64049: यस्य हलः =============== **Padacheda:** यस्य | S | 6 | 1 | हलः | S | 5 | 1 | Sutrartha --------- **** Vasu English Summary -------------------- When a consonant precedes the final य in a verbal अङ्ग (stem) this य is also elided before an आर्धधातुक affix. Vasu English Translation ------------------------ When a consonant precedes the final य in a verbal अङ्ग (stem) this य is also elided before an आर्धधातुक affix. Thus बेभिदिता, बेभिदितुम्, बेभिदितव्यम् from the Intensive stern बेभिद्य ॥ In the *sutra* यस्य is given, which is the Genitive singular of य namely of the letters य् अ ॥ By the rule of अलोऽन्त्यस्य (1.1.52), the अ of य ought to be elided and not य्; but that rule is evidently inapplicable here, since the elision of अ would have taken place by the preceding rule : the present rule therefore teaches the elision of य (*ya*). Or the word हलः may be considered as in the ablative case, and then by (1.1.54), the first letter would be elided namely य ॥ Why have we taken [the two letters (संघात) conjointly viz.] य and not य्? Observe ईर्ष्यिता, मव्यिता, शुच्यिता from the simple roots ईर्ष्य्, मव्य्, and शुच्य् ॥ Here य् not being followed by अ, is not elided (see *Bhvadi* 541-546). Why do we say "when preceded by a consonant?" Observe लोलूयिता, पोपूयिता ॥ Bhashya ------- यस्य हलः (3047) (वार्तिकावतरणे पक्षद्वयोपस्थापकं भाष्यम्) किमिदं यलोपे वर्णग्रहणमाहो स्वित्सङ्घातग्रहणम् ? कश्चात्र विशेषः ? (6547 वर्णग्रहणे दोषवार्तिकम् ॥ 1 ॥) - यलोपे वर्णग्रहणं चेद्धात्वन्तस्य प्रतिषेधः - यलोपे वर्णग्रहणं चेद्धात्वन्तस्य प्रतिषेधो वक्तव्यः । शुच्यिता । मव्यिता ॥ (संघातग्रहणोपस्थापकभाष्यम्) अस्तु तर्हि सङ्घातग्रहणम् । यदि सङ्घातग्रहणम्, अन्त्यस्य लोपः प्राप्नोति । सिद्धोऽन्त्यस्य पूर्वेणैव । तत्रारम्भसार्मथ्यात्सर्वस्य भविष्यति ॥ (आक्षेपभाष्यम्) एवमपि तेनातिप्रसक्तमिति कृत्वा नियमो विज्ञास्यते - यस्य हल एव, नान्यतः । क्व मा भूत् ? लोलूयिता, योयूयिता । कैमर्थक्यान्नियमो भवति ? विधेयं नास्तीति कृत्वा ॥ इह चास्ति विधेयम् । किम् ? अन्त्यस्य लोपः प्राप्तः, सर्वस्य विधेयः ॥ (समाधानभाष्यम्) तत्रापूर्वो विधिरस्तु नियमो वा - इति अपूर्व एव विधिर्भविष्यति । एवमप्यन्त्यस्य लोपः प्राप्नोति । किं कारणम् ? न हि लोपः सर्वापहारी । ननु च सङ्घातग्रहणसार्मथ्यात्सर्वस्य भविष्यति ॥ (6548 संघातग्रहणे दोषवार्तिकम् ॥ 2 ॥) - सङ्घातग्रहणं चेत् क्यस्य विभाषायां दोषः - सङ्घातग्रहणं चेत् क्यस्य विभाषायां दोषो भवति । समिधिता । समिध्यिता । यदा लोपस्तदा सर्वस्य लोपः । यदाऽलोपस्तदा सर्वस्यालोपः प्राप्नोति ॥ (संघातग्रहणे दोषनिवारकं भाष्यवार्तिकम्) आदेः परवचनात्सिद्धम् ॥ हल इति पञ्चमी तस्मादित्युत्तरस्य आदेः परस्य (1-1-67,54) इति यकारस्यैव भविष्यति ॥ (वर्णग्रहणेऽपि दोषनिवारकभाष्यम्) अथ वा पुनरस्तु वर्णग्रहणम् । ननु चोक्तं । यलोपे वर्णग्रहणं चेत् धात्वन्तस्य प्रतिषेधः इति । नैष दोषः । अङ्गादिति हि वर्तते । न वै अङ्गादिति पञ्चम्यस्ति । एवं तर्ह्यङ्गस्येति सम्बन्धषष्ठी विज्ञास्यते । अङ्गस्य यो यकारः । किञ्ञ्चाङ्गस्य यकारः ? यस्मिन्नङ्गमित्येतद्भवति । कस्मिंश्चैतद्भवति ? प्रत्यये ॥ Kashika ------- हल उत्तरस्य यशब्दस्यार्धधातुके लोपो भवति। बेभिदिता। बेभिदितुम्। बेभिदितव्यम्। यस्येति संघातग्रहणमेतत्। तत्र **अलोऽन्त्यस्य** (१.१.५२) इत्येतद् न भवति, **अतो लोपः** (६.४.४८) इत्यनेनैव तस्य सिद्धत्वात्। हल इति वा पञ्चमीनिर्देशः, तत्र **आदेः परस्य** (१.१.५४) इति यकारोऽनेन लुप्यते। संघातग्रहणं किम्? ईर्ष्यिता। मव्यिता। हल इति किम्? लोलूयिता। पोपूयिता॥ Siddhanta Kaumudi ----------------- यस्येति संघातग्रहणम् । हलः परस्य यशब्दस्य लोपः स्यादार्धधातुके । आदेः परस्य (SK44) । अतो लोपः (SK2308) । सोसूचांचक्रे । सोसूचिता । सोसूत्रिता । मोमूत्रिता ॥ Laghu Siddhanta Kaumudi ----------------------- यस्येति संघातग्रहणम्। हलः परस्य यशब्दस्य लोप आर्धधातुके। आदेः परस्य। अतो लोपः। वाव्रजाञ्चक्रे। वाव्रजिता॥ Tattvabodhini ------------- **यस्य हलः** - यस्य हलः । सङ्घातग्रहणमिति । तेन ईर्ष्यिता अहर्यीदित्यादौ यलोपो न । सङ्घातग्रहणेन चाऽर्थवद्ग्रहमपरिभाषोपस्थित्या पुत्रकाम्येत्यादौ नातिप्रसङ्गः । वर्णग्रहणे तु उक्तपरिभाषाया अनुपस्थित्या स्यादेवाऽत्र यलोप इति भावः । हलः किम् । लोलूयिता । पोपूयिता । Padamanjari ----------- यस्येति यद्यागन्तुकोऽकारः, ततो वर्णग्रहणम्, अन्यथा तु सङ्घातग्रहणमिति पक्षद्वयसम्भवादाह - यस्येति सङ्घातग्रहणमिति । श्रुतस्याकारस्याविवक्षायां कारणाभावादिति भावः अतो लोप इत्यनेनैव सिद्धत्वादिति । अस्तु तर्हि नियमः यस्य हल एव नान्यतः, लोलूयितका, पोपूयिता, कैमर्थ्याद्धि नियमो भवति निधेयं नास्तीति कृत्वा इह चास्ति विधेयम्, किमन्त्यस्य लोपः प्राप्तः सर्वस्य विधेयः । तत्रापूर्वो विधिरस्तु, नियमो वेति अपूर्वो विधिरेव भविष्यति । एवमपि क्यस्य विभाषायां दोषः - समिधमिच्छति समिध्यति, समिध्यतेस्तृच, इट् , समिधिता, यदा लोपस्तदा सर्वस्य लोपः, यदा त्वलोपपक्षस्तदा सर्वस्यालोपः प्राप्नोति, सङ्घतग्रहणे हि यस्य हलः इत्यनेन येननाप्राप्तिन्यायेन अतो लोपो बाध्यः, यलोपोऽपि क्यस्य विभाषा इति विकल्पेन बाध्यः, ततश्च पक्षे सङ्घातस्यैव श्रवणं स्यात्, यलोपवदाल्लोपस्यापि विकल्पेन बाधनात् इत्यत आह - हल इति वेत्यादि । एवं च क्यस्य विभाषा इति यकारस्यैव विकल्पेन लोपः, अकारस्य तु अतो लोपः इत्यनेन नित्यमिति सिद्धिमष्टम्, अवश्यं चातो लोप एवात्रैष्टव्यः, अन्यथा पापचक इत्यादौ अत उपधायाः इति वृद्धिः स्यात्, स्थानिवद्भावान्न भवति । तस्मात्सङ्ङ्घातस्य ग्रहणम्, अवयवशस्तु लोप इति, तदेव युक्तम् । मव्यितेति । मव्यतिः संयोगान्तोऽस्ति, ज्वरत्वारादिसूत्रे तु वकारान्त उदादृतः ॥ Nyaas ----- `बेभिदिता` इति। यङ्न्तादार्धधातुकं तृच्, तस्मिन्? परतो यशब्दस्य लोपः। `यस्य` इतीदं वर्णनिर्देशो वा स्यात्? यकाराकारग्रहणं वा? तत्र यद्याद्यः पक्ष आश्रीयेत तदोर्ष्यिता, मव्यितेत्यत्रापि स्यादिति द्वितीयं पक्षमाश्रीत्याह -`यस्येति सङ्घातग्रहणम्` इति। कुत एतत्? निर्देशात्। यदि वर्णग्रहणं स्यात्, तदा `यो हलः` इत्येवं ब्राऊयात्। यदि तर्हि सङ्घातग्रहणम्? एवं तर्हि **अलोऽन्त्यस्य** (1.1.52) इत्यन्त्यस्य स्यादित्यत आह -`तत्रालोऽन्त्यस्य` इत्यादि। कस्मान्न प्रवर्तते? इत्याह -`अतो लोपः` इत्यादि। पूर्वेणाप्यलोऽन्त्यस्य लोपः सिद्धः, तत्रारम्भसामर्थ्यात्? सर्वस्य भवति। `हल इति वा` इत्यादिना परीहारान्तरमाह। `हलः` इति पञ्चमीनिर्देशः, तत्र `हल उत्तरो यो यशब्दस्तस्य लोपः` इत्युच्यमाने **आदेः परस्य** (1.1.54) इति वचनाद्? यकारस्यैवनेन लोपो भवति। अकारस्य तु **अतो लोपः** (6.4.48) इत्यनेन। `ईर्ष्यिता, मव्यित`[`भव्यिता` इति न्यासमद्रितपाठः] इति। `सूक्ष्र्यं इक्ष्यं ईष्र्य ईष्र्यार्थाः` (धातुपाठः-509,510,511), `मव्य बन्धने` (धातुपाठः-508)। अत्र सङ्घातात्मको यशब्दो न भवतीति न प्रवर्तते लोपः। `लोलुयिता` इति। यङः, `गुणो यङलुकोः` (7.4.82) इति गणः॥ Prakriyasarvasvam ----------------- हलः परस्य यशब्दस्यार्धधातुके परे आदिलोपः स्यात् । चङ्क्रम्य् अ अन् । पुनरतो लोपः । चङ्क्रमणः । एवं दन्द्रमणः । गत्यर्थात् कुटिलगत्यर्थे यङन्तावेतौ । सरणः, गर्धन इत्यादि ।। Sudha ----- **यस्य हल इति ।** यकारादकारस्य उच्चारणार्थत्वभ्रमं वारयति - **संघातग्रहणमिति ।** यकाराकारसमुदायस्येत्यर्थः । हलः इति पञ्चमी । **आर्धधातुके** (6.4.46) इत्यधिकृतम् । **अतो लोपः** (6.4.48) इत्यस्माल्लोप इत्यनुवर्तते । तदाह - **हलः परस्येति ।** ननु **अलोऽन्त्यस्य** (1.1.52) इति यकारादकारस्य लोपः स्यादित्यत आह - **आदेः परस्येति ।** **अलोऽन्त्यस्य** (1.1.52) इत्यस्यायमपवाद इति भावः । **अतो लोप इति ।** यकाराकारसंघाते यकारस्य लोपे सति परिशिष्टस्याकारस्य **अतो लोपः** (6.4.48)] इति भावः । **वाव्रजाञ्चक्रे ।** व्रज्धातोर्यङि द्वित्वेऽभ्यासत्वे अभ्यासकार्ये **दीर्घोऽकितः** (7.4.83) इत्यभ्यासदीर्घे च कृते "वाव्रज्य" इति जाते धातुत्वाल्लिटि अनेकाच्त्वादाम्प्रत्यये **आदेः परस्य** (1.1.54) इति सूत्रबलात् **यस्य हलः** (6.4.49) इति यलोपे **अतोः लोपः** (6.4.48) इत्यल्लोपे **आमः** (2.4.81) इति लिटो लुकि "वाव्रजाम्" इति भूते **कृञ्चानुप्रयुज्यते लिटि** (3.1.40) इति लिट्परकृञोऽनुप्रयोगे तप्रत्यये तस्य एशि द्वित्वेऽभ्यासत्वे अभ्यासकार्ये च कृते, कृते चानुस्वारे परसवर्णे "वाव्रजाञ्चक्रे" इति सिद्धम् । "वाव्रजिता ।" व्रज् धातोः **धातोरेकाचो हलादेः क्रियासमभिहारे यङ्** (3.1.22) इति यङि द्वित्वेऽभ्यासकार्ये **दीर्घोकितः** (7.4.83) इति अभ्यासाकारस्य दीर्घे धातुत्वाल्लुटि तासि, लुटो लस्य तादेशे तस्य डात्वे डित्वसामर्थ्यादभस्यापि टेर्लोपे तस इटि च कृते **आदेः परस्य** (1.1.54) इति सूत्रबालाद् **यस्य हलः** (6.4.49) इति यलोपे <<अतो लोपः> (6.4.48) इत्यल्लोपे "वाव्रजिता" इति रूपम् । लृटि — "वाव्रजिष्यते" । लोटि — "वाव्रज्यताम्" । लङि — "अवाव्रज्यत" । लिङि — "वाव्रज्येत" । आशिषि — "वाव्रजिषीष्ट" । लुङि — "अवाव्रजिष्ट" । लृङि — "अवाव्रजिष्यत" । Sutra Prayogas -------------- * **दन्दशूकाञ्जिघांसौ** (भट्टिकाव्यम्): `यस्य हलः` इति । * **यायजूकाः** (भट्टिकाव्यम्): `यस्य हलः` इति लोपः। * **चंक्रमा** (भट्टिकाव्यम्): `यस्य हलः` इति टाप्। * **तस्याऽप्यबेभिदिष्टाऽसौ** (भट्टिकाव्यम्): `यस्य हलः` इति यलोपः।