71001: युवोरनाकौ ================ **Padacheda:** यु-वोः | S | 6 | 2 | अन-अकौ | S | 1 | 2 | Sutrartha --------- **अनुनासिक-यु इत्यस्य अन-आदेशः, अनुनासिक-वु-इत्यस्य च अक-आदेशः भवति । यथा, ल्युट् → अन । ण्वुल् → अक ।** अनेन सूत्रेण **अनुनासिक-यु** तथा **अनुनासिक-वु** इत्येतयोः यथासंख्यम् **अन** तथा **अक** इति आदेशौ विधीयेते । क्रमेण उदाहरणानि एतादृशानि -
(I) "अनुनासिक-यु" इत्यस्य "अन" आदेशः । ल्यु, ल्युट्, ट्यु, ट्युल्, ख्युन् इत्यादिषु प्रत्ययेषु विद्यमानस्य **अनुनासिक-यु**-इत्यस्य प्रकृतसूत्रेण अन-आदेशः भवति । यथा - .. code-block:: text 1. नन्द् + ल्यु [**नन्दिग्रहिपचादिभ्यो ल्युणिन्यचः** (3.1.134) इति ल्यु-प्रत्ययः ] → नन्द् + यु [लकारस्य इत्संज्ञा, लोपः] → नन्द् + अन [**युवोरनाकौ** (7.1.1) इति यु-इत्यस्य अन-आदेशः] → नन्दन .. code-block:: text 2. सायम् + ट्यु [**सायंचिरम्प्राह्णेप्रगेऽव्ययेभ्यष्ट्युट्युलौ तुट् च** (4.3.23) इति ट्यु-प्रत्ययः] --> सायम् + यु [टकारस्य इत्संज्ञा, लोपः] --> सायम् + तुट् + यु [**सायंचिरम्प्राह्णेप्रगेऽव्ययेभ्यष्ट्युट्युलौ तुट् च** (4.3.23) इति प्रत्यययोः तुट्-आगमः] --> सायम् + त् + अन [**युवोरनाकौ** (7.1.1) इति यु-इत्यस्य अन-आदेशः] --> सायन्तन [अनुस्वारपरसवर्णौ] (II) "अनुनासिक-वु" इत्यस्य "अक" आदेशः । ण्वुल्, ष्वुन्, वुञ् इत्यादिषु प्रत्ययेषु विद्यमानस्य **अनुनासिक-वु**-इत्यस्य प्रकृतसूत्रेण **अक**-आदेशः भवति । यथा - .. code-block:: text 1. कृ + ण्वुँल् [**ण्वुँल्तृचौ** (3.1.133) इति ण्वुल्] → कृ + वु [लकारणकारयोः इत्संज्ञा, लोपः] → कार् + वु [**अचो ञ्णिति** (7.2.115) इति ऋकारस्य वृद्धिः आकारः , **उरण् रपरः** (1.1.51) इत्यनेन सः रपरः] → कार् + अक [**युवोरनाकौ** (7.1.1) इति वु-इत्यस्य अक-आदेशः] → कारक .. code-block:: text 2. वासुदेव + वुन् ["वासुदेवः अस्य भक्तिः" अस्मिन् अर्थे वासुदेवशब्दात् **वासुदेवार्जुनाभ्यां वुन्** (4.3.98) इति वुन्-प्रत्ययः] --> वासुदेव + वु [नकारस्य इत्संज्ञा, लोपः] --> वासुदेव + अक [**युवोरनाकौ** (7.1.1) इति वु-इत्यस्य अक-आदेशः] --> वासुदेव् + अक [**यस्येति च** (6.4.148) इति अकारलोपः] --> वासुदेवक .. code-block:: text 3. ग्लुचुकायनी + वुञ् ["ग्लुचुकायनीनां समूहः" अस्मिन् अर्थे "ग्लुचुकायनी" इति गोत्रवाचिनः शब्दात् **गोत्रोक्षोष्ट्रोरभ्रराजराजन्यराजपुत्रवत्समनुष्याजाद्वुञ् ** (4.2.39) इत्यनेन सूत्रेण वुञ्-प्रत्ययः] --> ग्लुचुकायनी + वु [ञकारस्य इत्संज्ञा, लोपः] --> ग्लौचुकायनी + वु [**तद्धितेष्वचामादेः** (7.2.117) इति आदिवृद्धिः] --> ग्लौचुकायनी + अक [**युवोरनाकौ** (7.2.1) इति वु-इत्यस्य अक-आदेशः] --> ग्लौचुुकायन् + अक [**यस्येति च** (6.4.148) इति ईकारलोपः] --> ग्लौचुकायनक **ज्ञातव्यविषयाः** **1.** यद्यपि इदम् सूत्रं अङ्गाधिकारे वर्तते, तथापि अत्र **अङ्गस्य** इति शब्दः पञ्चम्या विपरिणम्यते; इत्युक्ते अस्य शब्दस्य **अङ्गात्** इति परिवर्तनं भवति । अङ्गात् परः तु प्रत्ययः एव वर्तते, अतः अत्र **अङ्गात् परस्य प्रत्ययस्य** इति अन्वयः जायते । किञ्च, **आदेः परस्य** (1.1.54) इत्यनेन प्रत्ययस्य आदौ विद्यमानस्य यु/वु-इत्येतयोः एव अत्र ग्रहणं भवति । अपि च, **अन** तथा **अक** एतौ अनेकालौ आदेशौ स्तः, अतः **अनेकाल्शित्सर्वस्य** (1.1.55) इत्यनेन एतौ सर्वादेशरूपेण विधीयेते । अतश्च, "यु" इति सम्पूर्णस्य स्थाने "अन" तथा च "वु" इति सम्पूर्णस्य स्थाने "अक" इति आदेशः विधीयते । **2.**अस्मिन् सूत्रे निर्दिष्टयोः यु/वु इत्येतयोः **यकारः/वकारः अनुनासिकः अस्ति** । अतः यत्र प्रत्ययस्य आदौ अनुनासिकः यकारः / वकारः वर्तते, तत्रैव अस्य सूत्रस्य प्रयोगः भवति । एतादृशाः यकारवकाराः कुत्र कुत्र वर्तन्ते इदं तु व्याख्यानात् एव स्पष्टी भवति यतः अनुनासिकस्वराः प्रतिज्ञया एव स्पष्टीभवन्ति इति इति वचनात् ज्ञायते । यत्र एतादृशः अनुनासिकः यकारः वकारः वा न वर्तते, तत्र प्रकृतसूत्रस्य प्रयोगः अपि न भवति । यथा, **ऊर्णाया युस्** (5.2.123) इत्यनेन सूत्रेण विहितस्य युस्-प्रत्ययस्य यकारः अनुनासिकः यकारः नास्ति, अतः तस्य विषये प्रकृतसूत्रस्य प्रयोगः नैव सम्भवति । इत्युक्ते, अत्र युस्-प्रत्ययस्य यु-इत्यस्य अन-आदेशः अपि न सम्भवति । **3.** प्रकृतसूत्रेण "यु" तथा "वु" इत्येतयोः शब्दसमूहयोः एव आदेशः विधीयते । केवल-यकारस्य अथवा केवल-वकारस्य अनेन सूत्रेण आदेशः न भवति । एवमेव, प्रकृतसूत्रेण "अन" तथा "अक" इति **अदन्तौ आदेशौ** विधीयेते, अन् / अक् इति हलन्तौ आदेशौ न । **4.** अस्मिन् सूत्रे द्वौ स्थानिनौ, द्वौ आदेशौ च पाठ्येते । अतः, **यथासङ्ख्यमनुदेशः समानाम्** (1.1.10) इत्यनेन अत्र यथासङख्यत्वात् यु-इत्यस्य अन-आदेशः तथा च वु-इत्यस्य अक-आदेशः विधीयते । **सूत्रे विद्यमानस्य "युवोः" इति शब्दस्य साधुत्वम्** सूत्रे विद्यमानस्य "युवोः" इति शब्दस्य विषये काशिकायां, भाष्ये च विस्तरेण चर्चा कृता दृश्यते । तत्र मुख्यरूपेण - (1) युवोः इत्यत्र मूलरूपेण विद्यमानम् "युवु" इति प्रातिपदिकम् केन समासेन सिद्ध्यति, तथा च (2) तस्मात् प्रातिपदिकात् युवोः इति पदस्य सिद्धिः कथम् सम्भवति - इति प्रश्नौ स्वीकृत्य चिन्तनं कृतम् अस्ति । अस्मिन् चिन्तने द्वौ पक्षौ स्वीकृत्य प्रत्येकस्मिन् पक्षे कः लाभः का च हानिः इति ऊहः कृतः दृश्यते । एतौ द्वौ पक्षौ एतादृशौ - 1. **युवु इति प्रातिपदिकम् समाहारद्वन्द्वसमासेन निर्मितम् अस्ति, तथा च "युवोः" इति अस्य षष्ठ्येकवचनम्** - इति प्रथमः पक्षः । समाहारद्वन्द्वसमासेन सिद्धाः शब्दाः नित्यम् एकवचने एव प्रयुज्यन्ते, अतश्च युवोः इत्यपि षष्ठ्याः एकवचने एव प्रयोगः अस्ति इति अस्य पक्षस्य मुख्यः आशयः । परन्तु समाहारद्वन्द्वसमासेन निर्मिताः शब्दाः **स नपुंसकम्** (2.4.17) इत्यनेन सूत्रेण नपुंसकलिङ्गे भवन्ति, अतश्च "युवु" इति शब्दः अपि नपुंसकलिङ्गः स्यात्, तथा च तस्य षष्ठ्येकवचने **इकोऽचि विभक्तौ** (7.1.73) इत्यनेन नुमागमं कृत्वा "युवुनः" इति रूपं सिद्ध्येत् - इति अत्र दोषः विधीयते । अस्य निराकरणार्थम् काशिकाकारः वदति - *अनित्यम् आगमशासनम् इति नुम् न क्रियते, नपुंसकलिङ्गता वा लिङ्गमशिष्यं लोकाश्रयत्वाद् लिङ्गस्य इति न भवति * । अत्र काशिकाकारस्य आशयः अयम् - अत्र युवु-शब्दस्य लिङ्गं लोकव्यवहारम् अनुसृत्य पुंलिङ्गं स्वीक्रियते चेत् तस्य षष्ठ्येकवचनं "युवोः" इति अवश्यं सम्भवति । नो चेत्, **आगमशास्त्रम् अनित्यम्** इत्यस्याः परिभाषायाः प्रयोगेण नपुंसकलिङ्गस्य अपि युवु-शब्दस्य षष्ठ्येकवचने नुमागमः न भवति इति स्वीक्रियते । 2. **युवु इति प्रातिपदिकम् इतरेतरद्वन्द्वसमासेन निर्मितम् अस्ति, तथा च "युवोः" इति अस्य षष्ठीद्विवचनम्** - इति द्वितीयः पक्षः । इतरेतरद्वन्द्वसमासेन निर्मितः "युवु" इति शब्दः द्विपदार्थघटितत्वात् द्विवचने प्रयोक्तुम् शक्यः - इति अस्य पक्षस्य आशयः अस्ति । परन्तु तत्र कश्चन दोषः अपि जायते - "युवु" इत्यस्य पुंलिङ्गे षष्ठीद्विवचनम् "युव्वोः" इति भवेत्, न हि "युवोः" इति । परन्तु अत्र एकस्य वकारस्य लोपः कृतः दृश्यते । अयं लोपः छान्दसत्वात् साधु मन्तव्यः इति अस्य पक्षस्य समर्थकाः मन्यन्ते ।
एतौ द्वौ अपि पक्षौ काशिकाकारेण कारिकाद्वयस्य रूपेण अपि दत्तौ स्तः । तज्जिज्ञासवः प्रकृतसूत्रस्य काशिकाव्याख्यानम् अवश्यम् पश्येयुः ।
**सिद्धान्तकौमुद्यां प्रकृतसूत्रे पाठितानि वार्त्तिकानि** प्रकृतसूत्रम् सिद्धान्तकौमुद्याम् तद्धितप्रकरणे **गोत्रोक्षोष्ट्रोरभ्रराजराजन्यराजपुत्रवत्समनुष्याजाद्वुञ् ** (4.2.39) इत्यस्मात् अनन्तरं पाठितम् अस्ति । अत्र प्रकृतसूत्रे प्रसङ्गवशात् सिद्धान्तकौमुदीकारः **गोत्रोक्षोष्ट्रोरभ्रराजराजन्यराजपुत्रवत्समनुष्याजाद्वुञ् ** (4.2.39) अस्य सूत्रस्य सन्दर्भेण द्वे वार्त्तिके अपि पाठयति । एते वार्त्तिके एतादृशे - **1. ** - **राजन्य, मनुष्य तथा च युवन् - एते शब्दाः अक-प्रत्यये परे प्रकृत्या तिष्ठन्ति** । यथा, "राजन्य + वुञ्" इत्यत्र **गोत्रोक्षोष्ट्रोरभ्रराजराजन्यराजपुत्रवत्समनुष्याजाद्वुञ् ** (4.2.39) इत्यनेन प्राप्तस्य वुञ्-प्रत्ययस्य अक-आदेशे कृते "राजन्य + अक" इति स्थिते **आपत्यस्य च तद्धितेऽनाति** (6.4.151) इति सूत्रेण राजन्य-शब्दस्य यकारस्य लोपः प्राप्नोति । परन्तु अनेन वार्तिकेन तस्य बाधं कृत्वा "राजन्यक" इति अन्तिमं रूपं सिद्ध्यति । एवमेव "मनुष्य + वुञ्" इत्यत्रापि **गोत्रोक्षोष्ट्रोरभ्रराजराजन्यराजपुत्रवत्समनुष्याजाद्वुञ् ** (4.2.39) इत्यनेनैव प्राप्तस्य वुञ्-प्रत्ययस्य अक-आदेशे कृते "मनुष्य + अक" इति स्थिते **आपत्यस्य च तद्धितेऽनाति** (6.4.151) इति सूत्रेण मनुष्य-शब्दस्य यकारस्य प्राप्तः लोपः अनेन वार्तिकेन बाध्यते, येन "मनुष्यक" इति अन्तिमं रूपं सिद्ध्यति । युवन्-शब्दस्य विषये तु "युवन् + वुञ्" इत्यत्र **द्वन्द्वमनोज्ञादिभ्यश्च** (5.1.133) इत्यनेन प्राप्तस्य वुञ्-प्रत्ययस्य अक-आदेशे कृते, "युवन् + अक" इति स्थिते **नस्तद्धिते** (6.4.144) इत्यनेन टिलोपे प्राप्ते, तद्बाधित्वा अनेन वार्त्तिकेन प्रकृतिभावः विधीयते । अग्रे आदिवृद्धिं कृत्वा "यौवनक" इति अन्तिमं रूपं सिद्ध्यति । **2. ** - ****गोत्रोक्षोष्ट्रोरभ्रराजराजन्यराजपुत्रवत्समनुष्याजाद्वुञ् ** (4.2.39) इत्यनेन समूहार्थे पाठितः वुञ्-प्रत्ययः"वृद्ध" इति शब्दात् अपि भवति **। यथा, "वृद्धानां समूहः = वृद्ध + वुञ् --> वृद्ध + अक --> वार्धक ।" प्रक्रियायां **तद्धितेष्वचामादेः** (7.2.117) इत्यनेन आदिवृद्धिं, तथा च **यस्येति च** (6.4.148) इत्यनेन अकारलोपं कृत्वा अन्तिमं रूपं सिद्ध्यति । Sutrartha (English) ------------------- The यु and वु belonging to a प्रत्यय are converted respectively to अन and अक. Vasu English Summary -------------------- For यु and वु (nasalized) in an affix, are substituted, respectively, अन and अक। Vasu English Translation ------------------------ For यु and वु (nasalized) in an affix, are substituted, respectively, अन and अक। *Karika* युवोश्चेद् द्वित्वनिर्द्देशो द्वित्वे यण्तु प्रसज्यते । अथ चेदेकवद्भावः कथं पुंवद्भवेदयम् ॥ द्वित्ये नैगमिको लोप एकत्वे नुमनित्यता । आशिष्यत्वाद्धि लिङ्गस्य पुंस्त्वं वेहि समाश्रितम् ॥ यु and वु are taken here as stripped of all other indicatory letters, and the semi-vowels are also to be understood to have been nasalised. The अन replaces यु, and अक replaces वु ॥ Thus ल्यु (3.1.134) = अन, as नन्द + ल्यु = नन्दनः रमणः ॥ So also व्यु and व्युल् (4.3.23), as सायंतनः, चिरंतनः ॥ वु we find in ण्वुल् (3.1.133), as कृ+ण्वुल् = कारकः, हारकः ॥ So also वुन् (4.3.98) as वासुदेवकः, अर्जुनकः ॥ Why do we say nasalised यु and वु ? Observe ऊर्णाया युस् (5.2.123) Here the यु is not replaced by अन, and we have ऊर्णायुः ॥ So also in भुजिमृङ्भ्यां युक्त्युकौ ॥ Here the यु of युक् and त्युक् (*Unadi* III.21) are not replaced by अन; as भुज्युः and मृत्युः ॥ In the affixes above mentioned, the semi-vowel is not considered to have the nasal. There are no visible marks of nasality on any affixes, but the maxim is प्रतिज्ञानुनासिक्याः पाणिनीयाः ॥ The word युवोः is the Genitive Singular of युवु considered as a single word, i.e. a *Samahara* *Dvandva* compound in the singular, and such compounds are always neuter (2.4.17). The Genitive Singular of युवु is therefore युवुनः the augment being added by (7.1.73). The anomalous form युवोः shows the existence of the maxim that a rule ordaining an augment is not universally valid (अनित्यमागमशासनम्) ॥ Or the युवु may be considered as masculine *Dvandva*, and then it proves the maxim that the gender need not be taught, the usage of the people settles the gender of a word (लिङ्गमशिष्यं, लोकाश्रयत्वाल्लिङ्गस्य)॥ If, however, युवू be considered an *itaretara*-*yoga* *Dvandva* compound, then its Genitive dual will be युव्वोः, one व् is elided as a *Chhandas* irregularity, or the ऊ is elided, and we have the युव् + ओः = युवोः an anomalous dual. *Karika* :- If युवू is taken as a dual, then there ought to be a semi-vowel (i.e. युव्वोः); if it is considered as Aggregate Singular, then it ought to be neuter, how is then युवोः masculine? (To this we answer), if it be taken as dual युवू, then there is elision of the यणादेश (i.e. व्); if it be taken as singular युवु, then the augment नुम् which comes in the Genitive Singular of Neuters, does not come here, proving that the rule of नुम् augment is *Anitya* (not of universal application). Or the word युवु is taken as masculine, because the Gender depends upon usage. Bhashya ------- युवोरनाकौ युवोरनाकावित्युच्यते कयोर्युवोरनाकौ भवतः ? ॥ प्रत्यययोः ॥ कथं पुनरङ्गस्येत्यनुर्त्तमाने प्रत्यययोः स्याताम् ? ॥ युशब्दवुशब्दान्तमेतद्विभक्तावङ्गं भवति ॥ यदि युशब्दवुशब्दान्तस्याऽङ्गस्यानाकौ भवतः, सर्वादेशौ प्राप्नुतः ॥ निर्दिश्यमानस्यादेशा भवन्तीत्येवं न भवष्यितः ॥ यत्र तर्हि विभक्तिर्नास्ति-नन्दना(1) कारिकेति ? ॥ अत्रापि प्रत्ययलक्षणेन विभक्तिः ॥ यत्र तर्हि प्रत्ययलक्षणं नास्ति-नन्दनप्रियः कारकप्रिय इति ॥ मा भूतां यासौ सामासिकी विभक्तिस्तस्याम्(2), यासौ समासद्विभक्तिस्तस्यां(3) भविष्यतः ॥ न(4) वैतस्यां युशब्दवुशब्दान्तमङ्गं भवति ॥ भवेद्यो(5) युशब्दवुशब्दाभ्यामङ्गं विशेषयेत्तस्यानन्त्ययोर्न स्यातां, वयं खल्वङ्गेन युशब्दवुशब्दौ विशेषयिष्यामः, -अङ्गस्य युवारनाकौ भवतो यत्र तत्रस्थयोरिति ॥ यत्र तर्हि समासद्विभक्तिर्नास्ति-नन्दनदधि कारकदधि ? ॥ एवं तर्हि ॥ नवा(1) परं निमित्तं संज्ञा च प्रत्ययलक्षणेन(2) ॥ न चेह(3)परं निमित्तमाश्रीयते- अस्मिन्परतो युवोरनाकौ भवत इति ।किं तर्हि? ॥ अङ्गस्य युवोरनाकौ भवतइति। अङ्गसंज्ञा च(4) भवति प्रत्ययलक्षणेन । अथ वा तयोरेव यदङ्गं तन्निमित्तत्वोनाश्रयिष्यामः ॥ कथम् ? ॥ अङ्गस्येति संबन्धसामान्ये षष्ठी विज्ञास्यते, -अङ्गस्य यौ युवू ॥ किं चाङ्गस्य युवू ? ॥ निमित्तम् । ययोर्युवोरङ्गमित्येतद्भवति ॥ कयोश्चैतद्भवति ? ॥ प्रत्यययोः । ॥ युवोरनाकाविति चेद्धातुप्रतिषेधः ॥ युवोरनाकाविति चेद्धातुप्रतिषेधो वक्तव्यः । युत्वा । युतः । युतवान्(1) । ॥ भुज्य्वादीनां(2) च ॥ भुज्यवादीनाञ्ञ्च प्रतिषेधो वक्तव्यः । भुज्यः । कंयुः । शंयुः । ॥ अनुनासिकपरत्वात्सिद्धम् । ॥ (अनुनासिकपरत्वात्सिद्धमेतत्(3) ॥ कथम्(1) ? ॥) अनुनासिकपरयोर्युवोर्ग्रहणं, न चैतावनुनासिकपरौ ॥ यद्यनुनासिकपरयोर्ग्रहणं-नन्दनः कारकः, अत्र न प्राप्नुतः, नह्येताभ्यां युशब्दवुशब्दाभ्यामनुनासिकं परं पश्यामः ॥ अनुनासिकपरत्वादिति नैवं विज्ञायतेऽनुनासिकः पर आभ्यां ताविमावनुनासिकपरौ, अनुनासिकपरत्वादिति ॥ कथं तर्हि ? ॥ अनुनासिकः परोऽनयोस्ताविमावनुनासिकपरौ, अनुनासिकपरत्वादिति ॥ यद्यनुनासिकपरयोर्ग्रहणमित्संज्ञा प्राप्नोति ॥ तत्र को दोषः ? ॥ ॥ तत्र ङीम्नुमोः प्रतिषेधः । ॥ (तत्र(2)) ङीम्नुमोः प्रतिषेधो वक्तव्यः । नन्दनः कारकः । नन्दना कारिका । उगिल्लक्षणौ ङीम्नुमौ प्राप्नुतः ॥ धात्वन्तस्य च (प्रतिषेधः(2)) ॥ धात्वन्तस्य च प्रतिषेधो वक्तव्यः । दिवु सिवु ॥ षिटि्टत्करणं तु ज्ञापकमुगित्कार्याऽभावस्य ॥ यदयं युशब्दवुशब्दौ षिटि्टतौ करोति शिल्पिनि ष्वुन् ट्युट्युलौ तुट्चेति. तज्ज्ञापयत्याचार्यो न युवोरुगित्कार्यं भवतीति ॥ कथं कृत्वा ज्ञापकम् ? ॥ षिटि्टत्करणे एतत्प्रयोजनं षिटि्टति इतीकारो यथा स्यात् । यदि चात्रोगित्कार्यं स्यात् षिटि्टत्करणमनर्थकं स्यात् । पश्यति त्वाचार्यो, -न युवोरुगित्कार्यं भवतीति, ततो युशब्दवुशब्दौ षिटि्टतौ करोति ॥ न वा-षित्करणं ङीष्विधानार्थम् ॥ नैतदस्ति ज्ञापकम् । अस्ति ह्यन्यदेतस्य वचने प्रयोजनम् ॥ किम् ? ॥ (षित्करणं ङीष्विधानार्थम्(1)) । षित्करणं क्रियते ङीष्विधानार्थम् । षित इति ङीष्यथा स्यात् ॥ टित्करणमनुपसर्जनार्थम् ॥ टित्करणेऽप्यन्यत्प्रयोजनमस्ति ॥ किम् ? ॥ अनुपसर्जनाटि्टत इतीकारो यथा स्यात् ॥ टितोऽनुपसर्जनाद्भवति, उगित उपसर्जनाच्चानुपसर्जनाच्च । एवं तर्हि, ॥ विप्रतिषेधाट्टापो(1) बलीयस्त्वम् ॥ विप्रतिषेधाट्टापो बलीयस्त्वं भविष्यति । टापोऽवकाशः-खट्वा माला । ङीपोऽवकाशः-गोमती यवमती । इहोभयं प्राप्नोति नन्दना कारिका । टाब्भवति विप्रतिषेधेन ॥ नैष युक्तो विप्रतिषेधः, विप्रतिषेधे परमित्युच्यते पूर्वश्च टाप् परो ङीप् ॥ ङीपः परष्टाप् करिष्यते ॥ सूत्रविपर्यासः कृतो भवति ॥ एवं तर्हि उगितो ङीब्भवतीत्यत्रात्यतष्टाबित्यनुवर्तिष्यते ॥ एवमप्यकारान्तादुगित इहैव स्यात् नन्दना कारिका । गोमती यवमतीत्यत्र न स्यात् ॥ एवं तर्हि संबन्धाऽनुवृत्तिः करिष्यते - अजाद्यतष्टाप् । ऋन्नेभ्योङीप् । अतष्टाप् ॥ उगितश्च । ङीब्भवति(2) । अतष्टाप् । वनो र च । (वनो ङीब्भवति । उगितोऽतष्टाप्) पादोन्यतरस्यां । ङीब्भवति(1) । उगितः, अतष्टाप् । ततः ऋचि । ऋचि (च) टाब्भवति । उगितोऽत इति निवृत्तम् । तत्रायमप्यर्थो द्विष्टाब्ग्रहणं न कर्तव्यं भवति प्रकृतमनुवर्तते ॥ सिध्यत्येवं यत्त्विदं वार्तिककारः पठति - विप्रतिषेधाट्टापो(2) बलीयस्त्वमिति, एतदसङ्गृहीतं भवति ॥ एतच्च सङ्गृहीतं भवति ॥ कथम् ? ॥ इष्टवाची परशब्दो विप्रतिषेधे परं यदिष्टं तद्भवतीति ॥ धात्वन्तस्य चार्थवद्ग्रहणात् ॥ अर्थवतोर्युवोर्ग्रहणं । न च धात्वन्तोऽर्थवान् । ॥ नुम्विधौ झल्ग्रहणम् ॥ नुम्विधौ झल्ग्रहणं कर्तव्यम् । झलन्तस्य उगित इष्यते । उगिदचां सर्वनामस्थानेऽधातोर्झल इति । तच्चावश्यं कर्तव्यम् ॥ लिङ्गविशिष्टप्रतिषेधार्थम् ॥ प्रतिपदिकग्रहणेलिङ्गविशिष्टस्यापि ग्रहणं भवतीति यथेह भवति गोमान् यवमान् एवं गोमती यवमतीत्यत्रापि स्यात् ॥ न वा विभक्तौ लिङ्गविशिष्टाग्रहणात्(3) ॥ न वा वक्त्व्यम् ॥ किं कारणम् ? ॥ (ठविभक्तौ लिङ्गविशिष्टाऽग्रहणात्) ठविभक्तौ लिङ्गविशिष्टग्रहणं नेत्येषा परिभाषा कर्तव्या ॥ कः पुनरत्र विशेषः - एषा वा परिभाषा क्रियेत, झल्ग्रहणं वेति ? ॥ अवश्यमेषा परिभाषा कर्तव्या, बहून्येतस्याः परिभाषायाः प्रयोजनानि ॥ कानि ? ॥ ॥ प्रयोजनं शुनः स्वरे ॥ (शुनः(1) स्वरे प्रयोजनम्) । यथेह भवति शुना शुने एवं शुन्या शुन्या इत्यत्रापि स्यात् ॥ यूनः संप्रसारणे ॥ यूनः(2) सम्प्रसारणे प्रयोजनम् । यथेह भवति यूनः पश्येति, एवं युवतीः पश्येत्यत्रापि स्यात् ॥उगिदचां नुम्विधौ ॥ ॥। उगिदचां नुम्विधौ प्रयोजनम्। यथेह भवति - गोमान्,यवमान्,एवं गोमती यवमतीत्यत्रापि स्यात् ॥ ॥। अनडुहश्चाम्विधौ(3) ॥ अनडुहश्चाम्विधौ प्रयोजनम् । यथेह भवति - अनड्वानित्येवमनडुहीत्यत्रापि स्यात् ॥ न वा भवत्यनड्वाहीति ? ॥ भवत्यन्येन यत्नेन आमनडुहः स्त्रियां वेति । लिङ्गविशिष्टग्रहणादीकारान्तस्य प्राप्नोति ॥ पथिमथोरात्त्वे ॥ पथिमथोरात्त्वे प्रयोजनम् । यथेह भवति पन्थाः मन्थाः - एवं पथी मथीत्यत्रापि प्राप्नोति ॥ न केवलः पथिशब्दः स्त्रियां वर्तते ? ॥ उपसमस्तस्तर्हि वर्तते सुपथीति ॥ पुंसोऽसुङि्वधौ ॥ पुंसोऽसुङि्वधौ प्रयोजनम् । यथेह भवति पुमान्, एवं पुंसीत्यत्रापि स्यात् ॥ न केवलः पुंशब्दः स्रियां वर्तते ॥ उपसमस्तस्तर्हि वर्तते - सुपुंसीति ॥ सख्युर्णित्त्वानङौ ॥ सख्युर्णित्त्तवानङौ प्रयोजनम् । यथेह भवति सखा सखायौ सखायः । एवं सखी सख्यौ इत्यत्रापि प्राप्नोति ॥ ॥ भवद्भगवदघवतामोद्भावे ॥ भवद्भगवदघवतामोद्भावे प्रयोजनम् । यथेह भवति भोः भगोः अघोरिति; एवं भवति भगवति अघवतीत्यत्रापि स्यात् ॥ एतान्यस्याः परिभाषायाः प्रयोजनानि यदर्थमेषा परिभाषा कर्तव्या, एतस्यां (च सत्यां(2)) नार्थो झल्ग्रहणेन ॥ तदेतदनन्यार्थं झल्ग्रहणं कर्तव्यं नुम्प्रतिषेधो वा वक्तव्यः ? ॥ उभयं न वक्तव्यम् । उपरिष्टाज्झल्ग्रहणं क्रियते तत्पुरस्तादपक्रक्ष्यते(3) ॥ एवमपि सूत्रविपर्यासः कृतो भवति ॥ एवं तर्हि योगविभागः करिष्यते उगिदचां सर्वनामस्थानेऽधातोः । युजेरसमासे । ततो - नपुंसकस्य । नपुंसकस्य (च(2)) नुम् भवति । झल इत्युभयोः शेषः । ततोऽचः । अजन्तस्य च नपुंसक (लिङ्ग(2))स्य नुम्भवति ॥ यद्यपि तावदेतदुगित्कार्यं परिहृतमिदमपरं प्राप्नोति - शातनितरा पातनितरा । उगितो नद्या घादिषु ह्रस्वो भवतीत्यन्यतरस्यां ह्रस्वत्वं प्रसज्येत, नित्यं चेष्यते ॥ उगितो या नदी - एवमेतद्विज्ञायते ॥ उगित एषा नदी ॥ उगितो या परा ॥ अत्र चैव दोषो भवति, उगितो ह्येषा परा नदी, ऐषुमतितरायां च प्राप्नोति ॥ उगितो या परा विहिता ॥ उगित एषा विहिता ॥उगितःइत्येवं या विहिता ॥ एवमपि भोगवतितरायां दोषो भवति - भोगवतितरा । भोगवतीतरा ॥ तस्मादुगितो या नद्युगितो या विहितेत्येवमेतद्विज्ञास्यते ॥ एवं विज्ञायमाने शातनितरायां दोष एव ॥ सिद्धं तु युवोरनुनासिकत्वात् ॥ सिद्धमेतत् ॥ कथम् ? ॥ यकारवकारयोरेवेदमनुनासिकयोरिह ग्रहणम् । सन्ति हि यणः सानुनासिका निरनुनासिकाश्च ॥ (युवोरनाकौ) ॥ Kashika ------- यु वु इत्येतयोरुत्सृष्टविशेषणयोरनुनासिकयणोः प्रत्यययोर्ग्रहणम्, तयोः स्थाने यथासंख्यमन अक इत्येतावादेशौ भवतः। योरनः, वोरकः। नन्द्यादिभ्यो (३.१.१३४) ल्युः — नन्दनः। रमणः। सायमादिभ्यष्ट्युट्युलौ तुट् च (४.३.२३) — सायंतनः। चिरंतनः। **ण्वुल्तृचौ** (३.१.१३३) — कारकः। हारकः। **वासुदेवार्जुनाभ्यां वुन्** (४.३.९८) — वासुदेवकः। अर्जुनकः। अनुनासिकयणोरिति किम्? **ऊर्णाया युस्** (५.२.१२३) — ऊर्णायुः। **भुजिमृङ्भ्यां युक्त्युकौ** (प०उ० ३.२१) — भुज्युर्मृत्युरिति। एवमादीनां हि यणोऽनुनासिकत्वं न प्रतिज्ञायते,**प्रतिज्ञानुनासिक्याः पाणिनीयाः**। इह युवोरिति निर्देशाद् द्वन्द्वैकवद्भावपक्षेऽनित्यमागमशासनम् इति नुम् न क्रियते। नपुंसकलिङ्गता वा **लिङ्गमशिष्यं लोकाश्रयत्वाद् लिङ्गस्य**(महाभाष्य १.३९०) इति न भवति। इतरेतरयोगपक्षे तु छान्दसत्वाद् वर्णलोपो द्रष्टव्यः। युवोश्चेद् द्वित्वनिर्देशो द्वित्वे यण्तु प्रसज्यते। अथ चेदेकवद्भावः कथं पुंवद् भवेदयम्॥ द्वित्वे नैगमिको लोप एकत्वे नुमनित्यता। अशिष्यत्वाद्धि लिङ्गस्य पुंस्त्वं वेह समाश्रितम्॥ Siddhanta Kaumudi ----------------- यु वु एतयोरनुनासिकयोः क्रमादन अक एतावादेशौ स्तः । ग्लुचुकायनीनां समूहो ग्लौचुकायनकम् । औक्षकमित्यादि । आपत्यस्य च - (SK1082) इति यलोपे प्राप्ते । (वार्तिकम्) ॥ राजन्यकम् । मानुष्यकम् ॥ (वार्तिकम्) ॥ वार्धकम् ॥ Laghu Siddhanta Kaumudi ----------------------- यु वु एतयोरनाकौ स्तः । कारकः कर्ता ॥ Balamanorama ------------ **युवोरनाकौ** - युवोरनाकौ । युश्च वुश्च युवुः । समाहारद्वन्द्वे सौत्रं पुंस्त्वम् । तदाह — यु वु एतयोरिति । 'अनुनासिकयोरिष्यते' इति वार्तिकलब्धमेतत् । अनुनासिकयोः किम् । ऊर्णायुः । ग्लुचुकायनीनामिति ।प्राचामवृद्धा॑दिति ग्लुचुकशब्दादपत्ये फिन्, 'इतो मनुष्यजातेः' इति ङीष्, समूहे वुञ् । अकादेशः । आदिवृद्धिः ।यस्येति चे॑तीकारलोपः । औक्षकमिति । उक्ष्णां समूह इति विग्रहः । वुञ् । अकादेशः । टिलोपः । आदिवृद्धिः । उष्ट्राणां समूह इति विग्रहः । औष्ट्रकम् । उरभ्राः-मेषाः, तेषां समूहः, ओरभ्रकम् । राजकम्-राजन्यकम् । वात्सकम् । मानुष्यकम् । आजकम् । यलोपे प्राप्ते इति । राजन्यशब्दाद्वुञि अकादेशे 'आपत्यस्य च' इति यकारस्य लोपे प्राप्ते सतीत्यर्थः ।प्रकृत्याऽके इति । अके परे राजन्य, मनुष्य, युवन्-#एते प्रकृत्या स्युरिति वक्तव्यमित्यर्थः । यूनो भावो यौवनकम् । मनोज्ञादित्वाद्वुञ् । प्रकृतिभावान्न टिलोपः ।वृद्धाच्चेति । वृद्धशब्दस्वरूपमेव गृह्रते, नतुवृद्धिर्यस्याचामादि॑रिति वृद्धसंज्ञकम्, भाष्ये वृद्धशब्दस्यैवोदाहरणात् । तदाह — वाद्र्धकमिति । वृद्धानां समूह इति विग्रहः । Tattvabodhini ------------- **युवोरनाकौ** - युवोः । समाहारद्वन्द्वे सौत्रं पुंस्त्वम् । उकारस्तूच्चारणार्थो नेत्संज्ञकः । तेन नन्दनः, कारकः , नन्दना, कारिकेत्यत्रोगिल्लक्षणौ नुम्ङीपौ न स्तः । अनुनासिकयोरिति किम् । ऊर्णायुः ।प्रकृत्याऽके राजन्यमनुष्ययुवानः । प्रकृत्याऽकेइति । इह राजन्यमनुष्यग्रहणं व्यर्थं, रूढिशब्दत्वेनअपत्यस्य चे॑ति यलोपस्य प्राप्त्यभावात् । अतएवगोत्रोक्षोष्ट्र॑इत्यत्र तयोग्र्रहणं सार्थकम् । अन्यथा गोत्रग्रहणेनैव सिद्धे तयोग्र्रहणं न कुर्यादित्याहुः । यूनो भावो योवनिका । मनोज्ञादित्वाठ्ठञ् ।वृद्धाच्चेति वक्तव्यम् । वार्धकमिति । यदि वृद्धत्वेऽपि वार्धकमिति प्रयोगोऽस्ति, तर्हि मनोज्ञादित्वं यौवनिका । मनोज्ञादित्वाठ्ठञ् । Padamanjari ----------- शास्त्रस्य लाघवार्थं युवू प्रत्ययौ उपदिष्टौ, तयोरनेनानाकावादेशौ विधीयेते तत्रतत्र ह्यनाकयोरेवोपदेशे शास्त्रस्य गौरवं स्यात् । इह कस्मान्न भवति - यु मिक्षणे, युतः युतवान् उदितोर्युवोरिदं ग्रहणम् । कथम् ल्यडादिषूकारोऽनुनासिक इत्संज्ञकः । एवमपि द्यौउत्वा, द्यौउतः, द्यौउतवान - अत्र प्राप्नोति, ऊठस्त्वनुदिदवकाशः अथार्थवतो युवुशब्दस्य ग्रहणम्, अनर्थकश्चनायम्, तेन धात्वन्तस्य न भवति । भुज्युः, मृत्युः, कंयुः शंयुः ऊर्णायुरित्यादावुकारस्यानित्संज्ञकत्वादादेशाभावः । यदि तर्हि ल्युडादिषूकार इत्संज्ञकः - नन्दनः, कारकः, उगिदचाम् इति नुम् प्राप्नोति उगितो झलन्तस्य नुम्, न चौतौ झलन्तौ । ततर्हि झल्ग्रहणं कर्तव्यम् नेत्याह, यदेतत् नपुंसकस्य झलचः इति झल्ग्रहणं तत्पुरस्तादपक्रक्ष्यते, उगिदचां सर्वनामस्थानेऽधातोर्झलः युजेरसमासे, ततः - नपुंसकस्य झलढ, इत्येव, ततः, अचः, नपुंसकस्य इत्येव, तच्चावश्यं झल्ग्रहणमपक्रष्टव्यम्, अन्यथोगितो लिङ्गविशिष्टस्यापि नुम् प्रसज्येत - गोमती भवती । इह तर्हि नन्दना, कारिका - उगितश्चेति ङीप् प्राप्नोति ज्ञापकात्सिद्धम्, यदयं क्वचिद्यौवू षिट्टितौ करोति - शिल्पिनि ष्वुन्, ट।लुट।लुलौ तुट् चेति, तज्ज्ञापयति - न युवोरीकारो भवतीति । नैतदस्ति ज्ञापकम् षित्करणं ङीषर्थम्, टित्करणमनुपसर्जनार्थम्, टितो ह्यनुपसर्जनात् ङीप् भवति, उगितः पुनरविशेषेण । तथा शातनपातनशब्दौ ल्युडन्तौ गौरादिषु पठितौ, तत्र शातनितरा, पातनितरा, नद्याः शेषस्यान्यतरस्यामुगितश्च इत्युगिल्लक्षणो ह्रस्वविकल्पः प्राप्नोति । ननु चोगित इत्येवमुगितसंज्ञाशब्दनेन या नदी विहिता तस्यास्तत्र ग्रहणम् नेत्याह, इह हि दोषः स्यात् - भोगवतितरा, गौरिमतितरा, शार्ङ्गरवादिङीनन्तावैतौ, तत्र ह्रस्वविकल्पो न स्यात्, इष्यते चात्रापि ह्रस्वविकल्पो भाष्यकारेण । तस्मान्नैवं शक्यम् - उदितोर्युवोर्गुहणम् इति । न चेदेवं युतः, युत्वा, भुज्युः, शंयुरित्यत्रापि प्राप्नोति तत्राह - अनुनासिकयणोरिति । सन्ति हि यणः सानुनासिकाः, निरनुनासिकाश्च, तत्र येषामादेश इष्यते तेषु यकारवकारावनुनासिकौ पठितव्यौ, तेन क्वाप्यनिष्टप्रसङ्गः । प्रत्ययोरिति । वस्तुकथनमेतत्, न त्वप्रत्ययनिवृत्यर्थम्, तथाविधास्यानुनासिकस्य यणोऽसम्भवात् ॥ Nyaas ----- शास्त्रस्य लाघवार्थमिह, युवू प्रत्ययावुपदिष्टौ, तयोः स्थानेऽनाकावादेशौ विधीयते। यदि हि यत्र यत्र युवोरुपदेशस्तत्र तत्रानाकावादेशो विधियेयाताम्, तदा शास्त्रस्य गौरवं स्यात्; तयोः प्रभूतवर्णसमुदायात्मकत्वात्। इह युवोरनुनासिकयणोः प्रत्यययोरिदं ग्रहणम्, न च तथाविधावननुबन्धकौ युवू शास्त्रे सम्भवतः; तत्र सामर्थ्याद्विशेषकराननुबन्धानुत्सृज्य सामान्येन तयोग्र्रहणं विज्ञायते? इत्याह - `युवु - इत्येतयोरुत्सृष्टविशेषणयोः` इति। इदं ग्रहणमिति वक्ष्यमाणेन सम्बन्धः। विशेषणं यद्योयोगं लकारादि, तदुत्सृष्टं परित्यक्तं ययोस्तौ यथोक्तौ। एतेन `युवो` इति ल्युडादीनां सामान्येन निर्देश इति दर्शयति। यद्यत्र युवोरित्याविशेषेण ग्रहणं स्यात्? तदा `यु मिश्रणे` (धातुपाठः-1033) [`यु मिश्रणेऽमिश्रणें च` - धातुपाठः-] युतः, युतवान्, युत्वा; `दिषु क्रीडादौ (धातुपाठः-1107) द्यूतः, धूतवान्, धूत्वा; **ऊर्णाया युस्** (5.2.123) ऊर्णायुरित्येवमादावप्यनाकौ स्याताम्, अतोऽस्यातिप्रसङ्गनिरासायाह - `अनुनासिकयणोः` इति। अनुनासिको यण्ययोरिति बहुव्रीहिः। सन्ति हि यणः सानुनासिकाः निरनुनासकाश्च, तत्र हि ययोरनुनासिको यण्? तयोरिदं ग्रहणम्। अनुनासिकयणौ च यौ युवू तौ प्रत्ययावेव, नाप्रत्ययाविति दर्शयितुमाह - `प्रत्यययोः` इति। अन्ये ,त्वप्रत्ययनिवृत्त्यर्थं प्रत्यययोरित्युक्तमिति वर्णयन्ति, तदयुक्तम्; अनुनासिकयणोरित्यनेनैवाप्रत्ययनिवृत्तेः सिद्धत्वात्। तन ह्रप्रत्ययावनुनासिकयणौ युवू शास्त्रे स्तः। तस्मादनुनासिकयणौ यो यूवू तौ प्रत्ययावेव, नाप्रत्ययाविति सम्भवप्रदर्शनार्थं प्रत्यययोरित्युक्तमिति विज्ञायते। अनुनासिकयणोश्च प्रत्ययोग्र्रहणे सत्यङ्गस्येति सम्बन्धलक्षणेयं षष्ठी वित्रेया। ङ्गसम्बन्धिनोर्युवोरिति सम्बन्धः। स पुनर्निमित्तिनिमित्तभावलक्षणः। प्रत्ययनिमित्तो ह्रङ्गस्यात्मलाभ इत्यङ्गं निमित्ति, प्रत्ययो निमित्तम्। `योरनो वोरकः` इति। अनेन यथाक्रमं स्थान्यादेशसम्बन्धमाचष्टे`। `नन्द्यादिभ्यो ल्युः` इति। `नन्दिग्रहि` (3.1.134) इत्यादिना। `नन्दनः, रमणः` इति। `टु नदि समुद्धौ` (धातुपाठः-67), `रमु `क्रीडायाम्` (धातुपाठः-853)। हेतुमति णिच्, तदन्ताल्लयुः। `सायन्तनः` इति। सायमादिभ्यष्टउटलादिति। `सायञ्चिरम्` (4.3.23) इत्यादिना। जातादौ शैषिकेऽर्थे तद्धितः। `वासुदेवकः, अर्जुनकः` इति। वसुदेवस्यापत्यं वासुदेवः, वासुदेवो भक्तिरसयेत#इ `वसुदेवार्जुनाभ्यां वुन्` (4.3.98) इति वुन् - वासुदेवकः, अर्जुनकः। ऊर्णा अस्य सन्तीत्यूर्णायुः, तत्रानुनासिकयणत्वाभावान्न भवति। किं पुनः कारणमेवमादीनीं यणोऽनुनासिकत्वं नास्ति? इत्याह - `एवमादीनाम्` इत्यादि। `प्रतिज्ञानुनासिक्याः पाणिनीयाः` इति। यत्र तैरनुनासिकत्वं प्रतज्ञायते तत्रैव भवति, नान्यत्र। न च युस्प्रभृतीनां तैस्तत्? प्रतिज्ञायते, लक्ष्यानुरोधात्। तेन तेषां यणोऽनुनासिकत्वं न भवति। आदिशब्देन **अहंशुभमोर्युस्** (5.2.140) इत्येवमादयो गृह्यन्ते। ननु च `अहंशुभमोर्युस्` **कंशंभ्यां बभयुस्तितुतयसः** (5.2.138) इत्यतर, सित्करणादेव न भविष्यति, सित्करणं हि पदसंज्ञार्यम्, पदसंज्ञा चानुस्वारार्था - तस्यां सत्यां **मोऽनुस्वारः** (8.3.23) इत्यनुस्वारो यथा स्यात्। यदि चात्रानादेशः स्यात्? तदा सित्करणमनर्थकं स्यात्, न ह्रनादेशे कृतेऽनुस्वारो भवति, तद्विधौ **हलि सर्वेषाम्** (8.3.22) इत्यतो हलीत्यनुवृत्तेः। आदेशे कृते न भवति; हलादित्वाभावात्? नैतदस्ति; वचनसामर्थ्यादजादावप्यनुस्वारः स्यात्। सित्करणस्यान्यदपि प्रयोजनम् - पदसंज्ञा। तत्प्रजनम् - भसंज्ञाबाधः। भसंज्ञायामध्ययानां भमात्रे टिलोपः स्यात्। अवग्रहार्थे वा सित्करणं स्यात्, कुतस्यानर्थक्यम्!इह युवोरिति निर्देशे समाहारे वा द्वन्द्व आश्रीयते, इतरेतरयोगे वा; तत्र पूर्वस्मिन्? पक्षे षष्ठएकवचने कृते `स नपुंसकम्` (2.4.17) इति नपुंसकत्वात्? **इकोऽचि विभक्तौ** (7.1.73) इति नुमा भवितव्यम्, ततश्च `युवुनः` इति निर्द्देशः स्यात्। इतरस्मस्तु पक्ष ओसि परतो यणादेशे कृते युष्वोरिति द्वितीयवकारश्रवणमापद्येत? इत्येतच्चोद्यनिरासायाह - `इह युवोरिति निर्देशः` इत्यादि। `अनित्यमागमशासनम्` इति। आगमानां शासनम्=विधानम्, तदनित्यमिति; क्वचित्? तदभावात्। अथ वा - आगमाः शिष्यन्ते विधीयन्ते येन शास्त्रेण तदागमशासनं शास्त्रम्, तदनित्यम्, अविद्यमानं नित्यं कार्यमस्येति कृत्वा। अनित्यता पुनरागमशासनस्य **घोर्लोपो लेटि वा** (7.3.70) इत्यत्र वाग्रहणाल्लिङ्गाद्विज्ञायते। तद्धि ददद्, ददादित्यत्र नित्यं घोर्लोपो मा भूदित्येवमर्थं क्रियते। यदि च नित्यमागमशासनं स्याद्वाग्रहणमनर्थकं स्यात्। भवतु नित्यो लोपः, सत्यपि तस्मिन्? **लेटोऽडाटौ** (3.4.94) इत्यटि कृते ददद्? ददादिति सिद्ध्यत्येव। अनित्यत्वे त्वागमशासनस्याडागमाभावान्न सिध्यति। ततो वावचनमर्थवद्भवति। `नपुंसकलिङ्गता वा` इत्यादि। अथ वा नपुंसकलिङ्गतैवात्र नास्ति। किं कारणम्(ित्याह - `लिङ्गमशिष्यम्` इत्यादि। लिङ्गस्य हि लोकधर्मत्वाल्लोक एवाश्रयः। तस्माल्लोकत एव सिद्धत्वात्? तदश्रिष्यं न विधातव्यम्। लिङ्गशास्त्रमेवात्र तादथ्र्याल्लिङ्गशब्देनोच्यते। लिङ्गार्थ शास्त्रमशिष्यं न कर्तव्यम्, तत्साध्यस्य लिङ्गस्य लोकाश्रयत्वात्। तदनेन `स नपुंसकम्` (2.4.17) इत्यादेः प्रत्याख्यानं दर्शयति। तस्मश्च प्रत्याख्याते सति तद्द्वारेण तस्य नपुंसकत्वं न भवतीति कुतो नुम्प्रसङ्गः! `इतरेतरपक्षे तु च्छान्दसत्वाद्वर्णलोपः` इति। `छन्दोवत्? सूत्राणि भवन्ति` इति। छान्दसत्वम्। तेन यथेष्कर्तारमध्वर इत्यत्र निसो नकारलोपः तथेहापि वकारस्यापि लोपो द्रष्टव्यः॥ Prakriyasarvasvam ----------------- यु वु इत्येतयोः क्रमाद् अन अक इत्यादेशौ स्तः । 'अचो ञ्णिति' (७-२-११५) इति वृद्धिः । भावकः । कारकः । 'अत उपधायाः' (७-२-११६) इति वृद्धिः । पाचकः ।