71029: शसो न ============ **Padacheda:** शसः | S | 6 | 1 | न | S | | | 1 Sutrartha --------- **** Vasu English Summary -------------------- न् is substituted for स् of अस् the affix of the Accusative -2nd case plural after the अङ्ग (stems) युष्मद् and अस्मद्। Vasu English Translation ------------------------ न् is substituted for स् of अस् the affix of the Accusative -2nd case plural after the अङ्ग (stems) युष्मद् and अस्मद्। As युष्मान् and अस्मान् (द् elided by (7.2.90), and lengthening by VII.2.87). युष्मान् ब्राह्मणान् । अस्मान् ब्राह्मणान् । युष्मान् ब्राह्मणीः । अस्मान् ब्राह्मणीः । युष्मान् कुलानि । अस्मान्कुलानि ॥ Kashika ------- युष्मदस्मद्भ्यामुत्तरस्य शसो नकारादेशो भवति। युष्मान् ब्राह्मणान्। युष्मान् ब्राह्मणीः। अस्मान् ब्राह्मणीः। युष्मान् कुलानि। अस्मान् कुलानि॥ Siddhanta Kaumudi ----------------- नेत्यविभक्तिकम् । युष्मदस्मद्भ्यां परस्य शसो नकारः स्यात् । अमोपवादः । आदेः परस्य (SK44) । संयोगान्तस्य लोपः (SK54) । युष्मान् । अस्मान् ॥ Laghu Siddhanta Kaumudi ----------------------- आभ्यां शसो नः स्यात्। अमोऽपवादः। आदेः परस्य। संयोगान्तलोपः। युष्मान्। अस्मान्॥ Balamanorama ------------ **शसो न** - अथ शसि विशेषमाह — शसो न । 'ङे प्रथमयोः' इत्यतोऽमित्यनुवर्तते । युष्मदस्मद्भ्यामिति च । युष्मदस्मद्भ्यां परस्य शसोऽम् न स्यादिति लभ्यते । तथाच अमभावेद्वितीयायां चे॑त्यात्वे पूर्वसवर्णदीर्घेतस्माच्छस नः पुंसी॑ति नत्वे युष्मानिति यद्यपि पुंसि रूपं सिध्यति तथापि युष्मान् ब्राआहृणैइः पश्य, अस्मान्ब्राआहृणीः पश्य, युष्मान् ब्राआहृणकुलानि पस्य, असमान् ब्राआहृणकुलानि पस्येति स्त्रीनपुंसकयोर्न सिध्येत । अतो नेदं सूत्रं शसोऽम्निषेधपरं, किं तु शसो नकारोऽत्र विदीयते इत्यभिप्रेत्य — तर्हि 'शसो न' इति प्रथमा कुतो न श्रूयते इत्याशङ्क्यच आह — नेत्यविभक्तिकमिति । लुप्तप्रथमाविभक्तिकमित्यर्थः । ततस्च फलितमाह — युष्मदस्मद्भ्यामित्यादिना । अमोऽपवाद इति । 'ङे प्रथमयोः' इति प्राप्ते एव नत्वविधेस्तदपवादता । युष्मद् अस्, अस्मद् अस् इति स्थितेद्वितीयायां चे॑त्यात्वेऽनेन शसो नकारः । स चअलोऽन्त्यस्ये॑ति नान्त्यस्येत्याह — आदेः परस्येति । संयोगान्तस्येति । अकारस्य नकारे कृते सकारस्य लोप इति भावः । यद्यपि शसोऽमि कृतेऽपि अकारस्य नकारे मकारस्य संयोगान्तलोपे युष्मान् अस्मानिति सिध्यति, तथापिसत्यपि सम्भवे बाधनं भवती॑ति न्यायान्नत्वस्य अमपवादत्वमाश्रितम् । किंच अमि कृते 'ङे प्रथमयोः' इत्यत्र मकारान्तरप्रश्लेषपक्षे अकारस्य नकारे मकारस्य संयोगान्तलोपो न स्यादित्यलम् । अथ तृतीया । युष्मद् आ अस्मद् आ इति स्थिते- । Padamanjari ----------- नेत्यविभक्तिको निर्द्देशः, तथा च पूर्वसूत्रेण प्राप्तस्यायममः प्रतिषेध इति माष्ये शङ्कितम् - कः पुनः प्रतिषेधे सति दोषः, यावताऽमि प्रतिषिद्धे योऽचि इति यत्वे च द्वितीयायां इत्यात्वे कृते प्रथमयोः पूर्वस्यर्णदीर्घत्वे कृते तस्माच्छसो नः पुंसि इति नत्वे च युष्मानिति सिद्ध्यत्येव सत्यं पुंसि सिद्ध्यति स्त्रीनपुंसकयोस्तु न सिद्ध्यति, तदिदं दर्शितम् - युष्मान् अस्मान् ब्राह्मणीरित्यादि । अलिङ्गे वा युष्मास्मदी इति । लिङ्गानुशासने तथा पाठात् । उदाहरणे तु आदेः परस्य इत्यकारस्य नकारे सकारस्य संयोगान्तलोपः ॥ Nyaas ----- पूर्वेणामादेशे प्राप्ते शसो न विधीयते। `युष्मान्? ब्राआहृणान्। अस्मान्? ब्राआहृणान्` इति। **आदेः परस्य** (1.1.54) इत्यकारस्य नकारः, संयोगान्तलोपः, पूरववदात्त्वम्। ननु चैतदुदाहरणद्वयममादेशे कृत आत्त्वे च **प्रथमयोः पूर्वसवर्णः** (6.1.102) इति दीर्घत्वे च **तस्माच्छसो नः पुंसि** (6.1.103) इति नत्वेमैव सिध्यति? नैतदस्ति; न ह्यत्र पूर्वसवरणदीर्घत्वं प्राप्नोति, अमिपूर्वत्वेन बाधितत्वात्॥ Praudhamanorama --------------- **अविभक्तिकमिति।** तथा च 'ङे प्रथमयोः' इति पूर्वसूत्रेण प्राप्तस्याऽमः प्रतिषेधोऽयमिति भाष्ये शङ्कितम्। न च तथैव किं न स्यादिति वाच्यम्? स्त्रीनपुंसकयोर्नत्वाप्राप्तेः- युष्मान् ब्राह्मणीः कुलानि वा, अलिङ्गत्वे युष्मान् ब्राह्मणानित्यादेरसिद्धिप्रसङ्गाच्च। Prakriyasarvasvam ----------------- आभ्यां परस्य शसो नत्वं स्यात् । अमोऽपवादः । 'आदेः परस्य' (१-१-५४) इत्यकारस्य । युष्मान् स् । अस्मान् स् । संयोगान्तलोपः । युष्मान् । अस्मान् ॥ Sudha ----- शसो न इति । न इति लुप्तप्रथमाविभक्तिकमिति यावत् । युष्मान्, अस्मान् । युष्मद् + शस् अस्मद् + शस् इत्यत्र **लशक्वतद्धिते**(1.3.8) इति शस्येत्संज्ञायां लोपे च **शसो न**(7.1.29) इति नादेशे **तस्मादित्युत्तरस्य**(1.1.67) इत्यनेनोत्तरस्य सर्वस्य प्राप्ते **आदेः परस्य**(1.1.54) इति आद्याकारस्य जाते 'युष्मद् + न् स्' 'अस्मद् + न् स्' इति भूते **संयोगान्तस्य लोपः**(8.2.23) इति स् लोपे **द्वितीयायां च**(7.2.87) इत्यन्तस्य द् मात्रस्य आकारे **अकः सवर्णे दीर्घः**(6.1.101) इति पूर्वपरयोः स्थाने दीर्घादेशे 'युष्मान्' 'अस्मान्' इति रूपम् ।