71051: अश्वक्षीरवृषलवणानामात्मप्रीतौ क्यचि ========================================== **Padacheda:** अश्व-क्षीर-वृष-लवणानाम् | S | 6 | 3 | आत्मप्रीतौ | S | 7 | 1 | क्यचि | S | 7 | 1 | Sutrartha --------- **** Vasu English Summary -------------------- The same augment अस् (असुक्) is added after the words 1. अश्व 2. क्षीर 3. वृष and 4. लवण before the Denominative affix क्यचि when the delight of the subject in these things is to be expressed. Vasu English Translation ------------------------ The same augment अस् (असुक्) is added after the words 1. अश्व 2. क्षीर 3. वृष and 4. लवण before the Denominative affix क्यचि when the delight of the subject in these things is to be expressed. The *anuvritti* of छन्दसि does not extend to this *sutra* or any further. Thus अश्वस्यति वडवा, क्षीरस्यति माणवकः, वृषस्यति गौः, लवणस्यत्युष्ट्रः ॥ अश्व + अस् + य + ति = अश्वस्यति (6.1.97). Why 'when the delight of the subject is meant'? Observe अश्वीयति, क्षीरीयति, वृषीयति and लवणीयति ॥ Vart:- After अश्व and वृष, the force of the augment is that of desiring sexual connection. Vart:- After क्षीर and लवण it has the force of ardently wishing for, i. e. an intense thirsting after the thing. The augment is not added, though the sense may be that of delight, if it has not the above meanings. Others say Vart:- असुक् should be added after every nominal stem when the sense is that of intense yearning after that thing: as दध्यस्यति, मध्वस्यति &c. Others say Vart:- That the augment सुक् should be added, as दधिस्यति, मधुस्यति &c. Bhashya ------- अश्वक्षीरवृषलवणानामात्मप्रीतौ क्यचि ॥ अश्ववृषयोर्मैथुनेच्छायाम् ॥ अश्ववृषयोर्मैथुनेच्छायामिति वक्तव्यम् । अश्वस्यति वडवा । वृषस्यति(2) गौः ॥ मैथुनेच्छायामिति किमर्थम् ? ॥ अश्वीयति वृषीयति ॥ 8 ॥ क्षीरलवणयोर्लालसायाम् ॥ क्षीरलवणयोर्लालसायामिति वक्तव्यम् । क्षीरस्यति माणवकः । लवणस्यति उष्ट्र इति ॥ अपर आह - ॥ (सर्वप्रातिपदिकेभ्यो(3) लालसायाम् ॥) सर्वप्रातिपदिकेभ्यो लालसायामिति वक्तव्यम् । दध्यस्यति मध्वस्यतीत्येवमर्थम् ॥ अपर आह ( ॥ सर्वप्रातिपदिकेभ्यो(2) लालसायां सुक् ॥ सर्वप्रातिपदिकेभ्यो लालसायां ) सुग्वक्तव्यो दधिस्यति मधुस्यतीत्येवमर्थम् । ( अश्वक्षीरवृष ) ॥ Kashika ------- छन्दसीत्यतः प्रभृति निवृत्तम्। अश्व क्षीर वृष लवण इत्येतेषामङ्गानामात्मप्रीतिविषये क्यचि परतोऽसुगागमो भवति। अश्वस्यति वडवा। क्षीरस्यति माणवकः। वृषस्यति गौः। लवणस्यत्युष्ट्रः। आत्मप्रीताविति किम्? अश्वीयति। क्षीरीयति। वृषीयति। लवणीयति॥ अश्ववृषयोर्मैथुनेच्छायामिति वक्तव्यम्॥ क्षीरलवणयोर्लालसायामिति वक्तव्यम्॥ तृष्णातिरेको लालसा। अन्यत्रात्मप्रीतावपि न भवति। अपर आह॥ सर्वप्रातिपदिकेभ्यो लालसायामसुग् वक्तव्यः॥ दध्यस्यति, मध्वस्यति इत्येवमाद्यर्थम्। अपर आह॥ सुग् वक्तव्यः॥ दधिस्यति, मधुस्यति इत्येवमाद्यर्थम्॥ Siddhanta Kaumudi ----------------- एषां क्यचि असुगागमः स्यात् । (वार्तिकम्) ॥ अश्वस्यति वडवा । वृषस्यति गौः ॥ (वार्तिकम्) ॥ क्षीरस्यति बालः । लवणस्यति उष्ट्रः । (वार्तिकम्) ॥ दधिस्यति । दध्यस्यति । मधुस्यति । मध्यवस्यति ॥ Balamanorama ------------ **अश्वक्षीरवृषलवणानामात्मप्रीतौ क्यचि** - अआक्षीर क्यचि ।परे असु॑गिति शेषपूरणम्,आज्जसेरसु॑गित्यतस्तदनुवृत्तेरिति भावः । असुकि ककार इत्ुकार उच्चारणार्थः । कित्त्वादन्त्यावयवः । अआवृषयोरिति - वार्तिकम् । अआस्यति वडवेति । मैथुनार्थमआमिच्छतीत्यर्थः । वृषस्यति गौरिति । मैथुनार्थं वृषमिच्छतीत्यर्थः ।वृषस्यन्ती तु कामुकी॑ति कोशस्तु अआवृषरूपप्रकृत्यर्थपरित्यागेव मैथुनेच्छामात्रे लाक्षणिकः । क्षीरलवणयोरिति - वार्तिकम् । 'असु ' गिति शेषः । लालसा - उत्कटेच्छा । सर्वप्रातिपदिकानामिति । इदमपि वार्तिकम् । लालसायां सर्वेषां प्रातिपदिकानां क्यच् वक्तव्यः । तस्मिन् परे प्रकृतीनां सुगसुकौ च वक्तव्यौ इत्यर्थः । नचानेनैव वार्तिकेन सिद्धेक्षीरलवणयोर्लालसाया॑मिति वार्तिकं व्यर्थमिति शङ्क्यं,क्षीरलवणयोर्लालसाया॑मिति वार्तिकं व्यर्थमिति शङ्क्यं,क्षीरलवणयो॑रिति वार्तिकं कात्यायनीयं,सर्वप्रातिपदिकाना॑मिति तु मतान्तरमित्यदोषात् । एतच्च भाष्येअपर आहे॑त्यनेन ध्वनितम् । Tattvabodhini ------------- **अश्वक्षीरवृषलवणानामात्मप्रीतौ क्यचि** - अआक्षीर ।आज्जसे॑रित्यतोऽसुगिति वर्तते ।* अआवृषयोर्मैथुनेच्छायाम् । अआस्यतीति । मैथुनार्थमआमिच्छतीत्यर्थः एवं मैथुनार्थं वृषमिच्छति वृषस्यति गौः । ननुइति रामो वृषस्यन्ती॑मिति प्रयोगो मनुष्यविषये कथं सङ्गच्छत इति चेत् । अत्राहुः — अआवृषरूपप्रकृत्यर्थपरित्यागेन मैथुनेच्छैवार्थः, अतएववृषस्यन्ती तु कामुकी॑ति कोशोऽपि स्वरसतः सङ्गच्छते इति । *लवणयोर्लालसायाम् । लालसायामिति । उत्कटेच्छायामित्यर्थः । Nyaas ----- `आत्मप्रीतौ` इति। विषयसप्तमीयम्। अत एवाह - `आत्मप्रीतिविषये क्यचि` इति। आत्मप्रीतिर्विषयो यस्य क्यचः स तथोक्तः। `अआस्यति` इति। आत्मनोऽआमिच्छतीति `सुपः आत्मनः क्यच्` (3.1.8) अनेनासुक्, अतो गुणे` (6.1.94) पररूपत्वम्। एवं `क्षीरस्यति` इत्यादावपि वेदितव्यम्। सर्वत्रात्मप्रीतिविषये क्यच्। यो ह्रात्मनोऽआआदिकमिच्छति स नियोगत आत्मनः प्रोत्यर्थमिच्छति। यद्येवम्, इच्छायां क्यच्विधीयमानः सर्वत्रात्मप्रीतिविषये भविष्यतीतीच्छायां वक्तव्यम्? प्रसिद्ध्युपसंग्रहार्थमात्मप्रीताविति लौकिकस्यार्थस्योपादानम्, तेन यत्रात्मप्रीतावसुग्लोके प्रयुज्यते तत्रैव भवति, नान्यत्र। तेनाआवृषयोर्मैथुनेच्छायां क्षीरलवणयोर्लालसायामित्युपपन्नं भवति। `अआईयति` इति। अआमिवाचरतीति **उपमानादाचारे** (3.1.10) इति क्यच्, **क्यचि च** (7.4.33) इतीत्त्वम्। `अआवृषयोः` इत्यादि। ` अआवृष्योर्मेथुनेच्छायामसुग्भवति` इत्येतदर्थरूपं व्याख्येयमित्यर्थः। `क्षीरलवणयोः` इत्यादि। वक्तव्यमित्येतदपेक्षते। `क्षोरलवणयोर्लालसायामसुग्भवति` इत्येतदर्थरूपं व्याख्येयमित्यर्थः। व्याख्यानं तु कृतमेव। `अन्यत्रात्मप्रीतावपि न भवति` इति। आत्मनोऽआआदिकमिच्छत्यआईयतीति। लवणीयति। `तृष्णातरेकः` इति। तृष्णाया अतिरेकः=अतिशयः, प्रकर्षः, अधिक्यमित्यर्थ-॥ Vartika ------- अश्ववृषयोर्मैथुनेच्छायामिति वक्तव्यम् । Sutra Prayogas -------------- * **वृषस्यन्तीं** (रघुवंशम्): `अश्वक्षीरवृषलवणानामात्मप्रीतौ क्यचि` इत्यसुगागमः। * **वृषस्यन्ती** (भट्टिकाव्यम्): `अश्व-क्षीर-` इति क्यच्।