64157: प्रियस्थिरस्फिरोरुबहुलगुरुवृद्धतृप्रदीर्घवृन्दारकाणां प्रस्थस्फवर्बंहिगर्वर्षित्रब्द्राघिवृन्दाः ======================================================================================================= **Padacheda:** प्रिय-स्थिर-स्फिर-उरु-बहुल-गुरु-वृद्ध-तृप्र-दीर्घ-वृन्दारकाणाम् | S | 6 | 3 | प्र-स्थ-स्फ-वर्-बंहि-गर्-वर्षि-त्रप्-द्राघि-वृन्दाः | S | 1 | 3 | Sutrartha --------- **** Vasu English Summary -------------------- Before the affixes 1. इष्ठ 2. इमन् and ईयस् the following substitutions take place 1. प्र for प्रिय 2. स्थ for स्थिर 3. स्फ for स्फिर 4. वर् for उरु 5. बह for बहुल 6. गर् for गुरु 7. वर्ष for वृद्ध 8. त्रप् for तृप् 9. द्राघ for दीर्घ and 10. वृन्द for वृन्दारक। Vasu English Translation ------------------------ Before the affixes 1. इष्ठ 2. इमन् and ईयस् the following substitutions take place 1. प्र for प्रिय 2. स्थ for स्थिर 3. स्फ for स्फिर 4. वर् for उरु 5. बह for बहुल 6. गर् for गुरु 7. वर्ष for वृद्ध 8. त्रप् for तृप् 9. द्राघ for दीर्घ and 10. वृन्द for वृन्दारक। Thus प्रेष्ठः, प्रेमा, प्रेयान्; स्थिर, स्थेष्ठः, स्थेयान्, स्थेमा; स्फिर, स्फेष्ठः, स्फेयान्; उरु, वरिष्ठः, वरिमा, वरीयान्; बहुल, बंहिष्ठः, बंहीयान्, बंहिमा; गुरु, गरिष्ठः, गरीयान्, गरिमा; वृद्ध, वर्षिष्ठः, वर्षीयान्; तृप, त्रपिष्ठः, त्रपीयान्; दीर्घ, द्राघिष्ठः, द्राघीयान्, द्राघिमा; वृन्दारक, वृन्दिष्ठः, वृन्दीयान्; प्रियोरुगुरुबहुलदीर्घाः पृथ्वादिषु पठ्यन्ते, तेनान्येषामिमनिज् न भवतीति नोदाह्रियते ॥ Of the above, *priya*, *uru*, *guru* and *bahula* are read in *Prithvadi* class and take इमन् (5.1.122), others do not. Kashika ------- प्रिय स्थिर स्फिर उरु बहुल गुरु वृद्ध तृप्र दीर्घ वृन्दारक इत्येतेषां प्र स्थ स्फ वर् बंहि गर् वर्षि त्रप् द्राघि वृन्द इत्येते यथासंख्यमादेशा भवन्ति इष्ठेमेयस्सु परतः। प्रिय — प्रेष्ठः। प्रेमा। प्रेयान्। स्थिर — स्थेष्ठः। स्थेयान्। स्फिर — स्फेष्ठः। स्फेयान्। उरु — वरिष्ठः। वरिमा। वरीयान्। बहुल — बंहिष्ठः। बंहिमा। बंहीयान्। गुरु — गरिष्ठः। गरिमा। गरीयान्। वृद्ध — वर्षिष्ठः। वर्षीयान्। तृप्र — त्रपिष्ठः। त्रपीयान्। दीर्घ — द्राघिष्ठः। द्राघिमा। द्राघीयान्। वृन्दारक — वृन्दिष्ठः। वृन्दीयान्। प्रियोरुगुरुबहुलदीर्घाः पृथ्वादिषु पठ्यन्ते। तेनान्येषामिमनिज् न भवतीति नोदाह्रियते॥ Siddhanta Kaumudi ----------------- प्रियादीनां क्रमात्प्रादयः स्युरिष्ठादिषु । प्रेष्ठादिषु । प्रेष्ठः । स्थेष्ठः । स्फेष्ठः । वरिष्ठः । बंहिष्ठः । गरिष्ठः । वर्षिष्ठः । त्रपिष्ठः । द्राघिष्ठः । वृन्दिष्ठः । एवमीयसुन् । प्रेयान् । प्रियोरुबहुलगुरुदीर्घाणां पृत्वादित्वादिमनिच् । प्रेमेत्यादि ॥ Balamanorama ------------ **प्रियस्थिरस्फिरोरुबहुलगुरुवृद्धतृप्रदीर्घ- वृन्दारकाणां प्रस्थस्फवर्बंहिगर्वर्षित्रब्द्राघिवृन्दाः** - प्रियस्थिर । प्रियादीनामिचि । प्रिय, स्थिर, स्फिर, उरु, बहुल, गुरु, वृद्ध, तृप्र, दीर्घ,बृन्दारक एषां दशानामित्यर्थः । प्रादय इति । प्र, स्थ, स्फ, वर्, बंहि, गर्, वर्षि, त्रप्, द्राघि, बृन्द एते दशेत्यर्थः । इष्ठादिष्विति । इष्ठेमेयस्स्वित्यर्थः । 'तुरिष्ठेमेयः सु' इत्यतस्तदनुवृत्तेरिति भवः । प्रेष्ठ इति । प्रियशब्दादिष्ठनि प्रकृतेः प्रादेशः । आभीयत्वेनाऽसिद्धत्वादकारोच्चारणसामर्थ्याच्च न टिलोपः । स्थेष्ठ इति । स्थिरशब्दादिष्ठनि प्रकृतेः स्थादेशः । प्रकृतिभावान्न टिलोपः । स्फेष्ठ इति । स्फिरशब्दस्य इष्ठनि स्फादेशः । वरिष्ठ इति । उरुशब्दादिष्ठनि 'वर्' आदेशः । बंहिष्ठ इति । बहुलशब्दस्य 'बहिं' इत्यादेशः । इकार उच्चारणार्थः । अन्यथा आभीयत्वेनाऽसिद्धत्वादुच्चारणसामर्थ्याद्वा इकारस्य लोपो न स्यात् । गरिष्ठ इति । गुरुशब्दस्य इष्ठनि 'गर्' आदेशः । वर्षिष्ठ इति । वृद्धशब्दस्य इष्ठनि वर्षिरादेशः । बंहिवदिकार उच्चारणार्थः । त्रपिष्ठ इति । तृप्रशब्दस्य इष्ठनि 'त्रप्' आदेशोऽदुपधः । तृपधातोस्तृप्त्यर्थकादौकादौणादिके रकि तृप्रशब्दः । द्राधिष्ठ इति । दीर्घशब्दस्य इष्ठनि 'त्रप्' आदेशोऽदुपधः । तृपधातोस्तृप्त्यर्थकादौणादिके रकि तृप्रशब्दः । द्राधिष्ठ इति । दीर्घशब्दस्य इष्ठनि द्राधिरादेशः । बंहिवदिकार उच्चारणार्थः । वृन्दिष्ठ इति । वृन्दारकशब्दस्य इष्ठनि बृन्द आदेशः । अकार उच्चारणार्थः । एवमीयसुन्निति ।प्रेयान्, स्थेयान्, स्फेयान्, वरीयान्, बंहीयान्, गरीयान्, वर्षीयान्, त्रपीयान्, द्राधीयान्, वृन्दीयान् । अत्र इमनिजनुवृत्तेः प्रयोजनमाह — प्रियोरुबहुलेति । इत्यादीति । वरिमा, बंहिमा, गरिमा, द्राधिमा । Padamanjari ----------- प्रियस्थिरोरुबहुलदीर्घाः पृथ्वादिषु पठ।ल्न्ते, तेनैतेष्विमनिजनुवृतेश्चरितार्थत्वादितरेष्विमनिचः कल्पकमेतद्वचनं न भवति, तदाह - तेनान्यषामिति ॥ Nyaas ----- किं पुनः कारणं प्रियोरुगुरुदीर्घाणामेवेमनिजुदाह्यियते, नान्येषाम्? इत्याह -`प्रियोरुबहुलगुरुदीर्घाः` इत्यादि। `प्रियादिभ्य एवेमनिच्? सम्भवति, नान्येभ्यः` इत्येवम्परमेतद्वाक्यमित्यर्थः। अन्यथा यद्यपि प्रियादय एव पृथ्त्रादिषु पठन्ते, वर्णावाचिनो वा स्युः, तदोदाह्यियेतेमनिच्? तेषामित्यकारणमेदिमनिचोऽत्रोदाहरणं स्यात्॥ Prakriyasarvasvam ----------------- इष्ठेमेयस्सु परेषु प्रियादीनां क्रमात् प्रादयः स्युः । प्रियस्य प्रः । प्र इमन् । टिलोपे प्राप्ते, Sutra Prayogas -------------- * **वर्षीयान्** (किरातार्जुनीयम्): `प्रियस्थिर...` इत्यादिना वृद्धशब्दस्य वर्षादेशः। * **द्राघीयसा** (किरातार्जुनीयम्): `प्रियस्थिरस्फिरोरु...` इत्यादिना सूत्रेण दीर्घशब्दस्य द्राघादेशः। * **द्राघीयसा** (किरातार्जुनीयम्): `प्रियस्थिरस्फिरोरुबहुलगुरुवृद्धतृप्रदीर्घवृन्दारकाणां प्रस्थस्फवर्बंहिगर्वर्षित्रब्द्राघिवृन्दाः` इति दीर्घशब्दस्य द्राघादेशः। * **स्थेयान्** (किरातार्जुनीयम्): `प्रियस्थिर-` इत्यादिना स्थादेशः। * **स्थेयसीं** (किरातार्जुनीयम्): `प्रियस्थिर-` इत्यादिना स्थादेशः। * **वरीयान्** (किरातार्जुनीयम्): `प्रियस्थिर-` इति उरुशब्दस्य वरादेशः। * **गरीयसीर्** (शिशुपालवधम्): `प्रियस्थिर...` इति गुरोर्गरादेशः। * **स्थेयसीं** (शिशुपालवधम्): `प्रियस्थिरस्फिरोरुबहुलगुरुवृद्धतृप्रदीर्घवृन्दारकाणां प्रस्थस्फवर्बंहिगर्वर्षित्रब्द्राघिवृन्दाः` इति स्थादेशः। * **बंहीयसा** (शिशुपालवधम्): `प्रियस्थिर-` इत्यादिना बहुलशब्दस्येयसुनि बंहादेशः। * **प्रेयांसं** (शिशुपालवधम्): `प्रियस्थिर-` इत्यादिना प्रादेशः । * **द्राधीयांस** (शिशुपालवधम्): `प्रियस्थिर...` इत्यादिना दीर्घस्य ईयसुनि द्राघादेशः। * **स्थेमभाजः** (शिशुपालवधम्): `प्रियस्थिर...` इत्यादिना स्थिरशब्दस्येमनिचि स्थादेशः। * **वृन्दिष्ठ** (भट्टिकाव्यम्): `प्रिय-स्थिर...` इत्यादिना वृन्दारकप्रियगुरुबहुलुरूणामिष्ठनि यथासंख्यं वृन्दप्रगबैहवर इत्येते आदेशा भवन्ति। * **संबंहयन्तीम्** (भट्टिकाव्यम्): `प्रिय-स्थिर...` इत्यादिना बहुलशब्दात् णिचि इष्टवद्भावात् बंहादेशः। * **द्राघिम-वन्त्युदूहुः** (भट्टिकाव्यम्): `प्रिय स्थिर` इत्यादिना द्राघादेशः पश्चान्मतुप्। * **वरिष्ठः** (भट्टिकाव्यम्): `प्रियस्थिर` इत्यादिनोरुशब्दस्य वरादेशो महत्वर्यायस्य। * **द्राघयन्ति** (भट्टिकाव्यम्): `प्रिय-स्थिर` इत्यादिना दीर्घशब्दस्य द्राघ्यादेशः।