64142: ति विंशतेर्डिति ====================== **Padacheda:** ति | S | | | 6 विंशतेः | S | 6 | 1 | डिति | S | 7 | 1 | Sutrartha --------- **भसंज्ञकस्य 'विंशति' शब्दस्य 'ति' इत्यस्य डित्-प्रत्यये परे लोपः भवति ।** 'विंशति'-शब्दस्य कस्मिंश्चित् डित्-प्रत्यये परे भसंज्ञा भवति चेत् अस्य शब्दस्य अन्तिमवर्णद्वयम् 'ति' एतयोः लोपः भवति । यथा - 1) विंशति + डट् ['विंशतेः पूरणम्' अस्मिन् अर्थे विंशति-शब्दात् **तस्य पूरणे डट्** (5.2.48) अनेन सूत्रेण 'डट्' प्रत्ययः ।] →विंशति + अ [डकारस्य **चुटू** (1.3.7) इति इत्संज्ञा, टकारस्य **हलन्त्यम्** (1.3.3) इत्यनेन इत्संज्ञा, द्वयोः **तस्य लोपः** (1.3.9) अनेन लोपः । अस्मिन् प्रत्यये परे 'विंशति' इत्यस्य **यचि भम्** (1.4.18) इत्यनेन भ-संज्ञा भवति।] → विंश + अ [**ति विंशतेर्डिति** (6.4.142) इति भसंज्ञकस्य विंशति-शब्दस्य 'ति'-इत्यस्य लोपः] → विंश [**अतो गुणे** (6.1.97) इति पररूप-एकादेशः] अतः विंशतेः पूरणम् = विंशः । तथैव, एकविंशः, द्वाविंशः आदयः शब्दाः अपि सिद्ध्यन्ति । 2) विंशति + ड्वुन् ['विंशत्या क्रीतः' अस्मिन् अर्थे विंशति-शब्दात् **विंशतित्रिंशद्भ्यां ड्वुनसंज्ञायाम्** (5.1.24) इति ड्वुन्-प्रत्ययः] → विंशति + वु [डकारस्य **चुटू** (1.3.7) इति इत्संज्ञा, नकारस्य **हलन्त्यम्** (1.3.3) इत्यनेन इत्संज्ञा, द्वयोः **तस्य लोपः** (1.3.9) अनेन लोपः ] → विंशति + अक [**युवोरनाकौ** (7.1.2) इति वु-इत्यस्य अक-इत्यादेशः । अस्मिन् आदेशे परे 'विंशति' इत्यस्य **यचि भम्** (1.4.18) इत्यनेन भ-संज्ञा भवति] → विंश + अक [**ति विंशतेर्डिति** (6.4.142) इति भसंज्ञकस्य विंशति-शब्दस्य 'ति'-इत्यस्य लोपः] → विंशक [**अतो गुणे** (6.1.97) इति पररूप-एकादेशः] 3) विंशति + ड ['विंशत्यधिकाः अस्मिन् शते' इत्यस्मिन् अर्थे **शदन्तविंशतेश्च** (5.2.46) इत्यनेन विंशति-शब्दात् ड-प्रत्ययः भवति ।] → विंशति + अ [डकारस्य **चुटू** (1.3.7) इति इत्संज्ञा, **तस्य लोपः** (1.3.9) अनेन लोपः । अकारे परे **यचि भम्** (1.4.18) इत्यनेन अङ्गस्य भ-संज्ञा भवति ।] → विंश + अ [**ति विंशतेर्डिति** (6.4.142) इति भसंज्ञकस्य विंशति-शब्दस्य 'ति'-इत्यस्य लोपः] → विंश [**अतो गुणे** (6.1.97) इति पररूप-एकादेशः] ज्ञातव्यम् - 1. अस्मिन् सूत्रे 'ति-इत्यस्य लोपः भवति' इति स्पष्टरूपेण निर्दिष्टमस्ति, अतः अत्र **अलोऽन्त्यस्य** (1.1.52) अस्याः परिभाषायाः प्रयोगः न कर्तव्यः । 2. एतत् सूत्रम् **टेः** (6.4.143) इत्यस्य अपवादरूपेण आगच्छति । 'विंशति'-इति भसंज्ञकस्य डित्-प्रत्यये परे **टेः** (6.4.143) इत्यनेन टिसंज्ञकस्य लोपे प्राप्ते वर्तमानसूत्रेण अपवादत्वेन 'ति' इत्यस्य लोपः विधीयते । Sutrartha (English) ------------------- The 'ति' of the भसंज्ञक 'विंशति' word is removed. Vasu English Summary -------------------- Of the भ अङ्ग (stem) विंशति , before an affix having an indicatory ड् the ति is elided. Vasu English Translation ------------------------ Of the भ अङ्ग (stem) विंशति , before an affix having an indicatory ड् the ति is elided. Thus विंशकः = विंशत्या क्रीतः (with ड्वुन् (5.1.24)), विंशं शतम्, (विंशतेः पूरणो विंशः, with डट affix (5.2.43), एकविंशः ॥ Why do we say 'having all indicatory ड'? Observe विंशत्या ॥ Bhashya ------- ति विंशतेर्डिति (3140) (पदकृत्यभाष्यम्) तिग्रहणं किमर्थम्, न विंशतेर्डिति लोप इत्येवोच्येत ? नैवं शक्यम् । विंशतेर्डिति लोपः इतीयत्युच्यमानेऽन्त्यस्य प्रसज्येत ॥ (तिग्रहणाभावेऽपि नियमार्थत्वबोधकभाष्यम्) सिद्धोऽन्त्यस्य यस्य - इति लोपेनैव । तत्रारम्भसार्मथ्यात्तिशब्दस्य भविष्यति ॥ (तिग्रहणप्रयोजनभाष्यम्) कुतो नु खल्वेतत् - अनन्त्यार्थे आरम्भे तिशब्दस्य भविष्यति न पुनरङ्गस्येति ? तस्मात्तिग्रहणं कर्तव्यम् ॥ अथ क्रियमाणेऽपि तिग्रहणेऽन्त्यस्य कस्मान्न भवति ? निर्दिश्यमानस्यादेशा भवन्तीति न भविष्यति ॥ Kashika ------- भस्य विंशतेस्तिशब्दस्य डिति प्रत्यये परतो लोपो भवति। विंशत्या क्रीतो विंशकः। विशं शतम्। विंशतेः पूरणो विंशः। एकविंशः। डितीति किम्? विंशत्या॥ Siddhanta Kaumudi ----------------- विंशतेर्भस्य तिशब्दस्य लोपः स्याड्डिति । आसन्नविंशाः । विंशतेरासन्ना इत्यर्थः । अदूरत्रिंशाः । अधिकचत्वारिंशाः । द्वौ वा त्रयो वा द्वित्राः । दिरावृत्ताः दश द्विदशाः । विंशतिरित्यर्थः ॥ Laghu Siddhanta Kaumudi ----------------------- विंशतेर्भस्य तिशब्दस्य लोपो डिति परे। विंशः। असंख्यादेः किम्? एकादशः॥ Balamanorama ------------ **ति विंशतेर्डिति** - आसन्नशब्दस्य विंशतिशब्देन षष्ठन्तेन समासे डचि कृतेटे॑रितीकारमात्रस्य लोपे प्राप्ते आह — ति विंशतेर्डिति । तीति लुप्तषष्ठीकम् ।भस्ये॑त्यधिकृतम् । 'अल्लोपोऽनः' इत्यनुवर्तते । तदाह — विंशतेर्भस्येति । अलोऽन्त्यस्ये॑ति न भवति,नानर्थकेऽलोऽन्त्यविधि॑रित्युक्तेः । आसन्नविंशा इति । विंशतिसङ्क्याऽऽसन्नसङ्क्यावन्त इत्यर्थः । डचि कृते आसन्नविंशति-अ-इति स्थिते, तिलोपे सवर्णदीर्घ बाधित्वा 'अतो गुणे' इति पररूपे, आसन्नविंशशब्दोऽदन्तः ।उत्तरपदत्वे चापदादिविधौ प्रतिषेधः॑ इति प्रत्ययलक्षणाऽभावेनाऽपदत्वात् । अथाऽदूरशब्दस्योदाहरति — अदूरतिंरशा इति । तिंरशतोऽदूरा इति विग्रहः । तिंरशत्सङ्ख्याया अदूरसङ्ख्यावन्त इत्यर्थः । डचि टिलोपः । अधिकस्योदाहरति — अदिकचत्वारिंशा इति । चत्वारिंशतोऽधिका इति विग्रहः । चत्वारिंशत्सङ्ख्याया अधिकसङ्ख्यावन्त #इत्यर्थः । डचि टिलोपः । सङ्ख्यावाचकशब्दस्य सङ्ख्यावाचकशब्देन समासमुदाहरति — द्वित्रा इति ।वाऽर्थे बहुव्रीहिः । द्वित्यन्यतरा इत्यर्थः । डचि टिलोपः । ननुद्वित्रा आनीयन्ता॑मित्युक्ते कदाचिद्द्वावानयति, तदा कथं बहुवचनमिति चेत्, अत्र भाष्येअनिश्चये बहुवचनं प्रयोक्तव्य॑मिति वचनात् समाहितम् । तथाकार्यान्वये विकल्पः शब्दात्तु नियमेन कोटिद्वयोपस्थिति । तदुपस्थित्यनन्तरमन्यतरानयनमिच्छया । अतः शब्दान्नियमेन पञ्चानामुपस्थिति॑रित्यपि समाहितम् । नच वाऽर्थप्राधान्यात् 'अनेकमन्यपदार्थे' इत्येवाऽत्र सिद्धमिति वाच्यं,शेषाद्विभाषे॑ति कबभावार्थकत्वात् । स हि कप् 'अनेकमन्यपदार्थे' इति विहितबहुव्रीहावेव प्रवर्तत इति भाष्ये स्पष्टम् । अथ सङ्ख्यायाः सङ्ख्यया समासे उदाहरणान्तरमाह — द्विदशा इति । शब्दशक्तिस्वाभाव्यात्सुजर्थान्तर्भावेण पूर्वपदस्य वृत्त्याश्रयणात् समासे सुचो न श्रवणमिति भाष्ये स्पष्टम् । द्वित्वसङ्ख्याकदशत्ववन्त इत्यर्थः । फलितमाह — विंशतिरित्यर्थ इति । Tattvabodhini ------------- **ति विंशतेर्डिति** - तिशब्दस्येति । आसन्नविंशा इति । इह तिलोपोत्तरम्अतो गुणे॑इति पररूपमेव, न तु टिलोपः, टिलोपस्याऽऽभीयत्वेनाऽसिद्धत्वात् । न चात्र पररूपमपि न स्याट्टिलोपस्य स्थानिवत्त्वादिति शङ्क्यम्, अज्झलादेशोऽजादेशो न भवतीतिअचः परस्मि॑न्नित्यस्याऽप्रवृत्तेः ।स्थानिवदादेशः॑ इति तु न प्रवर्तत एव, शास्त्रिये कार्ये हि क्रतव्ये तत्प्रवृत्तिर्न तु विधातार्थमिति सिद्धान्तात् । विंशतेरिति । इहापि आसन्ना विंशतिर्येषामिति न विगृहीतम्, उक्तयुक्तेः । अदूरेत्यादि । अदूरास्त्रशतः, अधिकाश्चात्वारिंशत इति विग्रहौ बोध्यौ । द्वित्रा इति । वाऽर्थेऽयं बहुव्रीहिः । स च वार्थो न विकल्पः, पक्षे द्विवचमस्याप्यापत्तेः, किं तु संशयः । स चाऽनियतसकङ्ख्यावमर्शी, तत्र त्रयोऽपि सर्वदा भासन्त इति तदपेक्षं बहुवचनमेव । आनयनादिक्रियान्वयस्तु द्वयोस्त्रयाणां वेत्यनियत एवेत्याहुः । द्विरावृत्ता इति । सुजर्थे बहुव्राहिरित्यर्थः । वृत्तौ तु सुजार्थान्तर्भावेणैवैकार्थीभावाश्रयणात्सुचोऽप्रयोगः । सङ्ख्येति किम् । चत्वारो ब्राआहृणाः । अव्ययेत्यादि किम् । ब्राआहृआणाः पञ्च । सङ्ख्येये इति किम् । अधिका विंशतिर्गवाम् । सङ्ख्यार्थेयं सङ्ख्येति न सम#आसः । आ दशतः सङ्ख्याः सङ्ख्येते वर्तन्ते न तु सङ्ख्यायाम् । विंशत्याद्याः सङ्ख्यास्तु सङ्ख्येय सङ्ख्ययोर्वर्तन्ते । यदा तु सङ्ख्येये विंशतिशब्दस्तदा भवत्येव समासः — अधिकाविंशा इति । Padamanjari ----------- तिग्रहणं किमन्त्यस्य मा भूत् । सिद्धोऽन्त्यस्य लोप उतरसूत्रेण सिद्धे सत्यारम्भो नियमार्थः स्यात् - डित्येव यथा स्यादन्यत्र यस्येतिलोपो मा भूदिति । अथापि विधिनियमसम्भवे विधेरेव ज्यायस्त्वम् एवमप्यारम्भसामर्थ्यात् अलोऽन्त्यस्य इत्येतस्मिन् बाधिते समुदायस्यैव षष्ठीनिर्द्दिष्टस्य लोपप्रसङ्गः, न त्वसंशब्दितस्य तिशब्दस्य लोपः सिध्यति । तिग्रहणे तु सति तत्सामर्थ्याद् अलोऽन्त्यस्य इत्यस्यानुपस्थानात्सर्वस्य तिशब्दस्य भवति । विंशम्, विंशकमित्यादौ तिलोपे कृते अतो गुणे पररुपत्वम् । यस्येतिलोपस्तु न भवति तिलोपस्यासिद्धत्वात् ॥ Nyaas ----- `विंशकः` इति। `विंशतिर्त्रिशद्भ्यां ड्वुनसंज्ञायाम्` (5.1.24) इति ड्वुन्, तिशब्दस्य लोपे कृते अतो गुणे` (6.1.94) पररूपत्वम्। `विंशं शतम्` इति। विंशतिरधिकाऽस्मिन्निति `शदन्तर्विशतेश्च` (5.2.46) इति डप्रत्ययः। `विंशः, एकविंशः` इति। तस्य पूरणे डट्? (5.1.47) । तिग्रहणमनत्यस्य मा भूदित्येवमर्थम्॥ Prakriyasarvasvam ----------------- भस्य विंशतेर्डिति परे टिलोपः स्यात् । विंश अक, अतो गुणे (६-१-९७) । विंशकः । त्रिंशतटिलोपः । त्रिंशकः । संज्ञायां तु विंशतिकः । त्रिंशतिकः । अत्र विंशतित्रिंशद्भ्यामिति विभागात् कन् ।।