64093: चिण्णमुलोर्दीर्घोऽन्यतरस्याम्
====================================
**Padacheda:** चित्-णमुलोः | S | 7 | 2 |
दीर्घः | S | 1 | 1 |
अन्यतरस्याम् | S | 7 | 1 |
Sutrartha
---------
****
Vasu English Summary
--------------------
Optionally a long may be substituted for the penultimate of the causative of मित् roots, before the third person of the Passive Aorist in चिण् (इ) and before the Absolutive affix णमुल् (अम्).
Vasu English Translation
------------------------
Optionally a long may be substituted for the penultimate of the causative of मित् roots, before the third person of the Passive Aorist in चिण् (इ) and before the Absolutive affix णमुल् (अम्).
Thus अशमि or अशामि, अतमि or अतामि with चिण्; and शमंशमम्, and शामंशामं; तमंतमम् or तामंतामम् with णमुल् ॥ Why have we used the word दीर्घ in the *sutra*? The rule does not teach merely the optional shortening. So that in the alternative of short, we have अशमि and in the other alternative we have अशामि, so that there is long. For had दीर्घ not been used, it would have taught optional short only, i. e. it would be a ह्रस्वविकल्पविधि only, and there will be this difficulty :- when the causative of causative is taken, as in शमयन्तं प्रयुङ्क्ते, there would not be lengthening in the alternative. Because the *lopa* substitute of णि would be *sthanivat* : therefore, the णि which would be followed by चिण् or णमुल्, would not have in it the मित् *anga*, because the first णि intervenes between the मित् *anga* and the चिण् and णमुल् affix, and that णि which is preceded by a मित् *anga* is not followed by चिण् and णमुल्, because the second णि (though elided) intervenes. Therefore, there would not be optional short here, but compulsory short, by the preceding *sutra* and no lengthening. The rule, therefore, teaches the optional substitution of the long (दीर्घ). For there arises no such anomaly in this view. For taking this rule to be a दीर्घविधि, the *lopa*-substitution of णि would not be *sthanivat*, by the express prohibition contained in (l. 1.58), and so we can get forms of double causatives. But if we take it a ह्रस्वविकल्पविधि, then the *lopa*-*adesa* of णि being *sthanivat*, would prevent getting the alternative long form. Therefore the word दीर्घ is used in the *sutra* to make this rule a दीर्घविधि, and prevent *sthanivat*-*bhava*. Thus take the causative of शम्, which will be शमि by the last *sutra*. Take its Intensive with यङ्, शमि + यङ् which causes doubling by (6.1.9) = शमि शमि + यङ् = शशमि + यङ् (7.4.60) = शं शमि + यङ् (नुक् or nasal being added to the *abhyasa* by (7.4.85)) = शंशमि + यङ् = शंशम् + य (6.4.51) = शंशम्य. Add णिच् to this i. e. make the causative of the Intensive. शंशम् + य + इ ॥ Then the अ of य is elided by (6.4.48) = शं शम् + य् + इ. Then य् is elided by (6.4.49) = शंशम् + इ = शंशमि ॥ This शंशमि is the causative root of the Intensive of the causative शम् ॥ Now add चिण् or णमुल् to this root; and we get two forms short and long अशंशमि or अशंशामि with चिण् and शंशमम् or शंशामम् with णमुल् ॥ The long forms could not have been obtained had this not been a दीर्घविधि, for then the *lopa*-*adesa* of णिच् being *sthanivat* would have prevented the application of दीर्घ ॥ The roots शम् and तम् (both *Divadi*) ending in म् do not ever lengthen the root vowel before चिण् and णमुल् by (7.3.34). The present *sutra*, therefore, does not apply to the simple roots. The derivative causative roots of these, namely, शमि - शमयति, तमि — तमयति, optionally lengthen the penultimate before these affixes. Thus शमि + चिण् = शम् + चिण् (the इ of णि being elided by VI.4.51) शामि or शमि (with the augment अ = अशामि or अशमि) ॥ This rule applies when the Causative of the Causative root takes these affixes. In fact, the mention of the word दीर्घ implies as much, otherwise the *sutra* could have been made without this word, for the word 'optionally' would have brought in both 'short' and 'long'. Thus in शमयन्तं प्रयुङ्क्ते 'he causes another to make quiet,' we add णि (the Causative sign.), to the Causative root शमि, as शमि + णि = शम् + इ (6.4.51) = शामि, the *lopadesa* here is not *sthanivat* for the purposes of lengthening (दीर्घविधि) the अ of शम् (1.1.58) ॥ From this शामि with चिण् we get अशामि, and with णमुल् we get शामम् ॥ But we cannot get the short forms, by taking the other alternative, as the *lopadesa* will then be *sthanivat*. Hence the necessity of the word दीर्घ in the *sutra*. Thus the चिण् and णमुल् forms of the Causative of the Causative (i.e. the double Causative) of शम् are अशमि or अशामि; शमंशमम् or शामंशामम् and from the form शंशमयति, we have अशंशमि or अशंशामि, शंशमंशंशमम् or शंशामंशंशामम् ॥ These latter are from the Causative stems of the Intensive root. The sign यङ् of the Intensive has been elided (6.4.49) as shown above.
Bhashya
-------
चिण्णमुलोर्दीर्घोऽन्यतरस्याम् (3091) (6575 उपसंख्यानवार्तिकम् ॥ 1 ॥) - चिण्णमुलोर्णिज्व्यवेतानां यङ्लोपे च - चिण्णमुलोर्णिज्व्यवेतानां यङ्लोपे चोपसंख्यानं कर्तव्यम् । शमयन्तं प्रयोजितवान् - अशमि, अशामि । शमं शमम्, शामं शामम् । शंशमयतेः - अशंशमि, अशंशामि । शंशमं शंशमम्, शंशामं शंशामम् ॥ (उपसंख्यानप्रयोजनजिज्ञासाभाष्यम्) किं पुनः कारणं न सिध्यति ? चिण्णमुल्परे णौ मितामङ्गानां दीर्घो भवतीत्युच्यते, यश्चात्र णिश्चिण्णमुल्परो न तस्मिन् मिदङ्गम्, यस्मिंश्च मिदङ्गं नासौ चिण्णमुल्पर इति ॥ लोपे कृते चिण्णमुल्परो भवति । स्थानिवद्भावान्न चिण्णमुल्परः ॥ ननु च प्रतिषिध्यते तत्र स्थानिवद्भावः - दीर्घविधिं प्रति न स्थानिवदिति । एवमप्यसिद्धत्वान्न प्राप्नोति ॥ एवं तर्हि - (प्रयोजनानर्थक्यबोधभाष्यम्) चिण्णमुलोर्णिज्व्यवेतानां यङ्लोपे चान्तरङ्गलक्षणत्वात्सिद्धम् । किमदमन्तरङ्गलक्षणत्वादिति ? यावद्ब्रूयात्समानाश्रयवचनात्सिद्धमिति । व्याश्रयं चैतत् । कथम् ? णौ णिलोपः, णौ चिण्णमुल्परे मितामङ्गानां दीर्घत्वम् । तस्मान्नार्थ उपसंख्यानेनेति ॥
Kashika
-------
चिण्परे णमुल्परे च णौ परतो मितामङ्गानामुपधाया दीर्घो भवत्यन्यतरस्याम्। अशमि, अशामि। अतमि, अतामि। शमंशमम्, शामंशामम्। तमंतमम् ,तामंतामम्। दीर्घग्रहणं किम्, न ह्रस्वविकल्प एव विधीयते ? नैवं शक्यम्, शमयन्तं प्रयुङ्क्त इति द्वितीये णिचि ह्रस्वविकल्पो न स्यात्, णिलोपस्य स्थानिवद्भावात्, दीर्घविधौ त्वजादेशो न स्थानिवत्। शमयन्तं प्रयुक्तवान्। अशमि,अशामि। शमंशमम्, शामंशामम्। शंशमयतेः — अशंशमि, अशंशामि। शंशमंशंशमम्, शंशामंशंशामम् । योऽसौ णौ णिर्लुप्यते, यश्च यङकारः, तयोर्दीर्घविधावादेशो न स्थानिवत् (१.१.५८) भवतीत्यस्थानिवद्भावाद् दीर्घः सिद्धो भवति। ह्रस्वविकल्पे तु विधीयमाने स्थानिवद्भावः स्यात्। णिण्यन्ते यङ्ण्यन्ते त्वसिद्धिरेव। व्याश्रयत्वादसिद्धत्वमपि नास्ति। णौ हि णियङोर्लोपः, चिण्णमुल्परे णावङ्गस्य दीर्घत्वम् ॥
Siddhanta Kaumudi
-----------------
चिण् परे णमुल्परे च णौ मितामुपधाया दीर्घो वा स्यात् । प्रकृतो मितां ह्रस्वः-(SK2568) एव तु न विकल्पितः । ण्यन्ताण्णौ ह्रस्वविकल्पस्यासिद्धेः । दीर्घविधौ हि णिचो लोपो न स्थानिवदिति दीर्घः सिध्यति । ह्रस्वविधौ तु स्थानिवत्त्वं दुर्वारम् । भाष्ये तु पूर्वत्रासिद्धीये न स्थानिवदित्यवष्टभ्य द्विर्वचनसवर्णानुस्वारदीर्घजश्चरः प्रत्याख्याताः । णाविति जातिपरो निर्देशः । दीर्घग्रहणं मास्तु इति तदाशयः । शामिता । शमिता । शमयिता । शामिष्यते । शमिष्यते । शमयिष्यते । यङन्ताण्णिच् । शंशम्यते । शंशामिता । शंशमिता । शंशमयिता । यङ्लुगन्ताण्णिच्यप्येवम् । भाष्यमते तु यङन्ताच्चिण्वदिटि दीर्घो नास्तीति विशेषः । ण्यन्तात्वाभावे शस्यते मुनिना ॥
Balamanorama
------------
**चिण्णमुलोर्दीर्घोऽन्यतरस्याम्** - चिण्णमुलोः । 'दोषो णौ' इत्यतो णाविति, 'ऊदुपधाया गोहः' इत्यस्मादुपधाया इति, 'मितां ह्रस्वः' इत्यतो मितामिति चानुवर्तते । तदाह — चिण्परे इत्यादिना । नन्विह दीर्घ ग्रहणं व्यर्थं,चिण्णमुलोरन्यतरस्या॑मित्येतावतैव 'मितां ह्रस्वः' इति पूर्वसूत्रादनुवृत्तस्य ह्रस्वस्यविकल्पे दीर्घविकल्पस्य सिद्धेरित्यत आह — प्रकृत इत्यादि । कुत इत्यत आह — ण्यन्ताण्णाविति । शमदातोण्र्यन्ताण्णौ पूर्वणेर्लोपे लुटि तासि ण्यन्तस्याऽजन्तत्वाच्चिण्वदिटि तस्याऽऽभीयत्वेनाऽसिद्धतया 'अनिटी' ति निषेधाऽभावाण्णिलोपे दीर्घविकल्पे सति शमिता शामितेति रूपद्वयमिष्यते । ह्रस्वविकल्पस्य विधौ तु ह्रस्वविकल्पो न स्यात्, प्रथमणिलोपस्यअचः परस्मि॑न्निति स्थानिवत्त्वेन व्यवहिततया चिण्परकणिपरकत्वाऽभावादित्यर्थः । दीर्घविकल्पविधौ तु न दोष इत्याह — दीर्घविधाविति । दीर्घविकल्पविधौ हि प्रथमस्य णिचो लोपो न स्थानिवत्, दीर्घविधौ स्थानिवत्त्वनिषेधात्, अतोऽत्र दीर्घविकल्पः सिध्यति । ह्रस्वविधौ तु प्रथमणिलोपस्य स्थानिवत्त्वं दुर्वारं, तत्र स्थानिवत्त्वनिषेधाऽभावादित्यर्थः । भाष्ये त्विति । न पदान्तसूत्रभाष्ये तुपूर्वत्रासिद्धे न स्थानिवदि॑त्येव सिद्धत्वान्न पदान्तसूत्रे द्विर्वचनसवर्णानुस्वारदीर्घजश्चरः प्रत्याख्याताः । 'सुद्ध्युपास्य' इत्यत्रअनचि चे॑ति द्विर्वचनस्य, शिण्ढीत्यत्रनश्चे॑त्यनुस्वारस्य,अनुस्वारस्य ययी॑ति परसवर्णस्य च, प्रतिदीब्न इत्यत्रहलि चे॑ति दीर्घस्य, सग्धिरित्यत्रझलां जश् झशी॑ति जश्त्वस्य, जक्षतुरित्यत्रखरि चे॑ति चर्त्वस्य च पूर्वत्राऽसिद्धीयत्वादित्यर्थः । ननु ण्यन्ताण्णौचिण्णमुलो॑रिति दीर्घे कर्तव्ये प्रथमणिलोपस्य स्थानिवत्त्वं दुर्वारम्, 'चिण्णमुलोः' इति दीर्घस्य पूर्वत्रासिद्धीयत्वाऽभावात् । ततश्च प्रथमणिचा व्यवहितत्वाद्दीर्घाऽनापत्तिः । एवं च तत्र दीर्गे कर्तव्ये स्थानिवत्त्वनिवारणाय दीर्घग्रहणस्यावश्यकत्वात्कथं दीर्घग्रहणप्रत्याख्यातमित्यताअह — णावितीति ।चिण्णमुलो॑रिति दीर्घविधौ चिण्परे णमुल्परे च 'णौ' इत्यत्र णाविति णित्वजातिप्रधानो निर्देशः । चिण्णमुल्परकणित्वजातौ परत इति लभ्यते । णित्वजातिश्च णिद्वयेऽस्तीति प्रथमणेः स्थानिवत्त्वेऽपि दीर्घो निर्बाध इतिन पदान्त॑सूत्रे दीर्गग्रहणप्रत्याख्यानभाष्यस्याशय इत्यर्थः । शामिता शमितेति । शमधातोण्र्यन्ताल्लुटि तासि चिण्वदिटि दीर्गविकल्पः । शमियितेति । चिण्वत्त्वाऽभावे वलादिलक्षणे इटि रूपम् । यङन्तादिति । शमधातोर्यङि शंशम्येत्येतस्माद्धेतुमण्णौ 'यस्य हलः' इति यकारलोपे अतो लोपे शंशमीत्यस्मात्कर्मलकारे णिलोपे 'शंशम्यते' इति रूपमित्यर्थः । शंशामिता शंशमितेति ।चिण्मुलो॑रिति दीर्घविकल्पः । शंशमयितेति । चिण्वत्त्वाऽबावे वलादिलक्,णे इटि रूपम् । भाष्यमते त्विति ।न पदान्त॑सूत्रे दीर्गग्रहणप्रत्याख्यानपरभाष्यमते त्वित्यर्थः । यङन्तादिति ।ण्यन्ता॑दिति शेषः । यङन्ताण्णिचि यलोपे अल्लोपे च कृतेशंशमी॑त्यस्माल्लुटि तासि चिण्वदिटि कृते तस्याऽसिद्धत्वाण्णिलोपेशंशमिते॑त्यत्र अल्लोपस्य स्थानिवत्त्वेन णिच्परकत्वाऽबावात्चिण्णमुलो॑रिति दीर्घो नास्ति, भाष्यमतेन पदान्त॑सूत्रे दीर्घग्रहणाऽभावेन स्थानिवत्त्वनिषेधाऽभावादित्यर्थः । शम्यते मुनिनेति । अकर्मकत्वाद्भावे ल इति भावः ।
Tattvabodhini
-------------
**चिण्णमुलोर्दीर्घोऽन्यतरस्याम्** - चिण्णमुलोः । शामितेत्यादौजनीजृ॑षित्यादिना मित्त्वेन मितामुपधाया नित्यं ह्रस्वे प्राप्ते दीर्घोऽनेन विकल्प्यते । ण्यन्ताण्णाविति । णिलोपस्य स्थानिवत्त्वेन व्यवधानादिति भावः । दीर्घः सिध्यतीति ।न पदान्ते॑ ति निषेधादित्यर्थः । ननु त्रिपादीस्थेदीर्घे कर्तव्ये स्थानिवत्त्वाऽभावःपूर्वत्रासिद्ध॑ मित्यनेनैव सिद्ध इति दीर्घग्रहणस्योपयोगाऽभावेऽपि ण्यन्ताण्णौचिण्णमुलो॑रिति दीर्घे कर्तव्ये स्थानिवद्भावनिवारणाय दीर्घग्रहणमावश्यकमित्यत आह — जातिपरो निर्देश इति । इदं मास्त्विति । ह्रस्वविकल्पेनाऽपीष्टं सिध्यतीति भावः । वस्तुतस्तुचिण्णमुलो॑रिति सूत्रे दीर्घग्रहणं कर्तव्यमेव । तथाहि -हेडृ अनादरे॑ घटादिः । मितां ह्रस्वे कर्तव्य एच इक् । हिडयति । अत्र चिण्णमुलोः कृतयोह्र्यस्वे विकल्प्यमाने अहिडि अहेडि इति स्यात् । दीर्घे तु — अहिडि अहीडीति भवति । एतच्चात्रैव सूत्रे कैयटे स्पष्टम् । शंशामितेत्यादि । चिणिअशंमि । अशंशामि । णमुलि, शंशमं — शंशमं । शंशामं-शंशाममित्यादि द्रष्टव्यम् । दीर्घोनास्तीति । यङोऽल्लोपस्य स्थानिवत्त्वेन णिच्परत्वाऽभावादुपधादीर्घस्योपधावृद्धेश्चाऽप्रवृत्तेः । तथा च फलभेदाद्दीर्घग्रहणप्रत्याख्यानं न युज्यत इति भावः । शम्यते मुनिनेति । अकर्मकत्वाद्भावे लः ।
Padamanjari
-----------
न ह्रस्वविकल्प एव विधीयेतेति । एवमपि ह्रस्वपक्षे अशमीति सिध्यति, पक्षान्तरे अशामीति यथाप्राप्तं दीर्घ एवाषस्थास्यत इति भावः । शमयन्तं प्रयुंक्ते इति । यद्यपि चिण्विषये कर्म प्रदर्शनीयं भूतकालश्च, तथापि णिजुत्पतये हेतुव्यापारमात्रप्रदर्शनमत्र विवक्षितम्, न कर्ता नापि वर्तमानः काल तैति न दोषः । णिलोपस्य स्थानिवद्भावादिति । स्थानिवद्भावे हि सति यश्चिण्णमुल्परो णिः न तस्मिन्मिदङ्गम्, पूर्वेण णिचा व्यावधानात् यर्स्मिश्च मिदङ्गं न स चिण्णमुल्परः, परेण णिचा व्यावधानात् ततश्च ह्रस्वविकल्पो न स्यात्, पूर्वेथण नित्यमेव तु ह्रस्वः स्यात् । ननु दीर्घविकल्पेऽपि यावता स्थानिवद्भावः, कथमिवैतत् सिद्ध्यति तत्राह - दीर्घविधौ त्विति । न पदान्तद्विर्वचन इत्यादिना स्थानिवद्भावप्रतिषेधाद्दीर्घविकल्पस्यायं विषय एवेत्यर्थः । तथेत्यादि । अत्र दीर्घविधौ त्वजादेशो न स्थानिवद्भावतीत्यनुषङ्गः । शमेर्यङ्, द्विर्वचनम्, नुक्, णिच्यतो लोपः यस्य हल, तशंशमि इति स्थिते - यदा ततश्चिण्णमुलौ भवतः, तदा दीर्घविकल्पः सिध्यति अजादेशस्य स्थानिवत्वाभावादित्यर्थः । एतदेव स्पष्टयति - योऽसाविति । यश्च यङ्कार इति । णौ लुप्यत थैत्युनषङ्गः । एवं तावद्दीर्घविधौ त्वजादेशो न स्थानिव्ध्बवतीत्येतस्पष्टीकृतम् । णिलोपस्य स्थानिवद्भावाद् ह्रस्वविक्लपो न स्यात् इति यदुक्तम्, तत्समार्थयते - ह्रस्वविकल्पे त्विति । णेर्णिः णिणिः, सोऽन्तो यस्य स णिण्यन्तः । एतेन यड्ण्यन्ते इति व्याख्यातम् । असिद्धिरेवेति । कस्य प्रकृतत्वाद्दीर्घस्य, एवकारेण तुशब्देन चैतद्दर्शयति । णिचमाश्रित्य वृद्धिविधानादस्ति दीर्घस्य शङ्का, णिलोपस्य तु स्थानिवद्भावादयं विकल्पो न स्यादित्येव दोषः । यङ्ण्यन्ते तु भवतु नामायं विकल्पः, तथापि पक्षे दीर्घस्य श्रवणं न सिध्यति तणिचमपेक्ष्य वृद्धौ कर्तव्यायामतो लोपस्य स्थानिवद्भावाद्, दीर्घस्यानुन्मेषादिति । स्यादेत - दीर्घविकल्पे विधीयमाने यदि नाम स्थानिवद्भावो नास्ति, तथापि नैवात्र दीर्घः सिध्यति, असिद्धवदत्राभात् इति णियङेर्लोपस्यासिद्धत्वादिति अत थाअह - व्याश्रयत्वादिति । व्याश्रयत्वमेव दर्शयति - णौ हीत्यादि । किञ्च - हेड वेष्टने घटादिः, तस्य ह्रस्वाभावपक्षे अहेडीति स्यात्, दीर्घे तु ह्रस्वस्य कृते - अहीडीति भवति । तस्मादतोऽपि हेतोर्दीर्घ एव विकल्पनीयः ॥
Nyaas
-----
`णौ` इति वर्तते, चिण्णमुलौ च तद्विशेषणे। `अशमि` इति। शमेण्र्यन्ताल्लुङ, `चिण्? भावकर्मणोः` (3.1.66) इति च्लेश्चिण्, **चिणो लुक्** (6.4.104) इति तशब्दस्य लुक्? णेरनिटि` (6.4.51) इति णिलोपः। `शर्मशममम्, शामंशामम्` इति। पूर्ववण्णमुल्दिविर्वचने। `दीर्घग्रहणं किम्` इति। एवं मन्यते - ह्रस्वस्यैवानन्तरसय प्रकृतस्य विकल्पमात्रं विषेयम्, एवमप्यभीष्टं सिद्ध्यत्येव। तथा हि - यस्मिन्? पक्षे ह्रस्वो विधीयते, तस्मिन्नशमीत्यादि सिद्ध्यति। यस्मस्तु ह्रस्वो न विधीयते, तत्र **अत उपधायाः** (7.2.116) इति दीर्घे वृद्धिसंज्ञके विहिते तेनैव रूपेणावस्थानात्? `अशामि` इत्यादि सिद्ध्यतीत्यभिप्रायः। इतरस्तु दीर्घग्रहणमन्तरेण यन्न सिद्ध्यति, तद्दर्शयति - `शमयन्तं प्रयुङक्ते` इत्यादिना। शमेण्र्यन्तात्? पुनः प्रयोजकविवक्षायां द्वितीयो णिच्, तत्र पूर्वस्य णेर्लोपः, लुङ, चिण्। पक्षे दीर्घत्वम्। `अशमि, अशामि, शमंशमम्, शामंशामम्` इति। द्वितीयणिजन्तण्णमुलि कृते पक्षे दीर्घत्वम्। `शंशमयतेः` इत्यादि। अत्यर्थं शाम्यतीति यङ्, द्विर्वचनम्, **नुगतोऽनुनासिकान्तस्य** (7.4.85) इति नुक् - `शंशम्य` इति। स्थिते हेतुमण्णिच्, **अतो लोपः** (6.4.48) इत्यकारस्य लोपः, **यस्य हलः** (6.4.49) इति यकारस्य, शंशमीति स्थिते यदा ततः परश्चिण्भवति, तदा पक्षे दीर्घत्वे कृतेऽशंशम्यशंशामीति भवति। यद तु णमुल्? तदा शंशमंशंमम्? शंशामंशंशाममिति, तत्र योऽसो णौ णिर्लुप्यते, यश्च यङोऽकारस्तयोर्दीर्धग्रहणे सति **अचः परस्मिन् पूर्वविधौ** (1.1.57) इति स्थानिवद्भावो न भवति; `न पदान्त` (1.1.57) इत्यादिना प्रतिषेधात्। तेनासति व्यवधाने दीर्घः सिद्धो भवति। स्यादेतत् - ह्रस्वविकल्पे विधीयमाने यस्मिन्? पक्षे ह्रस्वो नास्ति तस्मिन्पक्षे स्वरूपेणैवावस्थितो दीर्घः स्यात्? इत्यत आह - `ह्रस्वविकल्पे तु` इत्यादि। न हि ह्रस्वे विधातव्ये केनचित्? स्थानिवद्भावः प्रतिषिध्यते। तत्र ह्रस्वविकल्पे विधीयमाने णेर्लोपस्य यङ्कारस्य च स्थानिवद्भावः स्यादेव। ततश्च स्थानिवद्भावाद्विकल्पेन ह्रस्वत्वं न स्यात्। चिण्णमृल्परे हि णौ परतो मितामङ्गानां ह्रस्वत्वं विधेयम्। यश्चात्र णिश्चिण्णमुल्परो न तत्र मिदङ्गम्; पूर्वेम णिचा व्यवधानात्। यस्मश्च णौ मिदङ्गं नासौ चिण्णमुल्परः; परेण चिणा व्यवधानात्। तस्मान्नायमस्य योगस्य विषय इति पाक्षिकं ह्रस्वत्वमनेन न स्यात्। पूर्वेणैव योगेन नित्यं स्यात्, ततश्च दीर्घो न स्यात्।`णिण्यन्ते` इत्यादि। णेणिरन्तः समीपो यस्मिन्? स णिण्यन्तः। अथ वा णेणिः णिणिः सोऽन्तो यस्य स णिण्यन्तः। अस्मिन्? पक्षेऽन्तशब्दोऽवयववचनः। `यङण्यन्ते त्वसिद्धिरेव` इति। यङ्ण्यन्तशब्दस्यापि पूर्ववद्? द्विधा व्युत्पत्तिः। कस्यासिद्धिः? प्रकृतत्वाद्दीर्घस्येति वेदितव्यम्। एवकारेणैतद्दर्शयति - णिण्यन्ते स्यादपि केनचित्? प्रकारेण दीर्घस्य सिद्धिः, यङ्ण्यन्ते त्ववसिद्धिरेव। न केनचित्? प्रकारेण सिद्धिरित्यर्थः। कथ पुनर्णिण्यन्ते सिद्धिर्भवति? णिजातेराश्रयणात्। णिजातिविवक्षायां हि यद्यपि णिलोपस्य स्थानिवद्भावः, तथापि नास्तिव्यवधानम्; जातेरेकत्वात्। न हि तत्रैव तस्या व्यवधानमुपपद्यते। तेन व्यवधानाभावाण्णिण्यन्ते दीर्घस्य सिद्धिः। अथ वैतदेवकारेण दर्शयति - णिण्यन्ते पूर्वं णिचमाश्रित्य **अत उपधायाः** (7.2.116) इति वृद्धि विधानादस्ति दीर्घस्य सिद्धिः, तस्यास्तु ह्रस्वत्वेन निवृत्तिः क्रियते, न तु सर्वथा नास्त्येव। यङ्ण्यन्ते तु सर्वथैव दीर्घसिद्धेरभावः, तत्र वृद्धेरसम्भवादिति। स्यादेतत् - विक्लपे दीर्घत्वे विधीयमानेऽपि नैवाऽत्र दीर्घः सिध्यति। `असिद्धवदत्रा भात्` (6.4.22) इति णियङोर्लोपस्यासिद्धत्वादित्यत आह - `व्याश्रयत्वात्` इत्यादि। कथं पुनध्र्याश्रयत्वम्? इत्याह - `णौ हि` इत्यादि। अन्यतरस्यांग्रहणं विस्पष्टार्थम्; शक्यते हि **वा चित्तविरागे** (6.4.91) इत्यतो मण्डूकप्लुतिन्याथेन वाग्रहणमनुवर्तयितुम्॥
Prakriyasarvasvam
-----------------
चिण्णमुलपरे णौ मितां वा दीर्घः स्यात् । अघाटि, अघटि । अव्याथि, अव्यथि । चिण्वद्दिद्यपि-घाटिष्यते, घटिष्यते । अचिण्वत्त्वे-घटयिष्यते । णमुलि- घाटं घाटं, घटं घटम् । 'जनीजॄष्क्नसुर्ञ्जोऽमन्ताश्च' (ग. सू.) । जन्यादयोऽमन्ताश्च मितो ज्ञेयाः । जनयति, जरयति । क्नसृ कौटिल्यदीप्त्योः । क्नस्यति लतामग्निं च । 'जनीजृ ष्ण- स्वि'ति वा पाठः । स्रस्यति भृत्यैः शत्रुम् । निरासयतीत्यर्थः । 'रञ्जेर्णौ मृगरमणे नलोपो वाच्यः' (वा) । तत्रोपधावृद्धौ कृतायां मित्त्वाद् ह्रस्वः । रजयति मृगान् । अन्यत्र नलोपाभावाद् रञ्जयति वधूम् । तत्रापि 'चिण्णमुलोर्दीर्घः-' (६-४-९३) इति विकल्पो मित्त्वफलम् । अरञ्जि, अराञ्जि । रञ्जं रञ्जं, राञ्जं राञ्जम् । अमन्तानाम्-दमयति, रमयति । क्रमयति । चिण्णमुलोर्वा दीर्घे-अदामि, अद्मि, दामिष्यते, दमिष्यते । दामं दामं, दमं दमम् । 'मितां ह्रस्वः' (६-४-९२) इत्यत्र वेत्यनुवृत्त्या१व्यवस्थितविकल्पात् क्वचिद्विकल्पः । संक्रामयति । उत्क्रामयति । उन्नामयति । 'भ्रामितभ्रुकुटीकम्' इत्यादि । आध्याने स्मरतिर्मित् स्यात् सोत्कण्ठस्मरणं च२ तत् । स्मरयत्यच्युतो राधां स्मारयत्यर्थमन्यदा ॥ ७३० ॥ हेडतिर्वेष्टने मित् स्यात् तस्य च ह्रस्व एव इक् । हिडयत्यम्बरेणाङ्गं हेडयेदित्यनादरे ॥ ७३१ ॥ विक्लेदे श्रा मिदाख्यः स्यात् पुग्ह्रस्वौ श्रपयेच्चरुम् । नान्यत्र मित्त्वं स्वेदार्थे श्रापयत्यङ्गमातपः ॥ ७३२ ॥ ज्ञा मारणे तोषणे च दर्शनायां च मिद् भवेत् । केचिन्न्निशानेऽप्याहुः क्रमात् संज्ञपयेत् पशुम् ॥ ७३३ ॥ विष्णुं विज्ञपयेत् प्रज्ञपयेत् रूपं तथाऽऽयुधम् । नोपसर्गस्त्वतौवेष्टा ज्ञपयेत् स्याच्चतुष्वपि ॥ ७३४ ॥ एभ्योऽन्यत्वाद् बोधनार्थे ज्ञापयेदित्यमिद् भवेत् । चुरादौ ज्ञपमिच्चेति यो ज्ञानज्ञापनार्थकः ॥ ७३५ ॥ ज्ञपयेदिति तस्य स्याज्ज्ञापनार्थे ततो द्विधा । ज्ञाने तु तस्य मित्त्वं धर्मं ज्ञापयति स्वयम् ॥ ७३६ ॥ दृ भये मिद् दरयति द्विपमन्यत्र दारयेत् । कम्पने चलतिर्मित् स्यात् कपिञ्चलयति द्रुमम् ॥ ७३७ ॥ अन्यत्र धर्मं वित्तं वा सूत्रं वा चालयत्यसौ । अर्थोऽन्यथाकरोतीति हरति क्षिपतीति च ॥ ७३८ ॥ छदिरप्यूर्जने मित् स्याद् बलनं प्राणं च तत् । दुर्बलं छदयेद् राजा मान्त्रिकश्छदयेन्मृतम् ॥ ७३९ ॥ जिह्वायाः क्षोभणे तद्वज्जिह्वया क्षोभणेऽपि च । हिंसायां च लडिर्मित् स्याज्जिह्वां लडयते फणी ॥ ७४० ॥ लडयत्यास्यलग्नानि वधे तु लडयत्यरिम् । मदी हर्षग्लेपनयोर्मंदयेत् सज्जनान् खलान् ॥ ७४१ ॥ अन्यत्र—उन्मादयतीत्यादि । 'ध्वनिः शब्दने मित्' । ध्वनयति वेणुम् । अन्यत्र—शिष्यं ध्वानयति, अस्पष्टमुच्चारयति* । 'स्वन अवतंसने च' । चात् शब्दे । स्वनयति वेणुं बर्हं च हरिः । दलिवलिस्खलित्रपिक्षपयश्च भोजोक्ताः । दलयति पत्रम् । वलयति दृशौ । स्खलयति पादम् । त्रपयति वधूम् । 'क्ष क्षये इत्यस्यात्त्वे पुकि मित्त्वम्' । क्षपयति दोषम् । 'ज्वल ह्वल ह्मलनमयोऽनुपसर्गा वा मितः' । ज्वलयति, ह्वलयति । ह्मलयति । द्वौ चलनार्थौ । नमयति । एवं— ज्वालयतीत्यादि । एषां सोपसर्गत्वे नित्यं मित्त्वं स्यात् । प्रज्वलयति विह्वलयतीत्यादि । 'ग्लास्नावनुवमश्च' । एतेऽप्यनुपसर्गा वा मितः । ग्लपयति । स्नपयति । वनिः कृञर्थः । वनयति वमयति । एवं—ग्लापयतीत्यादि । प्रादियोगे तु—प्रग्लापयति । प्रस्नापयति । वनुवमोः प्रादियोगे नित्यंमित्त्वम्' । प्रवनयति प्रवमयति । न 'कम्यमिचमाम्' । एषाममन्तत्वप्राप्तं मित्त्वं न । कामयते । आमयति । चामयति । शमिस्तु दर्शने नो मिन्निशामयति केशवम् । अन्यत्र मिन्निशमयन् वेणुं शमयति श्रमम् ॥ ७४२ ॥ भोजनायां वेष्टने च यमिर्मिद् यमयेद् द्विजान् । यमयेद् वस्त्र, मन्यत्र भृत्यं रज्जुं च यामयेत् ॥ ७४३ ॥ अत्र व्यापारणं दीर्धीकृतिश्चार्थो भवेत् क्रमात् । दुष्टान् नियमयन्नित्याद्यवन्तात् तत्करोतिणिच् ॥ ७४४ ॥ विदारणार्थः स्खदतिर्मित् स्यात् स्खदयति द्विषम् । स्खदेरवपरिभ्यां न परिस्खादयतीति दिक् ॥ ७४५ ॥ तस्य त्वन्योपसर्गेभ्यो वा फणेश्चेति कौमुदी । प्रस्खादयेत् प्रस्खदयेत् फाणयेत् फणयेदिति ॥ ७४६ ॥
Sutra Prayogas
--------------
* **विश्रामय** (रघुवंशम्): `जनीजॄष्क्नसुरञ्जोऽमन्ताश्च` इति मित्वम्।
* **भाविता** (शिशुपालवधम्): `चिण्वदिट्` इति अतिदेशात् वृद्धिः।