64091: वा चित्तविरागे ===================== **Padacheda:** वा | S | 0 | 0 | चित्तविरागे | S | 7 | 1 | Sutrartha --------- **'चित्तस्य' विकारम् दर्शयितुम् प्रयुज्यमानस्य दुष्-धातोः उपधायाः णिच्-प्रत्यये परे विकल्पेन ऊकारादेशः भवति ।** 'दुष्' (वैकृत्ये) अयम् दिवादिगणस्य धातुः । अस्य धातोः **दोषो णौ** (6.4.90) इत्यनेन णिच्-प्रत्यये परे उपधावर्णस्य दीर्घ-ऊकारादेशः विधीयते । परन्तु अयम् दुष्-धातुः यदि चित्तस्य विकारम् (दोषम्) दर्शयति, तर्हि अयम् ऊकारादेशः विकल्पेन भवति । ऊकारादेशस्य अभावे **पुगन्तलघूपधस्य च** (7.3.86) इत्यनेन गुणादेशः विधीयते । यथा - 1) कामः चित्तं दूषयति, कामः चित्तं दोषयति। 2) आलसः प्रज्ञां दूषयति, आलसः प्रज्ञां दोषयति । अन्यत्र तु नित्यमेव दीर्घादेशः भवति । यथा - जनाः सरः दूषयन्ति । Sutrartha (English) ------------------- To indicate impurification of mind / intellect, the उपधा letter of the verb root दुष् is optionally converted to ऊकार when followed by the णिच् प्रत्यय. Vasu English Summary -------------------- The ओ of दोष् is optionally replaced by ऊ when the sense is that of the disturbing of the mind. Vasu English Translation ------------------------ The ओ of दोष् is optionally replaced by ऊ when the sense is that of the disturbing of the mind. As चित्तं or प्रज्ञां दूषयति or दोषयति ॥ Otherwise साधनं दूषयति when mental agitation is not meant. Kashika ------- चित्तविकारार्थे दोष उपधाया वा ऊकारादेशो भवति णौ परतः। चित्तं दूषयति, चित्तं दोषयति। प्रज्ञां दूषयति, प्रज्ञां दोषयति॥ Siddhanta Kaumudi ----------------- विरागोऽप्रीतता । चित्तं दूषयति दोषयति वा कामः ॥ मितां ह्रस्वः ॥ भ्वादौ चुरादौ च मित उक्ताः । घटयति । जनीजॄष् । जनयति । जरयति । जृणातेस्तु । जारयति । (वार्तिकम्) ॥ मृगरमणमाखेटकम् । रजयति मृगान् । मृगेति किम् । रञ्जयति पक्षिणः । रमणादन्यत्र तु रञ्जयति मृगांस्तृणादानेन । चुरादिषु ज्ञपादिश्चिञ् । चिस्फुरोर्णौ (SK2569) चपयति । चययतीत्युक्तम् । चिनोतेस्तु । चापयति । चाययति । स्फारयति । स्फोरयति । अपुस्फुरत् । अपुस्फरत् ॥ Balamanorama ------------ **वा चित्तविरागे** - वा चित्तविरागे । ऊदुपधाया इति, दोषो णाविति चानुवर्तते । चित्तविरागे दुष उपधाया ऊद्वा स्याण्णाविति फलितम् । विरागपदस्य विवरणम् - अप्रीततेति । इच्छाविरह इत्यर्थः । चित्तमिति । चित्तं दुष्यति । स्नानसन्ध्यावन्दनादिनित्यकर्मसु विरक्तं भवति । तत्प्रयोजयति काम इत्यर्थः । मितां ह्रस्व इति । णौ मितामुपधाया ह्रस्व इति प्राग्व्याख्यातमपि स्मारयति । जनीजषिति । इदमपि व्याख्यातं स्मार्यते । जृणातेस्त्विति । श्नाविकरणस्य अषित्त्वान्न मित्त्वमिति भावः । रञ्जेर्णाविति । णेः कित्त्वाऽभावानिदितामित्यप्राप्तौ वचनम् ।मृगरमणटपदस्य विवरणम् — आखेटकमिति । मृगयेत्यर्थः । रजयति मृगानिति ।रञ्ज रागेट शब्विकरणः ।रञ्जेश्चे॑ति शपि नलोपः । 'रजन्ति मृगाः' ग्राह्रा भवन्ति । तान् मृगान् तादृग्व्यापारविषयान् करोति मृगवधासक्तो राजादिरित्यर्थः । अत्र नकारलोपः । रञ्जयति मृगांस्तृमदानेनेति । घातको मृगान् रक्षणाय तृणसमर्पणेन बन्धनस्थानगान् करोतीत्यर्थः । चुरादिष्विति । चुरादिषु ज्ञपादिपञ्चकान्तर्गतश्चिञ्धातुरस्ति.तस्मात्स्वार्थणिचि कृतेचिस्फुरो॑रित्यात्वपक्षे पुकि मित्तवादुपधाह्रस्वे चपयतीति रूपम् । आत्त्वाऽभावे तु वृद्धावायादेशे मित्त्वाद्ध्रस्वे चययतीति रूपमुक्तं चुरादावित्यर्थः । चिनोतेस्त्विति । श्नुविकरणस्य चिञ्धातोर्हेतुमण्णौ 'चिस्फुरो' रित्यात्त्वे पुकि मित्त्वाऽभावाद्ध्रस्वाऽभावे चाययतीति रूपमित्यर्थः । स्फारयति — स्फोरयतीति ।चिस्फुरोरित्यात्त्वविकल्पः । अपुस्फरत् — अपुस्फुरदिति । स्फुर् इ अ त् इति द्वित्वे कर्तव्ये णावच आदेशस्य निषिद्धतयास्फु॑रित्युकारवतो द्वित्वे ततश्चिस्फुरोर्णावित्युत्तरखण्डे आत्त्वविकल्पः । आत्त्वपक्षे उपधाह्रस्व इति भावः । Tattvabodhini ------------- **वा चित्तविरागे** - चित्तमिति ।चिती संज्ञाने॑ इत्यस्मात् क्तः । दूषयति दोषयति वेति । चित्तं दुषयति । स्नानसन्ध्यादौ विरक्तं भवति । तत्प्रयुङ्क्त इत्यर्थः । जृणातेस्त्विति । अपित्त्वादस्य मित्वं नेति भावः । आखेटकमिति । *रञ्जेर्णौ मृगरमणे नलोपो वक्तव्यः । रजयतीति । रजन्ति मृगाः, ग्रहणमरणाद्यनुकूलव्यापारविषया भवन्ति, तान्मृगांस्तादृग्व्यापारविषयान्करोतीत्यर्थः । ज्ञपादिश्चिञिति । तेन मित्त्वाद्ध्रस्व इति भावः । स्वादिगणस्थस्य तु मित्त्वं नेत्युदाहरति - चापयतीत्यादि । अपुस्फुरदिति । द्वित्वे कर्तव्ये अजादेशस्य स्थानिवत्त्वान्निषेधाद्वास्फु॑ रित्युकारवतो द्वित्वं, ततःचिस्फुरोर्णौ॑ इति वा आत्वम् । Padamanjari ----------- चितविरागः - चितस्याप्रीतता । प्राप्तविभाषेयम् । णावित्येव - चितस्य दोषः ॥ Nyaas ----- पूर्वेण नित्ये प्राप्ते विकल्पोऽयमारभ्यते। `चित्तविरागे` इति। चित्त्स्याप्रीतता। `चित्तं दोषयति` इति। चित्तदमप्रीतं विमुखं करोतीत्यर्थः। `चित्तविराग इति किम्? साधनं दूषयत - अत्र पूर्वेण नित्यं भवति। णावित्येव - चित्तस्य दोषः। भावे घञ्॥ Prakriyasarvasvam ----------------- चित्ताप्रत्यर्थे दुषेरूद्वा स्यात् । बुद्धिं दोषयति, दूषयति वा खलसङ्गः । द्वयोरप्यदूदुपत् । 'घटादयो मितः' (ग-सू) । ते च फणपर्यन्ताः । तेषां णौ वृद्धौ 'मितां ह्रस्वः' (६-४-९२) । घटयति । व्यथयति । चङि अजीघटत् । अविव्यथत् । Sutra Prayogas -------------- * **विश्रामय** (रघुवंशम्): `चित्तविरागे` इत्यतो `वा` इत्यनुवर्त्य ह्रस्वाभावः।