64121: थलि च सेटि ================= **Padacheda:** थलि | S | 7 | 1 | च | S | 0 | 0 | सेटि | S | 7 | 1 | Sutrartha --------- **** Vasu English Summary -------------------- ए is substituted for अ of a verbal अङ्ग (stem) standing between two simple consonants, the अङ्ग (stem) not having any different letter substituted in the reduplicate when the ending थल् of the लिट् (Perfect Tense) having the augment इट् follows and thereby the reduplicate is elided. Vasu English Translation ------------------------ ए is substituted for अ of a verbal अङ्ग (stem) standing between two simple consonants, the अङ्ग (stem) not having any different letter substituted in the reduplicate when the ending थल् of the लिट् (Perfect Tense) having the augment इट् follows and thereby the reduplicate is elided. Thus पेचिथ, शेकिथ ॥ But पपक्थ before *anit* थ; दिदेविथ, the vowel being इ and not अ; ततक्षिथ, ररक्षिथ, the अ not standing between two simple consonants; and चकणिथ, बभणिथ, the reduplicate having the substitutes च and ब different from क and भ ॥ This *sutra* applies even when the affix is not कित्; and थल् is read in the *sutra* only for the sake of clearness, no non-*kit* Perfect ending can take इट् except थल् ॥ Bhashya ------- थलि च सेटि (3119) (वार्तिकावतरणभाष्यम्) थल्ग्रहणं किमर्थम् ? (6594 थल्ग्रहणप्रयोजनवार्तिकम् ॥ 1 ॥) - थल्ग्रहणमक्ङिदर्थम् - थल्ग्रहणं क्रियतेऽक्ङिदर्थम् । अक्ङिति एत्वं यथा स्यात् । पेचिथ । शेकिथ ॥ (प्रयोजनाक्षेपभाष्यम्) नैतदस्ति प्रयोजनम् । सेड्ग्रहणमेवात्राक्ङिदर्थं भविष्यति ॥ (प्रयोजनान्तरदर्शकभाष्यम्) इदं तर्हि प्रयोजनम् - समुच्चयो यथा स्यात् थलि च सेटि क्ङिति च सेटि - इति । किं प्रयोजनम् ? पेचिव । पेचिम । तत्र पचादिभ्य इड्वचनम् इति वक्ष्यति तन्न वक्तव्यं भवति ॥ (अतिव्याप्त्यव्याप्तिदर्शनेनेष्टसाधकभाष्यम्) इह कस्मान्न भवति - लुलविथ ? गुणस्य नेति प्रतिषेधात् । इहापि तर्हि न प्राप्नोति - पेचिथ, शेकिथ । गुणस्य योऽकार इत्येवमेतद्विज्ञायते । एवमपि शशरिथ - अत्र प्राप्नोति । गुणस्यैषोऽकारः । कथम् ? वृद्धिर्भवति गुणो भवति - इति रेफशिरा गुणवृद्धिसंज्ञको निर्वर्तते । अथवा - आचार्यप्रवृत्तिर्ज्ञापयति नैवंजातीयकानामेत्त्वं भवतीति यदयं तॄफलभजत्रपश्च (6.4.122) इति तॄग्रहणं करोति ॥ Kashika ------- थलि च सेटि परतोऽनादेशादेरङ्गस्यैकहल्मध्यगतस्यातः स्थान एकारादेशो भवति, अभ्यासलोपश्च। पेचिथ। शेकिथ। सेटीति किम्? पपक्थ। थल्ग्रहणं विस्पष्टार्थम्। अक्ङिदर्थमेतद् वचनमित्यन्यस्येटोऽसंभवात्। अत इत्येव — दिदेविथ। एकहल्मध्यगतस्येत्येव — शश्रमिथ। तत्सरिथ। अनादेशादेरित्येव — चकणिथ। बभणिथ॥ Siddhanta Kaumudi ----------------- प्रागुक्तं स्यात् । आदेशश्चेह वैरूप्यसंपादक एवाश्रीयते । शसिदद्योः प्रतिषेधवचनाज्ज्ञापकात् । तेन प्रकृतिजश्चरां तेषु सत्स्वपि एत्वाभ्यासलोपौ स्त एव । देधे । देधाते । देधिरे । अतः किम् । दिदिवतुः । तपरः किम् । ररासे । एकेत्यादि किम् । तत्सरतुः । अनादेशादेः किम् । चकणतुः ॥ लिटा आदेशविशेषणादिह स्यादेव । नेमिथ । सेहे ।{$ {!9 स्कुदि!} आप्रवणे$} । आप्रवणमुत्प्लवनमुद्धरणं च ॥ Laghu Siddhanta Kaumudi ----------------------- प्रागुक्तं स्यात्। नेदिथ। नेदथुः। नेद। ननाद, ननद। नेदिव। नेदिम। नदिता। नदिष्यति। नदतु। अनदत्। नदेत्। नद्यात्। अनादीत्, अनदीत्। अनदिष्यत्॥ {$ {! 8 टुनदि !} (धातुपाठे (01.0070)) समृद्धौ $} ॥ Balamanorama ------------ **थलि च सेटि** - थलि च । प्रागुक्तमिति । एकहल्मध्य इति यत्प्रागुक्तम् — एत्वादि, तत्सेटिथलि च स्यादित्यर्थः । थलः कित्त्वाऽभावात्पूर्वसूत्रेणाऽप्राप्तौ वचनम् । ननु देधे पेततुरित्यादौअभ्यासे चर्चे॑ति जशां चरां च जशि चरि च लिण्निमित्तादेशादित्वात्कथमेत्वाभ्यासलोपावित्यत आह — — आदेशश्चहेति । इह = 'अत एकहल्मध्ये' इति सूत्रे, आदेशशब्देन स्थान्यपेक्षया विरूप एवादेशो विवक्षितः । तथा च तथाविधादेशादेरेव एत्त्वाभ्यासलोपौ न भवतः, स्थानिसरूपादेशास्तु न पर्युदास इत्यर्थः । शसिदद्योरिति ।न शसददवादिगुणाना॑मिति शसिदद्योरेत्वाभ्यासलोपयोः प्रतिषेध उच्यते । यदीह यथाकतंचिदादेशादेः पर्युदासः स्यात्तर्हि शसिदद्योरभ्यासे शकारदकारयोश्चर्जशोः शकारदकारादेशे सति आदेशादित्वादेव एत्वाभ्यासलोपयोरभावसिद्धौन शसददवे॑ति तत्प्रतिषेधोऽनर्थकः स्यात् । अतो वैरूप्यसंपादकादेशादेरेव पर्युदासो विज्ञायत इत्यर्थः । तेनेति । स्थानिसरूपादेशादेः पर्युदासाऽभावादित्यनेनेत्यर्थः । सत्स्वपीति । देधे पेततुरित्यादौ दकाराद्यादेशेषु सत्स्वपीत्यर्थः । देधे इति । दध् दध् ए इति स्थिते दकारादकारस्य एत्त्वेऽभ्यासलोपे च रूपम् ।असंयोगाल्लिट्क॑दिति कित्त्वमिह बोध्यम् । देधिर इति । देधिषे देधाथे देधिध्वे । देधे देधिवहे देधिमहे इति रूपाणि संभवन्तीति भावः । दिदिवतुरिति । दिव्धातोरतुसि द्वित्त्वे हलोर्मध्येऽतोभावादेत्त्वाभ्यासलोपौ नेति भावः । तत्परः किमिति । 'अत' इति तपरकरणं किमर्थमित्यर्थ- । ररासे इति । 'रासृ शब्दे' भ्वादिरात्मनेपदी । अत्र हल्मध्यस्थस्येति किमर्थमित्यर्थः । तत्सरतुरिति ।त्सर च्छद्मगतौ॑ । लिटोऽतुसि द्वित्वे अभ्यासाऽकारस्य नाऽसंयुक्तहल्मध्यस्थत्वमिति भावः । चकणतुरिति । 'कण शब्दे' लिटोऽतुसि द्वित्वे कुहोश्चुरिति ककारस्य चुत्वेन चकारः । तथा च वैरूप्यसंपादकादेशादित्वादेत्त्वाभ्यासलोपौ नेति भावः । अथलिण्निमित्तादेशादिक॑मित्यत्र लिण्निमित्तेत्यस्य प्रयोजनमाह — लिटेति । नेमिथेति ।णमु प्रह्वत्वे शब्दे च॑ । 'णो नः' इति नत्वम् । थलि इटि द्वित्वे नत्वसंपन्ननकारादेशादित्वेऽपि नत्वस्य लिण्निमित्तकत्वाऽभावाल्लिण्निमित्तकादेशादित्वाऽभावादेत्त्वाभ्यासलोपौ निर्बाधाविति भावः । सेहे इति ।षह मर्षणे॑ । 'धात्वादेः षः सः' इति सत्वे लिटि द्वित्वे सत्वसंपन्नसकारादेशादित्वेऽपि सत्वस्य लिण्निमित्तकत्वाऽभावाल्लिण्निमित्तकादेशादित्वविरहादेत्त्वाभ्यासलोपा निर्बाधाविति भावः । दधिता । दधिष्यते । दधताम् । अदधत । दधेत । दधिषीष्ट । अदधिष्ट । अदधिष्यत । स्कुदीति । उत्प्लवनमुत्प्लुत्य गमनम् । Tattvabodhini ------------- **थलि च सेटि** - चकणतुरिति । न चैवमपि बभणतुरित्यत्रअभ्यासे चर्चे॑त्यस्याऽलसिद्धत्वादेत्वाभ्यासलोपौ स्त एवेति वाच्यं, फलभजग्रहणेन एत्वविधिं प्रति तत्सूत्रस्य सिद्धत्वज्ञापनात् । एवं चादेशश्चेह वैरूप्यसंपादक एव गृह्रते इति व्याख्यानमवश्यं कर्तव्यमवेति दिक् । Padamanjari ----------- पेचिथेति । क्रादिनियमात्प्राप्तस्येटः उपदेशेऽत्वतः इति प्रतिषेधे प्राप्ते ऋतो भारद्वाजस्य इति नियमात्पक्षे इट् । पपक्थेति । अन्येषां मतेन प्रतिषेधः । थल्ग्रहणमनर्थकम्, पेचिवेत्यादावन्यत्र सेटि कित्वात्पूर्वेण भवितव्यमेव अत आह - यल्ग्रहणं विस्पष्टार्थमिति । किमत्र विस्पष्टनीयम् तद्दर्शयति - अक्ङिदर्थमित्यादि । आरम्भसामर्थ्यादेवायं निश्चयः स्यात् ए- यत्र पूर्वेण न सिद्ध्यति तदर्थमिति, बहवश्च विशेषाः प्रकृताः - अत एकहलमध्ये थैत्यादयः, तत्रासति थल्ग्रहणे सन्देहः स्यात् - किमनकारार्थं वचनम् - ददिविव, ररादिव इति अथानेकहल्मध्यार्थम् - तत्सरिवेति अथादेशार्थम् - बभणिवेति उतालिडर्थम् - पठित इति उताक्ङिदर्थमिति तत्र अत इत्यादेयो विशेषा अनुवर्तन्ते, क्ङ्तीत्येतितु निवर्तते - इति व्याख्यानमन्तरेण दुर्ज्ञानम् । तस्माद्विस्पष्टार्थं थल्ग्रहणं कृतम् ॥ Prakriyasarvasvam ----------------- अत एकहल्मध्य इत्युक्तौ एत्वाभ्यासलोपौ वा । इड्वति थलि च परेऽपि स्तः । थलोऽकित्त्वादुक्तिः । तेपिथ, ततप्थ, तेपथुः तेप । 'णलुत्तमो वा' इति वा णित्त्वम् । तताप, ततप । लिटि-कादीनामेवानिट्त्वमित्युक्तेरिट् । तेपिव, तेपिम । कर्मणि तेपे तेपाते तेपिरे । तेपिषे तेपिध्वे । अत्रेटः प्रत्ययांशत्वेन ध्वम इणन्तादङ्गात् परत्वाभावाद् 'इणः षीध्वम्—' इति ढत्वं न स्यात् । तेपे तेपिवहे तेपिमहे । आशिषि तप्यात् तप्यास्ताम् । कर्मणि तप्सिष्ट तप्सियास्ताम् तप्सोध्वम् । लुडादौ तप्ता, तप्स्यति, अतप्स्यत् । कर्मणि तङ्ग्रह्यः । कर्मकर्तरि विरहोऽमुं तपति, तप्यतेऽसौ स्वयमेवेत्यादि कर्मोक्तवदेव । लुङि तु 'तपोऽनुतापे च' इति चिणभावात् अतप्तासौ स्वयमेव । अतप्सातामित्यादि । अस्यान्योऽपि कर्मकर्तास्ति ।