64138: अचः ========== **Padacheda:** अचः | S | 6 | 1 | Sutrartha --------- **लुप्तनकारस्य अञ्च्-शब्दान्तस्य भसंज्ञकस्य अकारस्य लोपः भवति ।** अन्च् (गतौ) धातोः यदा क्विन्-प्रत्ययः भवति तदा **अनिदितां हलः उपधायाः क्ङिति** (6.4.24) इत्यनेन चकारात् पूर्वः यः नकारः तस्य लोपः जायते । अतः 'अन्च् + क्विन्' इत्यनेन 'अच्' इति प्रातिपदिकं सिद्ध्यति । एतादृशः लुप्तनकारः यः अन्च्-धातुनिर्मितः अच्-शब्दः, तदन्तम् यत् भसंज्ञकमङ्गम्, तस्य चकारात्-पूर्वस्य अकारस्य लोपः भवति । यथा - प्रति + अन्च् (गतौ) अस्मात् धातोः क्विन्-प्रत्यये कृते अग्रे **अनिदितां हलः उपधायाः क्ङिति** (6.4.24) अनेन नकारलोपे कृते 'प्रति + अच्' इति प्रातिपदिकं सिद्ध्यति । अस्मात् प्रातिपदिकात् तृतीयैकवचनस्य 'टा' प्रत्यये परे 'प्रति + अच् + टा' इत्यत्र **यचि भम्** (1.4.18) इत्यनेन अङ्गस्य भसंज्ञा भवति । तदा वर्तमानसूत्रेण अच्-इत्यस्य अकारस्य लोपः जायते । अग्रे 'प्रति + च् + टा' इत्यत्र **चौ** (6.3.138) इत्यनेन इकारस्य दीर्घादेशं कृत्वा 'प्रतीचा' इति रूपं सिदध्यति । Sutrartha (English) ------------------- The अकार of the word अच् that occurs at end of a भसंज्ञक अङ्ग is omitted if this 'अच्' happens to be derived from the धातु अञ्च् (गतौ). Vasu English Summary -------------------- The अ of अच् (अञ्च् ) is elided at the end of a भ अङ्ग (stem). Vasu English Translation ------------------------ The अ of अच् (अञ्च् ) is elided at the end of a भ अङ्ग (stem). Thus दधीचः पश्य, दधीचा, दधीचे, मधूचः पश्य, मधूचा, मधूचे ॥ The lengthening of the first member takes place by (6.3.138): and न् of अञ्च is elided by (6.4.24). Kashika ------- अच इत्ययमञ्चतिर्लुप्तनकारो गृह्यते। तदन्तस्य भस्याकारस्य लोपो भवति। दधीचः पश्य। दधीचा। दधीचे। मधूचः पश्य। मधूचा। मधूचे॥ Siddhanta Kaumudi ----------------- लुप्तनकारस्याञ्चतेर्भस्याकारस्य लोपः स्यात् ॥ Laghu Siddhanta Kaumudi ----------------------- लुप्तनकारस्याञ्चतेर्भस्याकारस्य लोपः॥ Balamanorama ------------ **टेः** - डकार इत् । कतर अदिति स्थिते — टेः । 'अल्लोपोऽन' इत्यस्माल्लोप इतिति विंशतेर्ङिती॑त्यतो डितीति चानुवर्तते । भस्येत्यधिकृतं । तदाह-डितीत्यादिना । कतर अदित्यत्र रेफादकारस्य लोपः । चर्त्वविकल्पं स्मारयति-वावसाने इति । ननु पररूपेणकतर॑दिति सिद्धेरद्डो डित्करणस्य किं प्रयोजनमित्यत आह — टेर्लुप्तत्वादिति । टेर्लुप्तत्वात्पूर्वसवर्णदीर्घो न भवतीत्यन्वयः । डित्त्वाऽभावेटे॑रिति लोपस्याऽप्राप्त्या पररूपं बाधित्वा पूर्वसवर्णदीर्घः प्रसज्येतेति भावः ।ननु पूर्वसवर्णदीर्घाऽभावाय दकार एवादेशः क्रियतामित्यत आह-एङ्ह्रस्वादित्यादि । सोर्दकारादेशे सति तस्य स्थानिवत्त्वेन संबुद्धित्वाद्ध्रस्वान्तादङ्गात्परत्वाच्च लोपः प्रसज्येत । अद्डादेशे तु टिलोपे सति कतरित्यङ्गं,न तद्ध्रस्वान्तम् । यत्तु ह्रस्वान्तं 'कतर' इति न तदङ्गं, रेफादकारस्य प्रत्ययावयवत्वेन तदन्तस्य प्रत्ययपरकत्वाऽभावेन अङ्गत्वाऽभावात् । अतष्टिलोपप्रवृत्तयेऽद्डादेशविधिरिति भावः । पुनस्तद्वदिति । प्रथमावद्द्वितीयेत्यर्थः । शेषं पुंवदिति । सर्ववदित्यर्थः । अन्यतमशब्दस्य त्विति । तस्याऽव्युत्पन्नप्रातिपतिकत्वेन डतमप्रत्ययान्तत्वाऽभावेन तत्राद्डादेशो नेत्यर्थः ।एकाच्च प्राचा॑मिति डतरजन्तादेकतरशब्दात्स्वमोरद्डादेशे प्राप्ते आह-एकतरादिति । एकतरशब्दात्परयोः स्वमोरद्डादेशप्रतिषेधो वक्तव्य इत्यर्थः । अविद्यमाना जरा यस्य कुलस्येति विग्रहेनञोऽस्त्यर्थना॑मिति बहुव्रीहौ विद्यमानपदलोपेगोस्त्रियो॑रिति ह्रस्वत्वेऽजरशब्दः । तस्य प्रक्रियां दर्शयति — सोरिति । सोरमादेशे कृतेऽजरमित्यन्वयः । जरसादेशमाशङ्क्याह — संनिपातेति । अदन्तसंनिपाताश्रयस्य अमोऽदन्तत्वविघातकजरसादेशं प्रति निमित्तत्वाऽयोगादिति भावः । अजरसी इति ।नपुंसकाच्चे॑ति शीभावे जरसादेशे रूपम् । अजरे इति । जरसादेशाऽभावे रूपम् । जसि रूपं दर्शयितुमाह — परत्वादिति । अजर-सिति स्थिते 'जश्शसोः शिः' इति शिभावात् परत्वाज्जरसि कृते ततः शिभावे झलन्तत्वान्नुमित्यर्थ इति केचित् । तदेतत्जराया जरसि॑ति सूत्रे अजरांसीत्यत्रनुम्जरसोः प्राप्तयोर्विप्रतिषेधेन जरसि॑ति भाष्यविरुद्धत्वादुपेक्ष्यम् । शिभावात्पूर्वमेव परत्वाज्जरसः प्रवृत्तौ हि तदा जसः सर्वनामस्थानत्वाऽभावेन नुम एवाऽप्रसक्तेस्तदसङ्गतिः स्पष्टैव । पूर्वविप्रतिषेधमाश्रित्य जरसः पूर्वमेव शिभावे तु तद्भाष्यं सङ्गच्छते । एवञ्च जरसः पूर्वमेव शिभावे कृते तस्य सर्वनामस्थानत्वात्तस्मिन् परे नुम्जरसोः प्राप्तयोः नुमपेक्षया परत्वाज्जरस् । ततो झलन्तलक्षणो नुमित्येव व्याख्येयम् । यदि हि जरसादेशात्प्रागेव अजन्तलक्षणो नुम् स्यात्, तदा 'अजरन् इ' इति स्थितेनिर्दिश्यमानस्यादेशा भवन्ती॑ति न्यायेन 'जर' इत्यस्य जरसि कृते अजरस् न इति स्थिते सान्यसंयोगाऽभावात् 'सान्त महतः' इति वक्ष्यमाणदीर्घो न स्यादित्यादि शब्देन्दुशेखरे निर्जरशब्दनिरूपणे, अत्र च प्रपञ्चितम् । उभयथापि अजरन् स् इ इति स्थिते नान्तत्वाऽभावात्सर्वनामस्थाने चे॑ति दीर्घे अप्राप्ते । Padamanjari ----------- अच इत्ययमञ्चतिर्लुप्तनकारो गृह्यत इति । प्रत्याहारग्रहणं तु न भवति, यदि स्याद्, अजन्तस्याङ्गस्य लोपो भवतीत्यर्थः स्यात्, ततश्च आतोधातोः इत्येतदनर्थकं स्यात् । यच्च द्यौप्रागपागुदक्प्रतीचो यत् इति निर्द्दिशति, यच्च चौ इत्याह, ततो ज्ञायते - अञ्चतेरेवात्र ग्रहणमिति । एतेन पचाद्यचोऽप्यग्रहणम् ॥ Nyaas ----- `अच इत्ययमञ्चतिर्लुप्तनकारो गृह्रते` इति। कुत एतत्, प्रत्याहारः कस्मान्न गृह्रते? `अल्लोपः` (6.4.134) इत्यानुवृत्तेर्न शक्यते प्रत्याहारो ग्रहीतुम्। प्रत्याहारग्रहणे सति तेनाकारो विशिध्येत, तथा चानर्थकं प्रत्याहारग्रहणं स्यात्। न ह्रकारोऽचत्वं व्यभिचरति। ननु चाङ्गं प्रकृतम्, तत्? प्रत्याहारेण विशिष्यते -अजन्तस्याङ्गस्येति? न; एवं सत्यजन्तस्याङ्गस्याल्लोपो भवतीत्येष सूत्रार्थः स्यात्। तथा च **यस्येति च** (6.4.148) इति लोपोऽनर्थकः स्यात्; अनेनैव सिद्धत्वात्। अपि च **द्युप्रागपागुदक्प्रतीचो यत्** (4.2.101) इत्येत्रमादिनिर्देशो लिङ्गं ह्यत्राप्रत्याहारग्रहणस्य। यदि हि प्रत्याहारग्रहण स्यात्, अत्राञ्चतेग्र्रहणं न स्यात्, न ह्रेतदजन्तमङ्गम्। अत एव निर्देशात्? पचाद्यजपि न गृह्रते। न ह्रेतत्? पचाद्यजन्तमङ्गम्। `दधीचः` इति। दध्यञ्चतीति ऋत्विगादिना (3.2.59) क्विन्, `आनिदिताम्` (6.4.24) इत्यादिनानुनासिकलोपः; `चौ` (6.3.137) इति दीर्घः॥ Prakriyasarvasvam ----------------- लुप्तनकारस्याञ्चतेर्भत्वेऽकारस्य लोपः स्यात् । प्रतिच् ई ॥ Sudha ----- अच इति । **अल्लोपोऽनः**(6.4.134) इत्यतोऽल्लोप इत्यनुवर्तते, 'भस्य' इति च । 'अच' इति लुप्तनकारस्य अनुधातोः षषठ्यन्तस्यानुकरणम् । तदाह - लुप्तनकारस्येत्यादिना । Sutra Prayogas -------------- * **सध्रीचा** (शिशुपालवधम्): `अचः` इत्यकारलोपः। * **नीचि** (शिशुपालवधम्): `अचः` इत्यकारलोपे। * **विष्वद्रीचीर्** (शिशुपालवधम्): `अचः` इत्यकारलोपे। * **प्रत्यगियाय** (भट्टिकाव्यम्): `अकारलोपो निवर्तते` इत्यकारलोपो निवर्तते।