64115: भियोऽन्यतरस्याम् ======================= **Padacheda:** भियः | S | 6 | 1 | अन्यतरस्याम् | S | 7 | 1 | Sutrartha --------- **भी-धातोः हलादि-सार्वधातुके कित्/ङित्-प्रत्यये परे विकल्पेन ह्रस्व-इकारादेशः भवति ।** एतत् सूत्रम् जुहोत्यादिगणस्य 'ञिभी' (भये) धातोः विषये अस्ति । अस्य धातोः हलादि-सार्वधातुके कित्/ङित्-प्रत्यये परे विकल्पेन ह्रस्व-इकारादेशः भवति । यथा, अस्य धातोः लट्-लकारस्य प्रथमपुरुषद्विवचनस्य प्रक्रिया इयम् - भी + लट् [**वर्तमाने लट्** (3.2.123) इति लट्] → भी + तस् [**तिप्तस्..** (3.4.78) इति तस्] → भी + शप् + तस् [**कर्तरि शप्** (3.1.68) इति शप्] → भी + तस् [**जुहोत्यादिभ्यः श्लुः** (2.4.75) इति श्लुः] → भी भी + तस् [**श्लौ** (6.4.10) इति द्वित्वम्] → भि भी + तस् [**ह्रस्वः** (7.4.59) इति ह्रस्वः] → भि भि + तस् / भि भी तस् [**भियोऽन्यतरस्याम्** (6.4.115) इति ईकारस्य वैकल्पिकः ह्रस्वः] → भिभितः / भिभीतः [विसर्गनिर्माणम्] → बिभितः / बिभीतः [**अभ्यासे चर्च** (8.4.55) इति जश्त्वम्] Sutrartha (English) ------------------- The last letter of the अङ्ग of verb root 'भी' is optionally converted to ह्रस्व-इकार when followed by हलादि-सार्वधातुक कित्/ङित्-प्रत्यय. Vasu English Summary -------------------- इ is substituted for the ई of भी before a सार्वधातुक affix beginning with a consonant and having an indicatory क् or ङ्। Vasu English Translation ------------------------ इ is substituted for the ई of भी before a सार्वधातुक affix beginning with a consonant and having an indicatory क् or ङ्। Thus बिभितः or बिभीतः, बिभिथः or बिभीथः, बिभिवः or बिभीवः, बिभिमः or बिभीमः ॥ But बिभ्यति before a vowel-beginning affix and बिभेति before a non-ङित् affix and भीयते before an *ardhadhatuka* affix. Kashika ------- भी इत्येतस्याङ्गस्यान्यतरस्यामिकारादेशो भवति हलादौ क्ङिति सार्वधातुके परतः। बिभितः, बिभीतः। बिभिथः, बिभीथः। बिभिवः, बिभीवः। बिभिमः, बिभीमः। हलादावित्येव — बिभ्यति। क्ङितीत्येव — बिभेति। सार्वधातुक इत्येव — भीयते॥ Siddhanta Kaumudi ----------------- इकारः स्याद्धलादौ क्ङिति सार्वधातुके । बिभितः । बिभीतः । बिभ्यति । बिभयांचकार । बिभाय । भेता ।{$ {!1085 ह्री!} लज्जायाम्$} । जिह्रेति । जिह्रीतः । जिह्रियति । जिह्रयांचकार । जिह्राय ।{$ {!1086 पॄ!} पालनपूरणयोः$} ॥ Laghu Siddhanta Kaumudi ----------------------- इकारो वा स्याद्धलादौ क्ङिति सार्वधातुके। बिभितः, बिभीतः। बिभ्यति। बिभयाञ्चकार, बिभाय। भेता। भेष्यति। बिभेतु, बिभितात्, बिभीतात्। अबिभेत्। बिभीयात्। भीयात्। अभैषीत्। अभेष्यत्॥॥ {$ {! 3 ह्री !} लज्जायाम् $} (धातुपाठे (03.0003)) ॥ जिह्रेति। जिह्रीतः। जिह्रियति। जिह्रयाञ्चकार, जिह्राय। ह्रेता। ह्रेष्यति। जिह्रेतु। अजिह्रेत्। जिह्रियात्। ह्रीयात्। अह्रैषीत्। अह्रेष्यत्॥ {$ {! 4 पॄ !} पालनपूरणयोः $} (धातुपाठे (03.0004))॥ Balamanorama ------------ **भियोऽन्यतरस्याम्** - भियोऽन्यतरस्याम् ।इद्दरिद्रस्ये॑त्यत इदिति,गमहने॑त्यतः क्ङितीति,ई हल्यघो॑रित्यतो हलीति,अत उ॑दित्यतः सार्वधातुके इति चानवर्तते इत्यभिप्रेत्य शेषं पूरयति — इकारः स्यादित्यादिना । बिभ्यतीति ।अदभ्यस्ता॑दित्यत् । बिभयामिति ।भीह्यीभृहुवां स्लुवच्चे॑ति श्लुवत्त्वाद्द्वित्वादीति भावः । बिभायेति । बिभ्यतुः । बिभयिथ — बिभेथ । बिभ्यिव बिभ्यिम । बेतति । भेष्यति । बिभेतु — बिभितात् — बिभीतात् बिभिताम् बिभीताम् — बिभ्यतु । बिभिहि — बिभीहि — बिभितात् — बिभीतात्, बिभीतम् — बिभीतम्, बिभित — बिभीत । बिभयानि बिभयाव बिभयाम । अबिभेत्, अबिभिताम् — अबिभीताम्, अबिभयुः । अबिभेः, अबिभितम् — अबिभीतम्, अबिभित-अबिभीत । अबिभयमबिभिव — अबिभीव अबिभम — अबिभीम । बिभियात् — बिभीयादित्यादि । आशीर्लिङ [भीयात्] भीयास्ताम् । अभैषीत् । अभेष्यत् । हृी लज्जायामिति । अनिट् । जिहियतीति ।अदभ्यस्ता॑दित्यत् । इयङ् । जिह्ययामिति । जिह्ययामिति । ह्येता । ह्येष्यति । जिह्येतु — जिह्यीतात् । जिह्यीहि । जिह्ययाणि । अजिह्येत् । जिह्यीयात् । ह्यीयात् । अह्रैषीत् । अह्येष्यत् । पृधातुः सेट् । लटस्तिपि शपः स्लौ द्वित्वे पृ पृ इति स्थिते — Tattvabodhini ------------- **भियोऽन्यतरस्याम्** - भियोऽन्यतरस्याम् । सार्वधातुके किम् । भीयते । बिभीये । हलादौ किम् । बिभ्यति । क्ङिति किम् । बिभेति । केचिदत्र हलादौ क्ङितीत्येतन्नाऽतीवोपयुज्यते, इत्वविधानस्य बिभित इत्यादौ चरितार्थत्वात्, बिभ्यति बिभेतीत्यादौ यणादेः प्रवृत्तिसंभवादित्याहुः । Padamanjari ----------- हलादौ क्ङिति सार्वधातुक इति । नैतेषामत्रोपयोगः, तथा च प्रत्युदाहरणं न प्रदर्शितम् । थथा हि - उजादावप्यस्तु बिभ्यतीति, एरनेकाचः इति ह्रस्वस्यापि यण् भविष्यति । न चेत्वविधेर्वैयर्थ्यम् हलादौचरितार्थत्वात् । तथा विभेतीति अक्ङित्यपि भवतु गुणो भविष्यति । इत्वविधिश्च क्ङिति चचरितार्थः । तथा थाभ्यस्तस्य इत्यनुवृतेर्भीत इत्यादावार्धधातुके न भविष्यति । क्वसावपि तर्हि प्राप्नोति छान्दसः क्वसुः, दृष्टानुविधिश्च्छन्दसि ॥ Nyaas ----- `हलादौ सार्वधातुके क्ङिति परतः` इति। यद्यप्येते विशेषाः पूर्वस्मिन्निवर्तिताः, तथापीह मण्डूकप्लुतिन्यायेनानुवर्तन्त इत्यभिप्रायः। `बिभीतः` इति। `ञि भी भये` (दा।पा।1084) जुहोत्यादित्वाच्छपः श्लुः। हलादावित्येव -बिभ्यतीति। इत्त्वविधानसामर्थ्यादेव `एरनेकाचः` (6.4.82) इति यणादेशो न स्यात्। सार्वधातुक इत्येव -भीतः, भीतवान्। क्ङितीति किम्? बिभेति॥ Prakriyasarvasvam ----------------- हलादौ क्ङिति सार्वधातुके परे भिय इङ्वा स्यात् । बिभितः, बिभीतः । बिभ्यति । बिभेषि । बिभीथः बिभियः । बिभेमि । बिभीवः बिभिवः । भावे भीयते । बिभीयात्, बिभियात् । बिभीयाताम्, बिभियाताम् । बिभेतु बिभीतात्, बिभितात् । बिभीताम्, बिभिताम् । बिभ्यतु । बिभीहि, बिभिहि । बिभीतम्, बिभितम् । बिभयानि । बिभयाव । लङि अबिभेत् । अबिभीताम्, अबिभिताम् । अविभयुः, अबिभेः । अबिभयम् । अबिभीव, अबिभिव । लुङि अभैषीत् । अभैष्टाम् । अभैषुः । लिटि 'भीह्री' इत्याम् वा । बिभयाञ्चकार, बिभाय । बिभ्यतुः । बिभयिथ, बिभेद । बिभ्यिव । भीयात् । भेता । भेष्यति । भावे अभायि । बिभ्ये । भायिषीष्ट, भेषीष्ट, इत्यादि । पृ पालनपूरणयोः । Sutra Prayogas -------------- * **बताबिभातमिभोष्ट्रौ** (शिशुपालवधम्): `भियोऽन्यतरस्याम्` इतीत्वम्। * **बिभीतो** (भट्टिकाव्यम्): `भियोऽन्यतरस्याम्` इति इत्वाभावपक्षे रूपम्।