64148: यस्येति च ================ **Padacheda:** यस्य | S | 6 | 1 | ईति | S | 7 | 1 | च | S | 0 | 0 | Sutrartha --------- **भसंज्ञकस्य अङ्गस्य 'अ'वर्णस्य 'इ'वर्णस्य च तद्धितप्रत्यये परे ईकारे परे च लोपः भवति ।** अस्मिन् सूत्रे प्रयुक्तः 'यस्य' अयम् शब्दः 'इ + अ' इत्यनेन निर्मितः अस्ति । इश्च अश्च = यः । 'यस्य' इत्युक्ते इवर्णान्तस्य + अवर्णान्तस्य । अतः अस्य सूत्रस्य अर्थः - भसंज्ञकस्य अङ्गस्य अन्तिमस्य अ-वर्णस्य / इ-वर्णस्य तद्धितप्रत्यये परे ईकारे च परे लोपः भवति । अस्मिन् सूत्रे तपरकरणम् कृतम् नास्ति, अतः अत्र अवर्णेन आकारस्यापि ग्रहणं भवति, इवर्णेन च ईकारस्यापि ग्रहणं भवति । आदौ तद्धितप्रत्यये परे उदाहरणानि पश्यामः - 1. अकारान्तस्य अङ्गस्य तद्धितप्रत्यये परे लोपः - दक्ष + इञ् [**तस्यापत्यम्** (4.1.92) अस्मिन् अर्थे **अत इञ्** (4.1.95) इति इञ्-प्रत्ययः] → दाक्ष इञ् [**तद्धितेष्वचामादेः** (7.2.117) इति आदिवृद्धिः] → दाक्ष् + इञ् [इञ्-प्रत्यये परे **यचि भम्** (1.4.18) इत्यनेन अङ्गस्य भसंज्ञा । अतः **यस्येति च** (6.4.148) इति अङ्गस्य अकारस्य लोपः] → दाक्षि 2. आकारान्तस्य अङ्गस्य तद्धितप्रत्यये परे लोपः - विनता + ढक् [**तस्यापत्यम्** (4.1.92) अस्मिन् अर्थे **स्त्रीभ्यो ढक्** (4.1.120) इति ढक्-प्रत्ययः] → विनता + एय [**आयनेयीनीयियः फढखच्छघां प्रत्ययादीनाम्** (7.1.2) इति ढकारस्य एय्-आदेशः] → वैनता + एय [**किति च** (7.2.118) इति आदिवृद्धिः] → वैनत् + एय [एकारे परे **यचि भम्** (1.4.18) इत्यनेन अङ्गस्य भसंज्ञा । अतः **यस्येति च** (6.4.148) इति अङ्गस्य आकारस्य लोपः] → वैनतेय 3. इकारान्तस्य अङ्गस्य तद्धितप्रत्यये परे लोपः - अत्रि + ढक् [**तस्यापत्यम्** (4.1.92) अस्मिन् अर्थे **इतश्चानिञः** (4.1.122) इत्यनेन ढक्-प्रत्ययः] → अत्रि + एय [**आयनेयीनीयियः फढखच्छघां प्रत्ययादीनाम्** (7.1.2) इति ढकारस्य एय्-आदेशः] → आत्रि + एय [**किति च** (7.2.118) इति आदिवृद्धिः] → आत् र् + एय [एकारे परे **यचि भम्** (1.4.18) इत्यनेन अङ्गस्य भसंज्ञा । अतः **यस्येति च** (6.4.148) इति अङ्गस्य इकारस्य लोपः] → आत्रेय 4. ईकारान्तस्य अङ्गस्य तद्धितप्रत्यये परे लोपः - 'इदम्' अस्य शब्दस्य वतुप्-प्रत्यये कृते इयम् प्रक्रिया जायते - इदम् + घत् [**किमिदम्भ्याम् वो घः** (5.2.40) इत्यनेन इदम्-शब्दस्य वतुप्-प्रत्ययः , तस्य वकारस्य अननैव सूत्रेण घकारादेशः] → इदम् + इयत् [**आयनेयीनीयियः फढखच्छघां प्रत्ययादीनाम्** (7.2.2) इत्यनेन घकारस्य इय्-आदेशः] → ई + इयत् [**इदम्किमोः ईश्की** (6.3.90) इत्यनेन इदम्-शब्दस्य ई-आदेशः । **अनेकाल् शित् सर्वस्य** (1.1.55) इति शित्वात् सर्वादेशः] → इयत् [ईकारे परे **यचि भम्** (1.4.18) इत्यनेन अङ्गस्य भसंज्ञा । अतः **यस्येति च** (6.4.148) इति ईकारस्य लोपः] इदानीम् ईकारे परे किम् भवति तत् पश्यामः । अस्मिन् सूत्रे प्रयुक्तम् 'ईकार' इति निमित्तम् तद्धितभिन्नप्रत्ययस्य ईकारस्य निदर्शनम् करोति, यतः ईकारादौ तद्धितप्रत्यये परे तु तद्धितग्रहणनैव लोपः भवितुमर्हति - तदर्थम् ईकारग्रहणस्य आवश्यकता न । अतः अत्र केवलं तद्धितभिन्नानाम् प्रत्ययानाम् एव उदाहरणानि देयानि । तद्धितभिन्नः ईकारः भसंज्ञकात् अनन्तरम् केवलं द्वयोः स्थलयोः एव आगच्छति - 1. ङीप्/ङीष्/ङीन् - एतेषाम् स्त्रीप्रत्ययानाम् ईकारः तद्धितभिन्नः ईकारः अस्ति । 2. नपुंसकस्य औ/औट्-प्रत्यययोः **नपुंसकाच्च** (7.1.19) इत्यनेन यः 'शी' आदेशः भवति, अस्मिन् आदेशे तद्धितभिन्नः ईकारः अस्ति । अन्येषु प्रत्ययेषु परेषु (यथा - लकाराः / कृत् / सन् -आदयः) अङ्गस्य भसंज्ञा एव न भवति, अतः तेषामत्र चिन्तनम् न करणीयम् । एताभ्याम् द्वाभ्याम् स्थलाभ्याम् शी-आदेशस्य विषये अस्य सूत्रस्य अनेन वार्तिकेन निषेधः कृतः अस्ति । (एतत् वार्तिकमधः स्पष्टीकृतमस्ति ।) अतः ई-प्रत्ययस्य उदाहरणानि केवलं ङीप्/ङीष्/ङीन्-एतेषु स्त्री-प्रत्ययेषु परेषु एव उपलभ्यन्ते । 1. अकारान्तस्य अङ्गस्य ईकारे परे लोपः - कुमार + ङीप् [**वयसि प्रथमे** (4.1.20) इत्यनेन कुमार-शब्दस्य ङीप्-प्रत्ययः ] → कुमार + ई [इत्संज्ञालोपः ] → कुमार् + ई [ईकारे परे **यचि भम्** (1.4.18) इत्यनेन अङ्गस्य भसंज्ञा । अतः **यस्येति च** (6.4.148) इति अङ्गस्य अकारस्य लोपः] → कुमारी 2. इकारान्तस्य अङ्गस्य ईकारे परे लोपः - दाक्षि + ङीष् [इतो मनुष्यजातेः (4.1.65) इत्यनेन स्त्रीत्वस्य विवक्षायाम् 'ङीष्' प्रत्ययः] → दाक्षि + ई [इत्संज्ञालोपः ] → दाक्ष् + ई [एकारे परे **यचि भम्** (1.4.18) इत्यनेन अङ्गस्य भसंज्ञा । अतः **यस्येति च** (6.4.148) इति अङ्गस्य अकारस्य लोपः] → दाक्षी अत्र वार्त्तिकद्वयम् ज्ञातव्यम् - 1. । इत्युक्ते, औ/औट्-प्रत्यययोः **नपुंसकाच्च** (7.1.19) इत्यनेन शी-आदेशे कृते अस्य सूत्रस्य प्रयोगः न भवति - इति । यथा, फल-शब्दस्य प्रथमा-द्वितीया-द्विवचनस्य प्रक्रिया इयम् - फल + औ / औट् → फल + शी [**नपुंसकाच्च** (7.1.19) इति शी-आदेशः] → फल + ई [इत्संज्ञालोपः । ईकारे परे **यचि भम्** (1.4.18) इत्यनेन अङ्गस्य भसंज्ञा । अतः **यस्येति च** (6.4.148) अनेन सूत्रेण अङ्गस्य अकारलोपे प्राप्ते अनेन वार्त्तिकेन सः निषिध्यते] → फले [**आद्गुणः** (6.1.87) इति गुण-एकादेशः] 2. । यदि कस्मिंश्चित् स्थले **अचि श्नुधातुभ्रुवां य्वोरियङुवङौ** (6.4.77) इत्यनेन इयङ्/उवङ्-आदेशः विधीयते, तथा च **यस्येति च** (6.4.148) इत्यनेन लोपः अपि विधीयते; तर्हि विप्रतिषेधेन (परत्वात्) लोपः एव करणीयः । यथा - वत्सान् प्रीणाति सः 'वत्सप्रीः' । अयम् ईकारान्त-पुंलिङ्गशब्दः अस्ति । अस्य शब्दस्य ढञ्-प्रत्यये परे इयम् प्रक्रिया जायते - वत्सप्री + ढञ् [**तस्यापत्यम्** (4.1.92) अस्मिन् अर्थे **चतुष्पाद्भ्यो ढञ्** (4.1.135) इति ढञ्-प्रत्ययः]। → वत्सप्री + एय [**आयनेयीनीयियः फढखच्छघां प्रत्ययादीनाम्** (7.2.2) इत्यनेन ढकारस्य एय्-आदेशः] → वात्सप्री + एय [**तद्धितेष्वचामादेः** (7.2.117) इति उपधा-अकारस्य वृद्धिः आकारः] → वात्सप् र् + एय [ **अचि श्नुधातुभ्रुवां य्वोरियङुवङौ** (6.4.77) इत्यनेन इयङ्/उवङ्-आदेशे च प्राप्ते ; तं परत्वात् बाधित्वा **यस्येति च** (6.4.148) इत्यनेन लोपः एव भवति ।] → वात्सप्रेय ज्ञातव्यम् - 1. **येन विधिस्तदन्तस्य** (1.1.72) इत्यनेन 'यस्य भस्य' इत्युक्ते इकारान्तस्य / अकारान्तस्य भसंज्ञकस्य अङ्गस्य - इति अर्थः जायते । 2. अनेन सूत्रेण विहितः लोपः **अलोऽन्त्यस्य** (1.1.52) इत्यनेन अन्तिम-वर्णस्य स्थाने भवति । अतः भसंज्ञकस्य अङ्गस्य अन्ते विद्यमानस्य इकारस्य / अकारस्य अयं लोपः भवतीति ज्ञायते । 3. अस्य सूत्रस्य अर्थज्ञाने **यथासङ्ख्यमुदेशः समानाम्** (1.1.10) अस्य प्रयोगः न करणीयः, यतः अत्र विधिः तु एकः एव अस्ति । अतः द्वाभ्याम् कस्यापि स्थानिनः कस्मिन्नपि निमित्ते परे अयं लोपः विधीयते । 4. **यस्मिन् विधिः तदादौ अल्ग्रहणे** अनया परिभाषया 'ईति' इत्युक्ते 'ईकारादि-प्रत्यये परे' इति अर्थः सिद्ध्यति । 5. अस्मिन् सूत्रे 'ईति' इत्यत्र तकारः केवलं उच्चारणार्थः अस्ति । दीर्घवर्णेन सवर्णग्रहणम् न भवति, अतः अत्र तपरकरणस्य किमपि प्रयोजनम् न । अस्मिन् विषये **अणुदित्सवर्णस्य चाप्रत्ययः** (1.1.69) इत्यत्र अधिकम् द्रष्टव्यम् । Sutrartha (English) ------------------- The अकार and इकार of a भसंज्ञक अङ्ग is removed when followed by a तद्धितप्रत्यय or an ईकार. Vasu English Summary -------------------- The final अ and इ (both long and short) of a भ अङ्ग (stem) are elided before a तद्धित affix. Vasu English Translation ------------------------ The final अ and इ (both long and short) of a भ अङ्ग (stem) are elided before a तद्धित affix. Thus दाक्षी, प्लाक्षी, सखी from दाक्षि, प्लाक्षि and सखि with the feminine affix ई (4.1.65) The above forms could also have been evolved by the simple rules of *sandhi*, as दाक्षि + ई = दाक्षी ॥ It might be asked, where was then the necessity of eliding इ? There would arise difficulty in the forms like अति सखि ॥ From the word सखी formed by ङीष् under (4.1.62), we form the compound सखीमतिक्रान्तः = अतिसखि, the final becoming short by (1.2.48) (the *samasanta* affix टच् is not added here as required by (5.4.91), that rule applying to the masculine form सखि and not to the feminine सखी). Now if in forming सखि + ई = सखी, had we not elided the letter इ of खि, then the long ई being the single substitute for both इ + ई, would be considered as like the final इ of सखि by (6.1.85). That being so, the word अतिसखि would be considered a non-घि word by (I .4.7), for सखि has been specifically excluded form घि class. Not being a घि, we cannot have the form अतिसखेः in the Ablative and Genitive singular. Hence the necessity of eliding इ before the feminine ई, so that the *ekadesa* rule (6.1.85), should not apply. The short इ is elided before *Taddhita* affixes:- दुलि — दौलेयः, वलि — वालेयः, अत्रि — आत्रेयः ॥ अ is elided before ई as :- कुमार — कुमारी, गौर — गौरी, शार्ङ्गरव — शार्ङ्गरवी ॥ अ and आ are elided before the *Taddhita* :- दक्ष - दाक्षि, प्लक्ष — प्लाक्षिः, चूड — चौडिः, बलाका — बालाकिः, सुमित्रा — सौमित्रिः ॥ Vart:- Prohibition must be stated in the case of ई (शी), when it is the substitute of औ (7.1.18), being the case-affix of the nominative, and accusative dual in the neuter, and of certain feminine in long आ ॥ Before this ई, the preceding vowel, इ and अ are not elided. The stem before this ई is also *bha* by (I .4.18) in the case of Neuter nouns. Thus काण्ड + ई = काण्डे; कुड्ये ॥ सौर्य + ई = सौर्ये (the य would have been elided by (6.4.149). It is owing to this *Vartika*, that we have inserted the word 'feminine' in the translation of the *sutra*. This may also be done by reading the *anuvritti* of श्यां (6.4.136), and न (6.4.137) into this *sutra*. Vart:- इयङ् and उवङ् are superseded, when they would apply simultaneously with this *lopa*. Thus इयङ् and उवङ् have unimpeded scope in श्री or भ्रू + औ or अस् (जस्), as श्रियौ, श्रियः, भ्रुवौ, भ्रुवः ॥ *Lopa* has unimpeded scope in कमण्डलू — कामण्डलेयः (with ढञ् (4.1.135)), and भाद्रवाहेयः ॥ But in वत्सप्री + ढञ् (4.1.135), both the rules (6.4.77) and (6.4.148), present themselves. The former is superseded, and we have वात्सप्रेयः (वत्सं प्रीणाति = वत्सप्रीः, तस्यापत्यं); so also लैखाभ्रेयः with the ढक् affix, this word belonging to *Subhradi* class (4.1.123). Bhashya ------- यस्येति च (3146) (सूत्रप्रयोजनभाष्यम्) इवर्णस्य-इर्ति किमुदाहरणम् ? हे दाक्षि, दाक्ष्या, दाक्षेयः । हे दाक्षि -इर्ति - यदि लोपो न स्यात्परस्य ह्रस्वत्वे कृते सवर्णदीर्घत्वं प्रसज्येत । दाक्ष्या इति - यदि लोपो न स्यात्परस्य यणादेशे कृते पूर्वस्य श्रवणं प्रसज्येत । दाक्षेय इति - यदि लोपो न स्यात्परस्य लोपे कृते पूर्वस्य श्रवणं प्रसज्येत ॥ (प्रयोजननिराकरणभाष्यम्) नैतानि सन्ति प्रयोजनानि । सवर्णदीर्घत्वेनाप्येतानि सिद्धानि ॥ (प्रयोजनभाष्यम्) इदं तर्हि - अतिसखेरागच्छति, अतिसखेः स्वम् । यदि लोपो न स्यादुपसर्जनह्रस्वत्वे कृते असखि इति प्रतिषेधः प्रसज्येत ॥ (6613 प्रतिषेधोपसंख्यानवार्तिकम् ॥ 1 ॥) - यस्येत्यादौ श्यां प्रतिषेधः - यस्येत्यादौ श्यां प्रतिषेधो वक्तव्यः । काण्डे, कुड्ये, सौर्ये नाम हिमवतः शृङ्गे । स तर्हि प्रतिषेधो वक्तव्यः । (उपसंख्यानानर्थक्यबोधकभाष्यम्) न वक्तव्यः । इह श्यामित्यपि प्रकृतं नेत्यपि । तत्राभिसम्बन्धमात्रं कर्तव्यम् - यस्येत्यादौ लोपो भवति, श्यां न ॥ (6614 विप्रतिषेधोपसंख्यानवार्तिकम् ॥ 2 ॥) - इयङुवङ्भ्यां लोपो विप्रतिषेधेन - इयङुवङ्भ्यां लोपो भवति विप्रतिषेधेन । इयङुवङोरवकाशः - श्रियौ, श्रियः । भ्रुवौ, भ्रुवः । लोपस्यावकाशः - कामण्डलेयः, भाद्रवाहेयः । इहोभयं प्राप्नोति - वात्सप्रेयः, लैखाभ्रेयः । लोपो भवति विप्रतिषेधेन ॥ (6615 विप्रतिषेधोपसंख्यानवार्तिकम् ॥ 3 ॥) - गुणवृद्धी च - गुणवृद्धी चेयङुवङ्भ्यां भवतो विप्रतिषेधेन । गुणवृद्ध्योरवकाशः - चेता, गौः । इयङुवङोः स एव । इहोभयं प्राप्नोति - चयनम्, चायकः । लवनम्, लावकः । गुणवृद्धी भवतो विप्रतिषेधेन ॥ (6616 विप्रतिषेधप्रत्याख्यानवार्तिकम् ॥ 4 ॥) - न वेयङुवङादेशस्यान्यविषयवचनात् - न वाऽर्थो विप्रतिषेधेन ॥ किं कारणम् ? इयङुवङादेशस्यान्यविषये वचनात् । इयङुवङादेशोऽन्यविषये आरभ्यते । किं विषये ? यणादेशविषये । स यथैव यणादेशं बाधते, एवं गुणवृद्धी अपि बाधेत ॥ (6617 प्रतिषेधोपसंख्यानवार्तिकम् ॥ 5 ॥) - तस्मात्तत्र गुणवृद्धिविषये प्रतिषेधः - तस्मात्तत्र गुणवृद्धिविषये प्रतिषेधो वक्तव्यः । (प्रतिषेधानर्थक्यबोधकभाष्यम्) न वक्तव्यः । मध्येऽपवादाः पूर्वान् विधीन् बाधन्त इत्येवमियङुवङादेशो यणादेशं बाधिष्यते, गुणवृद्धी न बाधिष्यते ॥ Kashika ------- इवर्णान्तस्यावर्णान्तस्य च भस्य ईकारे परे तद्धिते च लोपो भवति। इवर्णान्तस्येकारेदाक्षी। प्लाक्षी। सखी। सवर्णदीर्घत्वे हि सत्यतिसखेरागच्छतीत्यत्रैकादेशस्यान्तवत्त्वाद् (६.१.८५) असखि (१.४.७) इति घिसंज्ञायाः प्रतिषेधः स्यात्। इवर्णान्तस्य तद्धिते — दुलि — दौलेयः। वलि — वालेयः। अत्रि — आत्रेयः। अवर्णान्तस्य ईकारे — कुमारी। गौरी। शार्ङ्गरवी। अवर्णान्तस्य तद्धिते — दाक्षिः। प्लाक्षिः। चौडिः। बालाकिः। सौमित्रिः॥ यस्तेत्यौङः श्यां प्रतिषेधो वक्तव्यः॥ काण्डे। कुड्ये। सौर्ये हिमवतः शृङ्गे। औङः शीभावे (७.१.१९) कृते यस्येति चेति **सूर्यतिष्यागस्त्यमत्स्यानां य उपधायाः** (६.४.१४९) इति च लोपः प्राप्नोति॥ इयङुवङ्भ्यां लोपो भवति विप्रतिषेधेन॥ वत्सान् प्रीणाति वत्सप्रीः, तस्यापत्यं वात्सप्रेयः। **चतुष्पाद्भ्यो ढञ्** (४.१.१३५) इति ढञ् प्रत्ययः। लेखाभ्रूः शुभ्रादिः (४.१.१२३), तस्या अपत्यं लैखाभ्रेयः॥ Siddhanta Kaumudi ----------------- भस्येवर्णाऽवर्णयोर्लोपः स्यादीकारे तद्धिते च परे । इत्यकारलोपे प्राप्ते ॥ (वार्तिकम्) ॥ ज्ञाने ॥ Laghu Siddhanta Kaumudi ----------------------- ईकारे तद्धिते च परे भस्येवर्णावर्णयोर्लोपः। इत्यल्लोपे प्राप्ते **औङः श्यां प्रतिषेधो वाच्यः** (वार्त्तिकम्)। ज्ञाने॥ Balamanorama ------------ **यस्येति च** - यस्येति च । यस्य-ईतीति छेदः । इश्च अश्चतयोः समाहारो यं, तस्य [यस्य]=इवर्णस्य अवर्णस्य चेत्यर्थः ।भस्ये॑त्यधिकृतम् । 'नस्तद्धिते' इत्यतस्तद्धिते इत्यनुवर्तते । तदाह — भस्येत्यादिना । इत्यकारलोपे प्राप्ते इति ।सुडनपुंसकस्ये॑ति पर्युदासेन शीभावस्याऽसर्वनामस्थानतया तस्मिन्परतो भत्वादिति भावः ।औङ श्यामिति । औङो यः श्यादेशस्तस्मिन् परतोयस्येति चे॑ति लोपस्य प्रतिषेधो वक्तव्य इत्यर्थः । श्यामिति निर्देशादेव नित्यस्त्रीत्वं बोध्यम् । 'औङ्' इति तु व्यर्थमेव । 'सर्वे' इत्यादौजसः शी॑त्यस्य भादिकारेणैव व्यावृत्तिसिद्धेः । ज्ञाने इति । ज्ञान ई इति स्थिते आद्गुण इति भावः । Nyaas ----- अत्र यस्येति यकारस्येदं ग्रहणं वा स्यात्, इवर्णावर्णयोर्वा? अत्र यदि यकारस्येदं ग्रहणं स्यात्, उत्तरसूत्रे पुनर्यग्रहणं न कुर्यात्, एतदेव हि तत्रानुवर्त्तिष्यते। तस्मादिवर्णावर्णयोरिदं ग्रहणम्। तत्र वर्णग्रहणं सर्वत्र तदन्तविधिं प्रयोजयतीति तदन्तविधिर्विज्ञायते -इत्यतच्चेतसि कृत्वाऽऽह -`इवर्णावर्णान्तस्य` इत्यादि। `दाक्षी, प्लाक्षी` इति। दाक्षिप्लाक्षिशब्दाभ्यां **इतो मनुष्यजातेः** (4.1.65) इति ङीष्। `सखी` इत्यत्रापि `सख्यशिआईति भाषायाम्` (4.1.62) इति निपातनात्। ननु चात्र सवर्णदीर्घत्वेनाप्येतत्? सिद्धम्, तत्? किमर्थमत्र लोप विधीयते? इत्यत आह -`सवर्णदीर्घत्वे हि` इत्यादि। `अतिक्रान्ता सखी एनम्` इति `प्रादिभ्यो धातुजस्य` (वा।101) इति बहुव्रीहिरुत्तरपदलोपश्च, उपसर्जनह्रस्वत्वम्। तत्र यदि सवर्णदीर्घत्त्वं क्रियेत, न तु लोपस्तदा सखीकारेकारयोरेकादेशः सखिशब्दस्यान्तवद्भवतीति `शेषो ध्यसखि` (1.4.7) इतचि धिसंज्ञायाः प्रतिषेधः स्यात्। ततश्चातिसखेरागनच्छतीति `घेङिति` (7.3.111) इति गुणो न स्यात्। लोपे सत्युपसर्जनह्रस्वत्वे सति यद्यपि प्रविशिष्टं रूपम्, तथापि लाक्षणिकम्। अतो लक्षणप्रतिपदोक्तपरिभाषया (व्या।प।3) तन्न गृह्रत इति न भवति प्रतिषेधः। तस्माल्लोप एव कर्तव्यः। `दौलेयः` इत्युदाहरणत्रये `इतश्टचानिञः` (4.1.122) इत्यपत्यार्थे ढक्। `कुमारी इति। **वयसि प्रथमे** (4.1.20) इति ङीप्। `गौरी` इति। **षिद्गौरादिभ्यश्च** (4.1.41) इति ङीष्। `शाङ्र्गरवी` इति। `शाङ्र्गरवाद्यञो ङीन्` (4.1.73) । `बालाकिः सौमित्रिः` इति। बालकसुमित्राभ्यां बह्वादित्वादिञ्। `यस्येत्यादौ` इति। आदिशब्देनोत्तरो विधिः परिगृह्रते। वक्तव्य इति व्याख्येय इत्यर्थः। तत्रेदं व्याख्यानम् -**विभाषा ङिश्योः** (6.4.136) इत्येतत्सूत्राद्विभाषाग्रहणं मण्डूकप्लुतिन्यायेनानुवर्तते, सा च व्यवस्थितविभाषा। तेन चानेन सूत्रेण लोपो विधीयते, यश्चोत्तरसूत्रेण, तावुभावपि न भवत इति। `काण्डे, कुडये` इति। `औङ आपः` (7.1.18) इति, **नपुंसकाच्च** (7.1.19) इति शोभाव इति, तत्र यस्येत्यकारलोपः प्राप्नोति। `सौर्ये` इति। **तेनैकदिक्** (4.3.112) इति सूर्यशब्दादण्, तदन्तादौङः शीभावः, तत्रानेनाकारलोपः प्राप्नोति, उत्तरसूत्रेम यकारलोपश्च। `इयङ्वङभ्याम्` इत्यादि। इयङुवङोरवकाशः -श्रियौ, श्रियः, भ्रुवौ भ्रुवः, लोपस्यावकाशः -कामण्डलेयः, माद्रबाहेय इति; वात्सप्रेयः, लैखाभ्रेय इत्यत्रोभयं प्राप्नोति, लोपो भवति विप्रतिषेधेन। `वत्सप्रीः` इति। क्विबन्तमेतत्॥ Praudhamanorama --------------- इश्च अश्च यं तस्य। तदाह- **इवर्णावर्णयोरिति।** **जश्शसोः** (7.1.20) जसा साहचर्यात् शसपि सुबेव गृह्यते। तेनेह न, कुण्डशो ददाति। **शि** (1.1.41) शीत्यविभक्तिको निर्देशः। महासंज्ञाकरणं पूर्वाचार्यानुरोधात्। Prakriyasarvasvam ----------------- यकारादावजादौ च तद्धिते ईकारे च परे इवर्णावर्णयोर्लोपः स्यात् । इति णजकारलोपः ॥ Sarala ------ **अल्लोपे प्राप्ते** = ज्ञानेत्यकारस्य लोपे प्राप्ते । **औङ इति** । औङ्स्थानिक शीविभक्तौ परतो यस्येति चेति लोपस्य प्रतिषेधो वक्तव्य इत्यर्थः । श्यामिति च विभक्त्यपेक्षया स्त्रीलिङ्गनिर्द्देशः ॥ Sudha ----- यस्येति चेति । यस्य ईतीति छेदः । इश्व अश्च तयोः समाहारः यं तस्य इवर्णस्य अवर्णस्य चेत्यर्थः । भस्येत्यधिकृतम् । **नस्तद्धिते**(6.4.144) इत्यतः तद्धिते इत्यनुवर्तते, तदाह - ईकारे तद्धित इत्यादिना । औङ: श्यामिति । औङः यः शी आदेशः तस्मिन् परतः **यस्येति च**(6.4.148) इति लोपस्य प्रतिषेधो वक्तव्य इत्यर्थः । ज्ञाने इति । ज्ञान + औ इत्यत्र **नपुंसकाच्च**(7.1.19) इत्यौकारस्य शीत्वे शस्येत्सञ्ज्ञायां लोपे च 'ज्ञान ई' इति जाते **यचि भम्**(1.4.18) इति भसञ्ज्ञायां **यस्येति च**(6.4.148) इति अकारलोपे प्राप्ते इति निषिद्धे **आद्गुणः**(6.1.87) इति गुणे च कृते 'ज्ञाने' इति रूपम् । Vartika ------- औङः श्यां प्रतिषेधो वक्तव्यः । Sutra Prayogas -------------- * **लावणिकेन** (शिशुपालवधम्): `यस्येति च` इत्यल्लोपः।