64064: आतो लोप इटि च ==================== **Padacheda:** आतः | S | 6 | 1 | लोपः | S | 1 | 1 | इटि | S | 7 | 1 | च | S | 0 | 0 | Sutrartha --------- **** Vasu English Summary -------------------- The final आ of a root is elided before an आर्धधातुक affix with the augment इट् as well as when it begins with a vowel and has an indicatory क् or ङ्। Vasu English Translation ------------------------ The final आ of a root is elided before an आर्धधातुक affix with the augment इट् as well as when it begins with a vowel and has an indicatory क् or ङ्। Thus पपिथ and तस्थिथ ॥ Here the affix has the इट् augment. पपतुः, पपुः, तस्थतुः, तस्थुः ॥ Here the affixes are कित् by (1.2.5) गोदः, कम्बलदः with the affix क (3.2.3). So also प्रदा (fem), प्रधा (fem) by अङ् (3.3.106). Before *Sarvadhatuka* affixes, we have यान्ति, वान्ति, व्यत्यरे and व्यत्यले ॥ The two letter are the Imperfect Ist Person Singular *Atmanepada* of रा and ला with the affix इ (इट्). When it does not begin with a vowel, we have ग्लायते, दासीय ॥ Bhashya ------- आतो लोप इटि च (3062) (लोपाधिकरणम्) (इट्ग्रहणाक्षेपभाष्यम्) इड्ग्रहणं किमर्थम् ? (6564 इट्ग्रहणप्रयोजनवार्तिकम् ॥ 1 ॥) - इट्ग्रहणमक्ङिदर्थम् - इट्ग्रहणं क्रियते, अक्ङिति लोपो यथा स्यात् । पपिथ, तस्थिथेति ॥ (उपसंख्यानभाष्यम्) सार्वधातुके चादीत्यार्धधातुकाधिकारादुपसंख्यानं कर्तव्यम् । इषमूर्जमहमित आदीति ॥ (उपसंख्यानसमर्थकभाष्यम्) ननु च यथैव क्ङितीति वर्तमाने इट्ग्रहणमक्ङिदर्थम्, एवं आर्धधातुके इत्यपि वर्तमाने इट्ग्रहणं सार्वधातुकार्थं भविष्यति । न सिध्यति । किं कारणम् ? नहि क्ङिता अज् विशेष्यते - अचि भवति, कतरस्मिन् ? अचीति । किं पुनः कारणमचा क्ङिद्विशेष्यते ? यथा इडप्यज्ग्रहणेन विशेष्येत । अस्ति चेदानीं क्वचिदिडनजादिः, यदर्थो विधिः स्यात् । अस्तीत्याह । दासीय, धासीय - इति ॥ (उपसंख्यानानर्थक्यबोधकभाष्यम्) तत्तर्हि उपसंख्यानं कर्तव्यम् ? न कर्तव्यम् । आर्धधातुकत्वात् सिद्धम् । कथमार्धधातुकत्वम् ? उभयथा छन्दसीति वचनात् । अन्येऽपि हि धातुप्रत्यया उभयथा छन्दसि दृश्यन्ते ॥ Kashika ------- इट्यजादावार्धधातुके क्ङिति चाकारान्तस्याङ्गस्य लोपो भवति। इटि — पपिथ। तस्थिथ। किति — पपतुः, पपुः। तस्थतुः, तस्थुः। गोदः। कम्बलदः। ङिति — प्रदा। प्रधा। आर्धधातुक इत्येव — यान्ति। वान्ति। व्यत्यरे। व्यत्यले। रातेर्लातेश्च लङीटि रूपम्। अचीत्येव — ग्लायते। दासीय॥ Siddhanta Kaumudi ----------------- अजाद्योरार्धधातुकयोः क्ङिदिटोः परयोरातो लोपः स्यात् । द्वित्वात्परत्वाल्लोपे प्राप्ते द्विर्वचनेचि (SK2243) इति निषेधः । द्वित्वे कृते आलोपः । दधतुः । दधुः । दधिथ । दधाथ । दधिव । धाता ॥ Laghu Siddhanta Kaumudi ----------------------- अजाद्योरार्धधातुकयोः क्ङिदिटोः परयोरातो लोपः। पपतुः। पपुः। पपिथ, पपाथ। पपथुः। पप। पपौ। पपिव। पपिम। पाता। पास्यति। पिबतु। अपिबत्। पिबेत्॥ Balamanorama ------------ **आतो लोप इटि च** - दधा — अतुसिति स्थिते — आतो लोपः । 'आर्धधातुके' इत्यधिकृतम् ।दीङो यु॑डित्यतोऽचि क्ङितीति चानुवर्तते । अचीत्यार्धधातुकविशेषणत्वात्तदादिविधिः । क्ङिति अजाद्यार्धधातुके इटि च आतो लोप इति लभ्यते । फलितमाह — अजाद्योरिति । इट आर्धधातुकत्वं तु तदवयवत्वाद्बोद्ध्यम् । क्ङितीति च इटो न विशेषणम्, इड्ग्रहणसामर्थ्यात् । इडित्यनेन उत्तमपुरुषैकवचनम्, इडागमश्च गृह्रते । अजाद्योः किम् । ग्लैधातोः कर्मणि लटि यकि — ग्लायते । आर्धधातुकयोः किम् । यान्ति वान्ति । दधौ इत्यत्र तु क्ङित्त्वाऽभावान्नाल्लोपः । सति तस्मिन् औत्वं न स्यात् । ननु धा — अतुसिति स्थिते द्वित्वात्पर्तवादाल्लोपे सति एकाच्त्वाऽभावाद्द्वित्वं न स्यादित्याशङ्क्य परहरति — द्वित्वादित्यादिना । धेट्धातुरनिट् । भारद्वाजनियमात्थलि वेडित्याह — दधिथ दधाथेति । इट्पक्षे आल्लोपः । दधथुः । दध । दधौ इति सिद्धवत्कृत्याह — दधिवेति । वसि आत्त्वे क्रादिनियमादिटि आल्लोप इति भावः । एवं दधिमेत्यपि ज्ञेयम् । धातेति । लुटि आत्त्वे तासादीति भावः । धास्यति । धयतु । अधयत् । धयेत् । Tattvabodhini ------------- **आतो लोप इटि च** - आर्धधातुक इत्यनुवर्तते ।दीङो युडचि क्ङिती॑त्यतोऽचि क्ङितीति च । तदेतत्फलितमाह -अजाद्योराद्र्धधातुकयोरिति । अजाद्योः किम् । ग्लायते । यक् — जाग्लायते । यङ् — दासीय । डुदाञो लिङुत्तमैकवचनमिट् । आर्धधातुकयोः किम् । यान्ति । वान्ति । व्यतिरे । कर्मव्यतिहारे रा दाने धातोर्लङुत्तमैकवचनमिट् । [व्यतिरै । लट इट्] दधिश्चेति । एवं च अजाद्याद्र्धधातुकस्य कित्त्वेन दधिव दधिमेत्यादिष्वातो लोपसिद्धावपि दधिथ पपिथेत्यादि रूपसिद्धये सूत्रेऽस्मिन्निटीति ग्रहणमावश्यकमिति ज्ञेयम् । यदि तु इडागम एवात्र गृह्रते व्याख्यानात्तदाऽचि क्ङितीत्येतदाद्र्धधातुकस्यैव विशेषणं , न तूभयोः । Padamanjari ----------- इह अचि क्ङिति, आर्द्धधातुके इति त्रयाणं प्रकृत्वाद्विशेषणविशेष्यभावे च कामचारातेषामन्यतमेनानुभूतान्यतरविशेषणेन, अनुभूतोभयविशेषणेन, अननुभूतविशेषणेन वा इटः समुच्चयसम्भावद् द्वादश पक्षाः सम्भवन्ति । तत्र यदि तावद्विशेषणसम्बन्धात् प्रगेवाचा इटः समुच्चयः, अङ्गाक्षिप्तश्च प्रत्ययो वा विशेष्यते, इट।ल्जादौ च प्रत्यये इति विज्ञायते, तदेड्ग्रहणमनजाद्यर्यं भवति अजादेरिटोऽजादिना प्रत्ययेन समुच्चयासम्भवात् । तदा च ङ्दार्धिधातुकेअजादेरेव विशेषणे व्यवतिष्ठेते, नेटः हलादेरिटः क्ङ्त्वासिम्भावत्, आर्धधातुकत्वाद्, व्यभिचाराच्च । ततश्च दासीयेत्यादौ लोपप्रसङ्गः । अथ किद्विशिब्टेनाचा समुच्चयः - क्ङित्यजादौ भवतीटि चेति, ततोप्रसङ्गः । अथ किद्विशिष्टेनाचा समुच्चयः - क्ङित्यजादौ भवतीटि चेति, ततोऽर्क्ङ्थिमनजाद्यर्थं चेड्ग्रहणं भवति - पपिथ, दासीयेति, अथार्द्धधातुकविशिष्टेनाचा समुच्चयः, ततोऽक्ङिदर्थमनजाद्यर्थमनार्धातुकार्थं चेडग्रहणम् - पपिथ, दासीय, व्यत्यरे - इतीण्मात्रे लोपप्रसङ्गः, तदेवमचा समुच्चये चत्वारः पक्षाः । एवमार्धधातुकेन एवं क्ङ्तेइति द्वादश पक्षाः । तयोरप्युफयविशिष्टयोस्त एव दोषाः, यांस्त्ववोचाम । अथविशेषितेनार्धधातुकेन समुच्चयस्तदा नार्धधातुकार्थमिडग्रहणमिति व्यत्यरे इत्यत्रैव प्रसङ्गः अथ क्ङिद्विशिष्टेनार्धधातुकेन समुच्चयस्तदाऽक्ङिदर्थमनार्धधातुकार्थमिड्ग्रहणम् - पपिथ, व्यत्यरे अथाज्विशिष्टेनाधधातुकेन समुच्चयः, अनजाद्यर्थमनार्धधातुकार्थं चेड्ग्रहणम् - दासीय, व्यत्यरे अथाज्विशिष्टेन क्ङ्ता सिमुच्चयः, ततोऽनजाद्यर्थमाक्डिदर्थं चेड्ग्रहणम् - दासीय, पपिथ । अथार्धधातुकविशिष्टेन किङ्ता समुच्चयः, तदानार्धधातुकार्थमक्ङिदर्थं चेड्ग्रहणम् - व्यत्यरे, पपिथ । तदेवमेकादशपक्षा दुष्टाः । द्वादशः पक्षः शिष्यते - अविशिष्टेन क्ङ्ता सिमुच्चय इति, अत्र च पक्षे अच्यार्धधातुके इति विशेषणद्वयमविशेषाद् द्वावपि क्ङिदिटावुपनिपततीति अक्ङिदर्थमेवड्ग्रहणं भवति । तेन पपिथेत्यादावाल्लोपो भवति दासीय, व्यत्यरे - एइत्यनजादावनार्धधातुके च न भवति । स एष निर्दोषः पक्ष, तमिममाश्रयति - इट।ल्जादावार्धधातुक इति । क्ङिति चेति । अजादावार्धधातुके इत्यनुषङ्गः । दासीयेति । आशिषि लिङ्, उतमैकवचनमिट, इटोऽन् । अत्र सीयुट इड्भक्तत्वादिटोऽजादित्वाभावः ॥ Nyaas ----- `इटजादावार्धधातुके क्ङिति च` इति। `अजादावार्धधातुके` इति प्रत्येकमभिसम्बध्यते -इटजादावार्धधातुके, क्ङिति चाजादावार्धधातुक इति। इङ्ग्रहणमक्ङिदर्थम्। `पपिथ` इति। पातेः विबतेर्वा लिट्, सिप्, `परस्मैपदानाम्` (3.4.82) इत्यादिना तस्य थल्? **ऋतो भारद्वाजस्य** (7.2.63) इति नियमादिट्। `गोदः` इति। **आतोऽनुपसर्गे कः** (3.2.3) । `व्यत्यरे, व्यत्यले` ति। `कर्तरि कर्मव्यतीहारे` (1.3.14) इत्यात्मनेपदम्? उत्तमपुरुषैकवचनम् -इट्, तस्य **सार्वधातुकमपित्** (1.2.4) इति ङित्त्वम्। तत्रार्धधातुकत्वं नास्तीति न भवति लोपः। `ग्लायते` इति। भावे लकारः। `दासीय` इति। आशिषि लिङः, आत्मनेपदोत्तमैकवचनम्, तस्य `इटोऽत्` (3.4.106) इत्यदादेशः। अत्र सीयुटस्तद्भक्तत्वादिटोजादित्वं नास्तीति सत्यपयार्धधातुकाजादीत्वे लोपाभावः॥ Prakriyasarvasvam ----------------- क्ङित्यजादावार्धधातुके इटि च परे आतो लोपः स्यात् । ज्ञः । इयङ् प्रियः । Sutra Prayogas -------------- * **नृपो** (भट्टिकाव्यम्): `आतो लोपः` इति लोपः । * **आह्वो** (भट्टिकाव्यम्): `आतो लोपः` इति लोपः ।