64170: न मपूर्वोऽपत्येऽवर्मणः ============================= **Padacheda:** न | S | 0 | 0 | मपूर्वः | S | 1 | 1 | अपत्ये | S | 7 | 1 | अवर्मणः | S | 6 | 1 | Sutrartha --------- **** Vasu English Summary -------------------- In a अङ्ग (stem) in अन् with a preceding म् with the exception of वर्मन् , the ending अन् does not remain unchanged before the Patronymic affix अण् । Vasu English Translation ------------------------ In a अङ्ग (stem) in अन् with a preceding म् with the exception of वर्मन् , the ending अन् does not remain unchanged before the Patronymic affix अण् । Thus सुषाम्णोऽपत्यं = सौषामः, चान्द्रसामः from चन्द्रसामन् ॥ Why do we say 'preceded by म्'? Observe सोत्वनः, preceded by व ॥ Why do we use 'Patronymic'? Observe चर्मणा परिवृतो रथः = चामर्णः, the अन् not being changed by (6.4.167). Why do we say 'with the exception of वर्मन'? Observe चक्रवर्मणोऽपत्यं = चाकवर्मणः ॥ Vart:- Optionally so in हितनामन्, as हितनाम्नोऽपत्यं = हैतनामः or हैतनामनः ॥ Bhashya ------- न मपूर्वोपत्येऽवर्मणः (3168) (विकल्पोपसंख्यानभाष्यम्) मपूर्वात्प्रतिषेधे वा हितनाम्न इति वक्तव्यम् । हैतनामः, हैतनामनः । आरोहितो वै हैतनामः । आरोहितो वै हैतनामनः । समानो हैतनामः । समानो हैतनामन इति ॥ Kashika ------- मपूर्वोऽन् अवर्मणोऽणि परतोऽपत्येऽर्थे न प्रकृत्या भवति। सुषाम्णोऽपत्यं सौषामः। चान्द्रसामः। मपूर्व इति किम्? सौत्वनः। अपत्य इति किम्? चर्मणा परिवृतो रथः चार्मणः। अवर्मण इति किम्? चक्रवर्मणोऽपत्यं चाक्रवर्मणः॥ मपूर्वप्रतिषेधे वा हितनाम्न इति वक्तव्यम्॥ हितनाम्नोऽपत्यं हैतनामः, हैतनामनः॥ Siddhanta Kaumudi ----------------- मपूर्वोऽन्प्रकृत्या न स्यादपत्येऽणि । भाद्रसामः । मपूर्वः किम् ? सौत्वनः अपत्ये किम् ? चर्मणा परिवृतश्चार्मणो रथः । अवर्मणः किम् ? चक्रवर्मणोऽपत्यं चाक्रवर्मणः । (वार्तिकम्) ॥ हितनाम्नोऽपत्यं हैतनामः - हैतनामनः ॥ Balamanorama ------------ **न मपूर्वोऽपत्येऽवर्मणः** - न मपूर्वो ।ञपत्येऽवर्मणः । भाद्रसाम इति । भद्रसाम्नो ।ञपत्यमिति विग्रहः । अणि टिलोपः । अनो मपूर्वत्वान्न प्रकृतिभावः । सौत्वन इति । सुत्वनोऽपत्यमिति विग्रहः । मपूर्वत्वाऽभावात्प्रकृतिभावः । चार्मण इति । 'परिवृतो रथः' इत्यणि टिलोपः । अण आपत्यत्वाऽभावात्प्रकृतिभावः । वा हितनाम्न इति । 'न मपूर्वः' इति प्रतिषेध॑इति शेषः । Nyaas ----- `चार्मणः` इति। `परिवृत्तो रथः` (4.2.9) इत्यर्थे **प्राग्दीव्यतोऽण्** (4.1.83) । `वा हितनाम्न इति वक्तव्यम्` इति। हितनामशब्दस्य व प्रतिषेधो भवतीत्येतदर्थरूपं व्याख्येयमित्य्रथः। तत्रेदं व्याख्यानम् -इहापि तदेव विभाषाग्रहणमनुवर्तते, सा च व्यवस्थितविभाषा। तेन हितनाम्नो वा प्रतिषेधो भविष्यति॥ Prakriyasarvasvam ----------------- वर्मञ्छब्दादन्यत्र मपूर्वोऽन् अपत्यार्थेऽणि परे प्रकृत्या न स्यात् । सुषाम्णोऽपत्यं सौषामः । वर्मणस्तु चाक्रवर्मणः । वा हितनाम्न इति वाच्यम् । हैतनामः हैतनामनः । Vartika ------- मपूर्वप्रतिषेधे वा हितनाम्न इति वाच्यम् ।