71019: नपुंसकाच्च ================= **Padacheda:** नपुंसकात् | S | 5 | 1 | च | S | 0 | 0 | Sutrartha --------- **नपुंसकात् परस्य औ/औट्-प्रत्यययोः शी-आदेशः भवति ।** अस्मिन् सूत्रे प्रयुक्तः 'औङ्' शब्दः स्वयं कश्चन प्रत्ययः नास्ति, परन्तु प्रथमाद्विवचनस्य 'औ' प्रत्ययस्य तथा द्वितीयाद्विवचनस्य 'औट्' प्रत्ययस्य च निर्देशं करोति । नपुंसकात् शब्दात् परस्य एतयोः प्रत्यययोः 'शी' आदेशः भवति । अनेकाल्त्वात् **अनेकाल् शित्सर्वस्य** (1.1.55) इत्यनेन अयम् सर्वादेशः भवति । ('शी' इत्यत्र शकारः प्रारम्भे इत्संज्ञकः नास्ति यतः **लशक्वतद्धिते** (1.3.8) इत्यनेन केवलं प्रत्ययादिस्थस्यैव शकारस्य इत्संज्ञा भवति, न हि आदेशस्य । अतः औ-इत्यस्य स्थाने प्रारम्भे 'शी' इति आदेशः भवति, ततः स्थानिवद्भावात् 'शी' इत्यस्य प्रत्ययसंज्ञा भवति, ततश्च शकारस्य **लशक्वतद्धिते** (1.3.8) इत्यनेन इत्संज्ञा लोपश्च विधीयते) । उदाहरणानि एतानि - 1. फल + औ / औट् → फल + शी [**नपुंसकाच्च** (7.1.19) इति शी-आदेशः] → फल + ई [इत्संज्ञालोपः । **यस्येति च** (6.4.148) अनेन सूत्रेण अङ्गस्य अकारलोपे प्राप्ते अनेन वार्त्तिकेन सः निषिध्यते] → फले [**आद्गुणः** (6.1.87) इति गुण-एकादेशः] 2. वारि + औ / औट् → वारि + शी [**नपुंसकाच्च** (7.1.19) इति शी-आदेशः] → वारि + ई [इत्संज्ञालोपः । **यस्येति च** (6.4.148) अनेन सूत्रेण अङ्गस्य इकारलोपे प्राप्ते अनेन वार्त्तिकेन सः निषिध्यते] → वारि नुम् + ई [**इकोऽचि विभक्तौ** (7.1.73) इति अङ्गस्य नुमागमः] → वारिणी [**अट्कुप्वाङ्नुम्व्यवायेऽपि** (8.4.2) इति णत्वम्] 3. पयस् + औ / औट् → पयस् + शी [**नपुंसकाच्च** (7.1.19) इति शी-आदेशः] → पयस् + ई [इत्संज्ञालोपः] → पयसी 4. नामन् + औ / औट् → नामन् + शी [**नपुंसकाच्च** (7.1.19) इति शी-आदेशः] → नाम न् + ई [इत्संज्ञालोपः] → नाम्नी, नामनी [**अल्लोपोऽनः** (6.4.134) इत्यनेन उपधा-अकारस्य लोपे प्राप्ते **विभाषा ङिश्योः** (6.4.136) इति विकल्पेन लोपः] Sutrartha (English) ------------------- The औ and औट्-प्रत्ययs following a नपुंसक अङ्ग get the आदेश 'शी'. Vasu English Summary -------------------- After a neutral अङ्ग (stem), ई is substituted for the dual endings औ of Nominative 1st-Case and Accusative -2nd case. Vasu English Translation ------------------------ After a neutral अङ्ग (stem), ई is substituted for the dual endings औ of Nominative 1st-Case and Accusative -2nd case. Thus कुण्डेः तिष्ठतः, कुण्डे पश्य ॥ कुण्ड + ई = कुण्डे, the अ of कुण्ड required to be elided by (6.4.148). This is, however, not done by the following Vart:- Prohibition should be stated in the case of the affix शी ॥ Therefore the अ is not elided. Similarly दधिनी, मधुनी, त्रपुणी, जतुनी ॥ The augment न् is added by (7.1.73). Kashika ------- नपुंसकादङ्गादुत्तरस्य औङःशी इत्ययमादेशो भवति। कुण्डे तिष्ठतः। कुण्डे पश्य। यस्येतिलोपः (६.४.१४८) प्राप्तः। **श्यां प्रतिषेधो वक्तव्यः** (६.४.१४८वा०) इति न भवति। दधिनी। मधुनी। त्रपुणी । जतुनी ॥ Siddhanta Kaumudi ----------------- क्लीबात्परस्यौङः शी स्यात् । भसंज्ञायाम् ॥ Laghu Siddhanta Kaumudi ----------------------- क्लीबादौङः शी स्यात्। भसंज्ञायाम्॥ Balamanorama ------------ **नपुंसकाच्च** - नपुंसकाच्च । 'जसः सी' त्यत्रःशी॑ति 'औङ आपः' इत्यतःऔङि॑ति चानुवर्तते, तदाह — क्लीबादिति । ओङित्यौकारविभक्तेः संज्ञेत्युक्तम् । ज्ञानं ई इति स्थिते । Tattvabodhini ------------- **नपुंसकाच्च** - नपुसंकाच्च ।जसः शी॑औङ् आपः॑ इत्यतःशी॒॑औङ॑इति चानुवर्तत इत्यभिप्रत्याहक्लीबात्परस्येत्यादि ।यस्येति । इश्च अश्च यं, तस्य — [यस्य] । तदाह -इवर्णावर्णयोरिति ।ईति चे॑ति चकारेणनास्त द्धिते॑इत्यतस्तद्धितोऽनुकृष्यते, तदाह -ईकार तद्धिते चेति । औङः श्यामिति । विभक्त्य पेक्षया स्त्रीलिङ्गनिर्द्देशः । नेदं वचनं कर्तव्यम् ।विभाषा ङिश्यो॑रित्यतःश्यां॑मिति प्रकृतं,न संयोगात् इत्यतोने॑ति च, तत्रापि सबन्धमात्रं कर्तव्यं, यस्य ईकारे तद्धिते च लोपो भवति, श्यां नेत्याकरः । Nyaas ----- `दधिनी` इति। **इकोऽचि विभक्तौ** (7.1.73) इति नुम्॥ Praudhamanorama --------------- **भसंज्ञायामिति।** 'सुडनपुंसकस्य' इति पर्युदासेनासर्वनामस्थानत्वादिति भावः। Prakriyasarvasvam ----------------- क्लीबात् परस्यौङः शी स्यात् । ज्ञाने ॥ Sarala ------ **भसञ्ज्ञायामिति** । **सुडनपुंसकस्य** (१.१.४३) इत्युक्तेर्नपुंसके औङः सर्वनामस्थानसञ्ज्ञाया अभावेन तस्मिन्परतो ज्ञानेत्यस्य **यचि भम्** (१.४.१८) इति भसञ्ज्ञायामित्यर्थः ॥ Sudha ----- नपुंसकाच्चेति । **जसः शी**(7.1.17) इत्यतः शीति **औङ आपः**(7.1.18) इत्यतः औङ इति चानुवर्तते, तदाह - क्लीबादित्यादिना ।