64060: निष्ठायामण्यदर्थे ======================== **Padacheda:** निष्ठायाम् | S | 7 | 1 | अ-ण्यत्-अर्थे | S | 7 | 1 | Sutrartha --------- **** Vasu English Summary -------------------- A long is substituted for the इ in क्षि before the Past Participle in क्त when it is not in the sense of the future Passive Participle in ण्यत्। Vasu English Translation ------------------------ A long is substituted for the इ in क्षि before the Past Participle in क्त when it is not in the sense of the future Passive Participle in ण्यत्। The force of ण्यत् is to denote condition (Impersonal action) and object (passive). When the Past Participle has not the force of ण्यत्, the vowel of क्षि is lengthened. Thus आक्षीणः, प्रक्षीणः, परिक्षीणः all used in the active sense. The क्त is added to the Intransitive क्षि to denote the agent (3.4.72). Thus प्रक्षीणमिदं देवदत्तस्य 'this is the spot where *Devadatta* perished'. Here क्त is used with a Locative force (3.4.76). Why do we say 'not having the force of ण्यत्?' Observe अक्षितमसिमामेक्षेष्ठाः ॥ Here त is added with the force of condition, and *akshitam* means 'imperishable'. The vowel not being lengthened the त is not changed to म (8.2.46). Kashika ------- ण्यतः कृत्यस्यार्थो भावकर्मणी, ताभ्यामन्यत्र या निष्ठा, तस्यां क्षियो दीर्घो भवति। आक्षीणः। प्रक्षीणः। परिक्षीणः। अकर्मकत्वात् क्षियः कर्तरि क्तः। प्रक्षीणमिदं देवदत्तस्येति **क्तोऽधिकरणे च ध्रौव्यगतिप्रत्यवसानार्थेभ्यः**(३.४.७६) इत्यधिकरणे क्त ः। अण्यदर्थ इति किम्? अक्षि॑तमसि॒ मा मे॑क्षेष्ठाः (तै०सं० १.६.५.१)। क्षितमिति भावे दीर्घाभावात् **क्षियो दीर्घात्** (८.२.४६) इति निष्ठानत्वमपि न भवति॥ Siddhanta Kaumudi ----------------- ण्यदर्थो भावकर्मणी ततोऽन्यत्र निष्ठायां क्षियो दीर्घः स्यात् ॥ Balamanorama ------------ **निष्ठायामण्यदर्थे** - निष्ठायामण्यदर्थे । ण्यदर्तो भावकर्मणी इति ।ऋहलो॑रिति ण्यतः कृत्यसंज्ञकस्यतयोरेवे॑ति भावकर्मणोरेव प्रवृत्तेरिति भावः । ततोऽन्यत्रेति । कर्तरीत्यर्थः । क्तवताविति फलितम् । क्षियो दीर्घः स्यादिति । क्षिय इति पूर्वसूत्रमनुवर्तते,युप्लुवोर्दीर्घश्छन्दसी॑त्यतो दीर्घ इति चेति भावः । Tattvabodhini ------------- **निष्ठायामण्यदर्थे** - ण्यदर्थो भावकर्मणी इति । यद्यपि धाय्या ऋगित्यादौ कणादावपि बहुलकाण्ण्यद्भवति, तथापितयोरेवे॑ति वचनाद्भावकर्मणी एव साक्षादुपात्तोऽर्थ इति स एवेह विवक्षित इति भावः । Padamanjari ----------- ण्यतः कृत्यस्यार्थो भावकर्मणी इति । यद्यपि भव्यगेयादावाप्लाव्यापात्यशब्दयोः कर्तापि पक्षे ण्यदन्तयोर्वाच्यः, तथापि क्षियः सन्निधानातदीयो ण्यदर्थ एव पर्युदस्यते । प्रक्षीणमिदं देवदतस्येति । अधिकरणवाचिनश्चेति कर्तरि षष्ठी । अधिकरण इति । क्तः प्रत्यय इत्यनुषङ्गः । एवमक्षितमिति भावे इत्यत्रापि ॥ Nyaas ----- `ष्यतः कृत्यस्यार्थो भावकर्मणी` इति। तयोरेव कृत्यक्तखलर्थाः` (3.4.70) इति वचनात्। `ताभ्यामन्यत्र` इति। कर्तर्यधिकरणे च। `आक्षीणः` इति। `क्षियो दीर्घात्` (8.2.46) इति निष्ठानत्वम्। `अकरमकात्? क्षियः कर्तरि क्तप्रत्ययोऽयम्` इति। `गत्यर्थ` (3.4.72) इत्यादिना। `प्रक्षीणमिदं देवदत्तस्य` इति। **अधिकरणवाचिनश्च** (2.3.68) इति कर्तरि षष्ठी। `अधिकरणे` इति। क्तप्रत्ययोऽयमिति प्रकृतेन सम्बन्धः। प्रक्षीयतेस्मिन्निति प्रक्षीणम् - अधिकरणभूतं द्रव्यमुच्यते। `क्षितमिति भावे` इति। अस्यापि पूर्ववत्सम्बन्धः। कर्मणि न प्रत्युदाहरति; क्षियोऽकर्मकत्वात्॥ Prakriyasarvasvam ----------------- भावकर्मणी ण्यदर्थौ । ततोऽन्यत्र निष्ठायां क्षियो दीर्घः स्यात् । क्षीं त ॥