंस्कप्रदर्शनमेत् । ग्रामणि ब्राह्मणकुलमिति । नपुंसकह्रस्वत्वं भवति, अतस्तदभावोऽतिदिश्यत इत्यनेन दर्शितम् । परिशिष्टमुदाहरणं शुचि ब्राह्मणकुलमिति प्रक्रमाभेदाय दर्शितम् । प्रत्युदाहरणेषु यथायोगं नित्यमेव मुम्ह्रस्वौ भवतः । पीलु फलमिति । विकारे ओरञः फले लुक् । समानायामाकृताविति । अस्यैव विवरणम् - तुल्ये प्रवृत्तिनिमित इति । यद्योगाद् द्रव्ये शब्दनिवेशः, तत्प्रवृत्तिनिमितं ग्रामनयनादि । अस्त्वेवम्, प्रकृते किमायातम् तत्राह - इह त्विति । पुंसशब्ददस्य या प्रवूतिस्तत्र वृक्षाकृतिः वृक्षावान्तरजातिर्निमितमित्यर्थः । फलाकृतिनैपुंसक इति । प्रवृत्तिनिमितशब्दस्येत्यनुषङ्गः । फलाकृतिः - फलावान्तरजातिः । तत्र यद्यपि पीलोः फलमिति व्युत्पतौ वृक्षावान्तरजातिरप्यङ्गीकृता, तथापि न सा फले प्रवृत्तिनिमितम्, किं तर्हि फलावान्तरजातिरेवेति भिद्यते निमितम् । तदेतदेवमित्यादि स्त्रियाः पुंवत् इत्यत्रैतव्द्याख्यातम्, तत एवावधार्यम् । एकीलालपेनेति । ह्रस्वस्य निवृतौ आतोः धातोः इति लोपः स्यात् ॥ Nyaas ----- `इगन्तं नपुंसकम्` इति। नपुंसकस्येक इत्यनुवर्तते। तच्च यद्यपि षष्ठन्तं प्रकृतम्, तथाप्येतदर्थाद्विभक्तिविपरिणामो भवतीति प्रथमान्तं सम्पद्यते। `पुंवद्भवति` इति। अस्यार्थं स्पष्टीकर्त्तुमाह - `यथा` इत्यादि। कथं पुनः `पुंवद्भवति` इत्यनेन प्रतिषेधातिदेशः शक्यते वक्तुम्। एवं मन्यते - पुंसि तृतीयादिष्वजादिषु न किञ्चित्? कार्यं विधीयते यन्नपुंसकेऽतिदश्येत। तस्मान्नपुंसकाश्रयस्य कार्यस्य पुंस्यभावात्? प्रतिषेधातिदेश एवायं विज्ञायते। एवमपि नुम्? एव प्रकृतस्याभावातिदेशः पक्षे स्यात्, ह्रस्वस्य; तस्याप्रकृतत्वात्, ततश्च ह्रस्वाश्रयाणि गुण नाभाव नुडौत्त्वात्त्वानि प्रसज्येरन् - **घेर्ङिति** (7.3.111) इत्यौत्त्वात्त्वम् - ग्रामण्यां ब्राआहृणकुल इति? नैतदस्ति; नुमभावमात्रातिदेशे ह्रतिदेश एवानरथकः स्यात्। नुम एव गालवस्य मतेन प्रतिषेधं कुर्यात्। तस्मादतिदेशासामर्थ्याद्? ह्रस्वाभावोऽप्यतिदिश्यते। `ग्रामणीब्र्राआहृणः, ग्रामाणि ब्राआहृणकुलम्` इति। भाषितपुंस्कत्वदर्शनार्थमिदमुक्तम्, न तूदाहरणम्। इदमत्रोदाहरणम् - `ग्रामण्या ब्राआहृणकुलेन` इति। अत्र पुंवद्भावेन ह्रस्वो न भवति, नुमपि। `एरनेकाचः` (6.4.82) इति ह्रस्वत्वम्, **आङो नाऽस्त्रियाम्** (7.3.120) इति नाभावः। `ग्रामणीनाम्` इति। पूर्वविप्रतिषेधेन नुटि कृते `नामि` (6.4.3) इति दीर्घत्वम्। न्नुचिशब्दस्य तृतीयैकवचनं नोदाहृतम्; विशेषाभावात्। सत्यसति वा पुंवद्भावे **आङो नाऽस्त्रियाम्** (7.3.120) इति नाभावेन भवितव्यम्। `शुचये` इति। पुंवद्भावपक्षे न नुम्, **घेर्ङिति** (7.3.111) इति गुणः। `शुचिने` इति। पुंवद्भावाभावपक्षे नुम्। `ग्रामणिनी ब्राआहृणकुले` इति। पुंवद्भावाभावादिह ह्रस्वनुमौ भवतः। `त्रपुणे, जतुने` इति। सर्वकालं नपुंसकत्वमेवानयोरिति भाषितपुंस्कत्वाभावः। तेनात्र पुंवदेभावाभावान्नुम्भवत्येव। `इह कस्मान्न भवति` इति। भाषितपुंस्कशब्दस्य बहुव्रीहेः शब्दोऽन्यपदार्थः। पोलुशब्दश्चायं पुंसि वृक्षे वर्त्तित्वा पीलोर्विकारः फलमिति विवक्षिते सति `ओरञ्` (4.2.70) इत्यागतस्याञः **फले लुक्** (4.3.163) इति लुक्? क्रियते, तदा नपुंसके फले वर्तत इति भाषितपुंस्को भवति, न चेह कश्चिद्विशेष उपात्तः, तस्माद्भवितव्यमेदात्र पुंवद्भावेनेति मन्यमानस्य प्रश्नः। `समानायामाकृतौ` इत्यत्तरम्। अस्यैवार्थं स्पष्टीकर्त्तुमाह `तुल्य प्रवृत्तिनिमित्ते` इति। अत्र `तस्य पुंवद्भावो विधीयते` इत्यध्याहार्यम्। आक्रियेते व्युत्पाद्येते परिच्छिद्येते अनया वृद्धिशब्दादिति `आकृतिः`। शब्दस्य प्रवृत्तिकारणमिहाकृतिरभिप्रेता, न सन्निदेशः, नापि जातिमात्रम्। तस्मस्तु तुल्ये प्रवृत्तिनिमित्ते यद्भाषितपुंस्कं तस्य पुंवद्भावो विधीयते। तथा च - ग्रामणीशब्दस्य, शचिशब्दस्य च समासे प्रवृत्तिनिमत्ते पुंवद्भाव उदाहृतः, यथा - ग्रामणीशब्दस्य पुंसि नपुंसके च वर्तमानस्य ग्रामनयनं प्रति कर्त्तुत्वं समानाकृतिः प्रवृत्तिनिमित्तम्। शुचिशब्दस्यापि शुचित्वं गुणः तत्रैवैतत्? स्यात्। इहापि समानैवाकृतिः? इत्याह - `इह तु` इत्यादि। तु शब्द#ओ ग्रामणीशब्दादेर्विशेषं दर्शयति। अनेन पीलुशब्दस्य भिन्नायामाकृतौ भाषितपुंस्कत्वं दर्शयति। वृक्षाकृतिः=वृक्षजातिः। फलाकृतिः=फलजातिः। तदेवं समानायामाकृतौ यद्भाषितपुंस्कं तस्य पुंदद्भावो विधीयते। न तु पीलुशब्दः समानायमाकृतौ भाषितपुंस्क इति न भवति तस्य पुंवद्भावः। `तदेतदेवम्` इत्यादि। यदेतदुक्तम् - `समानायमाकृतौ` इत्यादि, तदेतदेवम्प्रकारमर्थरूपं कथम्भवति? न कथञ्चिदित्यर्थः। `समानायामाकृतौ` इत्यस्य विशेषस्यानुपादानादित्यभिप्रायः। `भाषितपुंस्कग्रहणात्` इत्यादिना यथैतदेव भवति तथा दर्शयति। शब्दे ह्रन्यपदार्थे समाश्रीयमाणे सत्येतन्नोपपद्यते। न चात्र शब्दोऽन्यपदार्थत्वेनाश्रितः, किं तर्हि? अर्थः। सोऽपि न सर्वः, अपि तु प्रत्यासत्तेर्यस्य शब्दस्य यत्? प्रवृत्तिनिमित्तं स एव विज्ञायत इति स एव भाषितपुंस्कशब्दोनोच्यते; अन्यथा सर्व एव ह्रर्थो भाषितपुंस्को भवति, अन्ततोऽर्थशब्देनापि भाषितपुंस्कत्वसम्भवात्। तत्र यदि येन केनचिच्छब्देन यो भाषितपुंस्कः स इहाश्रीयते, तदा भाषितपुंस्कग्रहणमनर्थकं स्यात्; व्यावर्त्त्याभावात्। तस्माद्यस्य नपुंसकाभिधायिनः शब्दस्य पुंवद्भाव इह विधातुमिष्टस्तेनैव स्वमिन्? प्रवृत्तिनिमित्ते पुमान्? भाषितः, स एव भाषितपुंत्कोऽत्राक्षीयते। `तेद्योगात्` इत्यादि। तेन प्रवृत्तिनिमित्तलक्षणेनार्थेन योगात्? सम्बन्धादभिधेयं यन्नपुंसकं तदपि भाषितपुंस्कमितयुच्यते। भवति हि तद्योगात्? ताच्छब्द्यम्, यथा - यष्टीः प्रवेशयेति। योगः पुनरत्र समवायसमवायिलक्षणः; शब्दप्रवृत्तिनिमित्तस्यार्थस्य नपुंसकेन समवायात्। `यत्? तस्य` इत्यादि। तस्य नपुंसकस्य यत्? प्रतिपादकं शब्दरूपं तदापि भाषितपुंत्केन नपुंसकेन योगाद्भाषितपुंस्कमित्युच्यते। योगः पुनरनयोर्वाच्यवाचकभावः। तत्र यद्यपि सूत्रेऽर्थो भाषितपुंस्कशब्देनोपात्तः, तथाऽप्यर्थे कार्यासम्भवात्? यथोक्तन प्रकारेण यो भाषितपुंस्कः शब्दस्तस्यैवायं पुंवद्भावो विधीयते, एवञ्च स विधीयमानः समानायामाकृतौ यो भवितपुंस्कः शब्दः सामर्थ्यात्? तस्य भवतीति विज्ञायते। यो ह्रेवं भाषितपुंस्केन शब्दप्रवृत्तिनिमित्तेन सम्बद्धं नपुंसकमाह स नियोगतः समानायामाकृतौ भाषितपुंस्को भवति। यथा स एव ग्रामणीशब्दः, शुचिशब्दश्च। पीलुशब्देन यत्र भाषितः पुमान्? प्रवृत्तिनिमित्ते वृक्षाकृतौ न तत्सम्बद्धमसौ नपुंसकमाह। किं तर्हि? फलाकृतिसम्बन्धम्। तस्मात्? पीलुशब्दो न समानायामाकृतौ भाषितपुंस्क इति न भवति तस्य पुंवद्भावः। `कीलालपा` इति। `अतो मनिन्क्वनिब्वनिपश्च` (3.2.74) इति विच्। कोलालपाशब्दोऽयं समानायामाकृतौ भाषितपुंस्कः - उभयत्रापि वर्तमानः कीलालपात्वं प्रवृत्तिनिमित्तमादाय प्रवर्तत इति कृत्वा। इगन्तस्तु न भवतीति न भवति पुंवद्भाव; तेन ह्रस्वत्वं भवत्येव। तस्मिन्? सतदि **टाङसिङसामिनात्स्याः** (7.1.12) इतीनादेशे कृते कीलालपेनेति भवति। यदि पुनरत्र पुंवद्भावः स्यात्? तदा ह्रस्वत्वं न स्यात्, ततश्च **आतो धातोः** (6.4.140) इत्यकारलोपे कृते कोलालापेति स्यात्॥ Praudhamanorama --------------- **पुंवदिति।** अर्थान्नुम्ह्रस्वयोः प्रतिषेधोऽयम्। **प्रवृत्तिनिमित्तभेदादिति।** पीलुशब्दस्य हि वृक्षत्वव्याप्यजातिर्वृक्षे प्रवृत्तिनिमित्तम्, फले तु फलत्वव्याप्यजातिर्वृक्ष-विशेषप्रभवत्वं वा। उभयथाऽपि पुन्नपुंसकयोर्नैकं प्रवृत्तिनिमित्तमिति भावः। Prakriyasarvasvam ----------------- उक्तपुंस्कमिगन्तं क्लीबं टादावजादिसुपि वा पुंवत् स्यात् । टायां नाभावान्न विशेषः । अन्यत्र शुचिने, शुचये इत्यादि वारिवद्धरिवच्च । पीलुवृक्षः पीलु फलम् इति पीलुशब्दस्योक्तपुंस्कत्वेऽपि अर्थभेदान्न पुंवत्त्वम् । पीलुने फलायेत्येव । अस्थि शसन्तं वारिवत् ॥ Sarala ------ **सुधीति** । सुष्ठु ध्यायतीति, शोभना धीर्यस्येति वा "सुधि" । सुधिनी इत्यत्र नुमा परत्वादियङ् बाध्यते । शोभनज्ञानवत्त्वं, शोभनध्यानवत्त्वं वा प्रवृत्तिनिमित्तं पुंसि क्लीबे च तुल्यमिति तुल्ये प्रवृत्तिनिमित्ते भाषितपुंस्कतयाऽत्र पुंवद्भावप्रवृत्तिः । एवं - सुलुशब्देऽपि शोभनलवनकर्त्तृत्वं प्रवृत्तिनिमित्तं, तच्च सर्वत्र समानमिति तुल्ये प्रवृत्तिनिमित्ते भाषितपुंस्कत्वात्पुंवद्भावस्तत्र प्रवर्त्तते । एवं धातृशब्देऽपि धारणकर्त्तृत्वस्य प्रवृत्तिनिमित्तस्य सर्वत्र तुल्यतया पुंवद्भावः । सुधिनेत्यादीति । सुधि, सुधिनी, सुधीनि - प्रथमा । पुनरपि - सुधि, सुधिनी, सुधीनि - द्वितीया । सुधिया-सुधिना, सुधीभ्यां, सुधीभिः - तृतीया । सुधिये-सुधिने, सुधीभ्यां, सुधीभ्यः - चतुर्थी । सुधियः-सुधिनः, सुधीभ्यां, सुधीभ्यः - पञ्चमी । सुधियः-सुधिनः, सुधियोः-सुधिनोः, सुधियां-सुधीनाम् - षष्ठी । सुधियि-सुधिनि, सुधियोः-सुधिनोः, सुधिषु - सप्तमी । हे सुधे-हेसुधि, हे सुधिनी, हे सुधीनि । इति रूपाणि । एवं सुलुशब्दे - "सुलु, सुलुनी, सुलूनि" । पुनरपि - सुलु, सुलुनी, सुलूनि । सुल्वा-सुलुना । सुल्वे-सुलुने । सुल्वः-सुलुनः २ । सुल्वोः-सुलुनोः २ । सुल्वां-सुलूनाम् । सुल्वि-सुलुनि । हे सुलो-हे सुलु । इत्यादि रूपाणि । धातृशब्दे - "धात्रा-धातृणा" । धात्रे-धातृणे । धातुः-धातृणः २ । धात्रोः-धातृणोः २ । धातॄणाम् । धातरि-धातृणि । हे धातः-हे धातृ - इत्यादि रूपाणि ॥ Sudha ----- तृतीयादिष्विति । भाषितः पुमान् येन प्रवृत्तिनिमित्तेन तत् भाषितपुंस्कं तदस्यास्तीति अर्श आद्यच् । शब्दस्वरूपम्, विशेष्यम् । पुंस्त्वे नपुंसकत्वे च एकप्रवृत्तिनिमित्तकमिति यावत् । **इकोऽचि विभक्तौ**(7.1.73) इत्यतः इकोऽचीति **नपुंसकस्य झलचः**(7.1.72) इत्यतो नपुंसकस्येति चानुवर्तते । पष्ठी च प्रथमया विपरिणम्यते । तदाह - प्रवृत्तिनिमित्तैक्य इत्यादिना । सुधिया, सुधिनेति । सुध्यातृत्वस्य शोभनज्ञानवत्वस्य वा प्रवृत्तिनिमित्तस्य पुंसि नपुंसके च एकत्वात् पुंवत्त्वविकल्पः । तेन पुंवद्भावपक्षे अजादौ विभक्तौ परे **अचि श्नुधातुभ्रुवां य्वोरियङुवङौ**(6.4.77) इतीयङि 'सुधिया' इति । पुंवद्भावाभावपक्षे – नुमि - 'सुधिना' इति । मधु । मधु + सु इत्यत्र **स्वमोर्नपुंसकात्**(7.1.23) इति सोर्लोपे 'मधु' इति । मधुनी । मधु + औ अत्र **नपुंसकाच्च**(7.1.19) इत्यौकारस्य शीत्वे अनुबन्धलोपे **इकोऽचि विभक्तौ**(7.1.73) इति नुमि उमि गते संयोगे च कृते 'मधुनी' इति रूपम् । मधूनि । मधु + जस् इत्यत्र **जश्शसोः शिः**(7.1.20) इति जसः शीत्वे **शि सर्वनामस्थानम्**(1.1.42) इति शेः सर्वनामस्थानत्वे **इकोऽचि विभक्तौ**(7.1.73) इति नुमि उमि गते **सर्वनामस्थाने चासम्बुद्धौ**(6.4.8) इति नान्तस्योपधायाः दीर्घत्वे कृते च संयोगे 'मधूनि' इति रूपम् । हे मधो - हे मधु । अत्र **न लुमताङ्गस्य**(1.1.63) इति निषेधस्यानित्यत्वात्पक्षे सम्बुद्धिनिमित्तको गुणः । तदभावे च द्वितीयं रूपमिति स्पष्टं वारिशन्दनिरूपणे उक्तम् । सुलु । सुष्ठु लुनातीति क्विप् । **ह्रस्वो नपुंसके प्रातिपदिकस्य**(1.2.47) इति ह्रस्वः । सुलु + सु अत्र **स्वमोर्नपुंसकात्**(7.1.23) इति सोर्लोपे 'सुलु' इति । सुलुनी । सुलु+ औ अत्र **नपुंसकाच्च**(7.1.19) इति औस्थाने श्यादेशे अनुबन्धलोपे **इकोऽचि विभक्तौ**(7.1.73) इति नुमि उमि गते मिलित्वा 'सुलुनी' इति । सुलूनि । सुलु + जस् अत्र **जश्शसोः शिः**(7.1.20) इति जसः स्थाने 'शि' आदेशे **शि सर्वनामस्थानम्**(1.1.42) इति सर्वनामस्थानसंज्ञकत्वे **नपुंसकस्य झलचः**(7.1.72) इति नुमि मित्त्वादन्त्यादचः परे सति उमि गते **सर्वनामस्थाने चासम्बुद्धौ**(6.4.8) इति दीर्घे 'सुलूनि' इति । सुल्वा, सुलुनेत्यादि । शोभनलवनकर्तृत्वं प्रवृत्तिनिमित्तमेकमिति पुंवत्वविकल्पः। पुंवत्वे ह्रस्वाभावेनाघित्वात् नाभावो न, नुमभावश्च । **ओः सुपि**(6.4.83) इति यण् सुल्वा । पुंवत्वाभावपक्षे तु यणं बाधित्वा नुम् । 'सुलुना' इति । ङेप्रभृतिषु तु पुंवत्वाभावे इति पूर्वविप्रतिषेधेन नुमि सुलुने, पुंवत्वे तु सुल्वे, ङसिङसोः - सुलुनः, सुल्वः, ओसि - सुलुनोः, सुल्वोः । आमि -सुलनाम्, सुल्वाम् । ङौ - सुलुनि, सुल्वि, इति बोध्यम् । धातृ । धातृ + सु इत्यत्र **स्वमोर्नपुंसकात्**(7.1.23) इति सोर्लोपे 'धातृ' इति । धातृणी । धातृ + औ इत्यत्र **नपुंसकाच्च**(7.1.19) इत्यौकारस्य शीत्वे अनुबन्धलोपे **इकोऽचि विभक्तौ**(7.1.73) इति नुमि उमि गते णत्वे च कृते 'धातृणी' इति । धातॄणि । धातृ + जस् अत्र **जश्शसोः शिः**(7.1.20) इति जसः शित्वे **शि सर्वनामस्थानम्**(1.1.42) इति शेः सर्वनामस्थानत्वे शकारस्येत्संज्ञायां लोपे च **नपुंसकस्य झलचः**(7.1.72) इति नुमि उमि गते सति **सर्वनामस्थाने चासम्बुद्धौ**(6.4.8) इति नान्तस्योपधाया दीर्घत्वे इति णत्वे 'धातृणि' इति रूपम् । हे धात:, हे धातृ । हे घातृ + सु अत्र **स्वमोर्नपुंसकात्**(7.1.23) इति सोर्लोपे **न लुमताङ्गस्य**(1.1.63) इत्यस्यानित्यत्वात्प्रत्ययलक्षणे सम्बुद्धिनिमित्तकगुणे अकारे रपरे च जाते रेफस्य विसर्गे 'हे धातः' इति । पक्षे - 'हे घातृ' इति । धारणकर्तृत्वरूपप्रवृत्तिनिमित्तैक्यात् टादावचि पुंवत्त्वविकल्पः । तेन धात्रा - धातृणा । धात्रे - धातृणे । धातुः - धातृणः । धात्रोः - धातृणोः । इति नुट् । धातृणाम् । धातरि - धातृणि । Sutra Prayogas -------------- * **लोलोर्मौ** (शिशुपालवधम्): `तृतीयादिषु भाषितपुंस्कं पुंवद्गालवस्य` इति विकल्पात्पुंवद्भावः। * **भग्नबालसहकारसुगन्धौ** (शिशुपालवधम्): `तृतीयादिषु भाषितपुंस्कं पुंवद्गालवस्य` इति पुंवद्भावः। * **उत्तितीर्षा-** (भट्टिकाव्यम्): `तृतीयादिषु भाषितपुंस्कम्` इति पुंवद्भावः।