64096: छादेर्घेऽद्व्युपसर्गस्य ============================== **Padacheda:** छादेः | S | 6 | 1 | घे | S | 7 | 1 | अ-द्व्युपसर्गस्य | S | 6 | 1 | Sutrartha --------- **** Vasu English Summary -------------------- The penultimate of चुरादि (10th Conjugation) - छद् is shortened before the affix घ -- पुंसि संज्ञायां घः प्रायेण (3.3.118), when not preceded by two prepositions (or more). Vasu English Translation ------------------------ The penultimate of चुरादि (10th Conjugation) - छद् is shortened before the affix घ -- पुंसि संज्ञायां घः प्रायेण (3.3.118), when not preceded by two prepositions (or more). As उरश्छदः, प्रच्छदः, दन्तच्छदः ॥ But समुपच्छादः with two prepositions. The same when preceded by more than two prepositions, as समुपातिच्छादः ॥ The elision of णि of छादि &c., by (6.4.51), should not be considered as *asiddha* (6.4.22) or *sthanivat* (1.1.57), otherwise there would be no penultimate to be shortened. Vart:- The prohibition with regard to द्वि should be extended to numbers more than two. Bhashya ------- छादेर्घेऽद्व्युपसर्गस्य (3094) (उपसंख्यानभाष्यम्) अद्विप्रभृत्युपसर्गस्येति वक्तव्यम् । इहापि यथा स्यात् - समुपाभिछादः ॥ (उपसंख्यानाक्षेपभाष्यम्) तत्तर्हि वक्तव्यम् ? न वक्तव्यम् । यत्र त्रिप्रभृतयः सन्ति द्वावपि तत्र स्तः, तत्राद्व्युपसर्गस्येत्येव सिद्धम् ॥ (समाधानभाष्यम्) न वा एष लोके संप्रत्ययः । न हि द्विपुत्र आनीयतामित्युक्ते त्रिपुत्र आनीयते । तस्मादद्विप्रभृत्युपसर्गस्येति वक्तव्यम् ॥ Kashika ------- छादेरङ्गस्याद्व्युपसर्गस्य घप्रत्यये परत उपधाया ह्रस्वो भवति। उरश्छदः। प्रच्छदः। दन्तच्छदः। णिलोपस्यासिद्धत्वं स्थानिवद्भावो वा वचनसामर्थ्यादत्र न भवतीति ह्रस्वभाविन्युपधा भवति। अद्व्युपसर्गस्येति किम्? समुपच्छादः॥ अद्विप्रभृत्युपसर्गस्येति वक्तव्यम्॥ समुपातिच्छादः उत्तरा हि संख्या पूर्वसंख्याकृतं व्यपदेशं निवर्तयति। न हि त्रिपुत्रो द्विपुत्र इति व्यपदिश्यते॥ Siddhanta Kaumudi ----------------- द्विप्रभृत्युपसर्गहीनस्य छादेर्ह्रस्वः स्याद्धे परे । दन्ताश्छाद्यन्तेऽनेन दन्तच्छदः । आकुर्वन्त्यस्मिन् आकरः ॥ Laghu Siddhanta Kaumudi ----------------------- द्विप्रभृत्युपसर्गहीनस्य छादेर्ह्रस्वो घे परे । दन्ताश्छाद्यन्तेऽनेनेति दन्तच्छदः । आकुर्वन्त्यस्मिन्नित्याकरः ॥ Tattvabodhini ------------- **छादेर्घेऽद्व्युपसर्गस्य** - आकुर्वन्तीति । एत्य कुर्वन्त्यस्मिन्व्यवहारमित्याकर उत्पत्तिस्थानम् । Padamanjari ----------- उरश्च्छद इति । च्छद आवरणे, चुरादिणिच्, पुंसि संज्ञायाम् इति करणे घः, कर्मणि षष्ठ।ल समासः । ननु चात्र घे परतो ण्यन्तमङ्गं तस्योपधादकारः, न च सं ह्रस्वभाविनी । न च शख्यं वक्तुम् - णिलोपे कृते एआकारो ह्रस्वभाविन्युपधेति णिलोपस्य असिद्धवदत्रा भात् तैत्यसिद्धत्वाद् अचः परस्मिन् इति स्थानिवद्भावाच्च । अत आह - णिलोपस्य चेति । अपर आह - णाविति वर्तते, धे परतो यो णिस्तत्र यदङ्गं तस्योपधाया ह्रस्वः । छादेः इति चेका निर्द्देशः, न णिचा इति । ननु यत्र त्रिप्रभृतयः सन्ति, द्वावपि तत्र स्तः, ततश्च अद्व्युपसर्गस्य इत्येव सिद्धम्, किं सूत्रशिक्षया अत आह - उतरा हीति । एतदेव लोकव्यवहारेथण द्रढयति - न हीति । इस्मन्त्रन्विवषु च ॥ आर्चिशुचिहुसृपिच्छदिच्छर्दिभ्य इसिः इतीसिप्रत्ययः । मनिन् सर्वधातुभ्यः । ष्ट्रन् सर्वधातुभ्यः । योगविभागाद् द्विप्रभृत्युपसर्गादपि भवति - समुपच्छदिः ॥ Nyaas ----- `उरश्छदः` इति। `छद अपवारणे` (धातुपाठः-1935), चुरादिणिच्, **पुंसि संज्ञायां घः प्रायेण** (3.3.118) इति घः। `उरसश्छदः` इति विगृह्र `कृद्योगा च षष्ठी समस्यते` (वा।86) इति समासः। ननु च णिलोपस्य `असिद्धवदत्रा भात्` (6.4.22) इत्यसिद्धत्वात्? **अचः परस्मिन् पूर्वविधौ** (1.1.57) इति स्थानिवद्भावाद्वा ह्रस्वभाविन्यज्लक्षणोपधा न सम्भवति, तत्? कथं ह्रस्वत्त्वं प्रवर्तते? इत्याह - `णिलोपस्य` इत्यादि। यद्यत्र णिलोपस्यासिद्धत्वं स्थानिवद्भावो वा स्यात्, तदा वचनमनर्थकं स्यात्। तस्माद्वचनसमथ्र्यादुभयमपि न भवति, तेन ह्रस्वभाविन्युपधा भवति। `अद्विप्रभृत्युपसर्गस्येति वक्तव्यम्` इति। ननु च त्रिप्रभृतयो यत्र सन्ति तत्र द्वावपि स्तः, ततश्चाद्व्युपसर्गस्येत्येवं सिद्धम्? इत्यत आह - `उत्तरा हि` इत्यादि। यद्यपि त्रिप्रभृतिषु द्वावपि स्तः, तथापि न ताविह द्विशब्देनोपात्तौ; यत उत्तरा हि संख्या पूर्वसंख्याया यः कृतो व्यपदेशस्तदभिधानं निवर्तयति। कथं ज्ञायते? इत्याह - `न हि` इत्यादि। यद्युत्तरा संख्या पूर्वसंख्याकृतव्यपदेशं न निवर्तयेत्, तदा त्रिपुत्रोऽपि लोके द्विपुत्र इत्यभिधीयेत, न चाभिधीयते। तथा हि `द्विपुत्रः आनीयताम्` इत्युक्ते नैव त्रिपुत्र आनीयते, अपि तु यस्यं द्वादेव पुत्रौ स एव। अद्विप्रभृतीत्यादेश्च वाक्यस्यायमर्थः - अद्धिप्रभृत्युपसर्गस्य छादेह्र्यस्वत्वं भवतीत्येतदर्थरूपं व्याख्येयमित्यर्थः। तत्रेदं व्याख्यानम् - द्विशब्दोऽत्रानेकोपलक्षणार्थम्, द्व्युपसर्गस्यानेकोपसर्गस्येति यावत्। अद्व्युपसर्गस्येते च प्रसज्यप्रतिषेधोऽयम्। तेनायमर्यो भवति - छादेरङ्गस्यानेकोपसर्गस्य घप्रत्यये परत उपधाह्रस्वो न भवतीति। केन पुनः प्राप्तस्य ह्रस्वस्यानेन प्रतिषेधः क्रियते? एतस्मादेव प्रतिषेधाद्विधायकं वाक्यमनुमीयते। योगविभागाद्व#आ - `छादेर्घे` इति। यदि च द्विशब्दोऽत्रानेकोपलक्षणार्थः, योगविभागश्चाभ्युपेयेतैवं तदा पर्युदासेऽप्यदोषः। कथम्? द्व्युपसर्गादनेकोपसर्गादन्योऽद्व्युपसर्गः=एकोपसर्गः, तस्य ह्रस्वत्त्वं भवति। किमर्थमिदम्, न `छादेर्घे` इत्यनेनैव सिद्धम्? सिद्धे सत्यारम्भो नियमार्थः - एकोपसर्गस्यैव भवति, नान्यस्येति। यद्येदम्? `उरश्छदः` इत्यत्र न प्राप्नोति? नैष दोषः, एवं हि योगविभागोऽनर्थकः स्यात्। तुल्यजातीयापेक्षत्वान्नियमस्य, सोपसर्गस्य नियमः क्रियमामः सोपसर्गस्येव ह्रस्वत्वं निवर्तयति, नानुपसर्गस्य। तेन `उत्तरश्छदः` इत्यत्र प्रवर्तत एव॥ Prakriyasarvasvam ----------------- द्व्याद्युपसर्गहीनस्य छादेर्घे परे ह्रस्वः स्यात् । छदः । प्रच्छदः । तनुच्छदः । द्व्याद्युपसर्गयोगे तु समुपच्छादः । समभिप्रच्छादः ॥ Sutra Prayogas -------------- * **परिच्छदः** (रघुवंशम्): `छादेर्घोऽव्द्युपसर्गस्य` इत्युपधाह्रस्वः। * **परिच्छदानाम** (किरातार्जुनीयम्): `छादेर्धेऽद्व्युपसर्गस्य` इति ह्रस्वत्वम्। * **मुखच्छदपटसादृशीं** (शिशुपालवधम्): `छादेर्धेऽद्वयुपसर्गस्य` इति ह्रस्वः। * **दन्त-च्छदं** (भट्टिकाव्यम्): `छादेर्घेऽयुपसर्गस्य` इति ह्रस्वः।