71008: बहुलं छन्दसि =================== **Padacheda:** बहुलम् | S | 1 | 1 | छन्दसि | S | 7 | 1 | Sutrartha --------- **** Vasu English Summary -------------------- The augment रुट् is diversely applied in the छन्दस् (Vedas). Vasu English Translation ------------------------ The augment रुट् is diversely applied in the छन्दस् (Vedas). Thus देवा अदुह्र; गन्धर्वा अप्सरसो अदुह्र ॥ Here अदुह्र is the Imperfect (लङ्) plural of दुह् ॥ Thus दुह् + झ = दुह् + रत् = अदुह्र, the त् being elided by (7.1.41). Sometimes, the augment does not take place, as अदुह्रत ॥ Owing to the word बहुल, 'diversely', the augment र is added to other affixes also, than झ ॥ As अदश्रम् in अदश्रमस्य केतवः ॥ This is the aorist in अङ् of the root दृश by (3.1.57), the *guna* ordained by (7.4.16), does not 'diversely' take place. Bhashya ------- बहुलं छन्दसि वेत्तेर्विभाषा ॥ अतो भिस ऐस् ॥ बहुलं छन्दसि ॥ इदं(1) द्विःक्रियते एकं शक्यमकर्त्तुम् ॥ इदं बहुलं छन्दसीति द्विःक्रियते एकं शक्यमकर्तुम् ॥ कथम् ? ॥ यदि तावत्पूर्वं क्रियते परं न करिष्यते, अतो भिस ऐसित्यत्र बहुलं छन्दसीत्येतदनुवर्तिष्यते । अथ परं क्रियते पूर्वं न(2) करिष्यते, बहुलं छन्दसीत्यत्र रुडप्यनुवर्त्तिष्यते ॥ अपर आह - ( ॥ उमे(1) बहुलग्रहणे एकं छन्दोग्रहणं शक्यमकर्त्तुम् ॥) उभे बहुलग्रहणे एकं छन्दोग्रहणं शक्यमकर्तुम् ॥ कथम् ? ॥ इदमस्ति वेत्तेर्विभाषा । ततः छन्दसि । छन्दसि च विभाषा । ततः (ठअतो भिस(3) ऐस् ।) अतो भिस ऐस् भवति । छन्दसि विभाषेति ॥ Kashika ------- छन्दसि विषये बहुलं रुडागमो भवति । दे॒वा॑ अ॒दुह्र॒ (मै०सं० ४.२.१३)। गन्धर्वाप्स॒र॑सो॒ अदुह्र (मै०सं० ४.२.१३)। दुहेर्लङि झकारस्यादादेशे कृते रुट् । **लोपस्त आत्मनेपदेषु** (७.१.४१) इति तकारलोपः। न च भवति — अदुहत। बहुलवचनादन्यत्रापि भवति — अदृ॑श्रमस्य के॒तवः॒ (ऋ०१.५०.३)। **ऋदृशोऽङि गुणः** (७.४.१६) इत्येतदपि बहुलवचनादेवात्र न भवति॥ Siddhanta Kaumudi ----------------- शीङो रुट् (SK2442) ।रुडागमः स्यात् । लोपस्त आत्मनेपदेषु (SK3563) इति पक्षे तलोपः । धेनवो दुह्रे (धे॒नवो॑ दुह्रे) । लोपाभावे । घृतं दुहर्ते (घृ॒तं दु॑हर्ते) । अदृश्रमस्य (अदृ॑श्रमस्य) । अतो भिस ऐस् (SK203) ॥ Padamanjari ----------- बहुलवचनादन्यत्रापि भवतीति । एतदर्थमेव विभाषाग्रहणे प्रकृतेऽपि बहुलग्रहणं कृतम् । अदृश्रमिति । इरितो वा इति वाङ् ॥ Prakriyasarvasvam ----------------- झादेशस्यातो बहुलं रुट् स्यात् । अदुह्रत । बहुलोक्तेरन्यत्रापि अयुज्रन् प्रातरद्रयः । श्याचीमरुषीमञ्जन् ।