71024: अतोऽम् ============= **Padacheda:** अतः | S | 5 | 1 | अम् | S | 1 | 1 | Sutrartha --------- **अकारान्त-नपुंसकलिङ्गशब्दात् परस्य प्रथमा-द्वितीया-एकवचनस्य सुँ/अम्-प्रत्यययोः अम्-आदेशः भवति ।** अकारान्तनपुंसकात् अङ्गात् परस्य सु-अम्-प्रत्यययोः **स्वमोर्नपुंसकात्** (7.1.23) इत्यनेन लुक्-प्राप्ते अपवादत्वेन वर्तमानसूत्रेण तयोः अम्-आदेशः भवति । यथा - फल + सुँ / अम् इति स्थिते - → फल + अम् [ **स्वमोर्नपुंसकात्** (7.1.23) इति लुक्-प्राप्ते अपवादत्वेन **अतोऽम्** (7.1.24) इति अम्-आदेशः] → फलम् [**अकः सवर्णे दीर्घः** (6.1.101) इत्यनेन सवर्णदीर्घे प्राप्ते ; विप्रतिषेधेन **प्रथमयोः पूर्वसवर्णः** (6.1.102) अनेन पूर्वसवर्णदीर्घे प्राप्ते ; विप्रतिषेधेन **अमि पूर्वः** (6.1.107) इति पूर्वसवर्ण-एकादेशः] ज्ञातव्यम् - 1) अम्-इति अनेकाल्-आदेशः अस्ति, अतः **अनेकाल् शित् सर्वस्य** (1.1.55) इत्यनेन सर्वादेशः भवति । 2) अस्मिन् सूत्रे 'अतः' इति तकारः केवलं उच्चारार्थः अस्ति । एतत् तपरकरणम् नास्ति, यतः **ह्रस्वो नपुंसके प्रातिपदिकस्य** (1.2.47) इत्यनेन दीर्घ-आकारान्त नपुंसकलिङ्गशब्दाः भवितुम् न अर्हन्ति । प्रश्नः - अनेन सूत्रेण द्वितीया-एकवचनस्य अम्-प्रत्ययस्य पुनः अम्-इत्येव आदेशः दीयते । किमर्थम्? उत्तरम् - यदि अनेन सूत्रेण अम्-प्रत्ययस्य अम्-आदेशः न अभविष्यत्, तर्हि औत्सर्गिकरूपेण **स्वमोर्नपुंसकात्** (7.1.23) अनेन सूत्रेण नपुंसकात् परस्य अम्-प्रत्ययस्य लुक् अभविष्यत् । एवं सति फल + अम् = फल इति अशुद्धं रूपं अजनिष्यत । तत् तथा मा भूत्, अतः अत्र अम्-प्रत्ययस्य पुनः अम्-आदेशः आवश्यकः । उपप्रश्नः - तर्हि अम्-इत्यस्य 'म्' इति एकाल्-आदेशः किमर्थम् न कृतः? उत्तरम् - यदि अम्-इत्यस्य 'म्' अयम् एकालः आदेशः अभविष्यत्, तर्हि **आदेः परस्य** (1.1.54) इत्यनेन एषः आदेशः अम्-प्रत्ययस्य अकारस्य स्थाने अभविष्यत् । तदा 'फल + अम् → फल + म् म्' अस्यामवस्थायाम् **सुपि च** (7.3.102) इत्यनेन अङ्गस्य दीर्घः अभविष्यत् । ततः च **संयोगान्तस्य लोपः** (8.2.23) इत्यनेन मकारलोपं कृत्वा 'फलाम्' इति रूपमभविष्यत् । तत् तथा मा भूत्, अतः अम्-इति अनेकाल् आदेशः आवश्यकः । Sutrartha (English) ------------------- The सुँ and अम् attached to an अकारान्त नपुंसक अङ्ग are converted to अम्. Vasu English Summary -------------------- After a neutral अङ्ग (stem) अ , अम् is substituted for सु and अम् , the Nominative 1st-Case and Accusative -2nd case endings. Vasu English Translation ------------------------ After a neutral अङ्ग (stem) अ , अम् is substituted for सु and अम् , the Nominative 1st-Case and Accusative -2nd case endings. As कुण्डं तिष्ठति, कुण्डं पश्य ॥ So also वनम्, पीठम् ॥ Why do we not say "म् is substituted"? कुण्ड + म् = कुण्डाम्, thus there would be lengthening if only म् was taught (7.3.101), while कुण्ड + अम् = कुण्डम् (the single substitution of the form of the antecedent by (6.1.107). Kashika ------- अकारान्ताद् नपुंसकादुत्तरयोः स्वमोरमित्ययमादेशो भवति। कुण्डं तिष्ठति। कुण्डं पश्य। वनम्। पीठम् । मकारः कस्माद् न क्रियते? दीर्घत्वं (७.३.१०२) प्राप्नोति॥ Siddhanta Kaumudi ----------------- अतोऽङ्गात् क्लीबात्स्वमोरम् स्यात् । अमि पूर्वः (SK194) । ज्ञानम् । एङ्ह्रस्वात् (SK193) इति हल्मात्रलोपः । हे ज्ञान ॥ Laghu Siddhanta Kaumudi ----------------------- अतोऽङ्गात् क्लीबात्स्वमोरम्। अमि पूर्वः। ज्ञानम्। एङ्ह्रस्वादिति हल्लोपः। हे ज्ञान॥ Balamanorama ------------ **अतोऽम्** - ज्ञानशब्दात्सुःस्वमोर्नपुंसका॑दिति तस्य लुकि प्राप्ते — अतोऽम् । 'अत' इति पञ्चमी ।अङ्गस्ये॑त्यधिकृतं पञ्चम्या विपरिणम्यते, 'अत' इत्यनेन विशेष्यते । तेन तदन्तविधिः ।स्वमोर्नपुंसका॑दित्यनुवर्तते । तदाह — अतोऽङ्गादिति । अदन्तादङ्गादित्यर्थः । ज्ञानमिति । सोरमि कृते अमि पूर्वरूपमिति भावः । अमोऽम्विधानं तुस्वमोर्नपुंसका॑दिति लुङ्निवृत्त्यर्थम् । ननु 'अतो-म्' इत्येवच्छेदोऽस्तु । सोर्मकारादेशे ज्ञानमिति सिद्धेः । अमि चआदेः परस्ये॑त्यकारस्य मकारेऽन्त्यस्य मकारस्य संयोगान्तलोपेनैव ज्ञानमिति सिद्धेरिति चेत्, मैवम्-एवं सति ज्ञानमित्यत्रसुपि चे॑ति दीर्घापत्तेः । न च अदन्तसंनिपातमाश्रित्य प्रवृत्तस्य मादेशस्य तद्विघातकदीर्घनिमित्तत्वं न संभवति, संनिपातपरिभाषाविरोधादिति वाच्यं,सुपि चे॑ति दीर्घे कर्तव्ये संनिपातपरिभाषाया अप्रवृत्तेरित्युक्तत्वादित्यलम् ।हे ज्ञानेति । हे ज्ञानस् इति स्थिते सोरमि कृते पूर्वरूपेएङ्ह्रस्वा॑दिति मकारलोपे हे ज्ञानेति रूपम् । नन्वेङ्ह्रस्वादित्यत्र संबुद्ध्याक्षिप्तस्य संबुद्धयैवान्वय उचितः, ततश्च एङन्ताध्यस्वान्ताच्चाङ्गात् परा या संबुद्धिस्तदवयवस्य हलो लोप इति लभ्यते । ततश्च प्रकृते पूर्वरूपे कृते तस्य पूर्वान्तत्वाश्रयणे ज्ञानेत्यदन्तमङ्गम् । ततः परा संबुद्धिर्नास्ति, मकारमात्रस्याऽसंबुद्धित्वात्, सुस्थानिकस्याम एव संबुद्धित्वात्, अद्र्धविकारेण एकदेशविकृतन्यायानवताराच्च । न च पूर्वरूपात्प्राक्एङ्ह्रस्वा॑दित्यस्य प्रवृत्तिः किं न स्यादिति वाच्यं, परत्वात्पूर्वरूपस्यैव पूर्वं प्रवृत्तेः । न च पूर्वान्तत्वात्पूर्वरूपस्याऽङ्गन्तर्भावाज्ज्ञानेत्यदन्तमङ्गम्, परादित्वाच्च अम् इत्यस्य संबुद्धित्वं चेत्याश्रित्य तदवयवहलो मकारमात्रस्यएङ्ह्रस्वा॑दिति लोपो निर्बाध इति वाच्यम्,उभयत आश्रयणे नान्तादिव॑दिति निषेधादित्यत आह — एङ्ह्रस्वादिति हल्मात्रलोप इति । पूर्वरूपे कृते संबुद्धेर्मकारमात्रं यत् परिशिष्टं तस्यएङ्ह्रस्वा॑दिति लोप इत्यर्थः । लक्ष्यानुरोधात्संबुद्ध्याक्षिप्तमङ्गं संबुद्धौ नान्वेति, किंतु संब#उद्ध्यवयवहल्येवान्वेति । ततश्च एङन्ताद्ध्रस्वान्ताच्चाङ्गात्परो यः संबुद्ध्यवयवहल् तस्य लोप इति लभ्यते । प्रकृते च पूर्वरूपे कृतेऽपि ह्रस्वान्तादङ्गात्परत्वं संबुद्ध्यवयवस्य मकारमात्रस्य अस्त्येवेति तस्यएह्ह्रस्वा॑दिति लोपो निर्बाध इत्यन्यत्र विस्तरः । Tattvabodhini ------------- **अतोऽम्** - अथाजन्ता नपुंसकलिङ्गाः । अतोऽम् ।अत॑इत्येतदधिकृतस्याऽङ्गस्य विशेषणं,स्वमोर्नपुंसका॑ — दिति चानुवर्तत इत्याशयेनाह -अतोऽङ्गादित्यादि । अदन्तादङ्गदित्यर्थः । स्वमोरिति । अमोऽम्विधानंस्वमोर्नपुंसका॑दिति प्राप्तस्य लुको बाधानार्थम् । अम्स्यादिति । यद्यपिम् इत्येवच्छित्त्वा सोर्मे कृते संनिपातपरिभाषयासुपि चे॑ति दीर्घत्वाऽप्रसक्त्याज्ञान॑मिति रूपं सिध्यिति । द्वितीयैकवचने तुआदेः परस्ये॑त्यकारस्य मकारे कृतेऽन्त्यस्य मस्य संयोगान्तलोपे सिद्धमिष्टम्, तथापिसंयोगान्तलोपो झलः॑इत्यभिप्रायेणेदं व्याख्यातम् ।यत्त्वाहुः — ॒अ॑मिति पदच्छेदाऽकरणेअतिजिरस॑मिति न सिध्यदिति, तद्रभसात् । सोरमि कृते संनिपातपरिभाषया जरसादेशस्याऽप्रवृत्त्याअतिजर॑मिति रूपस्यैवेष्यमाणत्वात् । द्वितीयैकवचने तुअतोऽ॑मिति बाधित्वा परत्वाज्जरसि कृते संनिपातपरिभाषया लिकोऽप्रवृत्तावतिजरसमिति रूपसिद्धेश्चेति दिक् । ज्ञानमिति । ज्ञप्तिज्र्ञानम् । ल्युट् ।युवोरनाकौ॑ ।॒कृत्ताद्धिते॑ति प्रातपदिकत्वात्स्वाद्युत्पत्तिः । हल्मात्रेति ।हे ज्ञान सु॑इति स्थिते संबुद्धिलोपात्परत्वादमादेशे कृते अमि पूर्वत्वे च तस्याऽन्तवद्भावाद्भस्वान्तमङ्गं भवतीति ततः संबुद्धिसंबन्धिनो मकारस्य लोप इत्यर्थः । Padamanjari ----------- अत्रामिति पदच्छेदः, न तु मिति तथा हि सति लाघवाय मत तैत्येव ब्रूयात् । किमर्थं पुनरम्विधीयते न मकार एवोच्येत, द्वितीयैकवचनेऽपि आदेः परस्य इत्यकारस्य मकार कृतेऽन्यस्य मकारस्य संयोगान्तलोपेनैव सिद्धमिष्टम् दीर्घप्रसङ्गस्तु सुपि चेति दीर्घः प्राप्नोति । न च दीर्घविधौ सन्निपातपरिभाषा एप्रवर्तते वृत्रायेत्यादावपि प्रसङ्गात् । तस्मादमेव विधेयः । अपर आह - अम्विधानसामर्थ्यादतिजरसमित्यत्र जरसादेशो भवतीति, तच्चिन्त्यम् सन्निपातपरिभाषया जरसादेशस्याप्रसङ्गात् । अम्विधानं तु दीर्घबाधनेन चरितार्थमिति ॥ Nyaas ----- पूर्वेण प्रापतसय लुकोऽयमपवादः। तपरकरणं मुखसुखार्थम्; न तु दीर्घनिवृत्त्यर्थम्। दीर्घस्याभावात्। अभावस्तु `ह्रस्वो नपुंसके प्रातिपदिकस्य` (1.2.47) इति ह्रस्वविधानात्। अथ किमर्थमम्भाव उच्यते, न मकारादेश एवोच्येत? न चैवम्; **आदेः परस्य** (1.1.54) इति द्वितीयैकवचनाकारस्य मकारे कृते द्वयोर्मकारयोः श्रलणं प्राप्नोति; एकस्य संयोगान्तलोपेनापह्मतत्वात्। नापि `सुपि च` (7.3.102) इति यञादौ सुपि विधीयमानं दीर्घत्वं प्राप्नोति; `सन्निपातलक्षणो विधिरनिमित्तं तद्विघातस्य` (व्या।प।12) इति वचनात्। अकारान्तसन्निपाते हि मकारविधिः, स कथमकारविघातस्य निमित्तं स्यात्? एवं तर्हि मकारादेशे विघातव्येऽमा देशं कुर्वन्नेतज्ज्ञापयति - नित्यैषा परिभाषेति। तेनातिजरसात्, अतिजरसैरिति जरसादेशः सिद्धो भवति॥ Praudhamanorama --------------- **स्वमोरिति।** अमोऽम्विधानं लुग्बाधनार्थम्। **अम् स्यादिति।** एतच्च प्राचामनुरोधाद् व्याख्यातम्। संयोगान्तलोपो झल इत्यभिप्रायेण वा। वस्तुतस्तु म् इत्येव पदच्छेदो लाघवात्। तत्र सोर्मे कृते ज्ञानमिति सिद्धम्। द्वितीयैकवचने तु 'आदेः परस्य' इत्यकारस्य मकारे कृतेऽन्त्यस्य मस्य संयोगान्तलोपे सिद्धमिष्टम्। यत्तु वदन्ति— एवं सति 'सुपि च' इति दीर्घत्वं स्यादिति। तन्न, सन्निपातपरिभाषाविरोधात्। यदपि दीर्घविधौ सा न प्रवर्तत इति । तदपि न, 'रुधादिभ्यः श्नम्' 'श्नान्नलोपः' इति सूत्रयोः 'सुपि च' इति दीर्घत्वे सन्निपातपरिभाषाप्रवृत्तेर्भाष्यकृता ध्वनितत्वात् कैयटेनोपपादितत्वाच्च। यदप्याहुः—अतिजरसमिति न सिद्ध्येदिति। तदपि न, द्वितीयैकवचने हि 'अतोऽम्' इति बाधित्वा परत्वाज्जरसि कृते सन्निपातपरिभाषया लुकोऽप्रवृत्तौ रूपसिद्धिः स्पष्टैव, प्रथमैकवचने तु अतिजरसमित्येवेष्यते, सन्निपातपरिभाषया जरसादेशस्याप्रवृत्तेः। अत इति तकार उच्चारणार्थः। Prakriyasarvasvam ----------------- अदन्तात्क्लीबात् स्वमोरम् स्यात् । 'अमि पूर्वः' (६-१-१०७) ज्ञानम् ॥ Sarala ------ अतोऽमिति । **अत** इति पञ्चमी, **अङ्गस्य** (६.४.१) इत्यधिकृतं पञ्चम्या विपरिणम्यते, तस्य अत इति विशेषणं, ततस्तदन्तविधिः । एवञ्च अदन्तादङ्गादित्यर्थः । अमोऽम्विधानं **स्वमोर्नपुंसकात्** (७.१.२३) इति प्राप्तस्य लुको बाधनार्थम् । **हे ज्ञानेति** । "हे ज्ञान सु" - इति स्थिते सम्बुद्धिलोपात्परत्वादमादेशे कृते **अमि पूर्वः** (६.१.१०७) इति पूर्वरूपे च तस्यान्तवद्भावाज्ज्ञानेत्यस्य ह्रस्वान्ताङ्गतया तत्परस्य सम्बुद्ध्यवयवस्य हल्मात्रस्य मकारस्य एङ्ह्रस्वादिति लोप इत्यर्थः । **एङ्ह्रस्वात् सम्बुद्धेः** (६.१.६९) इत्यस्य हि अङ्गात्परा या सम्बुद्धिरिति नार्थः, किन्तु एङन्ताद्ध्रस्वान्ताच्चाङ्गात्परो यः सम्बुद्ध्यवयवो हल्स लुप्यते इत्येवार्थ इत्याशयः ॥ Sudha ----- अतोऽमिति । अत इति पञ्चमी । अङ्गस्येत्यधिकृतं पञ्चम्या विपरिणम्यते । अत इत्यनेन विशेष्यते । तदन्तविधिः । **स्वमोर्नपुंसकात्**(7.1.23) इत्यनुवर्तते । तदाह - अतोऽङ्गादिति । ज्ञानमिति । ज्ञानशब्दात्सावागते **अतोऽम्**(7.1.24) इति सोरमि कृते **अमि पूर्वः**(6.1.107) इति पूर्वरूपैकादेशे 'ज्ञानम्' इति रूपम् । हल्लोप इति । पूर्वरूपे कृते सम्बुद्धेर्मकारमात्र यत् परिशिष्टं तस्य **एङ्ह्रस्वात् सम्बुद्धेः**(6.1.69) इति लोप इत्यर्थः । हे ज्ञान इति । 'ज्ञान - सु' अत्र **अतोऽम्**(7.1.24) इत्यमि **अमि पूर्वः**(6.1.107) इति पूर्वरूपैकादेशे ज्ञानम् इति जाते **एङ्ह्रस्वात् सम्बुद्धेः**(6.1.69) इति मलोपे 'हे ज्ञान' इति रूपम् ।