71053: त्रेस्त्रयः ================== **Padacheda:** त्रेः | S | 6 | 1 | त्रयः | S | 1 | 1 | Sutrartha --------- **त्रि-शब्दस्य अङ्गस्य आम्-प्रत्यये परे 'त्रय' आदेशः भवति ।** 'त्रि' इत्यस्य षष्ठीबहुवचनस्य आम्-प्रत्यये परे 'त्रय' इति आदेशः भवति । **अनेकाल्-शित्-सर्वस्य** (1.1.55) इत्यनेन अयमादेशः सर्वादेशः विद्यते । यथा - त्रि + आम् [**स्वौजस्..** (4.1.2) इत्यनेन षष्ठी-बहुवचनस्य आम्-आदेशः] → त्रय + आम् [**त्रेस्त्रयः** (7.1.53) इति त्रि-शब्दस्य त्रय-आदेशः] → त्रय + नुट् आम् [**ह्रस्वनद्यापो नुट्** (7.3.54) इति आम्-प्रत्ययस्य नुट्-आगमः] → त्रया + नाम् [**नामि** (6.4.3) इति अङ्गस्य दीर्घः] → त्रयाणाम् [**अट्कुप्वाङ्नुम्व्यवायेऽपि** (8.4.2) इति णत्वम्] ज्ञातव्यम् - बहुव्रीहिसमासे यद्यपि त्रि-शब्दः गौणः (अप्रधानः) अस्ति, तथापि वर्तमानसूत्रेण तस्यापि त्रय-आदेशः जायते । यथा, 'प्रियत्रि' शब्दस्य षष्ठीबहुवचनम् 'प्रियत्रयाणाम्' इति भवति । Sutrartha (English) ------------------- The word त्रि gets the आदेश 'त्रय' when followed by the प्रत्यय 'आम्'. Vasu English Summary -------------------- त्रय is substituted for त्रि before the Genitive 6th-Case plural affix. Vasu English Translation ------------------------ त्रय is substituted for त्रि before the Genitive 6th-Case plural affix. As त्रयाणाम् ॥ त्रीणाम् however appears in the *Veda*: as त्रीणामपि समुद्राणाम् ॥ Bhashya ------- त्रेस्त्रयः आमि सर्वनाम्नः सुट् ॥ ह्रस्वनद्यापो नुट् ॥ इमे बहव आम्शब्दाः(4) - कास्प्रत्ययादाममन्त्रे लिटि । ङसोसाम् किमेत्तिङव्ययघादाम्वद्रव्यप्रकर्षे । ङेराम्नद्याम्नीभ्य इति, कस्येदं ग्रहणम् ? ॥ षष्ठीबहुवचनस्य ग्रहणम्(1) ॥ अथास्य कस्मान्न भवति - कास्प्रत्ययादाममन्त्रे लिटीति ? ॥ अननुबन्धकग्रहणे हि न सानुबन्धकस्येति ॥ स तर्ह्यस्यैवमर्थोऽनुबन्धः कर्तव्य इहास्य ग्रहणं मा भूदिति ? ॥ ननु चावश्यं मकारस्येत्संज्ञापरित्राणार्थोऽनुबन्धः कर्तव्यः ॥ नार्थ इत्संज्ञापरित्राणार्थेन, इत्कार्याऽभावादत्रेत्संज्ञा न भविष्यति ॥ इदमस्तीत्कार्यं - मिदचोऽन्त्यात्पर इत्यचामन्त्यात्परो यथा स्यात् ॥ प्रत्ययान्तादयं विधीयते, तत्र नास्ति विशेषोमिदचोन्त्यात्परइति वा परत्वे, प्रत्ययः पर इति वा (परत्वे(2)) ॥ यस्तर्हि न प्रत्ययान्तात् - ःइजादेश्च गुरुमतोऽनृच्छ इति ? ॥ अत्रापि आस्कारसोराम्वचनं ज्ञापकं - नायमचामन्त्यात्परो भवतीति ॥ कथं कृत्वा ज्ञापकम् ? ॥ ह्यस्ति विशेषः - आम्यचामन्त्यात्परे सत्यसति वा ॥ अयमस्ति विशेषोऽसत्यामि द्विर्वचनेन भवितव्यं, सति न भवितव्यम् ॥ सत्यपि भवितव्यम् ॥ कथम् ? ॥ आमस्तन्मध्यपतितत्वाद्धातुग्रहणेन ग्रहणात् । तदेतत्कासासोराम्वचनं ज्ञापकमेव - नायमचामन्त्यात्परो(1) भवतीति ॥ अथापि कथं चिदित्कार्यं स्यादेवमपि न दोषः, - क्रियते न्यास एव - आमअमन्त्रे(2) इति । यद्येवमामाऽमन्त्र इति प्राप्नोति ॥ शकन्धुन्यायेन निर्देशः ॥ अथ वाऽस्त्वस्य ग्रहणं को दोषः ? ॥ इह कारयांचकार हारयांचकार चिकीर्षांचकार जिहीर्षांचकार, ह्रस्वनद्यापो नुडिति नुट्प्रसज्येत ॥ लोपाऽयादेशयोः कृतयोर्न भविष्यति ॥ इदमिह संप्रधार्यं - लोपायादेशौ क्रियेतां(2) नुडिति; किमत्र कर्तव्यम् ? ॥ परत्वान्नुट् ॥ नित्यौ लोपाऽयादेशौ, कृतेऽपि नुटि प्राप्नुतोऽकृतेपि । तत्र नित्यत्वाल्लोपाऽयादेशयोः कृतयोर्विहतनिमित्तत्वान्नुग्न भविष्यति ॥ अथास्य कस्मान्न भवति - किमेत्तिङव्ययघादाम्वद्रव्यप्रकर्षइति ? ॥ अननुबन्धकग्रहणे हि न सानुबन्धकस्येति ॥ स तर्ह्येवमर्थोऽनुबन्धः कर्तव्यः ? ॥ ननु चावश्यमुगित्कार्यार्थोऽनुबन्धः कर्तव्यः ॥ नार्थ उगित्कार्यार्थेनाऽनुबन्धेन । लिङ्गविभक्तिप्रकरणे सर्वमुगित्कार्यां, न चामो लिङ्गविभक्ती स्तः । अव्ययमेषः ॥ मकारस्य तर्हीत्संज्ञापरित्राणार्थोऽनुबन्धः कर्तव्यः ॥ इत्कार्याऽभावादत्रेत्संज्ञा न भविष्यति ॥ इदमस्तीत्कार्यं - मिदचोन्त्यात्पर इत्यचामन्त्यात्परो यथा स्यात् ॥ नैतदस्ति । घान्तादयं विधीयते तत्र नास्ति विशेषः - मिदचोन्त्यात्पर इति वा(1) परत्वे प्रत्ययः पर इति वा परत्वे ॥ अथापि कथं चिदित्कार्यं स्यादेवमपि न दोषः - क्रियते न्यास एव ॥ अथ वाऽस्त्वस्य ग्रहणं को दोषः ? ॥ इह-पचतितरां जल्पतितरां, - ह्रस्वनद्यापो नुडिति, नुट्प्रसज्येत ॥ लोपे कृते न भविष्यति ॥ इदमिह संप्रधार्थं लोपः क्रियतां नुडिति, किमत्र कर्तव्यम् ? ॥ परत्वान्नुट् ॥ एवं तर्हि ह्रस्वनद्यापो नुडित्यत्र यस्येति लोपोऽनुवर्तिष्यते ॥ अथास्य कस्मान्न भवति ङेराम्नद्याम्नीभ्यइति ? ॥ किं च स्यात् ? ॥ कुमार्यां किशोर्यां खट्वायां मालायां तस्यां यस्यामिति, - ह्रस्वनद्याप नुडिति नुट्प्रसज्येत ॥ आड्याट्स्याटोऽत्र बाधका भविष्यन्ति ॥ इदमिह संप्रधार्यम् - आड्याट्स्याटः क्रियन्तां, नुडिचि, - किमत्र कर्तव्यम् ? ॥ परत्वादाड्याट्स्याटः ॥ अथेदानीमाड्याट्स्याट्त्सु कृतेषु पुनः प्रसङ्गान्नुट्कस्मान्न भवति ? ॥ सकृद्गतौ विप्रतिषेधे यद्बाधितं तद्बाधितमेवेति ॥ (ह्रस्वनद्यापो) ॥ Kashika ------- त्रि इत्येतस्य आमि परे त्रय इत्ययमादेशो भवति। त्रयाणाम्। त्रीवामित्यपि छन्दसीष्यते। त्रीणामपि समुद्राणामिति॥ Siddhanta Kaumudi ----------------- त्रिशब्दस्य त्रयादेशः स्यादामि । त्रयाणाम् । परमत्रयाणाम् । गौणत्वे तु नेति केचित् । प्रियत्रीणाम् । वस्तुतस्तु प्रियत्रयाणाम् । त्रिषु । द्विशब्दो नित्यं द्विवचनान्तः ॥ Laghu Siddhanta Kaumudi ----------------------- त्रिशब्दस्य त्रयादेशः स्यादामि। त्रयाणाम्। त्रिषु। गौणत्वेऽपि प्रियत्रयाणाम्॥ Balamanorama ------------ **त्रेस्त्रयः** - त्रेस्त्रयः । 'आमि सर्वनाम्नः' इत्यतआमी॑त्यनुवर्तते । तदाह — त्रिशब्दस्येति । अनेकाल्त्वात्सर्वादेशः । नुट् दीर्घश्च । तदाह — त्रयाणामिति । 'त्रेरयङ्' इति तु नोक्तम्, अयङ् अनङित्यादिवन्ङकारात्पूर्वस्याऽकारस्योच्चारणार्थत्वाशङ्काप्रसङ्गात् । अङ्गाधिकारस्थत्वात् । 'पदाङ्गाधिकारे' इति परिभाषयात्रे॑रिति तदन्तग्रहणमित्यभिप्रेत्योदाहरति — परमत्रयाणामिति । परमाश्च ते त्रयश्चेति विग्रहः । प्रियास्त्रयो यस्येति प्रियत्रिशब्दो बहुव्रीहिः । तस्यान्यपदार्थप्रधानत्वादेकद्वि बहुवचनानि सन्ति । अतो हरिवत्तस्य रूपाणि ।तत्र त्रयादेशमाशह्क्याह — गौणत्वे त्विति । त्रिशब्दस्योपसर्जनत्वे 'त्रेस्त्रयः' इति न भवतीति केचिदाहुरित्यर्थः ।गौणमुख्ययोर्मुख्ये कार्यसंप्रत्ययः॑ इति न्यायादिति भावः । वस्तुतस्त्विति ।प्रियत्रयाणा॑मित्येव रूपं वस्तुत्वेन ज्ञेयमित्यर्थः । प्रामाणिकमिति यावत् । गौणमुख्यन्यायस्त्वत्र न प्रवर्तते, तस्य पदकार्य एव प्रवृत्तेः । अत एवोपसर्जनानां सर्वनामत्वप्रतिषेध आरब्धो वार्तिककृता । अत एव चप्रियतिसे॑त्यादौ त्रिरुआआदयो भाष्ये उदाहृताः सङगच्छन्त इत्यन्यत्र विस्तरः ।अथ द्विशब्दे विशेषमाह — द्विशब्द इति । तस्य द्वित्वनियतत्वादिति भावः । Tattvabodhini ------------- **त्रेस्त्रयः** - त्रेस्त्रयः ।त्रे॑रिति षष्ठी न तु पञ्मी ।त्रय॑इत्यदन्तं न तु सान्तं,निजां त्रायाणां॑मिति निर्देशादित्यमिप्रेत्याह — त्रिशब्दस्य त्रयादेश इति ।ननु निजां त्रयाणा॑मिति निपातनादेवत्रयादेशे सिद्र्ध किमनेन सूत्रेणेति चैन्मैवम् ।अबाधकान्यपि निपातनानि भवन्ती॑त्यनेन ज्ञापनात् । तेनपुरातन॑मिति सिध्यति । अन्यथापुराणप्रोक्तेषु — ॑इति निपातनादेतद्बाध्येत ।त्रेरय॑ङित्येव न सूत्रितम् । तत्करोति आचष्टे वेत्यर्थंतत्करोति॑इत्यादिना णिचि ततः क्विपिप्रकृत्यैकाजि॑ति प्रकृतिभावाट्टिलोपाऽभावेह्रस्वस्य पिती॑तु तुकित्रित् । ततो बहुत्वविवक्षायामामि कृते त्रेरयङित्रयाणा॑मिति रूपाऽसिद्धेः । न चवार्णादाङ्गं बलीयः॑इति तुकः प्रागेवायं स्यादिति शङ्क्यम्, युगपत्प्रवृत्तावेवाऽऽङ्गस्य बलीयस्त्वात् । केचिदिति ।त्रेः संबंन्धिन्यामी॑ति विज्ञानाद्गौणत्वेऽपि त्रयादेशो न भवतीति तेषामाशयः । वस्तुतस्त्विति । अर्थप्राधान्यबोधकस्य बहुवचनस्याऽभावाद्गणत्वेऽपि त्रयादेशो न्याय्यः, प्रियास्थ्नेत्यादावस्थ्याद्यनङ्वदिति भावः । Padamanjari ----------- त्रेरिति षष्ठी, न पञ्चमी, णिजां त्रयाणाम् इति निर्देशात् ॥ Nyaas ----- **ह्रस्वनद्यापो नुट्** (7.1.54) इति प्राप्ते वचनम्। `त्रयाणाम्` इति। `सुपि च` (7.3.102) इति दीर्घः। ननु च `णिजां त्रयाणां गुणः श्लौ` (7.4.75) इति निपातनादेव सिद्धम्, तत्किमर्थमिदमारभ्यते? एवं सिद्धे सतीदमारभ्यमाणमेतज्ज्ञापयति - `अबाधकान्यपि निपातनानि भवन्ति (पु।प।वृ।99) इति, तेन पुरातनमिति सिद्धं भवति; अन्यथा `पुराणप्रोक्तेषु` (4.3.105) इति निपातनेन बाधित्त्वान्न सिध्यति।`त्रीणामपीष्यते छन्दसि` इति। एतच्चापीत्यधिकाराद्वा, `सर्वे विघयश्छन्दसि विकल्प्यन्ते (पु।प।वृ।56) इति वा लभ्यते॥ Praudhamanorama --------------- **वस्तुतस्त्विति।** अर्थप्राधान्यबोधकस्य बहुवचनस्याभावात् गौणत्वेऽपि त्रयादेशो न्याय्यः अस्थ्याद्यनङ्वदिति भावः। **अकारो वक्तव्य इति।** तथा च बहुत्वाभावे औडुलोमिशब्द इकारान्तः। बहुत्वे तु अकारान्त उडुलोमिशब्दस्य इदन्तस्य बहुत्वे अदन्तत्वमिति न भ्रमितव्यम्। ॥ इति इदन्ताः ॥ **किदिति।** तेन 'आतो लोप इटि च' इत्यालोप इति भावः। Prakriyasarvasvam ----------------- त्रेरामि त्रयादेशः स्यात् । नुड्दीर्घौ । त्रयाणाम् । त्रिषु ॥ ईदन्तस्तु बाहुलकादौणादिक ईप्रत्यये देवान् यजन् देवयजीरिति प्रसादे । सौ देवयजीः ॥ Sarala ------ गौणत्वेऽपीति । **आमि सर्वनाम्नः सुट्** (७.१.५२) इत्यतः "आमी"त्यनुवर्त्तते, तदाह - **आमीति** । गौणमुख्यन्यायस्तु पदकार्ये एव प्रवर्त्तते, न प्रातिपदिककार्ये इति भावः ॥ Sudha ----- **त्रस्त्रय इति ।** **आमि सर्वनाम्नः सुट्**(7.1.52) इत्यत आमीत्यनुवर्तते, तदाह - **त्रिशब्दस्येत्यादिना । त्रयाणाम् ।** त्रिशब्दात् षष्ठीबहुवचनविवक्षायाम् आमि कृते सति 'त्रि - आम्' इति स्थिते **त्रेस्त्रयः** (7.1.53) इति त्रिशब्दस्य त्रयादेशे कृते **ह्रस्वनद्यापो नुट्**(7.1.54) इति नुटि **नामि**(6.4.3) इति दीर्घे **अट्कुप्वाङ्नुम्व्यवायेऽपि**(8.4.2) इति णत्वे "त्रयाणाम्" इति रूपम् । **गौणत्वेऽपि प्रियत्रयाणामिति ।** ननु अत्र <ऽगौणमुख्ययोर्मुख्ये कार्ये सम्प्रत्ययःऽ> इति न्यायात् त्रिशब्दस्याऽन्यपदार्थे विशेषणत्वेन गौणत्वात् प्रियत्रयाणामित्यत्र **त्रेस्त्रयः** (7.1.53) इति त्रयादेशो न स्यादिति चेद्, न । तस्य पदकायें एव प्रवृत्तेः । अत एव उपसर्जनानां सर्वनामत्वप्रतिषेध आरब्धो वार्तिककृतेति सङ्गच्छत इति दिक् ।