64088: भुवो वुग्लुङ्लिटोः ========================= **Padacheda:** भुवः | S | 6 | 1 | वुक् | S | 1 | 1 | लुङ्-लिटोः | S | 7 | 2 | Sutrartha --------- **भू-धातोः लुङ्लकारस्य लिट्लकारस्य च अजादि-प्रत्यये परे 'वुक्' आगमः भवति ।** 'भू' सत्तायाम् इति भ्वादिगणस्य धातुः । अस्य धातोः लुङ्लकारस्य लिट्लकारस्य च प्रक्रियासु अजादि-प्रत्यये परे अनेन सूत्रेण 'वुक्' इति आगमः भवति । 'वुक्' इत्यत्र ककारः इत्संज्ञकः अस्ति, उकारश्च उच्चारणार्थः अस्ति । कित्वात् अयमागमः **आद्यन्तौ टकितौ** (1.1.46) इति स्थानिनः अनन्तरमागच्छति । यथा - 1) भू-धातोः लुङ्लकारस्य प्रथमपुरुषबहुवचनस्य रूपम् - भू + लुङ् [**लुङ्** (3.2.110)] → भू + च्लि + ल् [**च्लि लुङि** (3.1.43) इति विकरणप्रत्ययः 'च्लि'] → भू + सिच् + ल् [**च्लेः सिच्** (3.1.44) इति च्लि-इत्यस्य 'सिच्' आदेशः] → भू + ल् [**गातिस्थाघुपाभूभ्यः सिचः परस्मैपदेषु** (2.4.77) इति सिच्-प्रत्ययस्य लुक्] → अट् भू + ल् [**लुङ्लङ्लृङ्क्ष्वडुदात्तः** (6.4.71) इति अडागमः] → अ भू + झि [**तिप्तस्..** (3.4.78) इति प्रथमपुरुषबहुवचनस्य प्रत्ययः 'झि'] → अ भू + अन्ति [**झोऽन्तः** (7.1.3) इति झकारस्य अन्तादेशः] → अ भू वुक् + अन्ति [**भुवो वुग्लुङ्लिटोः** (6.4.88) इति वुक्-आगमः] → अ भू व् + अन्त् [**इतश्च** इति इकारलोपः] → अभूवन् [**संयोगान्तस्य लोपः** (8.2.7) इति तकारलोपः] 2) भू-धातोः लिट्-लकारस्य प्रथमपुरुषैकवचनस्य रूपम् - भू + लिट् [**परोक्षे लिट्** (3.2.115) ] --> भू + तिप् [**तिप्तस्..** (3.4.78) इति प्रथमपुरुषैकवचनस्य प्रत्ययः तिप्] → भू णल् [**परस्मैपदानां णलतुसुस्थलथुसणल्वमाः** (3.4.82) इति तिप्-इत्यस्य णल्-आदेशः] → भू अ [इत्संज्ञालोपः] → भूव् अ [**भुवो वुग्लुङ्लिटोः** (6.4.88) इति वुक्-आगमः । परत्वात् अयम् द्वित्वात् पूर्वमागच्छति ।] → भूव् भूव् अ [**लिटि धातोरनभ्यासस्य** (6.1.8) इति द्वित्वम्] → भू भूव् अ [**हलादिः शेषः** (7.4.60) इति वकारस्य लोपः] → भुभूव् अ [**ह्रस्वः** (7.4.59) इति ऊकारस्य उकारः] → भभूव् अ [**भवतेरः** (7.4.73) इति उकारस्य अकारः] → बभूव [**अभ्यासे चर्च्च** (8.4.54) इति अभ्यासस्य जश्त्वम्] Sutrartha (English) ------------------- The verb root 'भू' gets a वुक् आगम when followed by an अजादि-प्रत्यय of लुङ्लकार or लिट्लकार. Vasu English Summary -------------------- भू gets the augment व् (वुक्) before the tense-affixes of the Aorist and the Perfect, when beginning with a vowel. Vasu English Translation ------------------------ भू gets the augment व् (वुक्) before the tense-affixes of the Aorist and the Perfect, when beginning with a vowel. Thus अभूवन्, अभूवम्; बभूव, बभूवतुः, बभूवुः ॥ Kashika ------- भुवो वुगागमो भवति लुङि लिटि चाजादौ परतः। अभूवन्। अभूवम्। लिटि — बभूव, बभूवतुः, बभूवुः॥ Siddhanta Kaumudi ----------------- भुवो वुगागमः स्यात् लुङ्लिटोरचि । नित्यत्वाद्वुग्गुणवृद्धी बाधते ॥ Laghu Siddhanta Kaumudi ----------------------- भुवो वुगागमः स्यात् लुङ्लिटोरचि॥ Balamanorama ------------ **भुवो वुग्लुङ्लिटोः** - भुवो वुक् । अचीति ।अचि श्नुधात्वि॑त्यतस्तदनुवृत्तेरिति भावः । अचीति किम् । अभूत् । ननु णलि परत्वाद्वुकं बाधित्वाअचो ञ्णिती॑ति वृद्धिः स्यात्, बभूविथेत्यत्र तुसार्वधातुकार्धधातुकयो॑रिति गुणः स्यादित्यत आह — नित्यत्वादिति । कृतयोरपि गुणवृद्ध्योरेकदेशविकृतन्यायद्वुक् प्रवर्तते, अकृतयोरपि प्रवर्तते । ततश्चकृताऽकृतप्रसङ्गी यो विधिः स नित्य॑ इति न्यायेन वुङ् नित्यः सन् गुणवृद्धी बाधत इत्यर्थः । वुकि ककार इत्, उकार उच्चारणार्थः । कित्त्वादन्तावयवः । Tattvabodhini ------------- **भुवो वुग्लुङ्लिटोः** - ॒अचि श्नुधात्वि॑ति सूत्रादचीत्यनुवर्तते । तदाह — लुङ्लिटोरचीति । अचीति किम् । अभूत् अभूः । वुकि सतिलोपो व्यो॑रिति लोपं बाधित्वा परत्वाद्धल्ङ्यादिलोपः स्यात् । ननु हल्ङ्यादिलोपादन्तरङ्गत्वात्लोपो व्यो॑रिति लोप एव भविष्यति । तथा च मव्यतेर्लङ्लुगन्ताल्लङि तिप्सिपोः अमामत् अमाम इत्यत्र व्योर्लोप एव माधवादिभिः स्वीकृतः । एवं चाऽज्ग्रहणम्ऊदुपधाया॑ इत्युत्तरार्थमनुवर्तमानमिहाप्युपरञ्जकतया वृत्तिकारादिभिर्योजितं न त्वावस्यकतयेत्येव निष्कर्ष उचित इति चेत् । अत्राहुः — भुवो वुगि त्यस्याङ्गत्वाह्वपेक्षत्वेन हल्ङ्यादिलोपस्येव वुकोऽपि बहिरङ्गतयाऽसिद्धत्वे सति वलिलोपस्य प्राप्तेरेवाऽभवादज्ग्रहणमिहार्थमपीत्येव युक्तमिति । अयं च शङ्काग्रन्थः, समाधानग्रन्थश्च मनोरमायां स्थितः । अत्र नव्याः — मव्यतिर्यङ्लुगन्त एव नास्ति, णमामदित्यादि रूपं तु दूरादपास्तमेव,यकारवकारान्तानामूठ्भाविनां यङ्लुग्नास्ती॑तिछ्वोः शू॑डिति सूत्रे भाष्ये ध्वनितम्, कैयटेन च स्पष्टीकृतम् । इदं च छ्वोरिति यत्रोठ् तद्विषयकं,ज्वरत्वरे॑ त्यूठ्भाविनोः रिउआविमव्योस्तु यङ्लुगस्त्येवेति न्याय्यं, माधवादिसंमतं च ।मव्य बन्धने॑ अयं य#आन्त ऊठ्भावी॑ ति मूले वक्ष्यमाणत्वात् । तथा च तद्ग्रन्थेन सहात्रत्यमनोरमाग्रन्थो विरुध्यत इत्याहुः । यदि तु मवतेर्यङ्लुगन्तादिति मनोरमायां पठते तदा तत्र पूर्वाऽपरग्रन्थविरोधो नास्तीति दिक् । Padamanjari ----------- अभूवन्निति । गातिस्था इत्यादिना सिचो लुक् । अभूवमिति । मिपोऽमभावः । लुङ्लिटोरिति किम् भवति, भविष्यति - शप्स्ययोर्न भवति । यदी क्ङ्तीत्यिनुवर्तिष्यते, अभूवमित्यत्रापि तर्हि न स्यात् एवं तर्ह्मारित्यनुवर्तिष्यते, गुणे कृते अनुवर्णान्तत्वान्न भविष्यति, अभूवमित्यत्र भूसुवोस्तिङ् ईति गुथणप्रतिषेधादुवर्णान्तत्वम् । नात्र शक्यमोरित्यनुवर्तयितुम् । एतच्च इन्धीभवतिभ्यां च इत्यत्र विश्तरेणोक्तम् ॥ Nyaas ----- `अभूवन्` इति। `गातिस्था` (2.4.77) इत्यादिना सिचो लुक्। झेरन्तादेशे कृते संयोगान्तलोपः। `अभूवम्` इति। `तस्थस्थ` (3.4.101) इत्यादिना मिपोऽम्भावः। `बभूव` इत्यादि। `भवतेरः` (7.4.73) इत्यभ्यासस्यात्त्वम्। `इन्धिभवतिभ्याञ्च` (1.2.6) इति लिटः कित्त्वम्, तेन गुणबुद्धी न भवतः। किमर्थं पुनर्भवेतेः परस्य लिटः कित्त्वमारभ्यते, यावता `एकदेशविकृतमनन्यवद्भवति` (व्या।प।16) इति कृतयोरपि गुणवृद्ध्योर्वुक्? प्राप्नोत्यकृतयोरपि, वुकि कृतेऽनिगन्तत्वादलघूपधत्वादनजन्तत्वाच्च नास्ति गुणवृद्ध्योः प्राप्तिः, ततः कृताकृतप्रसङ्गित्वेन नित्यत्वाद्वुकि कृते गुणवृद्ध्योः प्राप्तिरेव नास्तीत्यनर्थकं कित्त्वम्? नैतदस्ति; वुगप्यनित्य एव, न ह्रसौ कृतयोर्गुणवृद्ध्योः प्राप्नोति, ओरित्यनुवृत्तेरुवर्णान्तस्य वुका भवितव्यमिति कृत्वा। अत्रोभयोरनित्ययोः परत्वात्? गुणवृद्धी स्याताम्। तस्मात्? कित्त्वमारब्धव्यम्। किमर्थं पुनः ओरित्यनुवर्तते? बोभाव, बोभवेति गुणवृद्ध्योः कृतयोर्वृङ मा भूदित्येवमर्थम्। ननु च कित्त्वे सत्यत्रापि गुणवृद्धिभ्यां न भवितव्यम्? नैतदस्ति; न हि यङलुगन्ताद्? भवतेः परस्य लिटः कित्वं भवति, `इन्धिभवतिभ्याञ्च` (1.2.6) इत्यत्र भवतीति श्तिपा निर्देशात्॥ Prakriyasarvasvam ----------------- लुङ्लिटोरचि परे भुवो वुगागमः स्यात् । इति क्वसोर्लिट्त्वाद् वुक् । बभूवुः । हिंसेः क्विपि इदित्त्वान्नलोपाभावे कंसहिन्स् स् । ‘सान्तमहतः— (६-४-१०) इति महच्छब्दसाहचर्यात् सान्तधातोर्न दीर्घः । संयोगान्तलोपः । कंसहिन् । कंसहिंसौ । कंसहिन्भ्याम् । ध्वंसेः । क्विपि नलोपे ध्वस् ‘वसुस्रंसु-’ (८-२-७२) इति दः । दैत्यध्वत् । दैत्यध्वसौ । दैत्यध्वद्भ्याम् । एवं बन्धात् स्रंसते इति बन्धस्रत् । पुंस् स् । इति वुक् । अभूवन् । अभूः अभूतम् अभूत । अभूवम् अभूव अभूम । तङि सिच् । भू स् त । सिचो वलादित्वादिट् । भू इस् त । गुणावादेशौ । षत्वष्टुत्वे । अभविष्ट । अभविषाताम् ।