64077: अचि श्नुधातुभ्रुवां य्वोरियङुवङौ ======================================= **Padacheda:** अचि | S | 7 | 1 | श्नु-धातु-भ्रुवाम् | S | 6 | 3 | य्वोः | S | 6 | 2 | इयङ्-उवङौ | S | 1 | 2 | Sutrartha --------- **अजादिप्रत्यये परे 'श्नु' इत्यस्य, धातुसंज्ञकस्य, तथा 'भ्रू' इत्यस्य इवर्णान्त/उवर्णान्तस्य अङ्गस्य इयङ्-उवङ्-आदेशौ भवतः ।** अनेन सूत्रेण त्रिविधानामङ्गानामजादिप्रत्यये परे इयङ्/उवङ् आदेशौ उक्तौ स्तः । एतयोः अन्तिमः ङकारः इत्संज्ञकः अस्ति, तथा ङकारात् पूर्वं विद्यमानः अकारः उच्चारणार्थः अस्ति, अतः आदेशरूपेण 'इय्' तथा 'उव्' एतयोः एव प्रयोगः भवति । तथा च, ङित्वात् **ङिच्च** (1.1.53) इत्यनेन एतौ आदेशौ अन्त्यादेशरूपेण भवतः । क्रमेण पश्यामः - 1) 'श्नु' इति स्वादिगणस्य विकरणप्रत्ययस्य अजादिप्रत्यये परे उवङ्-आदेशः भवति । यथा, 'आप्ऌ' (व्याप्तौ) इति स्वादिगणस्य धातुः । अस्य लट्-लकारस्य प्रथमपुरुषबहुवचनस्य प्रक्रिया इयम् - आप् + लट् [**वर्तमाने लट्** (3.2.123) इति लट्लकारः] → आप् + श्नु + लट् [**स्वादिभ्यः श्नुः** (3.1.73) इति विकरणप्रत्ययः 'श्नु'] → आप् + नु + झि [**तिप्तस्...** (3.4.78) इति प्रथमपुरुषबहुवचनस्य प्रत्ययः 'झि'] → आप् + नु + अन्ति [**झोऽन्तः** (7.1.3) इति झकारस्य 'अन्त्' आदेशः] → आप् न् उवङ् + अन्ति [**अचि श्नुधातुभ्रुवां य्वोरियङुवङौ** (6.4.77) इति श्नु-इत्यस्य उकारस्य अच्-वर्णे परे उवङ्-आदेशः । → आप् न् उव् अन्ति [ङकारस्य इत्संज्ञा, लोपः । अकारः उच्चारणार्थः।] → आप्नुवन्ति 2) धातोः इवर्णान्तस्य / उवर्णान्तस्य अङ्गस्य अजादिप्रत्यये परे (क्रमेण) इयङ् / उवङ्-आदेशौ भवतः । यथा अ) 'धि' (धारणे) इति तुदादिगणस्य धातुः । अस्य लट्-लकारस्य प्रथमपुरुषैकवचनस्य प्रक्रिया इयम् - धि + लट् [**वर्तमाने लट्** (3.2.123) इति लट्] → धि + तिप् [**तिप्तस्..** (3.4.78) इति तिप्] → धि + श + ति [**तुदादिभ्यः शः** (3.1.77) इति विकरणप्रत्ययः 'श'] → ध् इयङ् + अ + ति [**अचि श्नुधातुभ्रुवां य्वोरियङुवङौ** (6.4.77) इति इयङ्-आदेशः] → धियति । आ) 'णू' (स्तवने) इति तुदादिगणस्य धातुः । अस्य लट्-लकारस्य प्रथमपुरुषैकवचनस्य प्रक्रिया इयम् - णू → नू [**णो नः** (6.1.65) इति नत्वम्] → नू + लट् [**वर्तमाने लट्** (3.2.123) इति लट्] → नू + तिप् [**तिप्तस्..** (3.4.78) इति तिप्] → नू + श + ति [**तुदादिभ्यः शः** (3.1.77) इति विकरणप्रत्ययः 'श'] → न् उवङ् + अ + ति [**अचि श्नुधातुभ्रुवां य्वोरियङुवङौ** (6.4.77) इति उवङ्-आदेशः] → नुवति । 3) भ्रू-शब्दस्य अजादिप्रत्यये परे उवङ्-आदेशः भवति । यथा - भ्रू + टा [**स्वौजस्..** (4.1.2) इति तृतीयैकवचनस्य टा-प्रत्ययः] → भ्र् उवङ् + आ [**अचि श्नुधातुभ्रुवां य्वोरियङुवङौ**(6.4.77) इति भ्रू-इत्यस्य उवङ्-आदेशः] → भ्रुवा विशेषः - धातोः क्विप्-प्रत्ययं कृत्वा यत् प्रातिपदिकं सिद्ध्यति, तस्यापि **क्विबन्ताः धातुत्वं न जहति** अनया परिभाषया धातुसंज्ञा अस्ति एव । अतः तादृशानाम् शब्दानामपि अजादिप्रत्यये परे इयङ्/उवङ्-आदेशौ भवतः । यथा - अ) नी-धातोः **क्विप् च** (3.2.76) इत्यनेन क्विप्-प्रत्यये कृते 'नी' इति प्रातिपदिकं सिद्ध्यति । अस्य प्रातिपदिकस्य धातुसंज्ञा अपि अस्ति । अस्य तृतीयैकवचनस्य प्रक्रिया इयम् जायते - नी + टाप् [**स्वौजस्..** (4.1.2) इति टा-प्रत्ययः] → न् इयङ् + आ [**अचि श्नुधातुभ्रुवां य्वोरियङुवङौ** (6.4.77) इति ईकारान्तधातोः इयङ्-आदेशः] → निया । एवमेव 'धी', 'श्री' एतेषां शब्दानामपि इयङ्-आदेशः कृतः दृश्यते । आ) पू-धातोः **क्विप् च** (3.2.76) इत्यनेन क्विप्-प्रत्यये कृते 'पू' इति प्रातिपदिकं सिद्ध्यति । अस्य प्रातिपदिकस्य धातुसंज्ञा अपि अस्ति । अस्य तृतीयैकवचनस्य प्रक्रिया इयम् जायते - पू + टाप् [**स्वौजस्..** (4.1.2) इति टा-प्रत्ययः] → प् उवङ् + आ [**अचि श्नुधातुभ्रुवां य्वोरियङुवङौ** (6.4.77) इति ऊकारान्तधातोः उवङ्-आदेशः] → पुवा । ज्ञातव्यम् - 1. अस्मिन् सूत्रे 'प्रत्यये' इति न अनुवर्तते । परन्तु एतत् सूत्रमङ्गाधिकारे अस्ति, अतः **यस्मात् प्रत्ययविधिः तदादि प्रत्ययेङ्गम्** (1.4.13) इत्यनेन अग्रे प्रत्ययस्यैव अच्-वर्णः भवितुमर्हति, अतः 'प्रत्यये' इति सूत्रार्थे उक्तमस्ति । 2. अस्मिन् सूत्रे 'प्रयुक्तः' 'य्वोः' अयं शब्दः 'इ+उ = यु' इत्यस्य षष्ठीद्विवचनमस्ति । अत्र इकारेण उकारेण च सर्वे अष्टादश सवर्णाः गृह्नन्ते । अतः दीर्घ-ईकारस्य / दीर्घ-ऊकारस्य विषये अपि अस्य सूत्रस्य प्रसक्तिः अस्ति । 3. अस्मिन् सूत्रे 'य्वोः' इति 'अङ्गस्य' इत्यस्य विशेषणमस्ति । अतः **येन विधिस्तदन्तस्य** (1.1.72) इत्यनेन 'य्वोः अङ्गस्य' इत्युक्ते इवर्णान्त/उवर्णान्तस्य अङ्गस्य । यद्यपि इयङ्/उवङ्-आदेशौ अनेकाल्-आदेशौ स्तः, तथापि **ङिच्च** (1.1.53) इत्यनेन अन्त्यादेशरूपेण आगच्छतः । 4. **सार्वधातुकार्धधातुकयोः** (7.3.84) इत्यनेन निर्दिष्टः गुणादेशः / वृद्धि-आदेशः वर्तमानसूत्रम् बाधते । 5. **एरनेकाचोऽसंयोगपूर्वस्य** (6.4.82) इत्यनेन निर्दिष्टः यणादेशः अप्यत्र उक्तम् इयङ्-आदेशं बाधते । प्रश्नः - अस्मिन् सूत्रे 'य्वोः अङ्गस्य' इत्यस्य स्थाने 'अङ्गस्य य्वोः' इति वक्तुं शक्यते वा? उत्तरम् - तथा कुर्मश्चेत् 'अङ्गस्य अन्ते विद्यमानस्य इवर्ण-उवर्णयोः' इति अर्थः न भवेत् । अतः क्षिप् / मिल् / लिख् एतादृशानां धातूनां विषये अपि अस्य सूत्रस्य प्रसक्तिः स्यात् । एतत् मा भूत् अतः अत्र 'य्वोः' इति अङ्गस्य इतस्य विशेषणरूपेण स्वीक्रियते । Sutrartha (English) ------------------- When followed by an अजादि प्रत्यय, the ending इवर्ण and the उवर्ण are converted respectively to इयङ् / उवङ् आदेशs for a) विकरणप्रत्यय श्नु, b) Any धातु, and c) The word भ्रू. Vasu English Summary -------------------- Before an affix beginning with a vowel there are substituted for उ of नु , the characteristic of the roots of the स्वादिगणः (5th Conjugation) for the final इ , ई , उ and ऊ of a root, as well as for ऊ of भ्रू , the इय् (for इ or ई) and उव् (for उ or ऊ). Vasu English Translation ------------------------ Before an affix beginning with a vowel there are substituted for उ of नु , the characteristic of the roots of the स्वादिगणः (5th Conjugation) for the final इ , ई , उ and ऊ of a root, as well as for ऊ of भ्रू , the इय् (for इ or ई) and उव् (for उ or ऊ). Thus आप्नुवन्ति, राध्नुवन्ति, शक्नुवन्ति, from roots of the 5th class. चिक्षियतुः ललुवतुः, लुलुवुः, नियौ, नियः, लुवौ, लुवः and भ्रुवौ and भ्रुवः ॥ Why do we say 'before an affix beginning with a vowel'? Observe आप्नुयात्, शक्नुयात्, राध्नुयात् ॥ Why "of श्नु &c."? Observe लक्ष्यै, लक्ष्याः, वध्वै, वध्वाः ॥ Why "of इ and उ"? Observe चक्रतुः, चक्रुः where the vowel is ऋ ॥ Vart:- The *Guna* (7.3.84) and *Vriddhi* (7.2.115) however take place to the supersession of इयङ् and उवङ् as from चि - चयनम् and चायकः, लू - लवनम् and लावकः, with ल्युट् and ण्वुल् ॥ Vart:- In the *Chhandas* there is deversely the substitution of इयङ् and उवङ् in the case of तन् &c. Thus तन्वं पुषेम or तनुवं पुषेम ॥ विषुवं पुषेम, स्वर्गो लोकः, सुवर्गो लोकः, त्र्यम्बकं यजामहे, त्रियम्बकं यजामहे ॥ Bhashya ------- अचि श्नुधातुभ्रुवां य्वोरियङुवङौ (3074) (इयङाद्यधिकरणम्) (6567 उपसंख्यानवार्तिकम् ॥ 1 ॥) - इयङादिप्रकरणे तन्वादीनां छन्दसि बहुलम् - इयङादिप्रकरणे तन्वादीनां छन्दसि बहुलमुपसंख्यानं कर्तव्यम् । तन्वं पुषेम । तनुवं पुषेम । विष्वं पश्य । विषुवं पश्य । स्वर्गं लोकम् । सुवर्गं लोकम् । त्र्यम्बकं यजामहे । त्रियम्बकं यजामहे ॥ Kashika ------- श्नुप्रत्ययान्तस्याङ्गस्य धातोरिवर्णोवर्णान्तस्य भ्रू इत्येतस्य च इयङ् उवङ् इत्येतावादेशौ भवतोऽजादौ प्रत्यये परतः। आप्नुवन्ति। राध्नुवन्ति। शक्नुवन्ति। धातोः — चिक्षियतुः, चिक्षियुः। लुलुवतुः, लुलुवः। नियौ,नियः।लुवौ,लुवः। भ्रुवौ, भ्रुवः। अचीति किम्? आप्नुयात्। शक्नुयात्। राध्नुयात्। श्नुधातुभ्रुवामिति किम् ? लक्ष्म्यै। वध्वै। य्वोरिति किम्? चक्रतुः, चक्रुः। इयङुवङ्भ्यां गुणवृद्धी भवतो विप्रतिषेधेन। चयनम्। चायकः।लवनम्। लावकः॥ इयङुवङ्प्रकरणे तन्वादीनां छन्दसि बहुलमुपसंख्यानं कर्तव्यम्॥ त॒न्वं॑ (शौ० सं० ५.३.१) पुषेम। त॒नुवं॑ (तै० सं० १.५.५.४) पुषेम। विष्वं पुषेम। विषुवं पुषेम। स्वर्गो लोकः। सु॒व॒र्गः (तै०सं० १.५.७.१) लोकः। त्र्य॑म्बकं यजामहे (तै०सं० १.८.६.२)। त्रियम्बकं यजामहे॥ Siddhanta Kaumudi ----------------- श्नुप्रत्ययान्तस्य इवर्णोवर्णान्तधातोर्भ्रू इत्यस्य चाङ्गस्येयङुवङौ स्तोऽजादौ प्रत्यये परे । ङिच्चेत्यन्तादेशः । आन्तरतम्यादेरियङ् ओरुवङ् । इतीयङि प्राप्ते ॥ Laghu Siddhanta Kaumudi ----------------------- श्नु प्रत्ययान्तस्येवर्णोवर्णान्तस्य धातोर्भ्रू इत्यस्य चाङ्गस्येयङुवङौ स्तोऽजादौ प्रत्यये परे। इति प्राप्ते - Balamanorama ------------ **अचि श्नुधातुभ्रुवां य्वोरियङुवङौ** - कुमारी-औ इति स्थितेइको यणची॑ति यणपवादमियङमाशङ्कितुमाह — अचि श्नु । इस्च उश्च यू, तयोः — य्वोः=इवर्णोवर्णयोरित्यर्थः । श्नुश्च धातुस्च भ्रूश्चेति द्वन्द्वः । प्रत्ययग्रहणपरिभाषया श्नुप्रत्ययान्तं विवक्षितं ।य्वो॑रिति धातोरेव विशेषणं, ततस्तदन्तविधिः । श्नुभ्रुवोस्तु नित्यमुवर्णान्तत्वान्न तद्विशेषणम् । इवर्णान्तत्वं तु असंभवान्न तद्विशेषणम् ।संभवव्यभिचाराभ्यां स्याद्विशेषणमर्थव॑दिति न्यायात् ।अङ्गस्ये॑त्यधिकृतं ततश्च प्रत्यये परत इति लभ्यते । अचीति तद्विशेषणं । तदादिविधिः । तदाह — श्नुप्रत्ययान्तस्येत्यादिना । य्वोः किम् चक्रतुः । अचीति किम् । आप्नुयात् । इयङ् उवङित्यनयोरनेकाल्त्वात्सर्वादेशत्वमाशङ्क्य आह — ङिच्चेत्यन्तादेश इति । नचश्नुधातुभ्रुवामिवर्णोवर्णयोः॑ इत्येवं व्याख्यायतां ङित्त्वं च न क्रियतामिति वाच्यम्, एवं सतिक्षिपती॑त्यादावतिव्याप्तेः । नचाऽजादिप्रत्यये परत इत्यनेन तन्निरासः शङ्क्यः, अङ्गाक्षिप्तप्रत्ययपरकत्वस्याङ्गविशेषणताया एवोचितत्वादित्यलम् । आन्तरतम्यादिति । तालुस्थानकस्य इवर्णस्य तादृश एव इयङ् । ओष्ठस्थानकस्य उवर्णस्य तादृश एवोवङित्यर्थः । इतीयङि प्राप्ते इति ।कुमारी औ इत्यादा॑विति शेषः । Tattvabodhini ------------- **अचि श्नुधातुभ्रुवां य्वोरियङुवङौ** - अचि श्रु ।भ्रमेश्च डूः॑इति डूप्रत्ययान्तत्वाद्भ्रूशब्दस्य धातोः पृथग्ग्रहणम् । अन्ये त्वाहुः — ॒गमः क्कौ॑इत्यत्रऊङ् च गमादीनामितिवक्तव्य॑मिति वार्तिकादनुनासिकलोपे ऊङादेशे च कृते निष्पन्नोऽयं भ्रूशब्दः । तथा च धातुग्रहणेनैव सिद्धे भ्रूग्रहणं निरर्थकमिति ।इण॑इति वक्तव्येय्वो॑रिति गुरुनिर्देश॒इण्प्रत्याहारः परेणैव णकारेण गृह्रते॑इति ज्ञापनार्थः । इहय्वो॑रिति धातोरेव विशेषणं, न तु श्रुभ्रुरव्यभिचारादित्याशयेनाह — इवर्णान्तधातेरिति ।श्रुधातुभ्रुवामिवर्णोवर्णयों॑रिति व्याख्याने तु इयङुवोर्ङित्त्वं व्यर्थं स्याद्वैधिकरण्यं च सर्वादेशत्वनिवृत्तिसंभवादि चेन्न; श्रभ्रुवोरपि निर्दि श्यमानत्वेन सर्वादेशत्वप्रसङ्गात् ।इ उ इत्यष्टादशानां संज्ञे त्युक्तत्वाद्यथासङ्ख्यमिहन न प्रवर्तते, इत्याह — आन्तरतम्यादिति । स्थानत इति भावः । य्वेः किम् । चक्रतुः । चक्रुः । अचीति किम् । आप्तुयात् । जुहुयात् । Padamanjari ----------- इश्च उश्च यू, तयोर्य्वोः । ह्रस्वयोरिदं ग्रहणम्, दीर्घयोरपि तु कार्यं भवति सवर्णग्रहणात् । य्वोरिति वर्णग्रहणाताभ्यां शन्वादीनां तदन्तविधिः । तत्र निर्द्दिश्यमानस्यादेशा भवन्ति इत्येवान्तस्य सिद्धेण्Çóकारो विस्पष्टार्थः । आप्नुवन्तीत्यादि । यत्संयोगपूर्वमेकाच् तदिहोदाहरणम्, अन्यत्र हुश्नुवोः सार्वधातुके, एरनेकाचः इति यणा भाव्यम् । लुलुवतुरित्यादिकं तु भवत्येव ओः सुपिः इति वचनात् । इयङ्भ्यामिति । गुणवृद्ध्योरवकाशः - चेता, गौः, इयणुवङेरवकाशः - चिक्षियतुः लुलुवतुः, चयनम्, चायकः लवनम्, लावक इत्यत्रोभयप्रसंगे विप्रतिषेधः । तनुवमिति । अधातुत्वादप्राप्त उवङ् विधीयते । तन्वमिति । वा च्छन्दसि इत्यमि पूर्वत्वाभावे यण् । विष्वमिति । विषुव इति - सत्सूद्विष इति क्विप् । अत्र नित्यम् ओः सुपि इत्यनेन यण् प्राप्तः । स्वर्गादिषु एयजुर्वेदे - इयणुवङै, बह्वृचे - यण् ॥ Nyaas ----- `आर्धधातुके` इति निवृत्तम्। कुतः? **समः क्ष्णुवः** (1.3.65) , `क्षियः (6.4.59) इति निर्देशात्। ह्रस्वयोरिवर्णोयोरिदं ग्रहणम्। कु एतत्? तत एव निर्देशात्। अत्राण्? गृह्रमाणः सवर्णान्? ग्राहयतीति ह्रस्वौ गृहयमाणौ दीर्घावपि ग्राहयतः, तेन तदन्तस्यापि भवतः। `अचि` इति वर्णग्रहणम्? तत्र `यस्मिन्विधिस्तदादावलगरहणे` (व्या।प।127) इत्यजादौ विज्ञायत इत्याह -`अजादौ प्रत्यये` इति। प्रत्यय इत्येतत्? कृतो लभ्यते, अङ्गधिकारात्। अङ्गाधिकारो ह्रस्ति, प्रत्यसन्निधापितत्वात्। प्रत्यये हि परतोऽङ्गसंज्ञा विधीयते। यद्यजदौ प्रत्यय इयङुवङौ भवतः, नियौ, लुवौ -इत्यतर न प्राप्नुतः। अत्र ह्रजेव प्रत्ययः, न त्वजादिः? अत्रापि व्यपदेशिवद्भावे, नाजादित्वमस्तीत्यदोषः। `इवर्णोवर्णान्तस्य` इति। धातोरेवेदं विशेषणम्, नेतरयोः; व्यभिचाराभावात्, असम्भवाच्च। इवर्णोवर्णान्तता चाङ्गस्य ताभ्यां विशेषणाल्लभ्यते। इयङुवङोङकारोऽन्तादेशार्थः। असति त्वस्मिन्ननेकाल्वात्? सर्वस्याङ्गस्य स्याताम्। ननु च `निर्दिश्यमानस्यादेशा भवन्ति` (व्या।प।106) इत्यन्तरेणापि ङ्कारमन्तवस्यैव भवतः? एवं तर्हि विस्पष्टार्थम्। `आप्नुवन्ति, राध्नुवन्ति` इति। `आप्लु व्याप्तौ` (धातुपाठः-1260), `राध साध संसिदौ` (धातुपाठः-1262,1263) स्वादित्वाच्श्नुः। शकारवतो ग्रहणं किमर्थम्? `दभाभ्यां नुः` (द।उ।य1।143) दानुः, भानुरित्यत्र मा भूत्। `चिक्षियतुः, चिक्षियुः` इति। त्रयाणामपि क्षिधातूनामन्यतमस्य रूपम्। `नियौ, नियः, `लुवौ, लुवः` इति। अत्र `क्विदन्ता धातूत्वं न जहति` (व्या।प।132) इति धातुत्वं वेदितव्यम्। तत्र नयतेः `सत्यूद्विष` (3.2.61) इत्यादिना क्विप्। लुनातेस्तु **अन्येभ्योऽपि दृश्यते** (3.3.130) इत्यनेन।`इयङुवङ्भ्याम्` इत्यादि। गुणस्यावकाशः -चेतव्यम्, स्तोतव्यमित्यादि, इयङ्वङोः -चिक्षियतुः, चिक्षियुः, लुलुवतुः, लुलुवुरिति; इहोभयं प्राप्नोति -चयनम्, लवनमिति। विप्रतिषेधेन गुण एव भवति। वृद्धेरवकाशः -सखायौ, सखायः, गावौ, गाव इति; इयङुवङोः स एव; इहोभयं प्राप्नोति -चायकः, लावक इति। वृद्धिरेव भवति विप्रतिषेधेन। `इयङुवङ्प्रकरणे` इत्यादि। उपसंख्यानशब्दस्य प्रतिपादनमर्थः। तत्रेदं प्रतिपादनम् -**बहुलं छन्दसि** (7.4.78) इत्यादेः सूत्राद्बहुलग्रहणमनुवर्तते। तेन तन्वदीनां छन्दसि विकल्पेनेयङुवङौ भविष्यतः। `तन्वम्` इति। यत्रोवङ् नास्ति, तत्रामि परपूर्वत्वमपि नास्ति; बहुलवचनादेव। `विध्वम्, विषुवम्` इति। सूधातोः क्विप्; `उपसर्गा सुनोति` (8.3.65) इत्यादिना षत्वम्। `स्वर्गः, सुवर्गः` इति। `सु` इत्येतस्मादर्गशब्दे परत उवङादेशः। योगश्चायं यणादेशापवादः॥ Praudhamanorama --------------- इह य्वोरिति धातोरेव विशेषणं न तु श्नुभ्रुवोरव्यभिचाराद् इत्याह— **इवर्णोवर्णान्तधातोरिति।** श्नुप्रभृतीनामिवर्णोवर्णयोरिति व्यख्याने तु इयङुवङोर्ङित्त्वं व्यर्थं वैयधिकरण्यं च दोषः। क्षिपति अद्युतत् दिदिवतुः ऊयतुः इत्यादौ चातिव्याप्तिः। तद्वारणाय इवर्णोवर्णयोरच्परत्वेन विशेषणे तु क्लिष्टतेति भावः। **आन्तरतम्यादिति।** स्थानत इति भावः। Prakriyasarvasvam ----------------- अजादौ प्रत्यये परे इवर्णोवर्णान्तानां धातूनां श्न्वन्तस्य भ्रुवश्च इयङ् उवङ् इत्यादेशौ स्तः । ङित्त्वादन्त्यस्य । एरियङ् । ओरुवङ् । ऊर्णुविता । अनिटस्त्व- ङित्त्वादूर्णवनीयम् । Sarala ------ अचीति । **अचि** - सप्तम्यन्तं, **श्नुधातुभ्रुवां** - षष्ठ्यन्तम्, **य्वोः** - षष्ठ्यन्तम्, **इयङुवङौ** - प्रथमान्तम् ॥ Vartika ------- तन्वादीनां बहुलं छन्दसि । Sutra Prayogas -------------- * **प्रादुद्रुवत्** (शिशुपालवधम्): `अचि श्रुधातुभ्रुवाम्...` इति उवङादेशः। * **सोढुम-शक्नुवाना** (भट्टिकाव्यम्): `अचि श्रु-धातु` इति उवङ् ।