64062: स्यसिच्सीयुट्तासिषु भावकर्मणोरुपदेशेऽज्झनग्रहदृशां वा चिण्वदिट् च ======================================================================== **Padacheda:** स्य-सिच्-सीयुट्-तासिषु | S | 7 | 3 | भावकर्म्मणोः | S | 7 | 2 | उपदेशे | S | 7 | 1 | अच्-हन-ग्रह-दृशाम् | S | 6 | 3 | वा | S | 0 | 0 | चिण्वत् | S | 0 | 0 | इट् | S | 1 | 1 | च | S | 0 | 0 | Sutrartha --------- **** Vasu English Summary -------------------- Before the affixes 1. स्य (First future and Conditional) 2. सिच् (S-Aorist) 3. सीयुद् (Benedictive) and 4. तासि (Periphrastic Future), when they are used in the भाव (Impersonal) and कर्म (Passive) voices 1. the verbal stems ending in a vowel in the Grammatical system of instruction (उपदेश), as well as the verbs 2. हन् 'to kill' 3. ग्रह् 'to seize' and 4. दृश् 'to see' are treated optionally in the same way as in the 3rd Person of the Passive Aorist in चिण् and when so treated, they have the augment इट् । Vasu English Translation ------------------------ Before the affixes 1. स्य (First future and Conditional) 2. सिच् (S-Aorist) 3. सीयुद् (Benedictive) and 4. तासि (Periphrastic Future), when they are used in the भाव (Impersonal) and कर्म (Passive) voices 1. the verbal stems ending in a vowel in the Grammatical system of instruction (उपदेश), as well as the verbs 2. हन् 'to kill' 3. ग्रह् 'to seize' and 4. दृश् 'to see' are treated optionally in the same way as in the 3rd Person of the Passive Aorist in चिण् and when so treated, they have the augment इट् । The augment इट् is, of course, added to the affixes and स्व, सिच्, सीयुट् and तासि and not to the stem. What are the special objects served by this *atidesa* aphorism? They are given in the following verse :- *Karika* चिण्वद् वृद्धिर्युक् च हन्तेश्च घत्वं दीर्घश्चोक्तो यो मितां चिणीति । इट् चासिद्धस्तेन मे लुप्यते णि- र्नित्यश्चायं वलनिमित्तोऽविघाती ॥ First :-The *Vriddhi* takes place as in चिण् (7.2.116), (7.3.34), secondly, there is the addition of युक् augment (7.3.33), thirdly घ is substituted for the ह of हन् (7.3.54), fourthly, the roots having indicatory म् (*Bhuadi* 809 to 873) optionally lengthen their vowel (6.4.93), and lastly the addition of the augment इट् being considered as *asiddha* or not to have taken effect by (6.4.22), the rule (6.4.51) applies and the causative affix णि is elided : and this इट् is added irrespective of the conditions and limitations of (7.2.35) &c. (1) Roots ending in a vowel in the *Dhatupatha* with the affix स्य as, चि :-चायिष्यत or चेष्यते, अचायिष्यत or अचेष्यत ॥ So also with दा, as, दायिष्यते or दास्यते, अदायिष्यत or अदास्यत ॥ In शमि there are three forms, the two शामिष्यते or शमिष्यते, अशामिष्यत and अशमिष्यत being given by the elision of the causative ending by (6.4.51), in spite of the इट् augment which is considered as *asiddha* : and शम् being a root of मित् class, the अ is lengthened optionally by (6.4.93). The forms शमयिष्यते and अशमयिष्यत are given when not treated as चिण्, the causative is retained, the penultimate being shortened by (6.4.92). With the affix सिच् -अचायिषाताम्, or अचेषाताम्, अदायिषाताम्, or अदिषाताम् and अशामिषाताम् or अशमिषाताम् ॥ With the affix सीयुट् - चायिषीष्ट or चेषीष्ट, दायिषीष्ट or दासीष्ट and शामिषीष्ट or शमिषीष्ट ॥ With the affix तासि :- चायिता or चेता, दायिता or दाता, शामिता or शमिता ॥ The चिण् aorist model of these roots is अचायि, अदायि (7.3.33), and अशमि (7.3.34) or अशामि (6.4.93). (2) हन् :- Fut. घानिष्यते or हनिष्यते; Con. अघानिष्यत or अहनिष्यत, Aor. अघानिषाताम् or अवधिषाताम् and अहसाताम् (2.4.44); Ben घानिषीष्ट or वधिषीष्ट; Per. Fut. घामिता or हन्ता ॥ The चिण् model is अघानि ॥ (3) ग्रह :- Fut. ग्राहिष्यते or ग्रहीष्यते Con. अग्राहिष्यत or अग्रहीष्यत; Aor. अग्राहिषाताम् or अग्रहीषाताम् (अग्रहिषाताम)?; Ben. ग्राहिषीष्ट or (ग्रहिषीष्ट) पहीषीट, Per. Fut. ग्राहिता or ग्रहिता ॥ The lengthening of ही takes place by (7.2.37). The चिण् model is अग्राहि ॥ (4) दृश् :- Fut. दर्शिष्यते or द्रक्ष्यते, Con. अदर्शिष्यत or अद्रक्ष्यत; Aor. अदर्शिषाताम् or अदृक्षाताम् ; Ben दर्शिषीष्ट or द्रक्षीष्ट; Per. Fut. दर्शिता or द्रष्टा (दर्ष्टा)?॥ The चिण् model is अदर्शि ॥ Why do we say before स्य &c? Observe चेतव्यम्, दातव्यम् ॥ Why in the Impersonal and Passive ? Observe चेष्यते and दास्यते ॥ Why in *Upadesa* ? The rule applies to कारिष्यते also, though कार् (after *guna* change) ends in a consonant, but in its original ennuciation it ends with a vowel. The *atidesa* rule being enunciated with regard to stems (*anga*), prevents the substitutions of हन् and इङ् and इण् ॥ Thus हनिष्यते, घानिष्यते, एष्यते or आयिष्यते, अध्येष्यते or अध्यायिष्यते ॥ The substitutes वध or गा (2.4.42), (2.4.43), (2.4.45), (2.4.50) do not come according to the *Kasika*, when these roots are treated as चिण् ॥ Bhashya ------- स्यसिच्सीयुट्तासिषु भावकर्मणोरुपदेशेऽज्झनग्रहदृशां वा चिण्वदिट् च (3060) (भावकर्मणोर्विषये पक्षद्वयोपस्थापकं भाष्यम्) (चिण्वद्भावाधिकरणम्) कथमिदं विज्ञायते भावकर्मणोर्ये स्यादय इति, आहोस्विद्भावकर्मवाचिनि परतो ये स्यादय इति ? किञ्ञ्चातः ? यदि विज्ञायते - भावकर्मणोर्ये स्यादय इति, सीयुट् विशेषितः, स्यसिचूतासयोऽविशेषिताः । अथ विज्ञायते - भावकर्मवाचिनि परतो ये स्यादय इति, स्यसिच्तासयो विशेषिताः, सीयुडविशेषितः । उभयथा चिण्वद्भावोऽविशेषितः ॥ यथेच्छसि तथास्तु । (प्रथमपक्षे दोषवारकभाष्यम्) अस्तु - भावकर्मणोर्ये स्यादय इति । ननु चोक्तं - सीयुट् विशेषितः, स्यसिच्तासयोऽविशेषिता इति । स्यसिच्तासयश्च विशेषिताः । कथम् ? भावकर्मणोर्यग्भवतीत्यत्र स्यादयोऽप्यनुवर्तिष्यन्ते ॥ (द्वितीयपक्षे दोषवारकभाष्यम्) अथवा पुनरस्तु - भावकर्मवाचिनि परतो ये स्यादय इति । ननु चोक्तं - स्यसिच्तासयो विशेषिताः, सीयुडविशेषित इति । सीयुट् च विशेषितः । कथम् ? भावकर्मवाचिनि परतः सीयुट् नास्तीति कृत्वा भावकर्मवाचिनि सीयुटि कार्यं विज्ञास्यते ॥ (इट्संबन्धिनिर्णयोपक्रमभाष्यम्) अथ इट् च इत्युच्यते, कस्यायमिट् भवति ? अङ्गस्येति वर्तते । यद्येवमङ्गस्यादित इट् प्राप्नोति, अडाड्वत् । तद्यथा - अडाटौ टित्त्वादादितो भवतः ॥ (इट्संबन्ध्याक्षेपभाष्यम्) एवं तर्हि स्यादीनां भविष्यति । एवमपि षष्ठ्यभावान्न प्राप्नोति । ननु च भावकर्मणोः इत्येषा षष्ठी । नैषा षष्ठी । किं तर्हि ? अर्थनिर्देश एवासौ सप्तमी - भावे चार्थे कर्मणि चेति ॥ (इट्संबन्धिसाधकभाष्यम्) एवं तर्हि भावकर्मणोः इत्येषा सप्तमी स्यादिष्विति सप्तम्याः षष्ठीं प्रकल्पयिष्यति तस्मिन्निति निर्दिष्टे पूर्वस्य (1.1.66) इति । एवमपि न सिध्यति । किं कारणम् ? न ह्यर्थेन पौर्वापर्यमस्ति । अर्थेऽसम्भवाद्भावकर्मवाचिनि शब्दे कार्यं विज्ञास्यते ॥ (आक्षेपभाष्यम्) एवमपि सीयुटो न प्राप्नोति ॥ (योगविभागेनाक्षेपनिवारकभाष्यम्) एवं तर्हि सप्तमे योगविभागः करिष्यते - आर्धधातुकस्येट् यावानिण् नाम स सर्व आर्धधातुकस्य भवतीति विज्ञेयम् । ततः - वलादेः, वलादेरार्धधातुकस्येट् भवतीति ॥ (योगविभागाक्षेपभाष्यम्) यद्येवम्, स्यसिच्सीयुट्तासिष्विट् भवति, चिण्वद्भावश्चाविशेषितो भवति । तत्र को दोषः ? स्यसिच्सीयुट्तासिष्विट् भवति, अज्झनग्रहदृशां वा चिण्वदिति क्वचिदेव चिण्वद्भावः स्यात् ॥ (अनुवृत्त्याऽऽक्षेपनिरासभाष्यम्) एवं तर्हि स्यादीनेवात्रापेक्षिष्यामहे । स्यसिच्सीयुट्तासिष्विट् भवति, अज्झनग्रहदृशां वा चिण्वत्स्यादिष्विति ॥ (इडुद्देश्यतावच्छेदकाक्षेपभाष्यम्) के पुनरिममिटं प्रयोजयन्ति ? येऽनुदात्ताः । अथ ये उदात्तास्तेषां कथम् ? सिद्धं तेनैव परत्वात् ॥ (समाधानभाष्यम्) उदात्तेभ्योऽपि अनेनैवेडेषितव्यः । किं प्रयोजनम् ? कारयतेः कारिष्यते । हारिष्यते । इटोऽसिद्धत्वात् णेरनिटि (6.4.51) इति णिलोपो यथा स्यात् ॥ (प्रत्याक्षेपभाष्यम्) कथं पुनरिच्छता भवता उदात्तेभ्योऽनेनैवेट् लभ्यः, न पुनरनेनास्तु तेनेति - तेनैव स्याद्विप्रतिषेधेन । (समाधानभाष्यम्) नित्योऽयम् । कृतेऽपि तस्मिन् प्राप्नोत्यकृतेऽपि । न त्वस्मिन् कृते स प्राप्नोति । किं कारणम् ? अवलादित्वात् । तस्मादनेनैवेडेषितव्यः ॥ (सूत्रप्रयोजनोपन्यासभाष्यम्) कानि पुनरस्य योगस्य प्रयोजनानि ? (प्रयोजने श्लोकवार्तिकम्) वृद्धिश्चिण्वद्युक्व हन्तेश्च घत्वं दीर्घश्चोक्तो यो मितां वा चिणीति ॥ वृद्धिः प्रयोजनम् । चेष्यते, चायिष्यते ॥ युक् प्रयोजनम् । ग्लास्यते, ग्लायिष्यते ॥ हन्तेश्च घत्वं प्रयोजनम् । हनिष्यते । घानिष्यते ॥ दीर्घश्चोक्तो यो मितां वा चिणीति, स च प्रयोजनम् । शमिष्यते । शामिष्यते । तमिष्यते । तामिष्यते ॥ (प्रयोजने श्लोकवार्तिकम्) इट् चासिद्धस्तेन मे लुप्यते णिर्नित्यश्चायं वल्निमित्तो विघाती ॥ इटोऽसिद्धत्वात् णेरनिटि (6.4.51) इति णिलोपो यथा स्यात् । कथमयं नित्यः ? कृताकृतप्रसङ्गित्वात् । कृताकृतप्रसङ्गी ह्ययम् । कृतेऽपि तस्मिन्निटि साप्तमिके आर्धधातुकस्येड्वलादेः (7.2.35) इति, पुनरनेनायं भवति । अस्मिंस्तु विहिते वलादित्वस्य निमित्तस्य विहतत्वात्साप्तमिको न भवति । निमित्तं विहितं भवति । अयं तस्य निमित्तं विहन्ति तस्मादयं नित्यः । स तु अस्य निमित्तं न विहन्ति ॥ (पदकृत्यभाष्यम्) अथोपदेशग्रहणं किमर्थम् ? (6560 उपदेशपदप्रयोजनवार्तिकम् ॥ 1 ॥) - चिण्वद्भाव उपदेशवचनमृकारगुणबलीयस्त्वात् - चिण्वद्भावे उपदेशवचनं क्रियते, ऋकारगुणस्य बलीयस्त्वात् । कारिष्यते । परत्वात् गुणे रपरत्वे चानजन्तत्वात् चिण्वद्भावो न प्राप्नोति, उपदेशग्रहणाद्भवति ॥ (6561 विप्रतिषेधवार्तिकम् ॥ 2 ॥) - वधिभावात्सीयुटि चिण्वद्भावो विप्रतिषेधेन - वधिभावात्सीयुटि चिण्वद्भावो भवति विप्रतिषेधेन । वधिभावस्यावकाशः - वध्यात्, वध्यास्ताम्, वध्यासुः । चिण्वद्भावस्यावकाशः -घानिष्यते, अघानिष्यत । इहोभयं प्राप्नोति - घानिषीष्ट, घानिषीयास्ताम् । चिण्वद्भावो भवति विप्रतिषेधेन ॥ अथेदानीं चिण्वद्भावे कृते पुनः प्रसङ्गविज्ञानाद्वधिभावः कस्मान्न भवति ? सकृद्गतौ विप्रतिषेधे यद्वाधितं तद्बाधितमेवेति कृत्वा ॥ (6562 आक्षेपवार्तिकम् ॥ 3 ॥) - हनिणिङादेशप्रतिषेधश्च - हनिणिङादेशानां प्रतिषेधो वक्तव्यः । हनिष्यते, घानिष्यते । एष्यते, आयिष्यते । अध्येष्यते, अध्यायिष्यते । लुङीति हनिणिङादेशाः प्राप्नुवन्ति ॥ (6563 समाधानवार्तिकम् ॥ 4 ॥) - अङ्गस्येति तु प्रकरणादाङ्गशास्त्रातिदेशात्सिद्धम् - अङ्गस्य यत्कार्यं तत्प्रतिनिर्दिश्यते । न च हनिणिङादेशा आङ्गा भवन्ति ते ॥ Kashika ------- स्य सिच् सीयुट् तासि इत्येतेषु भावकर्मविषयेषु परत उपदेशेऽजन्तानामङ्गानां हन् ग्रह दृश् इत्येतेषां च चिण्वत् कार्यं भवति वा। यदा चिण्वत् तदेडागमो भवति। कस्य? स्यसिच्सीयुट्तासीनामेवेति वेदितव्यम्। ते हि प्रकृ ताः। अङ्गस्य तु लक्ष्यविरोधाद् न क्रियते। कानि पुनरस्य योगस्य प्रयोजनानि ? चिण्वद् वृद्धिर्युक्च हन्तेश्च घत्वं दीर्घश्चोक्तो यो मितां वा चिणीति। इट् चासिद्धस्तेन में लुप्यते णिर्नित्यश्चायं वल्निमित्तो विघाती॥ अजन्तानां तावत् — चायिष्यते, चेष्यते। अचायिष्यत, अचेष्यत। दायिष्यते, दास्यते। अदायिष्यत, अदास्यत। शामिष्यते, शमिष्यते, शमयिष्यते। अशामिष्यत, अशमिष्यत, अशमयिष्यत। हन् — घानिष्यते, हनिष्यते। अघानिष्यत, अहनिष्यत। ग्रह — ग्राहिष्यते, ग्रहीष्यते। अग्राहिष्यत,अग्रहीष्यत। **ग्रहोऽलिटि दीर्घः** (७.२.३७) इति प्रकृतस्येटो दीर्घत्वम्। दृश् — दर्शिष्यते, द्रक्ष्यते। अदर्शिष्यत, अद्रक्ष्यत। सिच्यजन्तानाम् — अचायिषाताम् अचेषाताम्। अदायिषाताम्, अदिषाताम्। अशामिषाताम्, अशमिषाताम्, अशमयिषाताम्। हन् — अघानिषाताम् ,अवधिषाताम्,अहसाताम्। ग्रह — अग्राहिषाताम्,अग्रहीषाताम्। दृश — अदर्शिषाताम्, अदृक्षाताम्। सीयुट्यजन्तानाम् — चायिषीष्ट, चेषीष्ट। दायिषीष्ट, दासीष्ट। शामिषीष्ट। शमिषीष्ट, शमयिषीष्ट। हन् — घानिषीष्ट ,वधिषीष्ट।ग्रह — ग्राहिषीष्ट,ग्रहीषीष्ट। दृश् — दर्शिषीष्ट,दृक्षीष्ट। तासावजन्तानाम् — चायिता,चेता। दायिता,दाता। शामिता,शमिता,शमयिता। हन् — घानिता, हन्ता। ग्रह — ग्राहिता,ग्रहीता। दृश् — दर्शिता, द्रष्टा। स्यसिच्सीयुट्तासिष्विति किम् ? चेतव्यम्। दातव्यम्। भावकर्मणोरिति किम्? चेष्यति। दास्यति। उपदेश इति किम्? कारिष्यत इति गुणे कृते रपरत्वे च न प्राप्नोति, उपदेशग्रहणाद् भवति। अज्झनग्रहदृशामिति किम्? पठिष्यते। अङ्गाधिकारविहितं कार्यमिहातिदिश्यते । तेन हनिणिङामादेशा न भवन्ति। हनिष्यते,घानिष्यते। एष्यते, आयिष्यते। अध्येष्यते, अध्यायिष्यते। **हनो वध लिङि**, **लुङि च** (२.४.४२,४३), **इणो गा लुङि** (२.४.४५), **विभाषा लुङ्ऌङोः** (२.४.५०) इत्येते विधयो न भवन्ति ॥ Siddhanta Kaumudi ----------------- उपदेशे योऽच् तदन्तानां हनादीनां च चिणीवाङ्गकार्यं वा स्यात्स्यादिषु परेषु भावकर्मणोर्गम्यमानयोः स्यादीनामिडागमश्च । अयमिट् चिण्वद्भावसन्नियोगशिष्टत्वात्तदभावे न । इहार्धधातुक इत्यधिकृतं सीयुटो विशेषणं नेतरेषामव्यभिचारात् । चिण्वद्भावाद्वृद्धिः । भाविता । भविता । भाविष्यते । भविष्यते । भूयताम् । अभूयत । भूयेत । भाविषीष्ट । भविषीष्ट ॥ Laghu Siddhanta Kaumudi ----------------------- उपदेशे योऽच् तदन्तानां हनादीनां च चिणीवाङ्गकार्यं वा स्यात्स्यादिषु भावकर्मणोर्गम्यमानयोः स्यादीनामिडागमश्च। चिण्वद्भावपक्षेऽयमिट्। चिण्वद्भावाद् वृद्धिः। भाविता, भविता। भाविष्यते, भविष्यते। भूयताम्। अभूयत। भाविषीष्ट, भविषीष्ट॥ Balamanorama ------------ **स्यसिच्सीयुट्तासिषु भावकर्मणोर्- उपदेशेऽज्झनग्रहदृशां वा चिण्वदिट् च** - स्यसिच् । अच् हन ग्रह दृश् एषां द्वन्द्वात्षष्ठी । उपदेश इत्च एव विशेषणम्, नेतरेषाम्, अव्यभिचारात् । तदाह - उपदेशे योऽजिति । 'अ' जित्यस्यं उपदेशान्वयित्वेऽपि सौत्रः समासः ।अ॑जिति लुप्तषष्ठीकं वा ।चिण्व॑दिति सप्तम्यन्ताद्वनतिः,स्यसिच्सीयुट्तासिष्वि॑त्युपमेयतः सप्तमीदर्शनात् । तदाह — चिणीवेति । अङ्गकार्यमिति । अङ्गस्येत्यधिकृतत्वादिति भावः ।भावकर्मवाचिषु स्यादिष्वि॑ ति नार्थः,सीयुटो लिङागमतया भावकर्मवाचित्वेऽपि स्यसिच्तासीनां भावकर्मवाचित्वाऽभावात् । नापिभावकर्मवाचिनि प्रत्यये परे ये स्यादयस्तेष्वि॑त्यर्थः, स्यसिच्तासीनां भावकर्मवाचिप्रत्ययपरत्वसंभवेऽपि सीयुटस्तदसंभवात् । सीयुडागमविशिष्टस्यैव लिङो भावकर्मवाचितया केवलसीयुटो न भावकर्मवाचिप्रत्ययपरकत्वमस्ति । अतो विषयसप्तमीति मत्वाऽऽह — स्यादीनामिडागमश्चेति । अत्र अज्झनग्रहदृशां, स्यादीनां च न यथासङ्ख्यं, व्याख्यानात् ।स्यादिषु परेषु अङ्गस्य इ॑ डिति नार्थः,आर्धधातुकस्येड्वलादे॑ रित्यत्र 'आर्धधातुके' इति योगं विभज्ययावानिट् स आर्धधातुकस्यैवे॑ति भाष्ये उक्तत्वात् । चिणि यदङ्गाधिकारविहितं कार्यं तस्यैवात्रातिदेशो, न तु चिणि दृष्टमात्रस्य । तेन 'घानिष्यते' इत्यत्रहनो वध लिङि, लुङि चे॑ति चिणि दृष्टो वधादेशश्चिण्वदिति नातिदिश्यते, तस्य द्वैतीयीकत्वेन अङ्गाधिकारविहितत्वाऽभावात् । तथा आयिष्यते इत्यत्र इणो गादेशो न । 'अध्यायिष्यते' इत्यत्र इङो गाङादेशो न , द्वैतीयीकत्वात् । चिण्वत्त्वाऽभावे अयमिण्नेत्याह — अयमिडिति । सेट्कस्य वलादित्वलक्षण इट् तु स्यादेवेति भावः । ननु भूयेतेति विधिलिङि चिम्वत्वम् इट् च स्यातामित्यत आह — इहार्धधातुके इति । नेतरेषामिति । स्यसिच्तासीनां न विशेषणमित्यर्थः । अव्यभिचारादिति । स्यसिच्तासीनां सर्वत्राऽऽर्धधातुकत्वनियमादिति भावः । अत्र वार्तिकम् — चिण्वद्वृद्धिर्युक्च हन्तेश्च घ्तवं दीर्घश्चोक्तो यो मितां वा चिणीति । इट्वाऽसिद्धस्तेन मे लुप्यते णिर्नित्यश्चायं वल्निमित्तो विघाती॥॑ इति । स्यसिच्सीयुडिति सूत्रस्य वृद्ध्यादि प्रयोजनमित्यर्थः । तत्र वृदिंध दर्शयति — चिण्वद्भावाद्वृद्धिरिति । लुटि भू ता इति स्थिते चिण्वत्त्वात्अचोऽञ्णिती॑ति वृद्धिरित्यर्थः । इडागमश्चेत्यपि बोध्यम् । तत्फलं तु वक्ष्यते । तथा दाधातोर्लुटि 'आतो युक् चिण्कृतो' रिति युक् । तथा लृटि 'घानिष्यते' इत्यत्रहोहन्तेर्ञ्णिन्नेषु॑ इति घत्वम् । शमेर्हेतुमण्ण्य्नताल्लुटि — शामिता शमितेत्यत्रचिण्णमुलो॑रिति वा दीर्घः । तथा अनेनैवाऽत्र इटि कृते तस्य आभीयत्वेनाऽसिद्धत्वादनिटीति निषेधाऽभावाण्णिलोपः । तथा 'भाविष्यते' इत्यत्र भू-स्य इति स्थिते परमपि वलादिलक्षणं इटं बाधित्वा नित्यत्वादनेन इट्, वल्निमित्ते इटि कृतेऽकृते च चिण्वदिटः प्रवृत्त्या कृताऽकृतप्रसङ्गित्वात् । वलादिलक्षणस्त्विण्न नित्यः, चिण्वदिटि कृते वलादित्वस्य विहतत्वेन वलादिलक्षमस्य इटोऽप्रवृत्तेः । नित्यश्चायमित्यस्यचिण्वदि॑डिति शेषः ।वल्निमित्त इत्यनन्तरम्इडनित्य इत शेषः । अनित्यत्वे हेतुः — विघातीति । चिण्वदिटो वलादिनिमित्तविघातकत्वादित्यर्थः । एवं च सेट्कत्वेऽप्यनेनैव इट् । एतदभावपक्षे तु सेट्कत्वे वलादिलक्षण इडिति बोध्यम् । तदाह — भवितेति । चिण्वदिडभावपक्षे वलादिलक्षण इडिति भावः । Tattvabodhini ------------- **स्यसिच्सीयुट्तासिषु भावकर्मणोर्- उपदेशेऽज्झनग्रहदृशां वा चिण्वदिट् च** - स्यसिच्सीयुट्तासिषु । यद्यप्यजादयो द्वन्द्वेन निर्दिष्टास्तथाप्युपदेश इत्यच एव विशेषणं न हनादीनाम्, अव्यभिचारात्तदाह — उपदेशेयोऽजिति ।उपदेशे अजन्ताना॑मिति न व्याख्यातम् । तथाहि सति णिजन्तस्य न स्यात्, तस्योपदेशाऽभावात् । उपदेशो हि साक्षादुच्चारण् । न च ण्यन्तस्य तदस्ति । चिण्वदिति सप्तम्यन्ताद्वतिः, ॒स्यसिच् सीयुट् तासिषु॑इति प्रतियोगिनिसप्तमीनिर्देशादतो व्याचष्टे -चिणीवेति । ननु च चिणि दृष्टमात्रस्य वृद्ध्यादिकार्यस्याऽतिदेशे घानिष्यते आयिष्यते अध्यायिष्यते इत्यत्र हनोवधादेशः,इणो गादेशः,इङो गाङादेशोऽपिस्यादिति चेत् । मैवम् । अङ्गाधिकारबलेन आङ्गस्यैव कार्यस्यातिदेशात् । न चैते हनिणिङादेशा आङ्गाः, तदेतदाह — अङ्गकार्यं वा स्यादिति । सीयुट इति । तथा च सीयुट् शब्देन तद्विशिष्टं लक्ष्यत इति भावः । आर्धधातुकं इत्यनेन व्यावर्त्त्यस्तु विधिलिङ् । तेन भूयेतेत्यत्र न भवति । न चाऽत्रलिङः सलोपः॑ इति सलोपाद्वलादित्वं नास्तीति वाच्यं, तस्येहानपेक्षणात् । यदाहुः — चिण्वद्वृद्धिर्युक्च हन्तेश्च घत्वं दीर्घश्चोक्तो यो मितां वा चिणीति । इट् चाऽसिद्धस्तेन मे लुप्यते णिर्नित्यश्चायं वल्निमित्तो विघाती ।॑ इति । अस्यार्थः — चिण्व॑ दित्यतिदेशस्य वृद्ध्यादिकं प्रयोजनम् । तथा हिभाविता॑भाविष्यते॑ इत्यादौ वृद्धिः ।दायिता॑दायिषीष्टे॑ इत्यादौ युक्,घानिता॑ घानिष्यते॑ इत्यादौ घत्वम् । हेतुमण्ण्यन्तात्कर्मणिल लकारेशामिता॑शमिता॑शामिष्यते॑शमिष्यते॑ इत्यादौ चिण्णमुलोरिति, मितामुपधाया वा दीर्घः । अत्रैव श#आमितेत्यादौस्यसिच्सीयु॑डित्यनेन कृत इट् आभीयत्वेनाऽसिद्धः, तेनाऽनिटीति निषेधो न प्रवर्तत इति णेर्लोपो भवति ।भाविष्यते॑ इत्यादौ भू — स्य इति स्थिते परमपि वलादिलक्षणमिटं बाधित्वा चिण्वदिडेव भवति । यतोऽयं नित्यः । विल्नमितो विघाती त्वनित्यः । साप्तमिके तस्मिन्कृतेऽयं चिण्वदिड्भवति । अस्मिन्कृते तु स न भवति । वलादिनिमित्तस्य विहितत्वात् । एवं च नित्यत्वात्सेड्भयोऽप्यपयमेवेड्भवति । एतदभावपक्षे तु सेड्भयो वलादिलक्षण इड्भवतीति बोध्यम् । Padamanjari ----------- चिणीव चिण्वत्, तत्र तस्येव इति सप्तमीसमर्थाद्वतिः, स्यसिच्सीयुट्तासिषु इति प्रतियोगिनि सप्तमीनिर्द्देशात्, यथा - मथुरावत्पाटलिपुत्रे प्रासाद इति । भावकर्मविषयेष्विति । अनेन भावकर्मणोः इति वषयसप्तमीति दर्शयति । भावकर्मणोर्ये स्यादयो वर्तन्ते तेष्वति तु विज्ञायमाने सीयुडेको विशेषितः स्यात्, स्यादयो न विशेषिताः स्युः भावकर्मणोर्लादेशवाच्यत्वात्सीयुटश्च विशेषितः स्यात्, स्यादयो न विशेषिताझ स्युः भावकर्मणोर्लादेशवाच्यत्वात्सीयुटश्च तद्भक्तत्वात् । अथ यदाबावकर्माभिधायी प्रत्ययो भावकर्मशब्दाभ्यामभिधीयते, तदायमर्थः स्यात् - भावकर्मवाचिनि प्रत्यये परतो ये स्यादय इति । तदा स्यादयो विशेषिताः, सीयुडविशेषितः, न हि तद्भक्तस्य तेन सह पौर्वापर्यं सम्भवति । तस्मात्सर्वानुग्रहाय विषयसप्तम्येव युक्ता । यदा चिण्वतदेचडागमो भवतीति । चकारस्य सन्नियोगार्थत्वात् । कस्येति । षष्ठीनिद्दिष्टस्यागमो भवति, स्यादयश्च सप्तमीनिर्द्दिष्टाः, अज्झनग्रहदृशाम् इति षष्ठीनिर्द्दिष्टम्, अङ्गस्य इति च वर्तते, अतोऽजन्तादीनामङ्गानामेवागामित्वं युक्तमिति विपर्ययं मन्यमानस्य प्रश्नः । स्यसिच्सीयुट्तासीनामेवति । कथम् इत्याह ते हि प्रकृता इति । सन्निहिता इत्यर्थः । नन्वङ्गमपि प्रकृतं योग्यविभक्तिकं च तत्राह - अङ्गस्य त्विति । लक्ष्यविरोधादिति । यद्वा - सप्तमे योगविबागः क्रियते, आर्धधातुकस्येट्, परिभाषेयम्, यो यावान्कश्चिदिडागमः स सर्व आर्धधातुकस्यैव द्रष्टव्यः, तेनायमपीडागमः स्यादीनामेव भवति, नाङ्गस्य । कानि पुनरिति । चिणि यदेवाहत्य विहितं तदेवातिदिश्यते, आहोस्वित् चिणि दृष्टमात्रमिति प्रश्नः । तत्र द्वितीयः पक्ष आश्रीयत इति श्लोकेन दर्शयति - चिण्वद्वद्धिरिति । यथा चिणि वृद्धिः तथा स्यादिष्वपीष्यते - घानिष्यते । एतदेकं प्रयोजनम्, एवमुतरत्रापि । प्रत्येकं सम्बन्धेन यथायोगमतिदेशो योज्यः। दायिष्यत इति, आतो युक् चिण् कृतोः इति युक्, एतच्चिण्याहत्य विहितम् । यच्च हो हन्तेर्ञ्णिन्नेषु इति कुत्वमघानीत्यत्र दृष्टम्, तदपि दीर्घविकल्पविधानं तदपि प्रयोजनम् । एतदपि चिण्याहत्य विहितम् - शमिष्यते,शामिष्यत इति शमेर्णिचि मितां ह्रस्वं लृटि स्ये चिण्वद्भावेन दीर्घविकल्पः, तणेरनिटि इति णिलोपः । नन्वनिटीत्युच्यते, सेट् चायमत आह - इट् चासिद्ध इति । आ भाच्छास्त्रीये णिलोपे कर्तव्ये आ भाच्छास्त्रीयश्चिण्वदिडसिद्धः, तेनानिडादित्वात्सिद्धो णिलोप इत्यर्थः । मे इति । सूत्रकारायमाण्सय् वचनम् । ननु चास्य चिण्वदिटोऽवकाशः येऽनिटः, येषु ऋद्धनोः स्ये इत्यादि प्रतिपदविधानं नास्ति आर्द्धधातुकस्येत्यस्यावकाशः सेह् योऽस्य विषयो न बवति यस्तु सेडस्य च सूत्रस्य विषयः, तत्र परत्वात् आर्धधातुकस्येड्वलादेः इत्ययमेव प्राप्नोति, तत्कथमसिद्धत्वमत आह - नित्यश्चायमिति । अयं चिण्वदिण्णिनत्यः, कृतेऽपि वलादिलक्षण इट् प्राप्नोति, अकृतेऽपि, न ह्ययं वलादित्वमबेक्षते । अस्मिंस्तु कृते वलादिलक्षण इण्न प्राप्नोति, तस्माद् वल्निमित इडनित्यः । विधातः - निमिताभावादप्रवृत्तिः, सोऽस्यास्तीति वधाती । तदेवं नित्यत्वात्सेड्भ्योऽप्यनेनैवैड् भवति, अयं चासिद्धैति न भवति णिलोपाभावदोषः । अवश्यं चानेनैव सेड्भ्योऽपीडेष्टव्यः अन्यथा एतदिट्सन्नियुक्तश्चिण्वद्भावोऽपि न स्यात् । न च शब्दान्तरप्राप्तेरस्याप्यनित्यत्वमाकृतिपक्षे शब्दान्तरत्वाभावात् । प्रकृतस्येटो दीर्घत्वमिति । वलादिलक्षणस्य प्रकृतत्वात् । गुणे कृत इति । परत्वान्नित्यत्वाच्च । उपदेशग्रहणाद् भवतीति । यद्यपि करोतिरुतरकालमनजन्तः, उपदेशे त्वजन्त एव । यदि चिणि दृष्टमात्रस्यातिदेशः, हनिणिङदेशा अपि प्राप्नुवन्ति, तेषामपि तत्र दृष्टत्वात् अत आह - अङ्गाध्कारविहितमिति । अङ्गस्येति प्रकृत्य यद्धिहितं चिणि दृष्ट्ंअ तदेवातिदिश्यते, सन्निहतत्वात् । न च हनिणिङमादेशा एवंविधा इति तेषामनतिदेशः । अत्र वातिकम् - वधाभावात्सीयुटि चिण्वद्भावो विप्रतिषेधेन इति । वधभावस्यावकाशः - वध्यात्, वध्यास्ताम्, वध्यासुः, चिण्वद्भावे हन्ग्रहणस्यावकाशः - धानिष्यते, अधानिष्यत, अधानिषाताम्, अघानिषत, घानिषीष्टेत्यत्रोभयप्रसङ्गे चिण्वद्भावो भवति विप्रतिषेधेन । अथेदानीं चिण्वद्भावे पुनः प्रसङ्गविज्ञानाद् वधादेशः कस्मान्न भवति सकृद्गतौ विप्रतिषेधे यद्वाधितं तद्वाधितं तद्वाधितमेवेति । ननु द्वितीयाध्याये, तत्र आर्धधातुके इति वष्यसप्तमी, ततः किमन्तरङ्गो वधभावः नैतदस्ति लिङीति विशेषणिर्द्देशात्परसाप्तमी । यत्र तु विशेषणिर्देशाभावः - अस्तेर्भूः इत्यादौ, तत्रैव विषयसप्तमी भव्यादिसिद्धये ॥ Nyaas ----- `स्यसिच्सीयुट्तासिषु` इति सप्तम्या प्रतियोगिनो निर्देशाच्चिणीव चिण्वदिति सप्तमीसमर्थाद्वतिर्विज्ञायते, यथा -मथुरावत्? पाटलिपुत्रे प्रकार इति। `भावकर्मविषयेषु` इति। अनेन `भावकर्मणोः इत्यस्य विषयसप्तमीत्वं दर्शयति। भावकर्मणी विषयौ येषान्ते तथोक्ताः के पुनः स्यादयो भावकर्मविषयाः? ये स्यादयो लादेशेन भावकर्मणोर्विवक्षितयोर्भवतन्ति। चकारोऽत्र सन्नियोगार्थः क्रियते। तेन यदा चिण्वद्भावो इत्यादि। `कस्य` इति। षष्ठीनिर्दिष्टस्य ह्रागमा भवन्ति, स्यादयश्चेह सप्तम्या निर्दिष्टाः; न चान्य आगमीश्रूयत इति प्रश्नः। यद्यपि ते सप्तम्या निर्दिष्टाः, न चान्य आगमी श्रूयत इति प्रश्नः। यद्यपि ते सप्तम्या निर्दिष्टाः, तथापि यथा **हनश्च वधः** (3.3.76) इति पञ्चमी निर्दिष्टोऽपि हन्तिः प्रत्ययमुत्पाद्यदेशेन सम्बन्धमनुभवन्? षष्ठन्ततां प्रतिपद्यते तथा स्यादयोऽपि यदागमेन सम्बन्धमनुभवन्ति तदा षष्ठन्ततां प्रतिपद्यन्त इत्यभिप्रायेणाह -`स्यसिच्` इत्यादि। अत्रैव हेतमाह -`ते हि प्रकृताः` इत्यादि। इडयमागमलिङ्गः, तस्यावश्यमागमिना भवितव्यम्, तत्? किमश्रुतानामागमित्वं परिकल्प्य, तस्यैव विधीयतामुत प्रकृतानामेव स्यादीनाम#इति? युक्तं यत्? प्रकृतानामेव विधीयते; अश्रुतप्रकल्पनाया गरीयस्त्वात्। ननु चाङ्गमपि प्रकृतम्, तस्य कस्मान्न क्रियते? इत्यत आह -`अङ्गस्य` इत्यादि। अङ्गस्य न क्रियते, लक्ष्यविरोधात्। यद्यङ्गस्य स्यात्, तदेटि कृते लक्ष्यावरधादनिष्टं स्यात्। न ह्रनण्टार्था शास्त्रे प्रकॢप्तिरयुक्ता। तस्मान्मा भूल्लक्ष्यविरोध इति यद्यप्यङ्गमपि प्रकृतम्, तथापि स्यादीनामेव क्रियते, नाङ्गस्य। इह द्वौ पक्षौ सम्भवतः -चिण्निमित्तं यत्कार्यं, यदाहत्य चिणि विधीयते तद्वातिदिश्यते। यद्वा चिणियद्दृष्टं चिण्णिमत्तमचिण्णिमित्त्ञ्च तत्? सामान्येन। तत्र यदि पर्वकः पक्ष आश्रीयेत, तदा `आतो युक्? चिण्कृतोः` (7.3.33) इति युगागमः। `विण्णमुलोर्दोर्घोऽन्यतरस्याम्` (6.4.93) इति दीर्घत्वञ्च -एते द्वे एवाङ्गकार्येऽतिविश्ये स्याताम्। नान्यात्? वृद्ध्यादिकम्, न हि तदाहत्य चिणि विधीयते। आहत्य=उच्चार्येत्यर्थः। यद्धि साक्षाच्चिणं निमित्तमुपादाय विधीयते तच्चिण्याहत्य विधीयते, न चैवं वृद्ध्यादिकं विधीयते। अथ द्वितीयस्ततो न भवत्येष दोषप्रसङ्गः; वृद्ध्यादीनामपि चिणि दृष्टत्वात्। यदि चिणि यद्दृष्टं तदतिदिश्यते, तर्हि हनिणिङामादेशा अपि प्राप्नुवन्ति, तेषामपि तत्र दृष्टत्वादिति? अनेनाभिप्रायेणाह -`कानि पुनः` इत्यादि। द्वितीये पक्षे यो दोषस्तमुत्तरत्र परिहरिष्यामीति चेतसि कृत्वा चिणि यद्दृष्टं कार्यं तन्निमित्तमितरद्वा तदिह सामान्येन निर्दिश्यत इति दर्शयन्नस्य योगस्य यानि प्रयोजनानि तेषां संग्रहश्लोकसमाह -`वृद्धिश्चिण्वत्` इत्यादि। `चायिष्यते` इत्यत्र वृद्धिः प्रयोजनम्। चिनोतेर्लुट्, स्यप्रगतययः। **भावकर्मणोः** (1.3.13) इत्यात्मनेपदम्, अत्रेदानीं चिण्वद्भावाद्? वृद्धिर्भवति यथा -चिणि **अचो ञ्णिति** (7.2.115) इति वृद्धिर्भवत्य चायीति, एवमुत्तरत्रापि चिण्वदित्येतस्य प्रत्येकमभिसम्बन्धं कृत्वा यथायोगमतिदेशो योजनीयः। `अचायिष्यते` इति। लुङः, शेषं पूर्ववत्। युक्? च प्रयोजनम् -`दायिष्यते` इत्यत्र। दीर्घश्चोक्तो यो मितां वा चिणोति स च। प्रयोजनं शमिष्यते, शामिष्यत इत्यत्र। शमेः `जनिजृष्क्नसुरञ्जोऽमन्ताश्च` (धातुपाठः-817) इति मित्संज्ञा, स च ण्यन्तः **सनाद्यन्ता धातवः** (3.1.32) इत्यत्रोपदिष्ट इत्युपदेशेऽजन्तो भवति। यत्तु हन्तेः `हो हन्तेञ्चिन्नेषु` (7.3.54) इति कुत्वं विधास्यते, तच्च प्रयोजनं `घानिष्यते` इत्यत्र। हनिष्यत इत्यत्र तु **ऋद्धनोः स्ये** (7.2.70) इतीट्। सन्त्येतानि प्रयोजनानि, किन्त्वनेनेटि कृते शमिष्यते, शमिष्यत इत्यत्र **णेरनिटि** (6.4.51) इति णिलोपो न सिद्ध्यतिः सेट्त्वात्। अत आह -`इट्? चासिद्धः` इत्यादि। `असिद्धवदत्रा भात्` (6.4.22) इत्यसिद्धेऽयं चिण्वदिट्, तेन णिलोपो भविष्यति। स्यादेतत् -येऽनुदात्तोपदेशाश्चिनोत्यादयस्तेभ्यः परेषां स्यादीनामनेनेङ्विधीयत इति युक्तमसिद्धत्वम्, ये तूदात्तोपदेशाः शमिप्रभृतयस्तेम्यः परत्वात्? `आर्धधातुकस्येङ्वलादेः` (7.2.35) इति वल्निमित्तेनेटा भवितव्यम्, स च सिद्ध एव; तस्मस्तु तदवस्थ एव दोषः? इत्यत आह -`नित्यश्चायम्` इत्यादि। कृताकृतप्रसङ्गी यो विधिः स नित्यः -इत्येतदाश्रित्यायं चिण्वदिण्नित्यः। कृतेऽपि हि वलादित्वस्य विहितत्वात्। `वल्निमित्तो विधाती` इति। वल्? निमित्तं कारणं यस्य स तथोक्तः। विघातोऽस्यास्तीति विघाती। विघातः=निमित्ताभावादप्रवृत्तिः। तदेवं नित्यत्वादुदात्तेभ्योऽप्यनेनैव चिण्वदिटा भवितव्यम्, अयञ्चासिद्ध इति न भवति णिलोपाभावप्रसङ्गः। `ग्राहिष्यते` इति। **अत उपधायाः** (7.2.116) इति वृद्धिः प्रयोजनम्। अथेह **ग्रहोऽलिटि दीर्घः** (7.2.37) इति दीर्घः कस्मान्न भवति? इत्याह -`ग्रहोऽलिटि` इत्यादि। वलादिलक्षणस्तत्रेट्? प्रकृत इति तस्यैव दीर्घो विज्ञायते, नान्यस्य। `द्रक्ष्यते` इति। `सृजिदृशोर्झल्यमकिति (6.1.57) इत्यमागमः, व्रश्चादिना (8.2.36) षत्वम्? `षङोः कः सि` (8.2.41) इति कत्वम्? `इण्कोः (8.3.57) इति षत्वम्। `दर्शिष्यते` इति। `पुगन्तलघूपधस्य` (7.3.86) इत्यनेनात्र गुणः सिद्ध्यत्येव। इडर्थस्तु चिण्वद्भावो विधीयते। `अचेषाताम्` इति। आताम्, सिचि रूपम्। `अदिषाताम्` इति। `स्थाध्वोरिच्च` (1.2.17) इतीत्त्वम्, सिचश्च कित्वम्। `अवधिषाताम्` इति। **आत्मनेपदेष्वन्यतरस्याम्** (3.1.54) इति वधादेशः। `अदृक्षाताम्` इति। `लिङसिचावात्मनेपदेषु` (1.2.11) इति कित्त्वम्। तेनामागमगुणौ न भवतः, षत्वादि पूर्ववत्। `चेता` इति। लुट्, तासिः, **लुटः प्रथमस्य डारौरसः** (2.4.85) इति डादेशः, टिलोपः। `द्रष्टा` इति। पूर्ववदमादिः। `चेतव्यम्` इति। कर्मणि तव्यः। `चेष्यति` इति। अत्र कर्तुर्लादेशेन विवक्षित्वात्? कर्तृविषयः स्यप्रत्ययः। `गुणे कृते रपरत्वे च न प्राप्नोति` इति। कृ ष्यत इति स्थिते गुणः प्राप्नोति, चिण्वद्भावश्च; तत्र परत्वाद्गुणः, तत्र कृते रपरत्वम्। यद्युपदेशग्रहणं न क्रियेत ततोऽनजन्तत्वादिह न स्यात्। उपदेशग्रहणाद्भवति। यद्यपि करोतिरुत्तरकालमनजन्तः, उपदेशे त्वजन्त एव। यदि चिणि यद्दृष्टं कार्यं तदतिदिष्टं हनिणिङादेशा अपि प्राप्नुवन्ति। तेषामपि तन्न दृष्टत्वात्? इत्यत आह -`अङ्गाधिकारविहितम्` इत्यादि। `अङ्गस्य` इत्यधिकारे सति प्रत्यसत्तेरङ्गाधिकारे विहितं कार्यं यच्चिणि दृश्यते सामान्येन तदतिदिश्यते, न तु यद्विप्रकृष्टं प्रकरणान्तरविहितम्। न च हनिणिङामादेशा अङ्गाधिकारे विहिताः, अपि तु प्रकरणान्तरे। तस्मान् तेऽतिदिश्यन्त इति न भवन्ति तत्र। `धानिष्यते` इत्यत्र `लुङि च` (2.4.43) इत्यनेन विहितो वधादेशो न भवति। `आयिष्यते` इति। **इणो गा लुङि** (2.4.45) इत्यनेन विहितो गादेशः। `अध्यायिष्यते` इति। अत्र **विभाषा लुङ्लृङोः** (2.4.50) इत्यनेन विहितौ गाङादेशः। एवमपि स्यादिभ्यः परस्य प्रत्ययस्य लुक्? प्राप्नोति; अङ्गाधिकारे चिण उत्तरसय प्रत्ययस्य `चिणोलुक्` (6.4.104) इति लुग्विधानात्? नैष दोषः; इह हि सप्तमीसमर्थाद्विहितस्य वतेराश्रयणम्। तेन चिणि यद्दृष्टं कार्यं पूर्वस्य सम्भवति तदतिदिश्यते, न तूत्तरस्य यत्? कार्यं तदपि॥ Prakriyasarvasvam ----------------- उपदेशेऽजन्तानां हनादीनां च भावकर्मविषयेष्वार्धधातुकेषु स्यादिषु वा चिण्वदङ्गकार्यमिट् च स्यात् । आर्धधातुकोक्त्या भूयतेत्यत्र सीयुटो नायं विधिः । चिण्वत्त्वाद् वृद्धिः । अभाविषाताम् अभाविषत । अभाविष्ठाः अभाविषाथाम्, अभाविढ्वम्, अभाविध्वम् । अभाविषि अभाविष्वहि अभाविष्महि । चिण्वदिडभावे तु अभविषातामित्यादि तङ्क्तवत् । Sutra Prayogas -------------- * **न्यधायिषाताम्** (शिशुपालवधम्): `स्यसिच्सी-` इत्यादिना चिण्वदिटि युक्। * **भाविता** (शिशुपालवधम्): `स्यसिच्सीयुट्` इत्यादिना लुटि चिण्वद्भावाद्वृद्धिः। * **नैवाऽध्यकारिष्महि** (भट्टिकाव्यम्): `स्यसिच्` इत्यादिना चिण्वदिट्। * **घानिष्यते** (भट्टिकाव्यम्): `स्य- सिच्` इत्यादिना चिण्वदिट् उपधावृद्धिः । * **नाऽज्ञायिषि** (भट्टिकाव्यम्): `स्य-सि` इत्यादिना अजन्तत्वात् चिण्वदिट्।