64066: घुमास्थागापाजहातिसां हलि =============================== **Padacheda:** घु-मा-स्था-गा-पा-जहाति-साम् | S | 6 | 3 | हलि | S | 7 | 1 | Sutrartha --------- **** Vasu English Summary -------------------- For the final of the roots of the form of दा and घा (घु), as well as for that of the roots 1. मा 2. स्था 3. गा 4. पा 5. हा (जुहाति) and 6. सा (सो), there is substituted ई before an आर्धधातुक affix beginning with a consonant which has an indicatory क् or ङ्। Vasu English Translation ------------------------ For the final of the roots of the form of दा and घा (घु), as well as for that of the roots 1. मा 2. स्था 3. गा 4. पा 5. हा (जुहाति) and 6. सा (सो), there is substituted ई before an आर्धधातुक affix beginning with a consonant which has an indicatory क् or ङ्। Thus दीयते, धीयते with यक्, देदीयते, वेघीयते with यङ् ॥ So also मीयते मेमीयते स्थीयते, तेष्ठीयते, गीयते, जेगीयते, अध्यगीष्ट, अध्यगीषाताम्, अध्यगीषत, पीयते, पेपीयते, हीयते, जेहीयते, अवसीयते, अवसेसीयते ॥ The पा 'to protect' of *Adadi* (47) is not meant here. become the *vikarana* शप् is elided in roots of that class. Its form will be पायते. It is *Bhvadi* पा 'to drink' that is taken here. So also हा — जिहीयते is not to be taken here. Its form is हायते ॥ Why do we say 'before a consonant'? Observe ददतुः, ददुः ॥ Here had हल् not been used in the *sutra*, the आ of दा would be replaced by ई by the present *sutra*, even before a vowel-affix अतु ० उस् ; for the *lopa* of आ taught in (6.4.64) is prevented by this subsequent *sutra* teaching ई substitution. In fact, the employment of the word हल् in the aphorism is a *jnapaka* that the rule of *vipratishedha* (1.4. 2) applies in this section of *asiddha* (6.4.22), and the *lopa* of आ is superseded by the present rule substituting ई instead. So also दाता and धाता before non-कित् and non ङित् affixes. Bhashya ------- घुमास्थागापाजहातिसां हलि (3064) (6565 प्रतिषेधोपसंख्यानवार्तिकम् ॥ 1 ॥) - इर्त्वे वकारप्रतिषेधो घृतं घृतपावान इति दर्शनात् - इर्त्वे वकारप्रतिषेधो वक्तव्यः । किं प्रयोजनम् ? घृतं घृतपावान इति दर्शनात् । इह मा भूत् - घृतं घृतपावानः पिबत वसां वसपावानः पिबत - इति ॥ (उपसंख्यानाक्षेपभाष्यम्) यदि तर्हि वकारे प्रतिषेध उच्यते कथं धीवरी पीवरी ? (6566 समाधानवार्तिकम् ॥ 2 ॥) - धीवरी पीवरीति चोक्तम् - किमुक्तम् ? नैतदीत्वम् । किं तर्हि ? ध्याप्योरेतत्सम्प्रसारणमिति ॥ (उपसंख्यानानर्थक्यबोधकभाष्यम्) स तर्हि प्रतिषेधो वक्तव्यः ? न वक्तव्यः । वनिबेष भविष्यति, न क्वनिबिति ॥ Kashika ------- घुसंज्ञकानामङ्गानां मा स्था गा पा जहाति सा इत्येतेषां हलादौ क्ङिति प्रत्यये परत ईकारादेशो भवति। दीयते। धीयते। देदीयते। देधीयते। मीयते। मेमीयते। स्थीयते। तेष्ठीयते। गीयते। जेगीयते। अध्यगीष्ट, अध्यगीषाताम्, अध्यगीषत। पीयते। पेपीयते। पातेरिह ग्रहणं नास्ति, लुग्विकरणत्वात् । पायत इत्येव तस्य भवति। हीयते। जेहीयते। जहातेरिह निर्देशाद् जिहातेर्ग्रहणं न भवति। हायते। **षोऽन्तकर्मणि** — अवसीयते। अवसेषीयते। हलीति किम्? ददतुः। ददुः। आतोलोपाद्धि परत्वादीत्वं स्यात्। एतदेव हल्ग्रहणं ज्ञापकमस्मिन् प्रकरणे विप्रतिषेधे नासिद्धत्वं भवति। क्ङितीत्येव — दाता। धाता॥ Siddhanta Kaumudi ----------------- एषामात ईत्स्याद्धलादौ क्ङित्यार्धधातुके । अध्यगीष्ट-अध्यैष्ट । अध्यगीष्यत- अध्यैष्यत ।{$ {!1047 इक्!} स्मरणे$} । अयमप्यधिपर्वः । अधीगर्थदयेशाम्-(SK613) इति लिङ्गात् । अन्यथा हीगर्थेत्येव ब्रूयात् ॥ (वार्तिकम्) ॥ अधियन्ति । अध्यगात् । केचित्तु आर्धधातुकाधिकारोक्तस्यैवातिदेशमाहुः । तन्मते यण्न । तथाच भट्टिः-ससीतयो राघवयोरधीयन्इति ।{$ {!1048 वी!} गतिव्याप्तिप्रजनकान्त्यसनखादनेषु$} । प्रजनं गर्भग्रहणम् । असनं क्षेपणम् । वेति । वीतः । वियन्ति । वेषि । वेमि । वीहि । अवेत् । अवीताम् । अवियन् । अडागमे सत्वनेकाच्त्वाद्यणिति केचित् । अव्यन् । अत्रेकारोऽपि धात्वन्तरं प्रश्लिष्यत । एति । ईतः । इयन्ति । ईयात् । ऐषीत् ।{$ {!1049 या!} प्रापणे$} । प्रापणमिह गतिः । प्रणियाति । यातः । यान्ति ॥ Laghu Siddhanta Kaumudi ----------------------- एषामात ईत्स्याद्धलादौ क्ङित्यार्धधातुके। अध्यगीष्ट, अध्यैष्ट। अध्यगीष्यत, अध्यैष्यत॥ {$ {! 21 दुह !} प्रपूरणे $} (धातुपाठे (02.0004)) ॥ दोग्धि। दुग्धः। दुहन्ति। धोक्षि। दुग्धे। दुहाते। दुहते। धुक्षे। दुहाथे। धुग्ध्वे। दुहे। दुह्वहे। दुह्महे। दुदोह, दुदुहे। दोग्धासि, दोग्धासे। धोक्ष्यति, धोक्ष्यते। दोग्धु, दुग्धात्। दुग्धाम्। दुहन्तु। दुग्धि, दुग्धात्। दुग्धम्। दुग्ध। दोहानि। दोहाव। दोहाम। दुग्धाम्। दुहाताम्। दुहताम्। धुक्ष्व। दुहाथाम्। धुग्घ्वम्। दोहै। दोहावहै। दोहामहै। अधोक्। अदुग्धाम्। अदुहन्। अदोहम्। अदुग्ध। अदुहाताम्। अदुहत। अधुग्ध्वम्। दुह्रात्, दुहीत॥ Balamanorama ------------ **घुमास्थागापाजहातिसां हलि** - घुमसाथा । 'षो अन्तकर्मणि' इत्यस्य कृतात्वस्य निर्देशः । घु मा स्था गा पा जहाति साएषां द्वन्द्वात्षष्ठी । 'आर्धधातुके' इत्यधिकृतम् । 'आतो लोप इटि चे' त्यत आत इतिईद्यती॑त्यत ईदिति,अनुदात्तोपदेशे॑त्यतः क्ङिति — इति चानुवर्तते । तदाह — एषामित्यादिना । अध्यगीष्टेति । अधि अ गा स् त इत्यत्र आकारस्य ईकारे यणि सिचः षत्वे तकारस्य ष्टुत्वेन ट इति भावः । 'गातिस्थे' तिन सिज्लोपः, परस्मैपदाऽभावात् । अध्यगीषातामध्यगीषत । अध्यगीष्टाः अध्यगीढ्वम् । अध्यगीषि अध्यगीष्वहि अध्यगीष्महि । गाङभावपक्षे आह — अध्यैष्टेति । अधि आ इ स् त इति स्थिते इकारस्य गुणे आटो वृद्धौ यणि षत्वष्टुत्वे इति भावः । अध्यैषातामध्यैषत । अध्यैष्ठाः अध्यैषाथामध्यैढ्वम् ।धि चे॑ति सलोपः । अध्यैषि अध्यैष्वहि अध्यैष्महि । लृडआह — अध्यगीष्यतेति ।विभाषा लुङ्लृङो॑रिति गाङादेशे स्ये तस्य 'गाङ्कुटादिभ्यः' इति ङित्त्वेघुमास्थे॑ति ईत्त्वे अटि यणि षत्वमिति भावः । अध्यगीष्येतामित्यादि । गाङभावपक्षे आह — अध्यैष्यतेति । अध्यैष्येतामित्यादि । इक्स्मरणे । अयमपीति । इङ्धातुवदयमपि धातुर्नित्यमधिपूर्वक इत्यर्थः । ननु धातुपाठे इङमधिकृत्य 'नित्यमधिपूर्व' इति वचनात्, भूवादिसूत्रभाष्याच्च इङो नित्यमधिपूर्वकत्वं युक्तम्, अस्य तु तथात्वे किं प्रमाणमित्यत आह — अधीगर्थेति । तत्र हि अधीगर्थेत्यनेन स्मरणार्थदातुर्विवक्षितः । इग्धातोरधिपूर्वकत्वाऽभावेऽपि स्मरणार्थकत्वे इगर्थेत्येतावतैव स्मरणार्थकधातुलाभात्तत्र अधीति व्यर्थं स्यात् । अत इग्धातुरयं नित्यमधिपूर्वक एव स्मरणार्थक इति विज्ञायत इत्यर्थः । इण्वदिक इति । षष्ठन्ताद्वतिः । इणो यत् कार्यम् 'इणो यणि' त्यादि, तदिको भवतीत्यर्थः । अध्येति, अधीत इति सिद्धवत्कृत्य आह — अधियन्तीति । अन्तादेशे इयङपवादः ।इणो य॑णिति यणिति भावः । अध्येषि अधीथः अधीथ । अध्येमि अधीवः अधीमः । अधीयाय । अतुसि तु द्वित्वे कृते अधि इ इ अतुसिति स्थितेइणो य॑णिति द्वितीयस्य इकारस्य यणि प्रथमस्य इकारस्यदीर्घ इणः किती॑ति दीर्घे सवर्णदीर्घे — अधीयतुः अधीयुः । अधीययिथ — अथीयेथ अधीयथुः अधीय । अधीयाय — अधीयय अधीयिव अधीयिम । अध्येता । अध्येष्यति । अध्येतु- अधीतात् अधीतामधियन्तु । अधीहि — अधीतात् अधीतमधीत । अध्ययानि अध्ययाव अध्ययाम । अध्यैत् अध्यैतामध्यायन् । अध्यैः अध्यैतमध्यैत । अध्यायमध्यैव अध्यैम । इति सिद्धवत्कृत्य लुङ्याह — अध्यगादिति । इण्वत्त्वात्इणो गा लुङी॑ति गादेशे 'गातिस्थे' तिसिचो लुका लुप्तत्वात्घुमास्थे॑ति ईत्त्वं न । अध्यगाताम् । अध्यगामध्यगाव । अध्यैष्यत् । केचित्त्विति । 'आर्धधातुके' इत्यधिकारेइणो गा लुङी॑ति सूत्रे एतद्वार्तिकपाठस्य भाष्ये दर्शनात्तदधिकारोक्तानामेव कार्याणमुपस्थितत्वादिति भावः । तन्मते यण् नेति ।इणो य॑णित्यस् आर्धधातुकाधिकारस्थत्वाऽभावान्नातिदेश इत्यर्थः । तेन झोऽन्तादेशे इयङि सवर्णदीर्घे अधीयन्तीत्याद्यूह्रम् । राघवयोरधीयन्निति ।अधीगर्थे॑ति षष्ठी । राघवौ स्मरन्नित्यर्थः । अधिपूर्वादिग्धातोर्लटः शतरि शपो लुकि इकारस्य इयङि सवर्णदीर्घे अधीयदिति शत्रन्तात्सुबुत्पत्तौ सौ रूपम् । वी गतीति ।अजेव्र्यघञपो॑रिति सूत्रभाष्यरीत्या अस्य आर्धधातुके नास्ति प्रयोग इति शब्देन्दुशेखरे स्थितम् । वियन्तीति । एकाच्त्वाद्यणभावादियङिति भावः । लोटि वेतु — वीतात् वीताम् वियन्तु । इति सिद्धवत्कृत्याह — वीहीति । हेरपित्त्वेन ङित्त्वान्न गुण इति भावः । वीतात् वीतम् वीत । वयानि वयाव वयाम । लडआह — अवेदिति । अवियन्निति । वी — अन्निति स्थिते परत्वादडागमात् प्रागियङि कृते अडागम इति भावः । मतान्तरमाह — अडागमे सतीति ।लावस्थायाम॑डिति पक्षे इयङं बाधित्वा अनेकाच्त्वाद्यणि अव्यन्निति केचिदाहुरित्यर्थः । केचिदित्यस्वरसं सूचयति । तद्बीजं तुकृतेऽप्यटि यणि कर्तव्ये आभीयतया अटोऽसिद्धत्वादनेकाच्त्वाऽभावाद्यणभावादियङेवोचित इति शब्देन्दुशेखरे विस्तरः । अत्रेति । वी-ई इति सवर्णदीर्घे॑ वी गती॑ति निर्देश इति भावः । ईयादिति । विधिलिङि आशीर्लिङि च रूपमिदं समानम् । 'स्को' रिति सलोपः । तत्र विधिलिङि ईयातामित्यादि, आशिषितु ईयास्तामित्यादी॑ति विशेषः । ऐषीदिति । सिचि वृद्धिः । या प्रापणे इति । ननु गच्छतीत्यर्थे यातीति कथमित्यत आह — प्रापणमिह गतिरिति । णिजर्थस्त्वविवक्षित इति भावः । प्राणियातीति ।नेर्गदे॑ति णत्वम् । ययौ । याता । यास्यति । यातु । अयात् अयाताम् । Tattvabodhini ------------- **घुमास्थागापाजहातिसां हलि** - घुमास्था ।दीङो युडची॑त्यतः क्ङितीत्यनुवर्तते । आर्धधातुक इति चाधिक्रियत एव । क्ङिति किं । दाता धाता । हलादौ किं । ददतुः । ददुः । अन्यथा आतो लोपात्परत्वादीत्त्वं स्यात् । आर्धधातुके किं । मातः । माथः । अध्यगीष्टेति । सिचो ङित्त्वादीत्त्वम् । इक् स्मरणे । ककार इहइण्वदिकः॑ इति विशेषणार्थः ।ए॑रित्युक्ते तुइट किट कटी॑त्यत्र प्रश्लिष्टस्य ईधातोरपि ग्रहणं स्यादित्याहुः ।* इण्वदिक इति वक्तव्यम् । केचित्त्विति । आर्धधातुकाधकारे वार्तिकपाठात्तदधिकारोक्तानामेव कार्याणामुपस्थितत्वादतिदेश इति भावः । अधीयन्निति । स्मरन्नित्यर्थः ।राघवयो॑रिति । अत्रअधीयगर्थदयेशां कर्मणी॑ति षष्ठी । वी गति । अवियन्निति । अडागमात्परत्वादियङ् । अडागमे सतीति । कृताऽकृतप्रसङ्गित्वमात्रेण अटो नित्यत्वादिति भावः । अत एवाऽपरितोषात्,असिद्धवदत्राभा॑दिति समानाश्रये यणि कर्तव्ये अटोऽसिद्धत्वादियङेवोचित इत्याशयेन वा केचिदित्युक्तम् ।लावस्थायामेवाऽडागम॑ इति पक्षे तु यणेवेति बोध्यम् । ईकारोऽपीति । प्रयुञ्चते च — न हि तरणिरुदीते दिक्पराधीनवृत्ति॑रिति । व्याख्यातं च मनोरमायाम् — कर्मव्यतिहारे तङ् । न चन गतिहिंसार्थेभ्यः॑ इति निषेधः शङ्क्यः । उत्पूर्वस्याविर्भावार्थत्वा॑दिति । अत्र वदन्ति — व्यतिशब्दं विना कर्मव्यतिहारकल्पनं क्लेशावहम् । परकीयकर्म च कर्मव्यतिहारेऽपेक्ष्यते, तञ्चात्र । परस्परकरणं तु न संभवत्येव । ततश्चोदिते इति भावे निष्ठा ज्ञेया । तथा चोदये दिक्पराधीनवृत्तिस्तरणिर्नेत्यर्थः सुगम इति । Padamanjari ----------- माग्रहणेन मेङ् प्रणिदाने, माङ् माने, मा माने इति सर्वेषां ग्रहणम् । एवं गा इत्यत्रापि गाङ्गतौ, गैशब्दे, गा स्तुतौ च्छन्दसि, इणो गा लुङ्, इण्विदिक इति कक्तव्यम्, गाङ् लिटि इति सर्वेषां गारुपाणां ग्रहणम् गामादाग्रहणेष्वविशेषः इति वचनात् । जहतेरिति । ओहाक् त्यागे । जिहातेरिति । ओहाङ् गतौ इत्यस्य । भृञामित् इत्यभ्यासस्येत्वे सति जहातीति निर्देशो नोपपद्यते । कामं हागित्यपि निर्देशेन भवति जिहातेः प्रसङ्गः, तथा तु न कृतामित्येव । एतदेवत्यादि । यथा चैतज्ज्ञापकं तथा जनसनखनाम् इत्यत्रोक्तम् । ईत्वे वकारप्रतिषेधः, वकारस्य निमितभावेन प्रतिषेधो वकारप्रतिषेधः । वकारादावीत्यं न भवतीत्यर्थः । आतो मनिन्क्वनिब्वनिपश्च - घृतं पिबन्ति घृतपावानः, वसां पिबन्ति वसापावानः । क्वनिपीत्वं न भवति । धीवरी, पीवरीत्वत्र त्वौणादिकमीत्वं धायाप्योर्वा सम्प्रसारणम् तथा च स्थः क च इत्यत्र क्विपि ईत्वाभाव उदाहृतः ॥ Nyaas ----- `दीयते` इति। कर्मणि लकारः। `देदीयते` इति। यङः। अथ मेति कस्येदं ग्रहणम्, किम्? `मेङ्? प्रणिदाने` (धातुपाठः-961) इत्यस्य भौवादिकस्य? उत्त `माङ्? माने` (धातुपाठः-1088) [`माने शब्दे च` - धातुपाठः-] इत्यस्य जौहोत्यादिकस्य? आहोस्वित्? `मा माने` (धातुपाठः-1062) इत्यस्यादादिकस्य? तत्र केचिदाहुः - `निरनुबन्धकग्रहणे न सानुबन्धकस्य` (व्या।प।53) इत्यादादिकस्य ग्रहणम्। अन्ये त्वाहुः - `लुग्विकरणालुग्विकरणयोरलुग्विकरणस्यैव ग्रहणम्` (व्या।प।50) इत्यलुग्विकरणयोर्माङमेङोरिति। अपरे ब्राउवते - `गामादाग्रहणेष्वविशेषः` (व्या।प।124) इति त्रयाणामपीति; एतदेव वृत्तिकारस्याभिमतमिति लक्ष्यते। तथा हि - `पातेरिह ग्रहणं नास्ति, लुग्विकरणत्वात्` इति। ब्राउवता `पा रक्षणे (धातुपाठः-1056) इत्यस्य ग्रहणाभावः स्वयमेवोक्तः। यदि चात्रालुग्विकरणयोर्लुग्विकरणस्य वा ग्रहणमभिमतं स्यात्, तदपि प्रतिपादयेत्, न च प्रतिपादितम्, अतोऽवगम्यते - त्रयाणामापि ग्रहणमभिमतमिति। `गा` इति। `गाङ गतौ` (धातुपाठः-950) `के गै शब्दे` (धातुपाठः-916,917) एतौ भौवादिकौ; `गा स्तुतौ छन्दसि` (धातुपाठः-1106) [`छन्दसि` नास्ति - धापा।] इति जौहोत्यादिकः, **इणो गा लुङि** (2.4.45) इतीण#ओ गादेशः, `इण्वादिक इति वक्तव्यम्` (वा।167) इतीको गादेशः `गाङ्? लिटि` (2.4.49) , `विभाषा लुङ्लृङो (2.4.50) इति चेङो गाङादेशः - एषां पूर्ववत्? सर्वेषामविशेषेण ग्रहणम्। सत्यपि सर्वेषां ग्रहणे यस्य क्ङिदार्धधातुकपरं सम्भवति तस्यैवेत्त्वं भवति, नेतरस्य; निमित्ताभावात्। `गीयते, जेगीयते` इति। भौवादिकयोरुदाहरणे। `अध्यगीष्ट` इत्यादि। इङो गाङ्, गाङ्कुटादि (1.2.1) सूत्रेण सिचो ङित्त्वम्, **आत्मनेपदेष्वनतः** (7.1.5) इत्यदादेशः। अथ किमर्थं `जहाति` इति स्तिपा सिर्देशः क्रियते, न हेत्येवोच्येत? इत्यत आह - `जहातेः` इत्यादि। यदि हेति निर्देशः क्रियते, तदा जिहातेः `ओ हाङ गतौ` (धातुपाठः-1089) इत्यस्यापि स्यात्, जहातीति निर्देशे तु न भवति। अत्र हिनिर्देशे सात यस्यैतद्रूपं भवति तस्यैव ग्रहणेन भवितव्यम्। कस्य चैतद्रूपम्? `ओ हाक्? त्यागे` (धातुपाठः-1090) इत्यस्य, इतरसय `भृञामित्` (7.4.76) इत्यभ्यालस्येत्त्वे कृते जिहातीति रूपं भवतीति। कामं हागित्यपि निर्देशे न भवति जिहीतेः प्रसङ्गः, वैचित्र्यार्थस्तु न तथा निर्देशः कृतः। `अवसीयते` इति। `षोऽन्तकर्मणि` (धातुपाठः-1147)।`ददतुः` इत्यादि। ननु चात्र **अतो लोपः** (6.4.48) इत्यादिनाकारलोपो भविष्यति, तत्? किमेतन्निवृत्त्यर्थेन हलीत्यनेन? इत्यत आह - `आतो लोपाद्धि` इत्यादि। आतो लोपस्यावकाशः - ययतुः, ययुरिति, ईत्त्वस्यावकाशः - दीयते, धीयत इति; इहोभय प्राप्नोति - ददतुः ददुरिति। तत्र यदि हल्ग्रहणं न क्रियेत, तदा परत्वादीत्त्वं स्यात्। ननु सिद्धयोद्र्वयोर्विप्रतिषेध उपपद्यते, इह तु `असिद्धवदत्रा भात्` (6.4.22) इति द्वयोरप्यसिद्धत्वम्, तत्? कुतो विप्रतिषेधः, अस्मश्च सति परत्वादीत्त्वं स्यादिति न युक्तं वक्तुम्, तथा हि - **विप्रतिषेधे परं कार्यम्** (1.4.2) इत्युक्तम्? अत आह - `एतदेव` इत्यादि। यद्यत्र विप्रतिषेधे कर्तव्येऽसिद्धत्वं स्यात्, हल्ग्रहणमनर्थकं स्यात्। भवत्वत्रेत्त्वम्, तस्यासिद्धत्वात **अतो लोपः** (6.4.48) भविष्यति, तत्? किं हल्ग्रहणेन? तदेतत्कथमर्थवद्भवति? यदि विप्रतिषेधे कर्तव्ये सिद्धत्वं स्यात्? नान्यथा॥ Prakriyasarvasvam ----------------- धुसंज्ञकानां मास्थादीनां च हलादौ क्ङिति परे ईत् स्यात् । सुदीवा, वेणुधीवा, क्षीरपीवा । वनिपि सुदावा । विचि सोमपाः । Sutra Prayogas -------------- * **नाध्यगीढ्वं** (भट्टिकाव्यम्): `घुमा-स्था` इतीत्वम्। * **सोऽध्यष्ठीयत** (भट्टिकाव्यम्): `घु-मा-स्था` इतीत्वम्। * **विधेयासुर्येन** (भट्टिकाव्यम्): `घु-मा-स्था` इत्यनुवृत्तौ एर्लिङि इत्येकारादेशः। * **अभ्यधीयत** (भट्टिकाव्यम्): `घु-मास्था` इतीत्वम्।