64137: न संयोगाद्वमन्तात् ========================= **Padacheda:** न | S | 0 | 0 | संयोगात् | S | 5 | 1 | वमन्तात् | S | 5 | 1 | Sutrartha --------- **यस्य संयोगस्य अन्तिमवर्णः वकारः मकारः वा अस्ति, तादृशात् संयोगात् परस्य विद्यमानस्य 'अन्' इत्यस्य भसंज्ञकस्य अकारस्य लोपः न भवति।** **अल्लोपोऽनः** (6.4.134) इत्यनेन अन्-अन्तस्य भसंज्ञकस्य अकारस्य लोपः विधीयते । परन्तु यदि 'अन्' इत्यस्मात् पूर्वम् मकारान्तसंयोगः वकारान्तसंयोगः वा विद्यते तर्हि अस्य लोपस्य प्रतिषेधः भवति । यथा - 'आत्मन्' अस्मिन् शब्दे 'अन्' इत्यस्मात् पूर्वम् 'त्म्' अयं मकारान्तसंयोगः अस्ति । अतः 'आत्मन् + टा' इत्यत्र आत्मन्-शब्दस्य भसंज्ञायां सत्यामपि मकारात् उत्तरस्य अकारस्य लोपः न भवति । अतः 'आत्मना' इति रूपं सिद्ध्यति । तथैव यज्वन् + शस् → यज्वनः, ब्रह्मन् + टा → ब्रह्मणा, कर्मन् + ङि = कर्मणि - एतानि रूपाणि अपि सिद्ध्यन्ति । यत्र संयोगः नास्ति, वा संयोगः अस्ति परन्तु मकारान्त/वकारान्तसंयोगः नास्ति, तत्र अयं प्रतिषेधः न भवति, अतः अकारस्य लोपे कृते एव रूपं सिद्ध्यति । यथा - (संयोगस्य अभावः) - राजन् + टा → राज् न् + टा → राज्ञा । (मकारान्त/वकारान्तसंयोगस्य अभावः) - मूर्धन् + टा → मूर् ध् न् + टा → मूर्ध्ना । Sutrartha (English) ------------------- For a भसंज्ञक अङ्ग which ends in an 'अन्', and also contains a मकारान्त / वकारान्त संयोगवर्ण before this अन्, the 'अ' of अन् does not get omitted. Vasu English Summary -------------------- The अ in अन् is not elided when the भ अङ्ग (stem) ends in वन् or मन् with a consonant preceding व् or म्। Vasu English Translation ------------------------ The अ in अन् is not elided when the भ अङ्ग (stem) ends in वन् or मन् with a consonant preceding व् or म्। Thus पर्वणा, पर्वण, अथर्वणा, अथर्वणे, चर्मणा and चर्मणे ॥ Why do we say 'preceded by a consonant'? Observe प्रतिदीव्ना, प्रतिदीव्ने, साम्ना, साम्ने ॥ Why do we say 'stems in वन् and मन्'? Observe तक्ष्णा, and तक्ष्णे ॥ Kashika ------- वकारमकारान्तात् संयोगादुत्तरस्यानोऽकारस्य लोपो न भवति। पर्वणा। पर्वणे। अथर्वणा। अथर्वणे। चर्मणा। चर्मणे। संयोगादिति किम्? प्रतिदीव्ना। प्रतिदीव्ने। साम्ना। साम्ने। वमन्तादिति किम्? तक्ष्णा। तक्ष्णे॥ Siddhanta Kaumudi ----------------- वकारमकारान्तसंयोगात्परस्याऽनोऽकारस्य लोपो न स्यात् । यज्वनः । यज्वना । यज्वभ्यामित्यादि । ब्रह्मणः । ब्रह्मणा । ब्रह्मभ्यामित्यादि ॥ Laghu Siddhanta Kaumudi ----------------------- वमन्तसंयोगादनोऽकारस्य लोपो न। यज्वनः। यज्वना। यज्वभ्याम्॥ ब्रह्मणः। ब्रह्मणा॥ Balamanorama ------------ **न संयोगाद्वमान्तात्** - शसि अल्लोपे प्राप्ते — न संयोगाद्वमन्तात् । वश्च मूच वमौ, तावन्तौ यस्येति विग्रहः । 'अल्लोपोऽन' इत्यनुवर्तते । तदाह — वकारेत्यादिना । अन्तग्रहणं स्पष्टार्थं, वमयोः संयोगविशेषणत्वादेव तदन्तलाभात् । इत्यादीति । यज्वने । यज्वनः २ । यज्वनोः २ । भ्यामादौ हलि राजवदित्यर्थः । मान्तसंयोगस्योदाहरणमाह — ब्राहृण इति । शसादावचि नाऽल्लोपः । शेषं राजवदिति भावः ।वेदस्तत्त्वं तपो ब्राहृ, ब्राहृआ विप्रः प्रजापतिः॑ इत्यमरः । वृत्रो नाम असुरः, तं हतवानित्यर्थे ब्राहृभ्रूणवृत्रेषु क्विप् । कपावितौ । अपृक्तलोपः । उपपदसमासः । 'सुपो धातु' इत्यमो लुक्, वृत्रहन्शब्दः । तस्मात्सुबुत्पत्तिः । Padamanjari ----------- स्याद्वकारमकाराभ्यां संयोगस्य विशेषणात् तदन्तविधिरत्रेति विस्पष्टार्थमन्तग्रहकण् ॥ Nyaas ----- `प्रति दीव्ना` इति। `हलि च` (8.2.77) इति दीर्घः। अथान्तग्रहणं किमर्थम्, न `दमः` इत्येवोच्येत, वकारमकाराभ्यां संयोगेन विशिष्यमाणेन च तदन्तविधिर्भवतीत्यन्तरेणाप्यन्तग्रहणं तदन्तविधिर्लभ्यत एव? सत्ययेतत्, विस्पष्टार्थमन्तग्रहणम्॥ Prakriyasarvasvam ----------------- वकारमकारान्तात् संयोगाद् अनोऽल्लोपो न । यज्वनः, यज्वना । एवं ब्रह्मणः, ब्रह्मणेत्यादि । वृत्रहन् स्, Sudha ----- न संयोगादिति । **अल्लोपोऽनः**(6.4.134) इत्यनुवर्तते, तदाह - वमन्तसंयोगादित्यादिना । यज्वनः । यज्वन् + शस् इत्यत्र शकारस्येत्सञ्ज्ञायां लोपे च **यचि भम्**(1.4.18) इति भसञ्ज्ञायाम् **अल्लोपोऽनः**(6.4.134) इत्यनोऽकारस्य लोपे प्राप्ते **न संयोगाद्वमन्तात्**(6.4.137) इति निषिद्धे सकारस्य रुत्वे विसर्गे च कृते 'यज्वनः' इति रूपम् । एवमेवाजादौ प्रत्यये परे यज्वन् शब्दस्य रूपाणि बोध्यानि । यज्वभ्याम् । यज्वन् + भ्याम् इत्यत्र **स्वादिष्वसर्वनामस्थाने**(1.4.17) इत्यनेन पदसञ्ज्ञायां **नलोपः प्रातिपदिकान्तस्य**(8.2.7) इति नलोपे 'यज्वभ्याम्' इति रूपम् । अत्र नलोपस्यासिद्धत्वात् **सुपि च**(7.3.102) इति न दीर्घत्वमिति भावः । ब्रह्मणः । ब्रह्मन् + शस् इत्यत्र शकारस्येत्सञ्ज्ञायां लोपे च **यचि भम्**(1.4.18) इति भसञ्ज्ञायाम् **अल्लोपोऽनः**(6.4.134) इत्यनोऽकारस्य लोपे प्राप्ते **न संयोगाद्वमन्तात्**(6.4.137) इति मान्तसंयोगत्वात् अल्लोपनिषिद्धे सति **अट्कुप्वाङ्नुम्व्यवायेऽपि**(8.4.2) इति णत्वे सस्य रुत्वे तस्य विसर्गे च 'ब्रह्मणः' इति रूपम् । ब्रह्मणेति । शसादावचि नाल्लोपः शेषं राजवदिति भावः । 'वेदस्तत्वं तपो ब्रह्म ब्रह्मा विप्रः प्रजापतिः' इत्यमरः । Sutra Prayogas -------------- * **सुत्वनः** (भट्टिकाव्यम्): `न संयोगात्` इत्यलोपो न। * **आत्मनः** (भट्टिकाव्यम्): `शसि न संयोगाद्वमन्तात्` इत्यल्लोपो न भवति।