71040: अमो मश् ============== **Padacheda:** अमः | S | 6 | 1 | मश् | S | 1 | 1 | Sutrartha --------- **** Vasu English Summary -------------------- For the personal ending अम् of the 1st person singular (in the Aorist) म -- अनेकाल्शित्सर्वस्य (1.1.55) is substituted in the छन्दस् (Vedas). Vasu English Translation ------------------------ For the personal ending अम् of the 1st person singular (in the Aorist) म -- अनेकाल्शित्सर्वस्य (1.1.55) is substituted in the छन्दस् (Vedas). The अम् here is the substitution of मिप्, and not the accusative singular affix. As वर्धी वृत्रम् (for अवधिपम्) *Rig* I.165.8: क्रमीम् वृक्षस्य शाखाम् ॥ The अट् augment is diversely elided (6.4.75). The indicatory श् of मश् shows that the whole of the affix अम् is to be replaced. The substitution of म् for म् is to prevent the change of म् into *anusvara* as in (8.3.25). Bhashya ------- अमो मश् किमर्थः शकारः ? ॥ ( ॥ शकारः(2) सर्वादेशार्थः ॥ ) ठशित्सर्वस्येति सर्वादेशो यथा स्यात् । अक्रियमाणे हि शकारेऽलोन्त्यस्य विधयो भवन्तीत्यन्त्यस्य प्रसज्येत ॥ अत उत्तरं पठति - ॥ अमो(3) मश् न मकारस्य ॥ 8 ॥ मकारस्य मकारवचने(4) प्रयोजनं नास्तीति कृत्वा तत्राऽन्तरेण शकारं सर्वादेशो भविष्यति ॥ वचनादन्यबाधनम् ॥ 8 ॥ अस्त्यन्यन्मकारस्य मकारवचने प्रयोजनम् ॥ ( किम्(2) ? ॥ अन्यबाधनम् ।) येऽन्ये मकारादेशाः प्राप्नुवन्ति तद्वाधनार्थम् । तद्यथा - मो राजि समः क्वाविति मकारस्य मकारवचनसार्मथ्यादनुस्वारादयो बाध्यन्ते ॥ एवं तर्हि ( ॥ द्विमकारको(2) निर्देशः ॥ ) द्विमकारको निर्देशः करिष्यते ॥ द्विमकार इर्डपृक्ते ॥ यदि द्विमकारकः - अपृक्ताश्रय इर्ण्न प्राप्नोति, - वधीं वृत्रं मरुत इन्द्रियेण । ॥ यकारादौ(1) न दुष्यति ॥ किं यकारो न श्रूयते ? ॥ लुप्तनिर्दिष्टो यकारः ॥ ॥ अमो मश्न मकारस्य वचनादन्यबाधनम् । द्विमकार इर्डपृक्ते यकारादौ न दुष्यति ॥ 1 ॥ ॥ Kashika ------- अम् इति मिबादेशो गृह्यते। तस्य छन्दसि विषये मशादेशो भवति। वधीं॑ वृ॒त्रम् (ऋ०१.१६५.८)। क्रमीं वृक्षस्य शाखाम्। लुङि **बहुलं छन्दस्यमाङ्योगेऽपि**(६.४.७५) इत्यडागमाभावः। शित्करणं सर्वादेशार्थम्। मकारस्यापि हि मकारवचनमनुस्वारनिवृत्त्यर्थं स्यात्॥ Siddhanta Kaumudi ----------------- मिबादेशस्यामो मश् स्यात् । अकार उच्चारणार्थः । शित्त्वात्सर्वादेशः । अस्तिसिचः-(SK2225) इतीट् । वंधीं वृत्रम् (वंधीं॑ वृ॒त्रम्) । अवधिषमिति प्राप्ते ॥ Padamanjari ----------- अमिति मिबादेशो गृह्यत इति । द्वितीयैकवचनस्य ग्रहणं न भवति च्छन्दसि दृष्टानुवधानाद्वक्ष्यमाणेषु बाहुल्येन तिङ निर्द्देशात् । वधीमिति । हन्तेर्लुङ्, लुङ् चि इति वधादेशः, च्लेः सिच्, इट्, मिपोऽम्भावः, तस्य मश् - अकार उच्चारणार्थः, अस्तिसिचोऽपृक्ते इतीट्, इट ईटि इति सिचो लोपः, सवर्णदीर्घत्वम् । शित्करणं सर्वादेशार्थमिति । अन्यथा हि अलोऽन्त्यस्य इति मकारत्य मकारवचने प्रयोजनाभावात्सर्वादेशो भविष्यति, अत आह - मकारस्यापीति । यथा मो राजि समः कौ इत्यत्रेति भावः । पञ्चमीनिर्द्देशाभावातु आदेः परस्य इत्येतन्न भवति । अथोच्यते - द्विमकारकोऽयं निर्द्देशः करिष्यते, तत्रैकस्य संयोगान्तलोपेऽपि वधीमित्यादि सिद्धमिति एवमपि लाघवे नास्ति विशेषः । किञ्चसंयोगान्तलोपस्यासिद्धत्वादपृक्तलक्षण ईट् एव स्यात् । एवं तर्हि यकारादिः करिष्यते, किम् यकारो न श्रूयते, बलि लुप्तनिर्द्दिष्टो यकारः नात्र किञ्चित् प्रम, णमस्ति, तस्माच्छित्करणम् ॥ Nyaas ----- `अमिति मिबादेशो गृह्रते` इति द्वितीयैकवचनाशङ्कां निराकारोति। द्वितीयैकवचनस्याग्रहणम्; छन्दसि यथादृष्टानुविधानात्। अपिशब्दानुवृत्तेर्वा, तदनुवृत्तौ ह्रेषं सम्बन्धः क्रियते - अमो मश्च भवति, अपिशब्दात्? क्वचिच्छ्रवणमपीति। `वधीम्` इति। हन्तेर्लुङ, `चलेः सिच्` (3.1.44) सिप्, तस्य `तस्थस्थ` (3.4.101) इत्यादिनाऽम्, तस्य मशादेशः - अकार उच्चारणार्थः, `लुङि च` (2.4.43) इति हन्तेर्वधादेशा, `आर्धधातुकस्य` (7.2.35) इत्यादिनेट्? **अस्तिसिचोऽपृक्ते** (7.3.96) इतीट्? `इट ईटि (8.2.28) इति सिचो लोपः, सवर्णदीर्घतद्वलम्। `क्रमीम्` इति। `क्रमु पादविक्षेपे` (धातुपाठः-473) सर्वं पूर्ववत्। अयमत्र विशेषः - **स्नुक्रमोरनात्मनेपदनिमित्ते** (7.2.36) इतीट्। अवधिवम्, अक्रमिषमिति प्राप्ते। `शित्ककरणं सर्वादेशार्थम्` इति। असति तस्मिन्? **अलोऽन्त्यस्य** (1.1.52) स्यादिति भावः। ननु च मकारस्य मकारवचने प्रयोजनं नास्तीत्यन्तरेणापि शकारं सर्वादेशो भविष्यति? इत्याह - `मकारस्य` इत्यादि। अस्ति हि मकारविधाने प्रयोजनम्। किं तत्? **मोऽनुस्वारः** (8.3.23) प्राप्नोति; स मा भूदिति। सत्येतस्मिन्? प्रयोजने यदि शकारो न क्रियेत, तदाऽन्त्यस्यैव स्यात्, न स्यात्, न सर्वस्य। तस्मात्? सर्वादेशार्थः शकारः कर्तव्यः॥ Prakriyasarvasvam ----------------- भिवादेशस्यामो मश् स्यात् । अकार उच्चारणार्थः । अवधिषमिति प्राप्ते*वधीं वृत्रम् । अक्रमिषमिति प्राप्ते आपौ मूर्धानमक्रमीम् । अस्ति सिच्- इत्यपृक्तत्वादीट् । इट इटीति सिज् लोपः ।