64057: विभाषापः =============== **Padacheda:** विभाषा | S | 1 | 1 | आपः | S | 5 | 1 | Sutrartha --------- **** Vasu English Summary -------------------- अय् is optionally substituted for the इ of णि before the Absolutive affix ल्यप् , after the verb आप्। Vasu English Translation ------------------------ अय् is optionally substituted for the इ of णि before the Absolutive affix ल्यप् , after the verb आप्। Thus प्रापय्य or प्राप्य गतः ॥ This however does not apply to the आप् substitute for इङ्, as अप्याप्य गतः (6.1.48), (7.3.36). The maxim of *Pratipadokta* applies here. Bhashya ------- विभाषाऽऽपः (3055) (अतिव्याप्तिवारकभाष्यम्) इङादेशस्य प्रतिषेधो वक्तव्यः । अध्याप्य गतः ॥ (6559 अतिव्याप्तिवारणसाधकवार्तिकम् ॥ 1 ॥) - आपः सानुबन्धकस्य निर्देशादिङि सिद्धम् - आपः सानुबन्धकनिर्देशः करिष्यतेआप्लृ इति । तेन इङादेशस्य न भविष्यति ॥ (लक्षणप्रतिपदोक्तपरिभाषया दोषनिवारकभाष्यम्) (स तर्हि सानुबन्धकस्य निर्देशः कर्तव्यः । न कर्तव्यः । कथमध्याप्य गतः ?) अथवा - लक्षणप्रतिपदोक्तयोः प्रतिपदोक्तस्यैवेत्येवं न भविष्यति ॥ इति श्रीमद्भगवत्पतञ्जलिविरचिते व्याकरणमहाभाष्ये षष्ठाध्यायस्य चतुर्थे पादे द्वितीयमाह्निकम् ॥ Kashika ------- आप उत्तरस्य णेर्ल्यपि परतो विभाषायादेशो भवति। प्रापय्य गतः, प्राप्य गतः। इङादेशस्य लाक्षणिकत्वाद् न भवति। अध्याप्य गतः॥ Siddhanta Kaumudi ----------------- आप्नोतेर्णेरयादेशो वा स्यात् ल्यपि । प्रापय्य । प्राप्य ॥ Tattvabodhini ------------- **विभाषाऽऽपः** - आप्नोतेरिति॥ यद्यपीङो णिचि परतःक्रीङजीनां णौ॑ इत्यात्वेअर्तिह्यी॑त्यादिना पुकि आबिति शब्दोऽस्ति, तथापि तस्य नेह ग्रहणं, लाक्षणिकत्वादिति भावः । प्राप्येति । एतेनअयमयोगिवधूवधपातकैभ्र्रमिमवाप्य दिवः खलु पात्यते॑ इति श्रीहर्षप्रयोगा व्याख्यातः ।अवाप्ये॑त्यस्याऽवपय्येत्र्थसंभवात् । एतेन तत्राऽन्तर्भावितण्यर्थतेति क्लेशमनुभवन्तः परास्ताः । ल्यप्स्थानिनां कित्त्वात्वचिस्वपी॑ति प्राप्तं संप्रसारणं निषेधयितुमाह — ल्यपि चेति । Padamanjari ----------- आप्लृ लम्भने चुरादिः, आप्लृ व्याप्तौ स्वादिः - द्वयोरपि ग्रहणम् । इह इङ् अध्ययने, णिच्, क्रीङ्जीनां णौ इत्यात्वम्, अतिह्री इत्यादिना पुक, अध्याप्य गत इत्यत्रापि प्राप्नोति, आप्रुपस्य भावात्, तस्मात् सानुबन्धको निर्द्दश्यः । आपुलिति पठितव्यम्, आप्लृशब्दान्ङसः, ऋकारऌकारयोः सवर्णत्वात् अत उत् इत्युत्वमुरण्रपरः एइत्यत्र रप्रत्याहारग्रहणाल्लपरत्वम्, सकारस्य संयोगान्तलोपः, ततहि तथा पठितव्यम् नेत्याह -ङदेशस्येति ॥ Nyaas ----- `प्रापय्य` इति। `आप्लृ लम्भने` (धा।प।1839), `आप्लृ व्याप्तौ` (धातुपाठः-1260) द्वयोरपि ग्रहणम्। पूर्धकश्चुरादिः, अपरः स्वादिः। अथ `अध्याप्य गतः` इत्यतर कस्मान्न भवति, अत्रापि **क्रीङ्जीनां णौ** (6.1.48) इतीङ आत्त्वे कृते `अर्त्तिह्यी` (7.3.36) इत्यादिना पुक्याप उत्तरो णिर्भवति? इत्यत आह -`इङादेशस्य` इत्यादि। यद्येवम्, `अप आचष्टे` इत्यप्शब्दाण्णिचि कृते `प्रापय्य` इत्यादि न स्यात्, लाक्षणिकत्वादेव मा भूदनेन, पूर्वेण सूत्रेण भविष्यति, ननु चैकादेशे कृते सत्यलघुपूर्वत्वान्न प्राप्नोति? एकादेशस्यासिद्धत्वान्न दोषः। कथम्? `असिद्धं बहिरङ्गमन्तरङ्गे` (व्या।पा।42) इति बहिरङ्गत्वन्त्वेकादेशस्य द्विपदाश्रयत्वात्। अयादेशस्य पुनर्णिमात्राश्रयत्वादन्तरङ्गत्वम्॥ Prakriyasarvasvam ----------------- आपेः परस्य णेर्ल्यप्ययादेशो वा स्यात् । समापय्य समाप्य ॥ Sutra Prayogas -------------- * **प्रापय्य** (रघुवंशम्): `विभाषापः` इति अयादेशः।