64153: बिल्वकादिभ्यश्छस्य लुक् ============================== **Padacheda:** बिल्वकादिभ्यः | S | 5 | 3 | छस्य | S | 6 | 1 | लुक् | S | 1 | 1 | Sutrartha --------- **** Vasu English Summary -------------------- The affix छ of the भ अङ्ग (stems) बिल्वक etc. is elided before a तद्धित affix. Vasu English Translation ------------------------ The affix छ of the भ अङ्ग (stems) बिल्वक etc. is elided before a तद्धित affix. The बिल्व &c are a subdivision of *Nadadi* class (4.2.91), and the augment क is added to them by (4.2.91). After these words, with the augment क, the affix छ is elided. Thus बिल्वा यस्यां सन्ति = बिल्वकीयाः; तस्यां भवाः (4.3.53) = बैल्वकाः ॥ Similarly वेणुकीयाः - वैणुकाः, वैत्रकीयाः, वैत्रकाः, वेतसकीयाः, वैतसकाः, तृणकीयाः, तार्णकाः इक्षुकीयाः, ऐक्षुकाः, काष्ठकीयाः, काष्ठकाः, कपोतकीयाः, कापोतकाः ॥ There is shortening of the final of क्रुंचा by the *Vartika* क्रुञ्चा ह्रस्वत्वं च ॥ क्रुञ्चकीयाः, क्रौञ्चकाः ॥ छग्रहणं किम्, छमात्रस्य लुग्यथा स्यात् कुको निवृत्तिर्मा भूदिति, ॥ अन्यथा हि संनियोगशिष्टानामन्यतापाये उभयोरप्यभाव इति कुगपि निवर्त्तेत ॥ लुग्ग्रहणं सर्वलोपो यथा स्याद् यकारमात्रस्य मा भूत् ॥ The affix छ is specifically mentioned in order to show that the affix only should be elided and not the augment क ॥ Otherwise क् would also have been elided on the strength of the maxim :- संनियोगशिष्टानामन्यतरापाये (or अभावे) उभयोरप्यभावः (or अपायः), "When of the two things which are taught together, one disappears, then the other disappears likewise". The लुक् indicates the elision of the whole affix ईय, and not merely of य ॥ Bhashya ------- बिल्वकादिभ्यश्छस्य लुक् (3151) (छग्रहणप्रत्याख्यानभाष्यम्) छग्रहणं शक्यमकर्तुम् । इह कस्मान्न भवति - बिल्वकेभ्यः ? भस्येति वर्तते ॥ एवमपि बिल्वकायेत्यत्र प्राप्नोति । तद्धितस्येति वर्तते ॥ एवमपि बिल्वकस्य विकारः - अवयवो वा - बैल्वकः, अत्र प्राप्नोति । तद्धिते तद्धितस्य इति वर्तते ॥ एवमपि बिल्वकीयायां भवो बैल्वकः, बैल्वकस्य किञ्ञ्चित् - बैल्वकीयम्, अत्र प्राप्नोति । न स बिल्वकात् । बिल्वकादिभ्यो यो विहित इत्युच्यते, न चासौ बिल्वकशब्दाद्विहितः । किं तर्हि ? बिल्वकीयशब्दात् ॥ (ज्ञापनेन छग्रहणप्रयोजनसाधकभाष्यम्) एवं तर्हि सिद्धे सति यच्छग्रहणं करोति तज्ज्ञापयत्याचार्यः - भवत्येषा परिभाषा सन्नियोगशिष्टानामन्यतराभावे उभयोरप्यभाव इति । तस्माच्छग्रहणं कर्तव्यम्, छस्यैव लुग्यथा स्यात् कुको मा भूदिति ॥ Kashika ------- नडादिषु बिल्वादयः। पठ्यन्ते। **नडादीनां कुक् च** (४.२.९१) इति कृतकुगागमा बिल्वकादयो भवन्ति। तेभ्य उत्तरस्य छस्य भस्य तद्धिते परतो लुग् भवति। बिल्वा यस्यां सन्ति बिल्वकीया, तस्यां भवा बैल्वकाः। वेणुकीया — वैणुकाः। वेत्रकीया — वैत्रकाः। वेतसकीया — वैतसकाः। तृणकीया — तार्णकाः। इक्षुकीया — ऐक्षुकाः। काष्ठकीया — काष्ठकाः। कपोतकीया — कापोतकाः। **क्रुञ्चाया ह्रस्वत्वं च** (ग०सू० ९०)। क्रुञ्चकीया — क्रौञ्चकाः। छग्रहणं किम्? छमात्रस्य लुग् यथा स्यात्, कुको निवृत्तिर्मा भूदिति। अन्यथा हि **संनियोगशिष्टानामन्यतरापाये उभयोरप्यभावः** इति कुगपि निवर्तेत। लुग्ग्रहणं सर्वलोपो यथा स्याद्, यकारमात्रस्य मा भूत्॥ Siddhanta Kaumudi ----------------- नडाद्यन्तर्गता बिल्वकादयस्तेभ्यश्छस्य लुक् तद्धिते परे । बिल्वा यस्यां सन्ति सा बिल्वकीया । तस्यां भवा बैल्वकाः । वेत्रकीयाः । वैत्रकाः । छस्य किम् । छमात्रस्य लुग्यथा स्यात्कुको निवृत्तिर्माभूत् । अन्यथा [(परिभाषा - ) संनियोगशिष्टानाम्] इति कुगपि निवर्तेत । लुग्ग्रहणं सर्वलोपार्थम् । लोपो हि यमात्रस्य स्यात् ॥ Balamanorama ------------ **बिल्वकादिभ्यश्छस्य लुक्** - बिल्वरादिभ्यः । षाष्ठमिदं सूत्रम् । बिल्वकादीति-नडाद्यन्तर्गबिल्वादीनां कृतकुगागमानां निर्देशः । ककारादकार उच्चारणार्थः । तद्धिते इति ।आपत्यस्य च तद्धिते॑ इत्यतस्तदनुवृत्तेरिति भावः । बिल्वकीयेति ।नडादीनां कुक्चे॑ति छः । प्रकृते कुक्च । बैल्वका इति । बिल्वकीयशब्दाद्भवार्थे अण् । तस्मिन्परे छस्य लुगिति भावः । वेत्रकीया इति । वैत्राणि अस्यां सन्तीत्यर्थे नडादित्वाच्छः, प्रकृते कुक्चेति भावः । वैत्रका इति । वेत्रकीयायां भवा इत्यर्थः । वेत्रकीया शब्दादणि छस्य लुगिति भावः । छस्य किमिति । एभ्यः परस्य छस्यैव संभव इति प्रश्नः । संनियोगेति ।संनियोगशिष्टानां सह वा प्रवृत्तिः सह वा निवृत्ति॑रिति न्यायेनेत्यर्थः । 'ढे लोपोऽकद्र्वाः' इत्यतो लोप इत्यनुवृत्त्यैव सिद्धे लुग्ग्रहणं किमर्थमित्यत आह — लुग्ग्रहणं सर्वलोपार्थमिति । प्रत्ययाऽदर्शनस्यैव लुक्शब्दार्थत्वात्कृत्स्नस्य ईयस्य लोपो लभ्यते इति भावः । लोपविधौ तु नैवं लभ्यते इत्याह — लोपो हीति । लोपविधौसूर्यतिष्ये॑त्यतो 'य उपधायाः' इत्यनुवृत्तौ बिल्वादिभ्यः परस्य छादेशभूतस्य ईयस्य उपधाभूतो यो यकारस्तस्य लोप इत्यर्थलाभाद्यकारमात्रस्य लोपः स्यात् । 'यः उपधायाः' इत्यननुवृत्तौ तुआदेः परस्ये॑ति ईकारस्यैव लोपः स्यादिति भावः । द्यकारमात्रस्य लोपः स्यात् । 'य उपधायाः' इत्यनननुवृत्तौ तुआदेः परस्ये॑ति ईकारस्यैव लोपः स्यादिति भावः । *****इति बालमनोरमायाम् चातुरर्थिकाः ।*****तिङन्ते चुरादयःअथ स्वार्थिकणिजन्ताश्चुरादिधातवो निरूप्यन्ते । चुर स्तेये इति । रेफादकार उच्चारणार्थः, न त्वित्संज्ञकः, प्रयोजनाऽभावात्, 'णिचश्च' ति पदव्यवस्थाया वक्ष्यमामत्वाच्च । एवमग्रेऽपि । Padamanjari ----------- बिल्वकादीनामस्मिन्प्रदेशे प्रातिपदिकगणे पाठाभावातत्परिज्ञानार्थमाह - नडादिष्विति । नडादिषु बिल्वादयस्तावत्पठ।ल्न्ते, तत्र कुकि कृते यद्रूपं ककारान्तं तदिहानुकृतम् । बिल्वक् आदिर्येषामिति विगृह्य समासः । जश्त्वे तु क्रियमाणे रुपविनाशप्रसङ्गान्न कृतमित्यर्थः । तेन बिल्वक आदिर्येषामिति अज्ञातादिषु यः एकस्तदन्तानां ग्रहणं नाशङ्कनीयम् पाठाभावात् ।च्छग्रहणं किमिति । कृतकुगागमेभ्यः परस्तादन्यो न सम्भवतीति प्रश्नः कथं पुनः कुको निवृत्तिप्रसङ्गः इत्याह - अन्यथा हीति । इदमेव च्छग्रहणं ज्ञापकम् - अस्त्येषा परिभाषेति । यकारमात्रस्येति । उपधाया इत्यनुवृतेस्तस्यैव स्याद् । अथापि तन्निवृतम्, एवमपि, आदेः परस्य इति परस्य प्रसङ्गादनिष्टमेव ॥ Nyaas ----- `बिल्वकदिभ्यः` इति। आगन्तुकेनाकारेण निर्देशः। `बिल्वकीया` इति। **उत्करादिभ्यश्छः** (4.2.90) **नडादीनां कुक् च** (4.2.91) इति चातुरर्थिकश्छः, कुगागमः। `बैल्वकाः` इति। `प्राग्दीष्यतेऽण्` (4.1.83) । अथ छग्रहणं किमर्थम्, यावता कृतकुगागमा बिल्वकीदयो गृहीताः, एभ्यश्छप्रत्ययः सम्भवतीत्यन्तरेणापि छग्रहणं छस्यैव लोपो भवितव्यतीति? अत आह -`छग्रहणम्` इत्यादि। यदि छग्रहणं न क्रियेत, तदा सन्नियोगशिष्टपरिभाषया (ह।भा।14) छकारे निवर्तमाने कुको निवृत्तिः स्यात्। तस्याश्च परिभाषया एतेदेव छग्रहणं ज्ञापकम्। अथ लुग्ग्रहणं किमर्थम्, प्रकृत एव लोपो विधीयते? इत्यत आह -`लुग्ग्रहणम्` इत्यादि। यकारग्रहणमेकदेशोपलक्षणार्थं द्रष्टव्यम्। स हि लोप उपधाया इत्यनेन सम्बद्ध इति तस्मिन्ननुवर्तमाने `य उपधायाः` (6.4.149) इत्येतदप्युनुवर्तेत, छस्येयादेशे कृते यकारमात्रस्य स्यात्। अथापि `उपधायाः` इत्येतन्नानुवर्तेत? एवमपि **आदेः परस्य** (1.1.54) इतीकारमात्रस्य स्यात्। `लुग्ग्रहणम्` इति। लुगिति प्रत्ययादर्शनस्यैषा संज्ञा, न तु प्रत्ययस्यैकदेशस्यादर्शनस्येति। लुग्ग्रहणे सति सर्वस्यैव लुक्? सिद्ध्यति। तद्रथं हि लुग्ग्रहणम्॥ Prakriyasarvasvam ----------------- एभ्यः परस्य छस्य भसंज्ञानिमित्ते तद्धिते परे लुक् स्यात् । बिल्वकीये भवो बैल्वकः । वैणुक इति ।