64113: ई हल्यघोः ================ **Padacheda:** ई | S | | | 1 हलि | S | 7 | 1 | अघोः | S | 6 | 1 | Sutrartha --------- **श्ना-विकरणस्य तथा अभ्यस्तस्य आकारस्य हलादि-सार्वधातुके कित्-प्रत्यये ङित्-प्रत्यये च परे ईकारादेशः भवति । परन्तु घु-संज्ञकस्य न भवति ।** किम् नाम अभ्यस्तम् ? यदा द्वित्वं क्रियते तदा उभयोः शब्दयोः **उभे अभ्यस्तम्** (6.1.5) इत्यनेन अभ्यस्तसंज्ञा भवति । अस्य अभ्यस्तसंज्ञकस्य आकारस्य , तथा क्र्यादिगणस्य 'श्ना' विकरणप्रत्ययस्य आकारस्य हलादि-सार्वधातुके कित्-प्रत्यये परे ङित्-प्रत्यये परे **श्नाऽभ्यस्तयोरातः** (6.4.112) इत्यनेन लोपे प्राप्ते वर्तमानसूत्रेण अपवादत्वेन ईकारादेशः भवति । यथा - 1. क्र्यादिगणस्य डुक्रीञ् (द्रव्यविनिमये) अस्य धातोः लट्लकारस्य प्रथमपुरुषद्विवचनस्य इयम् प्रक्रिया भवति - क्री + लट् [**वर्तमाने लट्** (3.2.123) इति लट्] → क्री + तस् [**तिप्तस्...** (3.4.78) इति तस्-प्रत्ययः । **सार्वधातुकमपित्** (1.2.4) इति तस्-प्रत्ययस्य ङित्-भावः] → क्री + श्ना + तस् [**क्र्यादिभ्यः श्ना** (3.1.81) इति विकरणम् श्ना] → क्री + नी + तस् [**ई हल्यघोः** (6.4.113) इति श्ना-इत्यस्य आकारस्य ईकारः] → क्रीणीतः [विसर्गनिर्माणम्, **अट्कुप्वाङ्नुम्व्यवायेऽपि** (8.4.2) इति णत्वम्] 2. माङ् (माने शब्दे च) इत्यस्य लट्लकारस्य प्रथमपुरुषैकवचनस्य इयम् प्रक्रिया भवति - मा + लट् [**वर्तमाने लट्** (3.2.123) इति लट्] → मा + त [**तिप्तस्...** (3.4.78) इति आत्मनेपदस्य प्रथमपुरुषैकवचनस्य त-प्रत्ययः । **सार्वधातुकमपित्** (1.2.4) इति त-प्रत्ययस्य ङित्-भावः] → मा + शप् + त [**कर्तरि शप्** (3.1.68) इति शप्] → मा + त [**जुहित्यादिभ्यः श्लुः** (2.4.75) इति विकरणस्य श्लुः (लोपः)] → मा मा + त [**श्लौ** (6.1.10) इति द्वित्वम्] → मि मा + त [**भृञामित्** (7.4.76) इति अभ्यासस्य इकारादेशः] → मि मी + त [**ई हल्यघोः** (6.4.113) इति अभ्यस्तस्य आकारस्य हलि परे ईकारादेशः] → मिमीते [**टित आत्मनेपदानां टेरे** (7.4.79) इति एकारः] परन्तु अस्य सूत्रस्य प्रसक्तिः 'घु'संज्ञकस्य विषये नास्ति, एतत् स्पष्टीकर्तुमस्मिन् सूत्रे 'अघोः' इति उक्तमस्ति । किम् नाम 'घु'? **दाधा घ्वदाप्** (1.1.20) इत्यनेन डुदाञ् (दाने), दाण् (दाने), दो (अवखण्डने), देङ् (रक्षणे), डुधाञ् (धारणपोषणयोः), तथा धेट् (पाने) एतेषाम् षण्णाम् 'घु'संज्ञा भवति । एतेषु डुदाञ् (दाने), दाण् (दाने), तथा डुधाञ् (धारणपोषणयोः) एतेषु एव आकारः अस्ति, अतः एतेषाम् त्रयाणाम् विषये अस्य सूत्रस्य प्रसक्तिः अस्ति । तेषां विषये अस्य प्रयोगः न करणीयः - एतत् स्पष्टीकर्तुमस्मिन् सूत्रे 'अघोः' इति उक्तमस्ति । यथा, दा-धातोः लट्लकारस्य प्रथमपुरुषद्विवचनस्य इयम् प्रक्रिया भवति - दा + लट् [**वर्तमाने लट्** (3.2.123) इति लट्] → दा + तस् [**तिप्तस्...** (3.4.78) इति तस्-प्रत्ययः । **सार्वधातुकमपित्** (1.2.4) इति झि-प्रत्ययस्य ङित्-भावः] → दा + शप् + तस् [**कर्तरि शप्** (3.1.68) इति शप्] → दा + तस् [**जुहित्यादिभ्यः श्लुः** (2.4.75) इति विकरणस्य श्लुः (लोपः)] → दा दा + तस् [**श्लौ** (6.1.10) इति द्वित्वम्] → द दा + तस् [**ह्रस्वः** (7.4.59) इति अभ्यासस्य ह्रस्वः] → दद् + तस् [**श्नाऽभ्यस्तयोरातः** (6.4.112) इति आकारस्य लोपः] → दद् + तः [विसर्गनिर्माणम्] → दत्तः [**खरि च** (8.4.55) इति चर्त्वम्] अस्याम् प्रक्रियायाम् 'द दा + तस्' इत्यस्य आकारस्य ईकारादेशः न भवति, यतः **ई हल्यघोः** (6.4.113) इत्यस्य अत्र प्रसक्तिः एव नास्ति । तथैव, धा-धातोः लट्लकारस्य प्रथमपुरुषद्विवचनस्य रूपम् 'धत्तः' इति जायते । Sutrartha (English) ------------------- The आकार of the विकरण श्ना and also of an अभ्यस्त is converted to ई when followed by a हलादि सार्वधातुक कित् and ङित् प्रत्यय. But this does not happen for the verb roots that get the term 'घु'. Vasu English Summary -------------------- Before a सार्वधातुक कित् or ङित् affix beginning with a consonant, the आ of श्ना (the विकरण of the क्र्यादिगणः (9th Conjugation)) and of the reduplicate अङ्ग (stems) is replaced by ई except when the root is दा 'to give' or धा (धु). Vasu English Translation ------------------------ Before a सार्वधातुक कित् or ङित् affix beginning with a consonant, the आ of श्ना (the विकरण of the क्र्यादिगणः (9th Conjugation)) and of the reduplicate अङ्ग (stems) is replaced by ई except when the root is दा 'to give' or धा (धु). Thus लुनीतः, पुनीतः, लुनीथः, पुनीथः, लुनीते and पुनीते ॥ Of reduplicates we have मिमीते, मिमीषे, मिमीध्वे, संजिहीते, संजिहीषे, संजिहीध्वे ॥ Why do we say 'beginning with a consonant'? Observe लुनन्ति, मिमते ॥ Why with the exception of घु? Observe दत्तः, धत्तः ॥ So also लुनाति and जहाति before non-कित् and non-ङित् affixes. Kashika ------- श्नान्तानामङ्गानामभ्यस्तानां च घुवर्जितानामात ईकारादेशो भवति इलादौ सार्वधातुके क्ङिति परतः। लुनीतः। पुनीतः। लुनीथः। पुनीथः। लुनीते। पुनीते। अभ्यस्तानाम् — मिमीते। मिमीषे। मिमीध्वे। संजिहीते। संजिहीषे। संजिहीध्वे। हलीति किम्? लुनन्ति। मिमते। अघोरिति किम्? दत्तः। धत्तः। क्ङितीत्येव — लुनाति। जहाति॥ Siddhanta Kaumudi ----------------- श्नाभ्यस्तयोरातईत्स्यात्सार्वधातुके क्ङिति हलि न तु घुसंज्ञकस्य । मिमीते । श्नाभ्यस्तयोः - (SK2483) इत्यालोपः । मिमाते । मिमते । प्रण्यमास्त ।{$ {!1089 ओहाङ्!} गतौ $}। जिहीते । जिहाते । जिहते । जहे । हाता । हास्यते ।{$ {!1090 ओहाक्!} त्यागे$} । परस्मैपदी । जहाति ॥ Laghu Siddhanta Kaumudi ----------------------- श्नाभ्यस्तयोरात ईत् स्यात् सार्वधातुके क्ङिति हलादौ न तु घोः। जहीतः॥ Balamanorama ------------ **ई हल्यघोः** - ई हल्यघोः । 'ई' इति लुप्तप्रथमाकम् । 'श्नाब्यस्तयोरातः' इत्यनुवर्तते ।गमहने॑त्यतः क्ङितीति, 'अत उत्सार्वधातुके' इत्तः सार्वधातुके इत्यतः सार्वधातुके इति चानुवर्तते । तदाह — श्नाभ्यस्तयोरित्यादिना । आल्लोप इति ।अजादौ क्ङिति सार्वधातुके॑ इति शेषः । मिमते इति । अभ्यस्तत्वाददादेशः । मिमीषे मिमाथे मिमीध्वे । मिमे मिमीवहे मिमीमहे । ममे ममाते ममिरे । ममिषे ममाथे ममिद्वे । ममे ममिवहे ममिमहे । माता । मास्यते । मिमीताम् मिमाताम् मिमतात् । मिमीष्व मिमाथाम् मिमीध्वम् । मिमै मिमावहै मिमामहै । अमिमीत अमिमाताममिमत । अमिमीथाः अमिमाताममिमीध्वम् । अमिमि अमिमीवहि अमिमीमहि । मिमीत मिमीयाताम् मिमीरन् । मिमीथाः । मिमीयाथाम् मिमीध्वम् । मिमीय मिमीवहि मिमीमहि । मासीष्ट । अमास्त अमासाताममासत । अमास्थाः अमासाथाममाध्वम् । अमासि अमास्वहि अमास्महि । अमास्यत । ओ हाङ्गातविति । अनिट् । ओकारः ककारश्च इत् । जहातीति । श्लौ द्वित्वे अभ्यासचुत्वमिति भावः । तसादौ 'श्नाभ्यस्तयोरातः' इति नित्यमीत्त्वे प्राप्ते — Tattvabodhini ------------- **ई हल्यघोः** - ई हल्यघोः । श्नाभ्यस्तयोरिति । लुनीते । पुनीते । क्ङितीति किम् । लुनति । अघोः किम । धत्तः । दत्तः । मिमीते इति ।घुमास्थे॑तीत्त्वमिह न प्रवर्तते, तत्राद्र्धधातुक इत्यनुववृत्तेः । अन्यथा मातः माथः, गाते गासे इत्यादावतिप्रसङ्गात् । अत एव काशिकायामुक्तमाद्र्धधातुक इत्यधिकारो न ल्यपीति योगं यावदिति । Padamanjari ----------- लुनन्तीति । असति हल्ग्रहणे ईत्वलोपयोः पर्यायः स्यात् एकविषयत्वात् । घुसंज्ञकेष्वेव वा लोपः स्यात् । अत्रापि पूर्ववत् सार्वधातुकमेव सम्भवति ॥ Nyaas ----- `लुनीतः, पुनीतः; `लुनीथ, पुनीथ` इति। तस्थसौ। `मिमीते` इति। आत्मनेपदैकवचनम्। `मिमीषे` इति। `थासः स` (3.4.80) । `मिमीध्वम्` इति। ध्वम्। `लुनन्ति, पुनन्ति` इति। झिप्रत्ययः। ननु च यद्यप्यजादावपीत्त्वं स्यात्, लोपोऽनवकाशः स्यात्? अतोऽनवकाशत्वाल्लोप ईत्त्वं बाधिध्यते, तत्? किं `हलि` इत्यनेन? नैतदस्ति; असति हल्ग्रहणे वचनादुभयं स्यात्। घुसंज्ञकेष्वाल्लोपः प्रसज्येत। तस्मात्? `हलि` इति वक्तव्यम्। `दत्त्#H` इति। `खरि च` (8.4.54) इति चत्त्र्वम्। `धत्तः` इति। धाञो द्विर्वचने कृते **अभ्यासे चर्च** (8.4.54) इत्यभ्यासस्य जशत्वे च **दधस्तथोश्च** (8.2.38) इति भष्भावेन दकारस्य धकारः, धातोस्त्वाकारलोपे कृते जश्त्वचर्त्त्वे॥ Prakriyasarvasvam ----------------- हलादौ क्ङिति सार्वधातुके परे श्नाभ्यस्तयोरात ई स्यात्, घुसंज्ञकानां तु न । जहीतः । 'श्नाभ्यस्तयोः—' इत्याल्लोपः । जहति । जहासि । जहिथः, जहीथः । जहामि । जहिवः, जहीवः । कर्मणि हीयते । लिङि, Sutra Prayogas -------------- * **लुनीहि** (शिशुपालवधम्): `ई हल्यघोः` इतीकारः। * **जहीहि** (भट्टिकाव्यम्): `ई हल्यघोः` इतीत्वम्। * **क्लिश्नीतो** (भट्टिकाव्यम्): `ई हल्यघोः` इतीत्वम्।