64078: अभ्यासस्यासवर्णे ======================= **Padacheda:** अभ्यासस्य | S | 6 | 1 | असवर्णे | S | 7 | 1 | Sutrartha --------- **अभ्यासस्य अन्ते विद्यमानः यः इवर्णः / उवर्णः, तस्य असवर्णे अचि परे (क्रमेण) इयङ् / उवङ्-आदेशौ भवतः ।** यत्र द्वित्वं भवति तत्र **पूर्वोभ्यासः** (6.1.4) इत्यनेन द्वयोः यः प्रथमः, तस्य 'अभ्यास'संज्ञा जायते । अस्य अभ्यासस्य अन्ते विद्यमानः यः इवर्णः / उवर्णः, तस्य असवर्णे अच्-वर्णे परे (क्रमशः) इयङ्/उवङ्-आदेशौ भवतः । यथा - इष्-धातोः लिट्-लकारस्य प्रथमपुरुषैकवचनस्य प्रक्रिया इयम् - इष् + लिट् [**परोक्षे लिट्** (3.2.115) इति लिट् ] → इ इष् + तिप् [**तिप्तस्..** (3.4.78) इति तिप्] → इष् + इष् + लिट् [**लिटि धातोरनभ्यासस्य** (6.1.8) इति द्वित्वम्] → इ इष् + लिट् [**हलादि शेषः** (7.4.60) इति अभ्यासस्य षकारस्य लोपः] → इ इष् + णल् [**परस्मैपदानां णलतुसुस्थलथुसणल्वमाः** (3.4.82) इति तिप्-इत्यस्य णल्-आदेशः] → इ एष् + अ [**पुगन्तलघूपधस्य च** (7.3.86) इति उपधागुणः] → इयङ् एष् + अ [**अभ्यासस्यासवर्णे** (6.4.78) इति अभ्यासस्य इकारस्य इयङ्-आदेशः] → इय् एष् + अ [ङकारस्य इत्संज्ञालोपः, यकारोत्तरः अकारः उच्चारणार्थः, तस्यापि लोपः] → इयेष एवमेव 'उष्' धातो लिट्-लकारस्य प्रथमपुरुषैकवचनस्य रूपम् 'उवोष' इति सिद्ध्यति । ज्ञातव्यम् - 'अभ्यासस्य य्वोः' इत्यस्य **येन विधिस्तदन्तस्य** (1.1.72) इत्यनेन 'अभ्यासस्य अन्ते विद्यमानस्य इवर्णस्य / उवर्णस्य' - अयमर्थः भवति । Sutrartha (English) ------------------- An इवर्ण and an उवर्ण occurring at end of an अभ्यास respectively get इयङ् and उवङ् आदेश when followed by an असवर्ण letter. Vasu English Summary -------------------- इवङ् and उवङ् are substituted for the इ and उ of a reduplicate, before a non-homogeneous vowel. Vasu English Translation ------------------------ इवङ् and उवङ् are substituted for the इ and उ of a reduplicate, before a non-homogeneous vowel. Thus इयेष, उवोष, इयर्त्ति, (7.4.77) but ईषतुः and ईषुः, ऊषतुः and ऊषुः before homogenous vowels and इयाय and उवाय before a non-vowel. Kashika ------- अभ्यासस्येवर्णोवर्णान्तस्यासवर्णेऽचि परत इयङ् उवङ् इत्येतावादेशौ भवतः। इयेष। उवोष। इयर्ति। असवर्ण इति किम्? ईषतुः, ईषुः। ऊषतुः, ऊषुः। अचीत्येव — इयाज। उवाप॥ Siddhanta Kaumudi ----------------- अभ्यासस्य इवर्णोवर्णयोरियङुवङौ स्तोऽसवर्णेऽचि । उवोख । सन्निपातपरिभाषया इजादेः -(SK2237) इत्याम्न । ऊखतुः । ऊखुः । इह सवर्णदीर्घस्याभ्यासग्रहणेन ग्रहणाद्ध्रस्वः प्राप्तो न भवति । सकृत्प्रवृत्तत्वात् । आङ्गत्वादि पर्जन्यवल्लक्षणप्रवृत्त्या ह्रस्वे ततो दीर्घः । [(परिभाषा - ) वार्णादाङ्गं बलीयः] इति न्यायात् परत्वाच्च । उङ्खति । ववखतु-वङ्खति मेखतुः ॥ त्वगि कम्पने च ।{$ {!156 युगि!} {!157 जुगि!} {!158 बुगि!} वर्जने$} । युङ्गति ।{$ {!159 घघ!} हसने$} । घघति । जघाघ ।{$ {!160 मघि!} मण्डने$} । मङ्घति ।{$ {!161 शिघि!} आघ्राणे$} । शिङ्घति ॥ अथ चवर्गीयान्ताः ॥ तत्रानुदात्तेत एकविंशतिः ॥{$ {!162 वर्च!} दीप्तौ$} । वर्चते ।{$ {!163 षच!} सेचने सेवने च$} । सचते । सेचे । सचिता ।{$ {!164 लोचृ!} दर्शने$} । लोचते । लुलोचे ।{$ {!165 शच!} व्यक्तायां वाचि$} । शेचे ।{$ {!166 श्वच!} {!167 श्वचि!} गतौ$} । श्वचते । श्वञ्चते ।{$ {!168 कच!} बन्धने$} । कचते ।{$ {!169 कचि!} {!170 काचि!} दीप्तिबन्धनयोः $}। चकञ्चे । चकाञ्चे ।{$ {!171 मच!} {!172 मुचि!} कल्कने$} । कल्कनं दम्भः शाठ्यं च । कथनमित्यन्ये । मेचे । मुमुञ्चे ।{$ {!173 मचि!} धारणोच्छ्रायपूजनेषु$} । ममञ्चे ।{$ {!174 पचि!} व्यक्तीकरणे$} ॥ पञ्चते ।{$ {!175 ष्टुच!} प्रसादे$} । स्तोचते । तुष्टुचे ।{$ {!176 ऋज!} गतिस्थानार्जनोपार्जनेषु$} । अर्जते । नुड्विधौ ऋकारैकदेशो रेफो हल्त्वेन गृह्यते । तेन द्विहल्त्वान्नुट् । आनृजे ।{$ {!177 ऋजि!} {!178 भृजी!} भर्जने$} । ऋञ्जते । उपसर्गादृति -(SK74) इति वृद्धिः । प्रार्ञ्जते । ऋञ्जाञ्जक्रे । आर्ञ्जिष्ट । भर्जते । बभृज्जे । अभर्जिष्ट ।{$ {!179 एजृ!} {!180 भ्रेजृ!} {!181 भ्राजृ!} दीप्तौ$} । एजांचक्रे ।{$ {!182 ईज!} गतिकुत्सनयोः$} । ईजांचक्रे ॥ अथ द्विसप्ततिर्व्रज्यान्ताः परस्मैपदिनः ॥{$ {!183 शुच!} शोके$} । शोचति ।{$ {!184 कुच!} शब्दे तारे$} । कोचति ।{$ {!185 कुञ्च!} {!186 क्रुञ्च!} कौटिल्याल्पीभावयोः$} । अनिदिताम् -(SK415) इति नलोपः । कुच्यात् । क्रुच्यात् ।{$ {!187 लुञ्च!} अपनयने$} । लुच्यात् ।{$ {!188 अञ्चु!} गतिपूजनयोः$} । अच्यात् । गतौ नलोपः । पूजायां तु अञ्च्यात् ।{$ {!189 वञ्चु!} {!190 चञ्चु!} {!191 तञ्चु!} {!192 त्वञ्चु!} {!193 म्रुञ्चु!} {!194 म्लुञ्चु!} {!195 म्रुचु!} {!196 म्लुचु!} गत्यर्थाः$} । वच्यात् । चच्यात् । तच्यात् । त्वच्यात् । अम्रुञ्चीत् । अम्लुञ्चीत् ॥ Laghu Siddhanta Kaumudi ----------------------- अभ्यासस्य इवर्णोवर्णयोरियङुवङौ स्तोऽसवर्णेऽचि। इयाय॥ Balamanorama ------------ **अभ्यासस्यासवर्णे** - लिटि णलः पित्त्वेन कित्तवाऽभावात्प्राप्तस्यापि लघूपधगुणस्य 'द्विर्वचनेऽचीति' निषिद्धतया गुरुमत्त्वाऽभावादामभावे सति पूर्वं द्वित्वे कृते हलादिशेषे पश्चात् 'वार्णादाङ्गं बलीय' इति परिभाषाया अन्तरङ्गमपि सवर्णदीर्गं बाधित्वा लघूपधगुणे कृते उ ओख अ इति स्थिते, उवर्णस्य यणि प्राप्ते — अभ्यासस्य । 'अचि श्नुधात्वि' त्यतोऽचीति, य्वोरियङुवङाविति चानुवर्तते । इश्च उश्च यू, तयोरिति विग्रहः । अभ्यासविशेषणमिदं ! तदन्तविधिः । तदाह — इवर्णोवर्णान्तरस्येति । ङित्त्वादन्तादेशौ । उवोखेति ।अचि श्नुधात्वि॑त्यस्य तु नात्र प्राप्तिः, अजादौ प्रत्यये परत एव तत्प्रवृत्तेः, अभ्यासस्य अङ्गत्वाऽभावाच्च । ननु द्वित्वे कृते लघूपधगुणे सति इजादिगुरुमत्त्वादाम् स्यादित्यत आह — संनिपातेति । णलि परे विहितगुणसंपन्नामिजदिगुरुमत्त्वमाश्रित्य आमं गुणो न प्रवर्तयति, आमि सति धातोर्णल्परकत्वव्याघातादिति भावः । ऊखतुरिति । अपित्त्वेन कित्त्वाल्लघूपधगुणाऽभावे द्वित्वे हलादिशेषे सवर्णपरकत्वादभ्याससस्याऽसवर्ण इति इयङभावे सवर्णदीर्घे रूपमिति भावः । ननुऊखतु॑रित्यत्र ऊकारस्य सवर्णदीर्घसंपन्नस्य एकादेशतया पूर्वान्तत्वेनाऽभ्याससंबन्धित्वात् 'ह्रस्व' इत्यभ्यासस्याऽचो विधीयमानो ह्रस्वः प्राप्नोतीत्याशङ्कते — इहेति । अथ परहरति — न भवतीति । कुत इत्यत आह — सकृत्प्रवृत्तत्वादिति । तदेवोपपादयति — आङ्गत्वादिति.उ-उखतुरिति स्थिते पर्जन्यवल्लक्षणप्रवृत्त्या अभ्यासह्रस्वे सवर्णदीर्घेऊखतु॑रिति स्थितिः । तत्र ऊकारस्य पुनरभ्यासह्रस्वो न भवति ।लक्ष्ये लक्षणस्य सकृदेव प्रवृत्ति॑रिति न्यायादित्यर्थः । ननु वर्णमात्रापेक्षत्वेनाऽन्तरङ्गतया प्रथमं सवर्णदीर्घ एव स्यादिति ह्रस्वस्य प्रथमं प्रवृत्तिर्दुरुपपादेत्यत आह — वार्णादिति । तथा चानया परिभाषया बहिरङ्गोऽपि ह्रस्व एव प्रथमं प्रवर्तत इति भावः । परत्वाच्चेति । नन्विदमनुपपन्नम्, उक्तरीत्या अन्तरङ्गं सवर्णदीर्घं प्रति ह्रस्वस्य परत्वकथनाऽनौचित्यादिति चेन्न, परत्वादित्यस्य परकालप्राप्तकत्वादित्यर्थात् । अभ्यासविकारेषु परस्परं बाध्यबाधकभावाऽभावेन युगपदेव हलादिशेषे ह्रस्वे च कृते पश्चात्प्रवर्तमानस्य सवर्णदीर्घस्य पूर्व पूर्वमन्तरङ्गं, परं परं बहिरङ्ग॑मिति न्यायेन बहिरङ्गत्वादित्यलम् । उङ्खतीति । इदित्त्वान्नुम् । ववाखेति । वखधातोर्णलि उपधावृद्धिः । ववखतुरिति । वादित्वादेत्त्वाभ्यासलोपौ न । वङ्खतीति । वखिधातोरिदित्त्वान्नुम् । ववङ्ख । मेखतुरिति । एत्त्वाभ्यासलोपौ । [मङ्खतीति । मखिधातोरिदित्त्वाभ्यासलोपौ न । ममङ्खेति । संयुक्तहल्मद्यस्थत्वादेत्वाभ्यासलोपौ न । नखति नङ्खतीति । 'णो नः' इति नत्वम् । रखतीति । णलि तु उपधावृद्धिः । रराख । अतुसादावेत्वाभ्यासलोपौ — रेखतुरित्यादि । रङ्खतीति । इदित्त्वान्नुम् । ररङ्ख । एखतीति । इखधातोः शपि लघूपधगुणः । इयेख । ईखतुः । इङ्खतीति । इदित्त्वान्नुम् । इङ्खांचकार । ईङ्खतीति । अलधूपधत्वान्न गुणः । ईङ्खाचकार । वल्गतीति । लिटि ववल्ग ववल्गतुः । रङ्गतीति लङ्गतीति । ररङ्गतुः । अङ्गतीति । लिटि — आनङ्ग । वङ्गतीति । लिटि — ववङ्ग ववङ्गतुः । मङ्गतीति । लिटि — ममङ्ग ममङ्गतुः । तङ्गतीति । लिटि — ततङ्ग ततङ्गतुः । त्वङ्गतीति । लिटि तत्वङ्ग तत्वङ्गतुः । श्रङ्गतीति । लिटि — शश्रङ्ग शश्रङ्गतुः । श्लङ्गतीति । लिटि — शश्लङ्ग शश्लङ्गतुः । इङ्गतीति । लिटि इङ्गांचकार । रिङ्गतीति । लिटि — रिरिङ्ग रिरङ्गतुः । लिङ्गतीति । अथखान्तेषु रिखादिचतुर्णां मतान्तरसिद्धानामुदाहरणमाह — रेखतीति । शपि लघूपधगुणः । रिरेख रिरिखतुः । त्रखतीति । लिटि — तत्राख तत्रखतुः । त्रिङ्खतीति । लिटि — तित्रिङ्ख त्रित्रङ्खतुः । शिङ्खतीति । लिटि शिशिङ्ख शिशिङ्खतुः । त्वगि कम्पने चेति । चाद्गतौ । त्वङ्गति तत्वङ्ग । युगीति । त्रयोऽपि इदितः । युङ्गति बुङ्गति जुङ्गति । घघ हसने इति । घघति । णलि उपधावृद्धिः । जघाघ जघघतुः । लिण्निमित्तादेशादित्वादेत्त्वाभ्यासलोपौ न । मघि मण्डन इति । इदित्त्वान्नुमित्याह — मङ्घतीति । ममङ्घ ममङ्घतुः । शिघि आघ्राण इति । शिङ्घति शिशिङ्घ । फक्कादयः पञ्चाशद्गताः । वर्च दीप्ताविति । दीप्तिः- प्रकाशः । षच सेचन इति । अच्परकसादित्वात् षोपदेशोऽयम् । स्वरितेत्सु 'षच समवाये' इति वक्ष्यते । सेचेति । सत्वस्य लिण्निमित्तत्वाऽभावादादेशादित्वेऽपि एत्वाभ्यासलोपौ । दम्भः शाठं चेति । परविरुआम्भार्थ धर्माद्याचरणं दम्भः — कापटआऽपरपर्यायः ।कपटोऽस्त्री व्याजदम्भोपधयःर॑ इत्यमरः । शाठं कुटिलीभावः ।निकृतस्त्वनृजुः शठः॑ इत्यमरः । पचि व्यक्तीकरम इति । 'पचि विस्तारे' इति चुरादौ वक्ष्यते ।पचे॑त्येके । ष्टुच प्रसाद इति । ष्टुत्वसंपन्नष्टकारः । ततश्च दन्त्यपरकसादित्वात् षोपदेशोऽयम् । स्तोचत इति । षस्य सत्वे सति ष्टुत्वं निवर्तत इति भावः । तुष्टुचे इति । 'सर्पूर्वाः खयः' इति तकारशेषः । आदेशसकारत्वात् षत्वम् । ऋज गतीति । अर्जनं -संपादनम् । उपार्जनं — सेवनम् ।ऊर्जनेष्वि॑त्यन्ये । अर्जत इति । शपि लघूपधगुणः । रपरत्वम् । नुड्विधाविति । वार्तिकमिदम् । आनृज इति । लिटोऽसंयोगादिति कित्त्वाद्गुणाऽभावे द्वित्वे उदरत्वे रपरत्वे हलादिः शेषे अत आदेरिति दीर्घे नुडिति भावः । ऋजी भृजी इति.ऋदुपधौ द्वौ । आद्य इदित् । द्वितीयस्य ईदित्त्वात्श्वीदितो निष्ठाया॑मिति नेट् । इदित्त्वान्नुम् । अनुस्वारपरसवर्णौ । ऋञ्जांचक्र इति । नुमि सतिसंयोगे गुर्वि॑ति ऋकारस्य गुरुत्वादिजादेश्चेत्याम् । ऋञ्जिता । ऋञ्जिष्यते । ऋञ्जताम् । आर्ञ्जत । ऋञ्जेत । ऋञ्जिषीष्ट । अथ लुङि रूपं दर्शयति — आर्ञ्जिष्यत । भर्जत इति । शपिलघूपधगुणः । रपत्वम् । बभृजे । भर्जिता । भर्जिष्यते । भर्जताम् । अभर्जत । भर्जेत । भर्जिषीष्ट । लुङि रूपमाह — अभर्जिष्टेति । लुङस्तादेशः । च्लिः सिच् । इट् । गुणः । रपरत्वम् । अडागमः । षत्वं । ष्टुत्वम् । लृङि — अभर्जिष्यत । एजृ भ्रेजृ भ्राजृ इति । आद्ययोरृदित्वंनाग्लोपी॑त्यर्थम् । तृतीयस्य तु अकारेत्कत्वेऽप्यात्मनेपदं सिध्यति । ऋदित्त्वस्य न किञ्चित्फलमस्ति । न चनाग्लोपी॑ति चङ्परे णौ उपधाह्रस्वः फलं भवितुमर्हति,भ्राजभासे॑त्यादिना तत्र उपधाह्रस्वविकल्पस्य वक्ष्यमाणत्वात् । ईज गतीति । अलघूपधत्वान्न गुणः । ईजते । ईजांचक्र इति । इजादेश्चेत्याम् । वर्चादय एकविंशतिर्वृत्ताः । द्विसप्ततिरिति । 'चवर्गीयान्ता' इति शेषः । शुच शोक इति । स्मृत्वा क्लेशः — शोकः । शोचतीति । वियुक्तं पित्रादिकं स्मृत्वा क्लिश्नातीत्यर्थः । कुच शब्द इति । शब्दनं शब्दः । चुकोच चुकुचतुः । अकोचीत् । कुञ्च क्रुञ्चेति । उभावपि चवर्गपञ्चमोपधौ । कुञ्चतौ अनुस्वारपरसवर्णसंपन्नस्य नकार्थानिकञकारस्य धातुपाठे निर्देशः । धातुपाठे॒नकारजावनुस्वारपञ्चमौ॑ इत्यभियुक्तवादात् । तदाह — अनिदितामिति । अनुस्वारपरसवर्णयोरसिद्धतया नकारस्य सत्त्वेन आशीर्लिङिअनिदिता॑मिति नलोपे कुच्यादिति रूपमतित्यर्थः । लिटि तु चुकुञ्च चुकुञ्चतुरित्यादौ पित्त्वेन संयोगात्परत्वेन च कित्त्वाऽभावान्नलोपो न भवति । क्रुञ्चधातुस्तु स्वाभाविकञकारोपध एव, न त्वनुसारपरसवर्णसंपन्नञकारोपध इतिपरेश्च घाङ्कयो॑रिति सूत्रे भाष्यकैयटयोः स्थितम् । अतस्तस्याशीर्लिङिअनिदिता॑मिति नलोपः । तदाह — लुच्यादिति । एवमञ्चुधातोरपि द्रष्टव्यम् । पूजायां त्विति ।नाञ्चेः पूजाया॑मिति निषेधादिति भावः । वञ्चु चञ्चु तञ्चु इति । आद्याः षट् नोपधाः । अनुस्वारपरसवर्णाभ्यां ञकारनिर्देशः । तथा च तेषामाशीर्लिङिअनिदिता॑मिति नलोपः । तदाह — वच्याद#इति । लुङि अम्रुञ्चीत् । अम्लुञ्चीदिति नोपधयो रूपम् । सिज्लोपः । Tattvabodhini ------------- **अभ्यासस्यासवर्णे** - असवर्णे किम् । ऊखतुः । अचि किम् । इयाज, उवाय । उवोखेति ।द्विर्वचनेऽची॑ति निषेधात्पूर्वं द्वित्वं, पश्चादुकारस्य लघूपधगुणेकृते अभ्यासस्योवङ् । एवमियेषेत्यत्रेयङ् । असवर्णग्रहणसामर्थ्यादियङादौ कर्तव्ये गुणोऽत्र न स्थानिवदिति बोध्यम् । संनिपातपरिभाषयेति । आमि सति लिट्परत्वं धातोर्न सिध्येदिति भावः । अन्ये तु — इजादे॑रिति सूत्रे गुरुमानिति नित्ययोगे मतुप् । ततश्च नित्यं यो गुरुमान्एध वृद्धौ॑ इत्यादिस्तत्रैव स्यादिति नात्र आमः प्रसक्तिरित्याहुः । ऊखतुरिति । अत्र कित्त्वाद्गुणाऽभावेअब्यासस्यासवर्णे॑ इति उवङ् न भवति । ननु इयेष उवोखेत्यत्राप्यन्तरङ्गत्वात्सवर्णदीर्घे कृतेऽच्परत्वाभावादियङुवङौ न स्त इतीष्टरूपाऽसिद्धेः किं तन्नाऽसवर्णग्रहणेनेति चेत् । अत्राहुः — वार्णादाङ्गं बलीयः॑ इति परिभाषाज्ञापनार्थमेवाऽसवर्णग्रहणं कृतम् । तेन भवतीत्यत्रान्तरङ्गमपि यणं बाधित्वा गुणो भवति । तथा करोतेर्घञिकार॑ इत्यत्र यणं बाधित्वा वृद्धिर्भवति । नचैवं सिवेरौणादिके नप्रत्ययेयस्त्वात् । इह तु निमित्तभेदेन व्याश्रयत्वमिति । अभ्यासग्रहणेनेति । पूर्वस्यान्तवत्त्वेनेत्यर्थः । पर्जन्यवल्लक्षणेति । उपयोगाऽनुपयोगाऽव#इचारेण प्रवर्तमानं शास्त्रं ह्रस्वस्थानेऽपि ह्रस्वं प्रवर्तयीत्यथः । तथा चैकस्मल्लक्ष्ये लक्षणं सकृदेव प्रवर्तत इति न तस्य पुनः प्रवृत्तिरिति भावः । आङ्गं बलीय इति । नन्वत्र ह्रस्वसवर्णदीर्घयोर्निमित्तभेदात्समानाश्रयत्वाऽभावे कथमाङ्गस्य बलीयस्त्वमितिचेत् । सत्यम् । इष्टानुरोधेन स्थानिनमादाय क्वचित्समानाश्रयत्वाभ्युपगमात् । अत एव उङ्शब्दे इत्यस्माल्लिटि ऊवे ऊवाते इत्यादीष्टं सिध्यति । उवङः प्राक् सवर्णदीर्घप्रवृत्तौ तन्न सिध्येदिति दिक् । परत्वाच्चेति । आपाततोऽयं हेतुः, ह्रस्वस्याऽऽङ्गत्वेन बहिरङ्गत्वादन्तरङ्गं सवर्णदीर्घं प्रति परत्वोपन्यासस्यायुक्तत्वात् । उङ्खतीति । इदित्त्वान्नुम् । लिटि उङ्खाञ्चकार । आशिषि-उङ्ख्यात् । ववखतुरिति । वादित्वादेत्वाभ्यासलोपौ न । एखति । इङ्खति । इङ्खांचकार । ईखति । ईखाञ्चकार । इङ्गति । इङ्गांचकार । त्वगि कम्पने इति । अयमुख उखि इति दण्डके गतौ पठितस्य गतिविशेषे वृतिंत बोधयितुं पठते । अतएवानतिप्रयोजनत्वाद्बहुषु पुस्तकेषु न पठितः । सेवने चेति ।यं पूरवो वृत्रहणं सचन्ते॑ इत्यादौ सेवन्ते इत्यभियुक्तैव्र्याख्यातत्वात् । स्वरितेत्सुषच समवाये॑ इति वक्ष्यते । लोचृ । ऋदित्त्वात्नाग्लोपी॑ति ह्रस्वनिषेधः । अलुलोचत् ।पचि व्यक्तीकरणे॑ ।पचि विस्तारवचने॑ इति चुरादौ । ऋज गति । अर्जनं — प्राधान्येन, उपार्जनं तु — प्रासङ्गिकम् । नुड्विधावित्यादि ।नुज्विधिलादेशविनामेषु तु प्रतिविदेय॑मिति वचनान्नुडादिविधिषु वर्णैकदेशस्य वर्णत्वेन ग्रहणादिति भावः । यद्वा द्विहल्ग्रहणं भाष्यादौ प्रत्याख्यायते । न च आट आटतुरित्यत्रातिप्रसङ्गः,अश्नोतेश्चे॑त्यनेनअवर्णोपधस्य यदि भवति तह्र्रस्नोतेरेवे॑ति नियमात्सिद्धमिष्टमित्यन्यत्र विस्तरः । ऋजिभृजी । भर्जनं — जलं विना तण्डुलादेः संतापविशेषः । ईदित्त्वात्श्वीदितोनिष्ठाया॑मिति नेट् । भृक्तः । भृक्तवान् । एजृ भेजृ भ्राजृ । भ्राजेरृदित्करणमनुदात्तेत्त्वमात्रफलम् ।भ्राजभासे॑त्यादिना चङ्परे णौ उपधाह्रस्वस्य विकल्पितत्वात् । अबिब्राजत् । अबभ्राजत् । परस्मैपदिन इति.चवर्गीयान्ताः परस्मैपदिनः । पूजायां त्विति ।नाञ्चेः पूजाया॑मिति निषेधादिति भावः । Padamanjari ----------- पूर्वमङ्गस्याजादौ प्रत्यये विधानादिदमारभ्यते । इयेषेति । अत्र गुणस्य स्थानिवद्भावविषये यद्वक्तव्यं तद् द्विर्वचनेऽचि इत्यत्रोक्तम् ॥ Nyaas ----- `इयेष, उवोष` इति। `इषु इच्छायाम्` (धातुपाठः-1351) [`इष` -धातुपाठः-] `उष दाहे` (धातुपाठः-696) -आभ्यां लिट्? णल्। अत्र च द्विर्वचनं प्राप्नोति, **पुगन्तलघूपधस्य च** (7.3.86) इति गुणश्च, तत्र परत्वाद्गुणः -एष, ओष इति स्थिते **द्विर्वचनेऽचि** (1.1.59) इति स्थानिवद्भावादिषुषित्येतयोर्द्विर्वचनम्, तत इयङ्वङौ। ननु च तयोः कर्तव्ययोः `अचः परस्मिन्? पूर्वविधौ` (1.1.57) इति स्थानिवद्भावात्सवर्णता नास्ति? नैतदस्ति; यो ह्रनादिष्ठादचः पूर्वस्तस्य विधी कर्तव्ये स्थानिवद्भावेन भवितव्यम्, आदिष्टाच्चात्राचः पूर्व एषोऽभ्यासः, तत्? कुतेऽत्र स्थानिवद्भावः। `इयर्ति` इति। `ऋ गतो` (धातुपाठः-1098) जुहोत्यादित्वाच्छपः श्लुः, अभ्यासस्य `उरत्` (7.4.66) इत्यत्त्वम्, `अर्तिपिपर्त्त्योश्च` (7.4.77) इतीत्त्वम्, तत इयङादेशः। `ईयतुः, ईयुः` इति। `ऊवतुः उवुः` इति। `असंयोगाल्लिट्? कित्` (1.2.5) इति। कित्त्वाद्गुणाभावः, तेन सवर्णोऽज्न भवति।`इयाज` इति। `उवाप` इति। यजिवप्योः `लिटभ्यासस्योभयेषाम्` (6.1.17) इति सम्प्रसारणम्॥ Prakriyasarvasvam ----------------- असवर्णेऽचि परेऽभ्यासस्य य्वोरियडुवङौ स्तः । इयाय । इणो यणि कृते स्थानिवत्त्वाद् द्वित्वम् । इ यतुस् । Sutra Prayogas -------------- * **इयाय** (भट्टिकाव्यम्): `अभ्यासस्याऽसवर्णे` इतीयङ् । * **प्रतीयेष** (भट्टिकाव्यम्): `अभ्यासस्यासवर्णे` इतीयङ्।