64080: वाऽम्शसोः ================ **Padacheda:** वा | S | 0 | 0 | अम्-शसोः | S | 7 | 2 | Sutrartha --------- **स्त्री-शब्दस्य अम्-प्रत्यये परे शस्-प्रत्यये च परे विकल्पेन इयङ्-आदेशः भवति ।** **स्त्रियाः** (6.4.79) इत्यनेन अजादिप्रत्यये परे स्त्री-शब्दस्य नित्यम् इयङ्-आदेशे प्राप्ते अम्-प्रत्यये परे शस्-प्रत्यये परे अनेन सूत्रेण केवलं वैकल्पिकः इयङ्-आदेशः भवति । यथा - 1. स्त्री + अम् → [इयङ्-आदेशस्य अभावे **अमि पूर्वः** (6.1.107) इति पूर्वरूपे] स्त्रीम् । [इयङ्-आदेशे कृते] स्त्रियम् । 1. स्त्री + शस् → [इयङ्-आदेशस्य अभावे **प्रथमयोः पूर्वसवर्णः** (6.1.102) इति पूर्वसवर्णदीर्घे] स्त्रीः । [इयङ्-आदेशे कृते] स्त्रियः । Sutrartha (English) ------------------- The word 'स्त्री' gets an इयङ्-आदेश optionally when followed by अम् प्रत्यय or शस् प्रत्यय. Vasu English Summary -------------------- The substitution of इवङ् for the ई of स्त्री is optional before the Accusative -2nd case-endings अम् and शस् (अस्). Vasu English Translation ------------------------ The substitution of इवङ् for the ई of स्त्री is optional before the Accusative -2nd case-endings अम् and शस् (अस्). Thus स्त्रीं पश्य or स्त्रियं पश्य, स्त्रीः पश्य or स्त्रियः पश्यः ॥ Kashika ------- अमि शसि परतः स्त्रिया वेयङादेशो भवति। स्त्रीं पश्य, स्त्रियं पश्य। स्त्रीः पश्य, स्त्रियः पश्य॥ Siddhanta Kaumudi ----------------- अमि शसि च स्त्रिया इयङ् वा स्यात् । स्त्रियम् । स्त्रीम् । स्त्रियौ । स्त्रियः । स्त्रीः । स्त्रिया । स्त्रियै । स्त्रियाः । स्त्रियाः । स्त्रियोः । परत्वान्नुट् । स्त्रीणाम् । स्त्रियाम् । स्त्रियोः । स्त्रीषु ॥ स्त्रियमतिक्रान्तोऽतिस्त्रिः । अतिस्त्रियौ ॥ गुणनाभावौत्त्वनुड्भिः परत्वात्पुंसि बाध्यते ॥ क्लीबे नुमा च स्त्रीशब्दस्येयङित्यवधार्यताम् ॥जसि च (SK241) ॥ अतिस्त्रियः । हे अतिस्त्रे । हे अतिस्त्रियौ । हे अतिस्त्रयः । वाम्शसोः (SK302) । अतिस्त्रियम् । अतिस्त्रिम् । अतिस्त्रियौ । अतिस्त्रियः । अतिस्त्रीन् । अतिस्त्रिणा । घेर्ङिति (SK245) ॥ अतिस्त्रये । अतिस्त्रेः । अतिस्त्रेः । अतिस्त्रियः । अतिस्त्रियः । अतिस्त्रीणाम् । अच्च घेः । अतिस्त्रौ ॥ ओस्यौकारे च नित्यं स्यादम्शसोस्तु विभाषया । इयादेशोऽचि नान्यत्र स्त्रियाः पुंस्युपसर्जने ॥ क्लीबे तु नुम् । अतिस्त्रि । अतिस्त्रिणी । अतिस्त्रीणि । अतिस्त्रिणा । अतिस्त्रिणे । ङेप्रभृतावजादौ वक्ष्यमाणपुंवद्भावात्पक्षे प्राग्वद्रूपम् । अतिस्त्रये । अतिस्त्रिणः । अतिस्त्रिणः । अतिस्त्रेः । अतिस्त्रेः । अतिस्त्रिणोः । अतिस्त्रिणोः । अतिस्त्रियोरित्यादि । स्त्रियां तु प्रायेण पुंवत् । शसि अतिस्त्रीः । अतिस्त्रिया । ङिति ह्रस्वश्चे (SK296)ति ह्रस्वान्तत्वप्रयुक्तो विकल्पः । अस्त्रीति तु इयङुवङ्स्थानावित्यस्यैव पर्युदासः । तत्संबद्धस्यैवानुवृत्तेर्दीर्घस्यायं निषेधो नतु ह्रस्वस्य । अतिस्त्रियै । अतिस्त्रये । अतिस्त्रियाः । अतिस्त्रियाः । अतिस्त्रेः । अतिस्त्रेः । अतिस्त्रीणाम् । अतिस्त्रियाम् । अतिस्त्रौ ॥ श्रीः । श्रियौ । श्रियः ॥ Laghu Siddhanta Kaumudi ----------------------- अमि शसि च स्त्रिया इयङ् वा स्यात्। स्त्रियम्, स्त्रीम्। स्त्रियः, स्त्रीः। स्त्रिया। स्त्रियै। स्त्रियाः। परत्वान्नुट्। स्त्रीणाम्। स्त्रीषु॥ श्रीः। श्रियौ। श्रियः॥ Balamanorama ------------ **वाऽम्शसोः** - वाऽम्शसोः । वा-अम्शसोः इति च्छेदः । स्त्रिया इति इयङिति चानुवर्तते । तदाह — अमिशसि चेत्यादिना । स्त्रियमिति । इयङि रूपम् । स्त्रीमिति । इयङभावे-अमि पूर्वः । स्त्रियाविति । औटि रूपम् । स्त्रियः स्त्रीरिति । शसि 'वाम्शसोः' इति इयङि तदभावे च रूपम् । स्त्रियेति । इयङ् । स्त्रियै इति । 'आण्नद्या' इत्याट्, वृद्धिः, इयङ् । स्त्रिया इति । ङसिङसोराट्, वृद्धिः, इयङ् । स्त्रिया इति । ओसि इयङ् । परत्वान्नुडिति । आमि 'स्त्रियाः' इति इयङं बाधित्वा परत्वान्नुट् । स्त्रीणामिति । कृते नुटि अजादिविभक्त्यभावान्नेयङ् । स्त्रियामिति । ङेराम् इयङ् । अथ प्रसङ्गात्पुंसि नपुंसके च स्त्रीशब्दस्य विशेषं दर्शयति — स्त्रियमतिक्रान्तोऽतिस्त्रिरिति ।अत्यादयः क्रान्ताद्यर्थे॑ इति समासः ।गोस्त्रियो॑रिति ह्रस्वत्वम् । दीर्घङ्यन्तत्वाऽभावादीकाररूपङ्यन्तत्वाऽभावाद्वा हल्ङ्यादिलोपो न भवति । अतिस्त्रियाविति । 'स्त्रियाः' इत्यस्याङ्गत्वात्तदन्तेऽपि एकदेशविकृतन्यायेन प्रवृत्तेरियङिति भावः ।अथ जस्, टा, ङे, ङसि, ङस्, आम्, ङीत्येषु अति स्त्रीशब्दस्य इयङ् नेत्येतत् श्लोकेन सङ्गृह्णाति — गुणनाभावेत्यादिना । पुंसि गुणनाभावौत्त्वनुङ्भिः, क्लीबे नुमा च परत्वात् स्त्रीशब्दस्य इयङ् बाध्यते-इत्यवधार्यतामित्यन्वयः । जसि चेति घेर्ङितीति च गुणः,आङो नाऽस्त्रिया॑मिति नात्वम्, 'अच्च घेः' इत्यौत्त्वम्, 'ह्रस्वनद्यापः' इति नुट्, 'इकोऽचि विभक्तौ' इति नुम् , एतेषामियङपेक्षया परत्वादित्यर्थः ।जसि चे॑त्यनन्तरम् 'इति गुण' इति शेषः । अतिस्त्रय इति । इयङं बाधित्वा गुणेऽयादेशे रूपम् । हे अतिस्त्रे इति । 'ह्रस्वस्य गुणः' इति गुणेएङ्ह्रस्वा॑दिति सम्बुद्धिलोपः । 'वाम्शसोः' इति इयङ् । अतिस्त्रीनिति । इयङ्भावे पूर्वसवर्णदीर्घे 'तस्माच्छसः' इति नत्वम् । टा-अतिस्त्रिणा । इयङं बाधित्वा परत्वात्आङो नाऽस्त्रिया॑मिति नात्वम् । भ्यामादिष्वविकृतम् । ङे अतिस्त्रये । इयङं बाधित्वा परत्वात्घेर्ङिती॑ति गुणेऽयादेशः । ङसिङसोः-अतिस्त्रेः । परत्वात्घेर्ङिती॑ति गुणेङसिङसोश्चे॑ति पूर्वरूपम् । अतिस्त्रियोः । इयङ् । आमि इयङं । बाधित्वा परत्वान्नुटि नामीति दीर्घे णत्वम् — अति-स्त्रीणाम् । इयङं बाधित्वा परत्वात्अच्च घेः॑ । अतिस्त्रौ अतिस्त्रियोः अतिस्त्रिषु ।अथ पुंसि पूर्वश्लोकसिद्धमेवार्थं बालबोधाय लघुतरोपायेन संगृह्णाति — ओस्यौकारे चेत्यादिना । उपसर्जनत्वदशायां पुंसि विद्यमानस्य स्त्रीशब्दस्य अचि य इयादेशः 'स्त्रियाः' इति सूत्रविहितः स ओसि षष्ठीसप्तमीद्विवचने, औकारे च प्रथमाद्वितीयाद्विवचने च नित्यं स्यात् । अम्शसोस्तु विभाषया=विकल्पेन स्यात् । उक्तचतुर्भ्योऽन्यत्र तु अचि सर्वत्र इयादेशः स्यादिति योजना । क्लीवे तु नुमिति । 'इयङं बाधते' इति शेषः । अतिस्त्रि इति । स्त्रियमतिक्रान्तं कुलम्-अतिस्त्रि । 'स्वमोर्नपुंसकात्' इति सुलुक् । अतिस्त्रिणी इति । अतिस्त्रि-औ इति स्थितेनपुंसकाच्चे॑त्यौङः शीभावः । इयङं बाधित्वा परत्वात् 'इकोऽचि विभक्तौ' इति नुम् । असर्वनामस्थानत्वान्न दीर्घः । णत्वम् । अतिस्त्रीणीति ।जश्शसोः शिः॑ । स्त्रिया॑ इति इयङं जसि चेति गुणं च बाधित्वा नुम् ।शि सर्वनामस्थान॑मिति सर्वनामस्थानत्वाद्दीर्घः । णत्वम् । टा-अतिस्त्रिणा । इयङं नुम् च बाधित्वा नाभावः । ङेप्रभृतावजादाविति । ङे, ङसि,ङस्, आम्, ङि, ओस्-इत्येतेषुतृतीयादिषु भाषिते॑ति पुंवद्भावस्य वक्ष्यमाणत्वात्पुंवद्भावपक्षे पुंलिङ्गातिस्त्रिशब्दवद्रूपम् । पुंवत्त्वा ।भावपक्षे नुमि वारिवद्रूपमित्यर्थः । टायां तु पुंवत्त्वे तदभावे च नात्वे रूपे विशेषाऽभावान्ङेप्रभृतावित्युक्तम् । तिस्त्रये इति । पुंवत्त्वेघेर्ङिती॑ति गुणोऽयादेशः । अतिस्त्रिणे इति । पुंवत्त्वाऽभावे नुमि रूपम् । इहोभयत्रापि गुणेन नुमा च इयङ् बाध्यते । अतिस्त्रेरिति । ङसिङसोः पुंवत्त्वपक्षेघेर्ङिती॑ति गुणेङसिङसोश्चे॑ति पूर्वरूपम् । अतिस्त्रिण इति । ङसिङसोः पुंवत्त्वाऽभावपक्षे नुमि रूपम् । इहाप्युभयत्र गुणनुम्भ्यामियङ् बाध्यते । अतिस्त्रियोः अतिस्त्रिणोरिति । पुंवत्त्वाऽभावे नुम् । पुंवत्त्वे इयङ् । इत्यादीति । आमि पुंवत्त्वे तदभावे च इयङं बाधित्वा नुडेव, नतु नुम्,नुमचिरे॑ति वचनात् ।नामी॑ति दीर्घः । अतिस्त्रीणाम् । अतिस्त्रौ-अतिस्त्रिणि । अतिस्त्रियोः -अतिस्त्रिणोः । तदेवमुपसर्जनस्त्रीशब्दस्य पुंनपुंसकविषये रूपाणि प्रदश्र्य प्रकृतमनुसरतिस्त्रियां त्विति । स्त्रियमतिक्रान्तेति विग्रहे 'अत्यादयः' इति समासे 'गोस्त्रियोः' इति ह्रस्वत्वे सति अतिस्त्रिशब्दः । तस्य प्रायेण उदाहृतपुंलिङ्गाऽतिस्त्रिशब्दपद्रूपाणीत्यर्थः । शसि अतिस्त्रीरिति । 'वाम्शसोः' इति इयङभावे पूर्वसवर्णदीर्घे सत्यपि स्त्रीलिङ्गत्वात् 'तस्माच्छसः' इति नत्वं नेति । भावः । अतिस्त्रियेति । स्त्रीलिङ्गत्वान्नात्वाऽभावे इयङ् । ह्रस्वान्तत्वेति ।ङिति ह्रस्वश्चे॑त्यत्रइयङुवङ्स्थानौ स्त्रीशब्दभिन्नौ नित्यस्त्रीलिङ्गावीदूतौ नदीसंज्ञौ वास्तः॑ इति प्रथमं वाक्यं ।ह्रस्वाविवर्णोवर्णौ स्त्रिया नदीसंज्ञौ वा स्तः॑ इति द्वितीयं वाक्यम् । तत्र द्वितीयवाक्यादतिस्त्रिशब्दस्य ङित्सु नदीत्वविकल्प इत्यर्थः । ननुनेयङुवङ्स्थानावस्त्री॑त्यतोऽस्त्रीत्यस्यानुवृत्तेः कथमिह नदीत्वविकल्पैत्यत आह — अस्त्री इति त्विति ।इयङुवङ्स्थाना॑वित्यादिप्रथमवाक्यविहितनदीत्वस्यैवास्त्रीति पर्युदासो नतुह्रस्वा॑वित्यादिद्वितीयवाक्यविहितनदीत्वस्यापीत्यर्थः । कुत इत्यत आह — तत्संबद्धस्यैवानुवृत्तेरिति । Tattvabodhini ------------- **वाऽम्शसोः** - परत्वादिति ।स्त्रियाः॑इतीयङपेक्षया । इयादेशोऽचि नान्यत्रेति । अजादौ य इयादेशो विहितः स उपसर्जनत्वे पुंसि विद्यमानस्य स्त्रीशब्दस्य ओसादिषु चतुर्ष्वेव, न त्वन्यत्र, गुणनाभावादिभिः पूर्वोक्तैर्बाधितत्वादित्यर्थः । इयङुवह्स्थानावित्यस्यैवेति ।यू स्त्र्याख्या॑ वित्यनुवर्तनादियह्वब्स्थानाविति ईदुतोर्विशेषणम् । तेन इयङुवङ्स्थानावीदूतावेवाऽस्त्रीति पर्युदस्तौ न तु ह्रस्वाविति भावः । श्रीरिति ।क्विब्वचिप्रच्छी॑त्यादीना क्विब्दीर्घौ । ङ्यन्तत्वाभावान्न सुलोपः । Praudhamanorama --------------- **इयादेश इति।** अजादौ य इयादेशो विहितः स उपसर्जनत्वे पुंसि विद्यमानस्य स्त्रीशब्दस्यौसादिषु चतुर्ष्वेव न त्वन्यत्र, गुणनाभावादिभिः पूर्वोक्तैर्बाधितत्वादित्यर्थः। Prakriyasarvasvam ----------------- अमि शसि च स्त्रिया इयङ् वा स्यात् । स्त्रियम् । स्त्रीम् । स्त्रियौ । स्त्रियः । स्त्रीः । स्त्रिया । नदीत्वान्नित्यमाट् । स्त्रियै । स्त्रियाः । स्त्रियोः । स्त्री आम् । इयङि प्राप्ते परत्वान्नुद्युक्तो नुट् । स्त्रीणाम् । ङेराम् । स्त्रियाम् । स्त्रियोः । स्त्रीषु । पुंसोऽहं ग्रामनेतृत्वं तेन न ग्रामणीर्नदी । सेनानीखलपूमुख्याश्चैवं पुल्लिङ्गवन्मताः ॥ ५८६ ॥ आध्यानादिस्तु नारीष्वप्यस्ति साधारणी क्रिया । तस्मादाधीः प्रधीः संवीः क्वचन्ता लक्ष्मीवदीदृशाः ॥ ५८७ ॥ धेनुः, धेनू, धेनवः, हे धेनो इत्यादि मतिवत् । भीरोस्तु सम्बुद्धौ संज्ञापूर्वकत्वात् गुणो नेति शङ्करः । हे भीरु । वधूः गोपीवत् । भ्रूः श्रीवत् । एवं सुभ्रूः । सुभ्रुवौ । हे सुभ्रूः । ऊङपक्षे नदीत्वादह्रस्वः । हे सुभ्रु । वर्षाभूः । ‘न भूसुधियोः’ (६-४-८५) इति यणभावाद् उवङि प्राप्ते— Sudha ----- **वाम्शसोरिति ।** वा अम्शसोः इति च्छेदः । स्त्रिया इति इयङिति चानुवर्तते, तदाह - **अमि शसि चेत्यादिना । स्त्रियम्, स्त्रीमिति ।** 'स्त्री + अम्' अत्र **वाऽम्शसोः**(6.4.80) इतीयङि कृते 'स्त्रियम्' इति । पक्षे **अमि पूर्वः**(6.1.107) इति पूर्वरूपे 'स्त्रीम्' इति । **स्त्रियः, स्त्रीरिति ।** 'स्त्री + शस्' अत्र शस्येत्संज्ञायां लोपे च **वाऽम्शसोः**(6.4.80) इतीयङि सस्य रुत्वे तस्य विसर्गे च 'स्त्रियः' इति रूपम् । पक्षे - 'स्त्री+अस्' अत्र **प्रथमयोः पूर्वसवर्णः**(6.1.102) इति पूर्वसवर्णदीर्घादेशे रुत्वे विसर्गे च 'स्त्रीः' इति । **स्त्रियै ।** 'स्त्री+ङे' इत्यत्र ङस्येत्संज्ञकत्वे लोपे च नदीसञ्ज्ञायाम् **आण्नद्याः**(7.3.112) इत्याटि **आटश्च**(6.1.90) इति वृद्धौ **स्त्रियाः**(6.4.79) इत्यनेन इयङि च विहिते 'स्त्रियै' इति रूपम् । **स्त्रियाः ।** स्त्रीशब्दात् ङसिङसोः अनुबन्धलोपे नदीसंज्ञायाम् **आण्नद्याः**(7.3.112) इत्याटि **आटश्च**(6.1.90) इति वृद्धौ **स्त्रियाः**(6.4.79) इतीयङि च सञ्जाते रुत्वविसर्गयोः **स्त्रियाः**(6.4.79) २ इति रूपम् । **परत्वान्नुडिति ।**आमि **स्त्रियाः**(6.4.79) इति इयङं बाधित्वा परत्वान्नुट् इत्यर्थः । **स्त्रीणामिति ।** स्त्रीशब्दादामि 'स्त्री+आम्' इति स्थिते अत्र **स्त्रियाः**(6.4.79) इतीयङं परत्वात् बाधित्वा **ह्रस्वनद्यापो नुट्**(7.1.54) इति नुडागमे पर्जन्यवल्लक्षणप्रवृत्या दीर्घे कृते **अट्कुप्वाङ्नुम्व्यवायेऽपि**(8.4.2) इति णत्वे विहिते 'स्त्रीणाम्' इति । ङौ - 'स्त्रियाम्' इति । ओसि - 'स्त्रियोः' इति । **श्रीरिति ।** श्रयन्त्येतामिति श्रीः । श्रिञ् सेवायामितिधातोः इति क्विप्, प्रकृतेर्दीर्घश्चेति निष्पन्नात् श्रीशब्दात् सुः । अङयन्तत्वान्नसुलोपः । **श्रियाविति ।** श्रीशब्दात् औ समागते **प्रथमयोः पूर्वसवर्णः**(6.1.102) इति बाधित्वा **अचि श्नुधातुभ्रुवां य्वोरियङुवङौ**(6.4.77) इतीयङि कृते मिलित्वा 'श्रियौ' इति । एवमेव 'श्रियः' इति । Sutra Prayogas -------------- * **स्त्रीः** (शिशुपालवधम्): `वाम्शसोः` इतीयङादेशविकल्पात्पक्षे पूर्वसवर्णदीर्घः। * **स्त्रीम्** (शिशुपालवधम्): `वाम्शसोः` इतीयङभावपक्षे। * **स्त्रियो** (भट्टिकाव्यम्): `वाम्शसोः` इतीयङ्। * **स्त्रियः** (भट्टिकाव्यम्): `वा मू-शसोः` इति इयङ्। * **स्त्रीः** (भट्टिकाव्यम्): `वाऽम्शसोः` इतीयङभावपक्षे रूपम्।