71068: न सुदुर्भ्यां केवलाभ्याम् ================================ **Padacheda:** न | S | 0 | 0 | सुदुर्भ्याम् | S | 5 | 2 | केवलाभ्याम् | S | 5 | 2 | Sutrartha --------- **यत्र लभ्-धातुः 'सु' अथवा 'दुर्' इत्येतेन उपसर्गेण सह, अन्यम् (सु-दुर्-भिन्नम्) उपसर्गं विना यत्र प्रयुज्यते, तत्र खल्-प्रत्यये परे घञ्-प्रत्यये च परे तस्य नुमागमः न भवति ।** डुलभष् (प्राप्तौ, भ्वादिः (1.1130)) इति धातुः उपसर्गेण सह प्रयुज्यते चेत् खल्-प्रत्यये परे, घञ्-प्रत्यये च परे **उपसर्गात् खल्घञोः** (7.1.67) इत्यनेन तस्य नुमागमः प्राप्नोति । परन्तु अयम् उपसर्गः 'सु' तथा 'दुर्' इति अस्ति चेत्, अन्यम् उपसर्गं विना एतादृशः नुमागमः वर्तमानसूत्रेण निषिध्यते । उदाहरणानि एतानि - 1. केवलम् 'सु'-उपसर्गपूर्वकस्य लभ्-धातोः खल्-प्रत्यये परे नुमागमः निषिध्यते - .. code-block:: text डुलभष् (प्राप्तौ) → सु + लभ् + खल् [**ईषद्दुःसुषु कृच्छ्राकृच्छ्रार्थेषु खल्** (3.3.126) इत्यनेन सु-उपपदे परे लभ्-धातोः खल्-प्रत्ययः] → सु + लभ् + अ [**लशक्वतद्धिते** (1.3.7) इति खकारस्य इत्संज्ञा, **हलन्त्यम्** (1.3.3) इति लकारस्य इत्संज्ञा । तयोः **तस्य लोपः** (1.3.9) इति लोपः] → सु + लभ् + अ [**उपसर्गात् खल्घञोः** (7.1.67) इत्यनेन खल्-प्रत्यये परे नुमागमे प्राप्ते, **न सुदुर्भ्यां केवलाभ्याम्** (7.1.68) इत्यनेन केवलम् सु-उपसर्गः अस्ति चेत् सः निषिध्यते । अतः अत्र नुमागमः न भवति ।] → सुलभ एवमेव 'दुर्लभ' इत्यपि शब्दः सिद्ध्यति । 2. सु-उपसर्गेण सह अन्यः उपसर्गः अस्ति चेत् खल्-प्रत्यये परे नुमागमः अवश्यं भवति - .. code-block:: text डुलभष् (प्राप्तौ) → सु + प्र + लभ् + खल् [**ईषद्दुःसुषु कृच्छ्राकृच्छ्रार्थेषु खल्** (3.3.126) इत्यनेन सु-उपपदे परे प्र-उपसर्गपूर्वकात् लभ्-धातोः खल्-प्रत्ययः] → सु + प्र + लभ् + अ [**लशक्वतद्धिते** (1.3.7) इति खकारस्य इत्संज्ञा, **हलन्त्यम्** (1.3.3) इति लकारस्य इत्संज्ञा । तयोः **तस्य लोपः** (1.3.9) इति लोपः] → सु + प्र + लन् भ् + अ [**उपसर्गात् खल्घञोः** (7.1.67) इत्यनेन खल्-प्रत्यये परे नुमागमः । अत्र यद्यपि 'सु' इति उपसर्गः अस्ति, तथापि तेन सह 'प्र' इति अन्यः उपसर्गः अपि अत्र विद्यते, अतः अत्र **न सुदुर्भ्यां केवलाभ्याम्** (7.1.68) इत्यनेन निषेधः न जायते । अपि च अयं नुमागमः नित्यत्वात् **अत उपधायाः** (7.2.116) इति उपधावृद्धिम् अपि बाधते ।] → सुप्रलंभ [**नश्चापदान्तस्य झलि** (8.3.24) इति अनुस्वारः] → सुप्रलम्भ [**अनुस्वारस्य ययि परसवर्णः** (8.4.58) इति परसवर्णः मकारः] एवमेव 'दुष्प्रलम्भ' शब्दस्य प्रक्रिया अपि भवति । तत्र उपसर्गस्य विषये षत्वम् इत्थं सिद्ध्यति - दुर् + प्रलम्भ [पूर्ववत् प्रक्रिया] --> दुः + प्रलम्भ [**खरवसानयोर्विसर्जनीयः** (8.3.15) इति विसर्गः] --> दुष्प्रलम्भ [**इदुदुपधस्य चाप्रत्ययस्य** (8.3.41) इति षत्वम्] 3. केवलम् 'सु'-उपसर्गपूर्वकस्य लभ्-धातोः घञ्-प्रत्यये परे नुमागमः निषिध्यते - .. code-block:: text डुलभष् (प्राप्तौ) → सु + लभ् + घञ् [**भावे** (3.3.18) इति घञ्-प्रत्ययः] → सु + लभ् + अ [इत्संज्ञालोपः] → सु + लाभ [**उपसर्गात् खल्घञोः** (7.1.67) इत्यनेन खल्-प्रत्यये परे नुमागमे प्राप्ते, **न सुदुर्भ्यां केवलाभ्याम्** (7.1.68) इत्यनेन केवलम् सु-उपसर्गः अस्ति चेत् सः निषिध्यते । अतः अत्र नुमागमः न भवति । नुमागमस्य अनुपस्थितौ **अत उपधायाः** (7.2.116) इति उपधावृद्धिः भवति ] --> सुलाभ एवमेव 'दुर्लाभ' इत्यपि शब्दः सिद्ध्यति । 4. सु-उपसर्गेण सह अन्यः उपसर्गः अस्ति चेत् घञ्-प्रत्यये परे नुमागमः अवश्यं भवति - .. code-block:: text डुलभष् (प्राप्तौ) → सु + प्र + लभ् + घञ् [**भावे** (3.3.18) इति घञ्-प्रत्ययः] → सु + प्रल न् भ् [**उपसर्गात् खल्घञोः** (7.1.67) इति घञ्-प्रत्यये परे नुमागमः । अत्र यद्यपि 'सु' इति उपसर्गः अस्ति, तथापि तेन सह 'प्र' इति अन्यः उपसर्गः अपि अत्र विद्यते, अतः अत्र **न सुदुर्भ्यां केवलाभ्याम्** (7.1.68) इत्यनेन निषेधः न जायते । अपि च अयं नुमागमः नित्यत्वात् **अत उपधायाः** (7.2.116) इति उपधावृद्धिम् अपि बाधते ।] → सुप्रलंभ [**नश्चापदान्तस्य झलि** (8.3.24) इति अनुस्वारः] --> सुप्रलम्भ [**अनुस्वारस्य ययि परसवर्णः** (8.4.58) इति परसवर्णः मकारः] एवमेव 'दुष्प्रलम्भ' शब्दस्य प्रक्रिया अपि भवति । तत्र उपसर्गस्य विषये षत्वम् इत्थं सिद्ध्यति - दुर् + प्रलम्भ [पूर्ववत् प्रक्रिया] --> दुः + प्रलम्भ [**खरवसानयोर्विसर्जनीयः** (8.3.15) इति विसर्गः] --> दुष्प्रलम्भ [**इदुदुपधस्य चाप्रत्ययस्य** (8.3.41) इति षत्वम्] अस्य सूत्रस्य प्रसक्तिः 'खल्' तथा 'घञ्' प्रत्ययस्य विषये एव अस्ति । अन्येषु प्रत्ययेषु परेषु **लभेश्च** (7.1.64) इत्यनेन नित्यमेव नुमागमः भवति । यथा, 'सु + लभ् + ल्युट् --> सुलम्भन' अत्र नुमागमे कृते एव रूपं सिद्ध्यति । **सूत्ररचना** कैश्चन वैयाकरणैः अत्र 'सुर्दुर्भ्याम्' इति तृतीयाद्विवचनं स्वीक्रियते । एवं क्रियते चेत् अत्र 'सु-दुर्-उपसर्गयोः योगे' इति अर्थः सिद्ध्यति । अस्यां स्थितौ सु/दुर्-उपसर्गौ लभ्-धातोः अव्यवहितपूर्वौ न भवतः चेदपि न कश्चन दोषः उत्पद्यते । वस्तुतः पञ्चमीपक्षे अपि 'केवल'ग्रहणेन अयमेव अर्थः स्पष्टी भवति, अतः तृतीयाग्रहणमेव करणीयम् इति नावश्यकम् । **शास्त्रसंवादः** छात्रः - सु-उपसर्गः अन्येन उपसर्गेण सह आगच्छति तर्हि घञ्-प्रत्यये परे लभ्-धातोः नुमागमः अवश्यं भवेत्, किल ? आचार्यः - आम् । सत्यम् । छात्रः - तर्हि 'अतिसुलभः', 'अतिदुर्लभः' एतौ शब्दौ अशुद्धौ एव भवेताम् । आचार्यः - 'अतिसुलभ' इत्यत्र वस्तुतः शब्दद्वयम् ज्ञेयम् - 'अति सुलभ' इति । अत्र आदौ 'सुलभ' इति शब्दः सिद्ध्यति, तत्र च **न सुदुर्भ्यां केवलाभ्याम्** (7.1.68) इति नुमागमः अवश्यमेव निषिध्यते । ततः **अतिरतिक्रमणे च** (1.4.95) इत्यनेन अतिक्रमणार्थे 'अति' इति कर्मप्रवचनीयसंज्ञकः शब्दः प्रयुज्यते । 'सुलभात् अधिकम् तत् अति सुलभम्' अनेन प्रकारेण अत्र अस्य सिद्धिः दीयते । एवमेव 'अति दुर्लभ' इत्यस्य विषये अपि अवधेयम् । छात्रः - परन्तु यदि केनचित् 'अति' इति उपसर्गेण सह 'सु' इति उपसर्गं प्रयुज्य रूपम् इष्यते चेत्? आचार्यः - तस्यां स्थितौ तु द्वयोः उपसर्गयोः उपस्थितौ **उपसर्गात् खल्घञोः** (7.1.67) इति नुमागमः अवश्यमेव स्यात्, येन 'अतिसुलम्भ', 'अतिदुर्लम्भ' एतौ शब्दौ सिद्ध्येताम् । Sutrartha (English) ------------------- The verb root लभ् , when attached to only the 'सु' or 'दुर्' उपसर्ग (and no other उपसर्ग) does not get a नुमागम in presence of खल्-प्रत्यय and घञ्-प्रत्यय. Vasu English Summary -------------------- The augment नुम् is added to लभ् 'to get' preceded by a Preposition before the affixes खल् -- ईषद्दुःसुषु कृच्छ्राकृच्छ्रार्थेषु खल् (3.3.126), and घञ् when सु or दुः alone (without another Preposition along with them) precede the root. Vasu English Translation ------------------------ The augment नुम् is added to लभ् 'to get' preceded by a Preposition before the affixes खल् -- ईषद्दुःसुषु कृच्छ्राकृच्छ्रार्थेषु खल् (3.3.126), and घञ् when सु or दुः alone (without another Preposition along with them) precede the root. Thus सुलभम्, दुर्लभम्, सुलाभो, दुर्लाभः ॥ But सुप्रलम्भः, दुष्प्रलम्भः ॥ The word केवल is used in the *sutra* because सुदुर्भ्यो is in the Instrumental case and not in the Ablative. Had it been in the Ablative, there would have been no necessity of using the word केवलं, for the rule would not have applied, when a preposition intervened between these and the root. In अतिसुलभम्, the word अति is not an *Upasarga* but a *Karmapravachaniya*; when अति is used as an *Upasarga*, we have अतिसुलम्भः ॥ If the words सुदुर्भ्याम् be construed as Ablative, then also the use of केवल is for a purpose similar to that as above. Bhashya ------- न सुदुर्भ्यां केवलाभ्यामथ केवलग्रहणं किमर्थम् न सुदुर्भ्या मित्येवोच्येत ?॥ सुदुरोः केवलग्रहणमन्योपसर्गप्रतिषेधार्थम् ॥ सुदुरोः केवलग्रहणं क्रियते ॥ (किमर्थम् ? ॥ अन्योपसर्गप्रतिषेधार्थम्(1)) । अन्योपसृष्टान्मा भूदिति, - प्रसुलम्भम् ॥ नैषोऽस्ति प्रयोगः ॥ इदं तर्हि - सुप्रलम्भम् ॥ प्रेण व्यवहितत्वान्न भविष्यति(2) ॥ इदं तर्हि अतिसुलम्भम् ॥ कर्मप्रवचनीयसंज्ञाऽत्र बाधिका भविष्यति - सुः पूजायामतिरतिक्रमणे चेति ॥ यदा तर्हि नातिक्रमणं न पूजा । इदं चाप्युदाहरणं - सुप्रलम्भम् । ननु चोक्तं प्रेण व्यवहितत्वान्न भविष्यतीति ? ॥ नैषः दोषः । सुदुर्भ्यामिति नैषा पञ्ञ्चमी ॥ का तर्हि ? ॥ तृतीया । सुदुर्भ्यामुपसृष्टस्येति । व्यवहितश्चाप्युपसृष्टो भवति ॥ ( न सुदुर्भ्याम् ) ॥ Kashika ------- सु दुरित्येताभ्यां केवलाभ्यामन्योपसर्गरहिताभ्यामुपसृष्टस्य लभेः खल्घञोः परतो नुमागमो भवति। सुलभम्। दुर्लभम्। घञि — सुलाभः। दुर्लाभः। केवलाभ्यामिति किम्? सुप्रलम्भः। दुष्प्रलम्भः। सुदुर्भ्यामिति तृतीयां मत्वा केवलग्रहणं क्रियते। पञ्चम्यां हि व्यवहितत्वादेवाप्रसङ्गः। अतिसुलभमित्यत्र कर्मप्रवचनीयत्वादतेः केवल एव सुशब्द उपसर्ग इति भवति प्रतिषेधः। यदा त्वतिशब्दो न कर्मप्रवचनीयः, तदा नुम् भवत्येव — अतिसुलम्भ इति। पञ्चमीनिर्देशपक्षेऽप्येवमर्थं केवलग्रहणं कर्तव्यम्॥ Siddhanta Kaumudi ----------------- उपसर्गान्तररहिताभ्यां सुदुर्भ्यां लभेर्नुम्न स्यात् खल्घञोः । सुलभम् । दुर्लभम् । केवलाभ्यां किम् । सुप्रलम्भः । अतिदुर्लम्भः । कथं तर्हि अतिसुलभमतिदुर्लभमिति । यदा स्वती कर्मप्रवचनीयौ तदा भविष्यति ॥ Tattvabodhini ------------- **न सुदुर्भ्यां केवलाभ्याम्** - यदा स्वती इति ।सुः पूजायाम्,अतिरतिक्रमणे चे॑ति तयोः कर्मप्रवचनीयत्वम् । Padamanjari ----------- केवलशब्दः शब्दोपातादन्यस्य सजातीयस्याभावमाचष्टे । यथा हि - केवलाभ्यामिहैताभ्यां प्रवेष्टव्यमितीरिते । अन्यस्य पुरुषस्यैव प्रवेशः प्रतिषिध्यते ॥ न शुकादेः, तथेहापि परस्परयुताधिमौ । एकाकिनौ विजातीयसहितौ चापि केवलौ ॥ सुदुर्लभम्, सुलभम्, दुर्लभम्, अतिसुलभमित्युदाहरणानि । सुलाभः, दुर्लाभ इति । भावे घञ् । कर्मणि एतु खल् भवति । यद्वा - सुः क्षेपे, यथा - सुषिक्तं नामेति । दिर्निन्दायाम्, यथा - दुर्ब्राह्मण इति । तेन कृच्छ्राकृच्छ्रार्थत्वाभावात्खलभावः । तृतीयां मत्वेति । तृतीयापक्षे त्विदं प्रत्युदाहरणमित्यर्थः । अथ पञ्चमीपक्षे कस्मान्न प्रत्युदाहरणम् कैत्याह - पञ्चम्यां हीति । न च तदापि प्रसुल्म्भमिति प्रत्युदाहरणमुक्तं हि भाष्ये - नैषोऽस्ति प्रयोगः इति । अतिसुलभमित्यत्रेति । उपसर्गात् इत्यनुवृतेरुपसर्गयोः सुदुरोरिह ग्रहणमिति भावः । अतिरतिक्रमणे च इत्यतेः कर्णप्रवचनीयसंज्ञा, तया चोपसर्गसंज्ञा बाध्यते, एकसंज्ञाधिकारात् । पञ्चमीनिर्देशपक्षेऽपीति । एवं च सर्वथा केवलग्रहणस्य कर्तव्यत्वात्क्रमव्यतिक्रमे कार्णाभावात्पूर्वतृतीयाश्रयणेन प्रत्युदाहरणं दर्शितम् ॥ Nyaas ----- `उपसृष्टस्य` इति। उपसर्गेण सम्बद्धस्येत्यर्थः, `सुलाभः` इति। सुशब्दोऽयमाधिक्यार्थः, नाकृच्छ्रार्थः, यथा - सुषिक्तं नाम किं तवात्रेत। `दुर्लाभः` इति। `दुशब्दो निन्दार्थः, न कृच्छ्रार्थः, यथा - दुब्र्राह्रण इति। तेन घञेव भवति, न खल्। `सुदुम्र्यामिति तृतीयां मत्वा केवलग्रहणं क्रियते` इति। `सुदिभ्र्याम्` इति। तृतीयायामभ्युपेतायां सुदुभ्र्यामुपसृष्टस्य लभेर्नुम्? न भवतीत्येषोऽर्थः सम्पद्यते। व्यवहितेनाऽप्युपसृष्टो भवत्येव। तत्रासति केवलग्रहणे सुप्रलम्भः, दुष्प्रलम्भ इत्यत्रापि प्रतिषेधः स्यात्। तस्मात्? तृतयायामभ्युपेतायां केवलग्रहणं क्रियते। अथ पञ्चत्र्यां केवलग्रहणं कस्मान्न क्रियेतेति प्रश्नावसरत आह - `पच्चम्यां हि` इत्यादि। पञ्चम्यां ह्रस्यां निर्दिष्टग्रहणस्यानन्तर्यार्थत्वादनन्तरस्यैव प्रतिषेधेन भवितव्यम्, इह च प्रशब्देन व्यवधानम्, अतः प्रसङ्ग एव नास्ति, तत्? किं केवलग्रहणेन? यद्येवम्? न कर्तव्यमेव केवलग्रहणम्, पञ्चमीमेनां प्रतिज्ञास्याम इति? नैतदस्ति; सुप्रलम्भः दुष्प्रलम्भ इति - प्रत्युदाहणद्वयमभिप्रेत्यैतदुक्तम्। `पञ्चम्यां हि व्यवहितत्वादेवाप्रसङ्गः` इति। अतिसुलम्भ इत्यत्र यदाभिशब्दोऽप्युपसर्गस्तदा ह्रसति केवलग्रहणे प्रतिषेधः प्रसज्येत; अव्यवधानात्। तस्मात्? सर्वधा केवलग्रहणस्य कर्तव्यत्वात्, कमव्यतिक्रमे च प्रयोजनाभावात्? तृतीयैवेषा युक्ता प्रतिज्ञातुम्। अतिसुलभमित्यत्रातिनोपर्गेन सुशब्देन लभिरुपसृष्टः, तस्मात्? प्रतिषेधेन भवितव्यमिति कस्याचिद्भ्रान्तिः स्यात्, अतस्तां निराकर्त्तुमाह - `अतिसुलभमित्यत्र` इत्यादि। कर्मप्रवचनीयत्वं पुनरतिशब्दस्य **अतिरतिक्रमणे च** (1.4.95) इति कर्मप्रवचनीसंज्ञाविधानात्। यस्य कर्मप्रवचनीयसंज्ञा तस्योपसर्गसंज्ञा नास्ति; एकसंज्ञाधिकारात्, कर्मप्रववनायसंज्ञयोपसर्गसंज्ञाया बाधतत्वात्। कथं पुनः कर्मप्रचवनीयस्य हि तस्यापि केवलत्वमुपपद्यते? एवं मन्यते - केवग्रहणात्? स्वशब्दोपात्तादन्यत्? तुल्यजातीयमेव व्यवच्छेद्यम्, न तु विजातीयम्। तथा हि - `केवलभ्यां विझातीयेन कर्कटादिना सहितौ प्रविशत एव। अत एवान्योपसर्गरहिताभ्यामित्यनेन तुल्यजातीयनिवृत्तयर्थता केवलग्रहणस्य दर्शिता। यदि तु सर्वस्य तुल्यजातीयस्य विजातीयस्यापि केवलग्रहणेन निवृत्तिः कर्त्तु शक्यते, तदोपसर्गगरहणमनर्थकं स्यात्, अन्यरहिताभ्यामित्येवं ब्राऊयात्। तस्माद्विजातीयेन केवलग्रहणेन निवृत्तिः कर्त्तु शक्यते, तदोपसर्गग्रहणमनर्थकं स्यात्, अन्यरहिताभ्यामित्येवं ब्राऊयात्। तस्माद्विजातीयेन सहितावपि तौ केवलावेवेत्यतिसुलभमित्यत्र कर्मप्रवचनीयसहितेनापि सुशब्देनोपसृष्टस्य भवत्येव प्रतिषेधः। यत्र तर्हि पूजातिक्रमणाभ्यामन्यत्र वृत्तिः, अतिशब्दसय तत्र कर्मप्रवचनीयसंज्ञा न भवति, तदा कथम्? इत्याह - `यदा तु` इत्यादि। पञ्चमीनिर्देशेऽप्येवमर्थं केवलग्रहणं कर्तव्यमिति; अन्यथा ह्यत्र व्यवधानाभावात्? प्रतिषेधः प्रसज्येतेत्यभिप्रायः। ननु च प्रसुलम्भः - इत्येवमर्थं केवलग्रहणं कर्तव्यम्? नैतदस्ति; उक्तं हि भाषेय - `नैषोऽस्ति प्रयोगः` इति॥ Prakriyasarvasvam ----------------- अन्योपसर्गरहिताभ्यां सुदुर्भ्यां परस्य लभेः खल्घञोर्नुम् न । सुलाभः दुर्लाभः । अन्योपसर्गयोगे तु स्यादेव । अतिसुलभः । 'चजोः' (७-३-५२) इति कुत्वस्य 'न क्वादेः' (७-३-५९) इति निषेधः । कूजः । गर्जः ।। निष्ठायामनिटामेव कुत्वं वार्त्तिककीर्तितम् । तर्जेः सेट्त्वेन सन्तर्जः सन्तर्ज्यमिति च ण्यति ।। १४१ ।। सेटां तु यत् क्वचित् कुत्वं रोको दीप्त्यर्थतो रुचेः । पञ्चते पङ्क इत्यादि न्यङ्क्वादित्वेन तद् भवेत् ।। १४२ ।। कुत्वं घञ्येव शुच्युब्जेरुब्जेर्वस्य च दो भवेत् । शोकः समुद्र इत्येवं शोच्यमुब्ज्यमिति ण्यति ।। १४३ ।। दहेर्घञ्यवदाघश्च निदाघश्च समार्थकौ । अहँरघँश्च संज्ञायामेते न्यङ्क्वादिकुत्वजाः ।। १४४ ।।